नारदपरिव्राजकोपनिषत् - प्रथमोपदेशः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


पारिव्राज्यधर्मपूगालङ्कारा यत्प्रबोधतः । दशप्रणवलक्ष्यार्थं यान्ति तं राममाश्रये ॥ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ॥व्यशेम देवहितं यदायुः ॥स्वस्ति न इन्द्रो वृद्धश्रवाः ॥स्वस्ति नः पूषा विश्वदेवाः ॥स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥स्वस्ति नो बृहस्पतिर्दधातु ॥ॐ शान्तिः शान्तिः शान्तिः ॥परिव्राट्त्रिशिखी सीताचूडानिर्वाणमण्डलम् दक्षिणा शरभं स्कन्दं महानारायणाद्वयम् ॥अथ कदाचित्परिव्राजकाभरणो नारदः सर्वलोकसंचारं कुर्वन्नपूर्वपुण्यस्थलानि पुण्यतीर्थानि तीर्थीकुर्वन्नवलोक्य चित्तशुद्धिं प्राप्य निर्वैरः शान्तो दान्तः सर्वतो निर्वेदमासाद्य स्वरूपानुसन्धानमनुसन्धय नियमानन्दविशेषगण्यं मुनिजनैरुपसंकीर्णं नैमिषारण्यं पुण्यस्थलमवलोक्य सरिगमपधनिस- संज्ञैर्वैराग्यबोधकरैः स्वरविशेषैः प्रापञ्चिक- पराङ्मुखाइर्हरिकथालापैः स्थावरजङ्गमनामकै- र्भगवद्भक्तिविशेषाइर्नरमृगकिंपुरुषामरकिंनर- अप्सरोगणान्संमोहयन्नागतं ब्रह्मात्मजं भगवद्भक्तं नारदमवलोक्य द्वादशवर्षसत्रयागोपस्थिताः श्रुताध्ययनसंपन्नाः सर्वज्ञास्तपोनिष्ठापराश्च ज्ञानवैराग्यसंपन्नाः शौनकादिमहर्षयः प्रत्युत्थानं कृत्वा नत्वा यथोचितातिथ्यपूर्वकमुपवेशयित्वा स्वयं सर्वेऽप्युपविष्टा भो भगवन्ब्रह्मपुत्र कथं मुक्त्युपायोऽस्माकं वक्तव्य इत्युक्तस्तान्स होवाच नारदः सत्कुलभवोपनीतः सम्यगुपनयनपूर्वकं चतुश्चत्वारिंशत्- संस्कारसंपन्नः स्वाभिमतैकगुरुसमीपे स्वशाखाध्ययन- पूर्वकं सर्वविद्याभ्यासं कृत्वा द्वादशवर्षशुश्रूषा- पूर्वकं ब्रह्मचर्यं पञ्चविंशतिवत्सरं गार्हस्थ्यं पञ्चविंशतिवत्सरं वानप्रस्थाश्रमं तद्विधिवत्क्रमान्निर्वर्त्य चतुर्विधब्रह्मचर्यं षड्विधं गार्हस्थ्यं चतुर्विधं वानप्रस्थधर्मं सम्यगभ्यस्य तदुचितं कर्म सर्वं निर्वर्त्य साधनचतुष्टयसंपन्नः सर्वसंसारोपरि मनोवाक्काय- कर्मभिर्यथाशानिवृत्तस्तथा वासनैषणोपर्यपि निर्वैरः शान्तो दान्तः संन्यासी परमहंसाश्रमेणास्खलितस्वस्वरूप- ध्यानेन देहत्यागं करोति स मुक्तो भवति स मुक्तो भवतीत्युपनिषत् ॥
इति प्रथमोपदेशः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP