संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|प्रबोधसुधाकरः| नादानुसन्धानप्रकरणम् प्रबोधसुधाकरः देहनिन्दाप्रकरणम् विषयनिन्दाप्रकरणम् मनोनिन्दाप्रकरणम् विषयनिन्दाप्रकरणम् मनिनिग्रहप्रकरणम् वैराग्यप्रकरणम् आत्मसिद्धिप्रकरणम् मायासिद्धिप्रकरणम् लिङ्गदेहादिनिरूपणप्रकरणम् अद्वैतप्रकरणम् कर्तृत्वभोक्तृत्वप्रकरणम् स्वप्रकाशताप्रकरणम् नादानुसन्धानप्रकरणम् मनोलयप्रकरणम् प्रबोधप्रकरणम् द्विधाभक्तिप्रकरणम् ध्यानविधिप्रकरणम् सगुणनिर्गुणयोरैक्यप्रकरणम् आनुग्रहिकप्रकरणम् प्रबोधसुधाकरः - नादानुसन्धानप्रकरणम् श्रीमच्छङ्करभगवतः कृतौ प्रबोधसुधाकरः Tags : bookपुस्तकप्रबोधसुधाकरःसंस्कृत नादानुसन्धानप्रकरणम् Translation - भाषांतर यावत्क्षणं क्षणार्धं स्वरूपपरिचिन्तनं क्रियते । तावद्दक्षिणकर्णे त्वनाहतः श्रूयते शब्दः ॥१४४॥ सिद्ध्यारम्भस्थिरताविश्रमविश्वासबीजशुद्धीनाम् । उपलक्षणं हि मनसः परमं नादानुसन्धनम् ॥१४५॥ भेरीमृदङ्गशङ्खाद्याहतनादे मनः क्षणं रमते । किं पुनरनाहतेऽस्मिन्मधुमधुरेऽखण्डिते स्वच्छे ॥१४६॥ चित्तं विषयोपरमाद्यथा यथा याति नैश्चल्यम् । वेणोरिव दीर्घतरस्तथा तथा श्रूयते नादः ॥१४७॥ नादाभ्यन्तर्वर्ति ज्योतिर्यद्वर्तते हि चिरम् । तत्र मनो लीनं चेन्न पुनः संसारबन्धाय ॥१४८॥ परमानन्दानुभवात्सुचिरं नादानुसन्धानात् । श्रेष्ठश्चित्तलयोऽयं सत्स्वन्यलयेष्वनेकेषु ॥१४९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP