महानारायणोपनिषत् - अनुवाकः २१ ते ३०

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


एकविंशोऽनुवाकः । ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् ॥१॥
द्वाविंशोऽनुवाकः ।
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये। अम्बिकापतय उमापतये पशुपतये नमो नमः ॥१॥
त्रयोविंशोऽनुवाकः ।
ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ॥१॥
चतुर्विंशोऽनुवाकः ।
सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु । पुरुषो वै रुद्रः सन्महो नमो नमः । विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥१॥
पञ्चविंशोऽनुवाकः ।
कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे । वोचेम शंतमँ हृदे । सर्वोह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥१॥
षड्विंशोऽनुवाकः ।
यस्य वैकङ्कत्यग्निहोत्रहवणी भवति प्रत्येवास्याहुतयस्तिष्ठत्यथो प्रतिष्ठित्यै ॥१॥
सप्तविंशोऽनुवाकः ।
कृणुष्व पाज इति पञ्च । कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवा इभेन । तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥१॥ तव भ्रमास आशुया पतन्त्यनु स्पृश धृशता शोशुचानः । तपूंष्यग्ने जुह्वा पतङ्गानसन्दितो वि सृज विश्वगुल्काः ॥२॥ प्रति स्पशो विसृज तूर्णितमो भवा पायुर्विशी अस्या अदब्धः । यो नो दूरे अघशं सो यो अन्त्यग्ने माकिष्टे व्यथिरादधर्षीत ॥३॥ उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्रांॅ ओषतात्तिग्महेते । यो नो अरातिं समिधान चक्रे नीचातं धक्ष्यतसं न शुष्कम् ॥४॥ ऊर्ध्वो भव प्रतिं विध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने । अवस्थिरा तनुहि यातुजूनां जामिमजामिं प्रमृणीहि शत्रून् ॥५॥
अष्टाविंशोऽनुवाकः ।
अदितिर्देवा गन्धर्वा मनुष्याः पितरोऽसुरास्तेषाँ सर्वभूतानां माता मेदिनी महती मही सावित्री गायत्री जगत्युर्वी पृथ्वी बहुला विश्वा भूता कतमा काया सा सत्येत्यमृतेति वासिष्ठः ॥१॥
एकोनत्रिंशोऽनुवाकः ।
आपो वा इदँ सर्वं विश्वा भूतान्यापः प्राणा वा आपः पशव आपोऽन्नमापोऽमृतमापः सम्राडापो विराडापः स्वराडापश्छन्दाँस्यापो ज्योतीँष्यापो यजूँष्यापः सत्यमापः सर्वा देवता आपो भूर्भुवः सुवराप ओम् ॥१॥
त्रिंशोऽनुवाकः ।
आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् ॥१॥ यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहँ स्वाहा ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP