महोपनिषत् - चतुर्थोऽध्यायः
आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic
ऋभुः ॥
अथापरं प्रवक्ष्यामि शृणु तात यथायथम् । अज्ञानभूः सप्तपदा ज्ञभूः सप्तपदैव हि ॥१॥
पदान्तराण्यसंख्यानि प्रभवन्त्यन्यथैतयोः । स्वरूपावस्थितिर्मुक्तिस्तद्भ्रंशोऽहंत्ववेदनम् ॥२॥
शुद्धसन्मात्रसंवित्तेः स्वरूपान्न चलन्ति ये । रागद्वेषादयो भावास्तेषां नाज्ञत्वसंभवः ॥३॥
यः स्वरूपपरिभ्रंशश्चेत्वार्थे चिति मज्जनम् । एतस्मादपरो मोहो न भूतो न भविष्यति ॥४॥
अर्थादर्थान्तरं चित्ते याति मध्ये तु या स्थितिः । सा ध्वस्तमननाकारा स्वरूपस्थितिरुच्यते ॥५॥
संशान्तसर्वसंकल्पा या शिलावदवस्थितिः । जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा ॥६॥
अहन्तांशे क्षते शान्ते भेदनिष्पन्दचित्तता । अजडा या प्रचलति तत्स्वरूपमितीरितम् ॥७॥
बीजं जाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च । जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तिकम् ॥८॥
इति सप्तविधो मोहः पुनरेष परस्परम् । श्लिष्टो भवत्यनेकाग्र्यं श्रुणु लक्षणमस्य तु ॥९॥
प्रथमं चेतनं यत्स्यादनाख्यं निर्मलं चितः । भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् ॥१०॥
बीजरूपस्थितं जाग्रद्बीजजाग्रत्तदुच्यते । एषा ज्ञप्तेर्नवावस्था त्वजाग्रत्संस्थितिं श्रुणु ॥११॥
नवप्रसूतस्य परादयं चाहमिदं मम । इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभावनात् ॥१२॥
अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः । पीवरः प्रत्ययः प्रोक्तो महाजाग्रदिति स्फुटम् ॥१३॥
अरूढमथवा रूढं सर्वथा तन्मयात्मकम् । यज्जाग्रतो मनोराज्यं यज्जाग्रत्स्वप्न उच्यते ॥१४॥
द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः । अभ्यासं प्राप्य जाग्रत्तत्स्वप्नो नानाविधो भवेत् ॥१५॥
अल्पकालं मया दृष्टमेतन्नोदेति यत्र हि । परामर्षः प्रबुद्धस्य स स्वप्न इति कथ्यते ॥१६॥
चिरं संदर्शनाभावादप्रफुल्लं बृहद्वचः । चिरकालानुवृत्तिस्तु स्वप्नो जाग्रदिवोदितः ॥१७॥
स्वप्नजाग्रदिति प्रोक्तं जाग्रत्यपि परिस्फुरत् । षडवस्था परित्यागो जडा जीवस्य या स्थितिः ॥१८॥
भविष्यद्दुःखबोधाढ्या सौषुप्तिः सोच्यते गतिः । जगत्तस्यामवस्थायामन्तस्तमसि लीयते ॥१९॥
सप्तावस्था इमाः प्रोक्ता मया ज्ञानस्य वै द्विज । एकैका शतसंख्यात्र नानाविभवरूपिणी ॥२०॥
इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ । नानया ज्ञातया भूयो मोहपङ्के निमज्जति ॥२१॥
वदन्ति बहुभेदेन वादिनो योगभूमिकाः । मम त्वभिमता नूनमिमा एव शुभप्रदाः ॥२२॥
अवबोधं विदुर्ज्ञानं तदिदं साप्तभूमिकम् । मुक्तिस्तु ज्ञेयमित्युक्ता भूमिकासप्तकात्परम् ॥२३॥
ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता । विचारणा द्वितीया तु तृतीया तनुमानसी ॥२४॥
सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका । पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥२५॥
आसामन्तस्थिता मुक्तिर्यस्यां भूयो न शोचति । एतासां भूमिकानां त्वमिदं निर्वचनं श्रुणु ॥२६॥
स्थितः किं मूढ एवास्मि प्रेक्षेऽहं शास्त्रसज्जनैः । वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः ॥२७॥
शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥२८॥
विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता । यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥२९॥
भूमिकात्रितयाभ्यासाच्चित्ते तु विरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥३०॥
दशाचतुष्टयाभ्यासादसंसर्गकला तु या । रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका ॥३१॥
भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् । आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥३२॥
परप्रयुक्तेन चिरं प्रयत्नेनावबोधनम् । पदार्थभावना नाम षष्ठी भवति भूमिका ॥३३॥
भूमिषट्कचिराभ्यासाद्भेदस्यानुपलम्बनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥३४॥
एषा हि जीवन्मुक्तेषु तुर्यावस्थेति विद्यते । विदेहमुक्तिविषयं तुर्यातीतमतः परम् ॥३५॥
ये निदाघ महाभागाः साप्तमीं भूमिमाश्रिताः । आत्मारामा महात्मानस्ते महत्पदमागताः ॥३६॥
जीवन्मुक्ता न मज्जन्ति सुखदुःखरसस्थिते । प्रकृतेनाथ कार्येण किंचित्कुर्वन्ति वा न वा ॥३७॥
पार्श्वस्थबोधिताः सन्तः पूर्वाचरक्रमागतम् । आचारमाचरत्येव सुप्तबुद्धवदुत्थिताः ॥३८॥
भूमिकासप्तकं चैतद्धीमतामेव गोचरम् । प्राप्य ज्ञानदशामेतां पशुम्लेच्छादयोऽपि ये ॥३९॥
सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः । ज्ञप्तिर्हि ग्रन्थिविच्छेदस्तस्मिन्सति विमुक्तता ॥४०॥
मृगतृष्णाम्बुबुद्ध्य्यादिशान्तिमात्रात्मकस्त्वसौ । ये तु मोहार्णवात्तीर्णास्तैः प्राप्तं परमं पदम् ॥४१॥
ते स्थिता भूमिकास्वासु स्वात्मलाभपरायणाः । मनःप्रशमनोपायो योग इत्यभिधीयते ॥४२॥
सप्तभूमिः स विज्ञेयः कथितास्ताश्च भूमिकाः । एतासां भूमिकानां तु गमं ब्रह्माभिधं पदम् ॥४३॥
त्वत्ताहन्तात्मता यत्र परता नास्ति काचन । न क्वचिद्भावकलना न भावाभाव गोचरा ॥४४॥
सर्वं शान्तं निरालम्बं व्योमस्थं शाश्वतं शिवम् । अनामयमनाभासमनामकमकारणम् ॥४५॥
न सन्नसन्न मध्यान्तं न सर्वं सर्वमेव च । मनोवचोभिरग्राह्यं पूर्णात्पूर्णं सुखात्सुखम् ॥४६॥
असंवेदनमाशान्तमात्मवेदनमाततम् । सत्ता सर्वपदार्थानां नान्या संवेदनादृते ॥४७॥
संबन्धे द्रष्टृदृश्यानां मध्ये दृष्टिर्हि यद्वपुः । द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं पदम् ॥४८॥
देशाद्देशं गते चित्ते मध्ये यच्चेतसो वओउः । अजाड्यसंविन्मननं तन्मयो भव सर्वदा ॥४९॥
अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् । अचेतनं चाजडं च तन्मयो भव सर्वदा ॥५०॥
जडतां वर्जयित्वैकां शिलाया हृदयं हि तत् । अमनस्कस्वरूपं यत्तन्मयो भव सर्वदा । चित्तं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव ॥५१॥
पूर्वं मनः समुदितं परमात्मतत्त्वा- त्तेनाततं जगदिदं सविकल्पजालम् । शून्येन शून्यमपि विप्र यथाम्बरेण नीलत्वमुल्लसति चारुतराभिधानम् ॥५२॥
संकल्पसंक्षयद्गलिते तु चित्ते संसारमोहमिहिका गलिता भवन्ति । स्वच्छं विभाति शरदीव खमागतायां चिन्मात्रमेकमजमाद्यमनन्तमन्तः ॥५३॥
अकर्तृकमरङ्गं च गगने चित्रमुत्थितम् । अद्रष्टृकं स्वानुभवमनिद्रस्वप्नदर्शनम् ॥५४॥
साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि । निरिच्छं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा ॥५५॥
एकं ब्रह्म चिदाकाशं सर्वात्मकमखण्डितम् । इति भावय यत्नेन चेतश्चाञ्चल्यशान्तये ॥५६॥
रेखोपरेखावलिता यथैका पीवरी शिला । तथा त्रैलोक्यवलितं ब्रह्मैकमिह दृश्यताम् ॥५७॥
द्वितीयकारणाभावादनुत्पन्नमिदं जगत् । ज्ञातं ज्ञातव्यमधुना दृष्टं द्रष्टव्यमद्भुतम् ॥५८॥
विश्रान्तोऽस्मि चिरं श्रान्तश्चिन्मात्रान्नास्ति किंचन । पश्य विश्रान्तसन्देहं विगताशेषकौतुकम् ॥५९॥
निरस्तकल्पनाजालमचित्तत्वं परं पदम् । त एव भूमतां प्राप्ताः संशान्ताशेषकिल्बिषाः ॥६०॥
महाधियः शान्तधियो ये याता विमनस्कताम् । जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः ॥६१॥
मननं त्यजतो नित्यं किंचित्परिणतं मनः । दृश्यं सन्त्यजतो हेयमुपादेयमुपेयुषः ॥६२॥
द्रष्टारं पश्यतो नित्यमद्रष्टारमपश्यतः । विज्ञातव्ये परे तत्त्वे जागरूकस्य जीवतः ॥६३॥
सुप्तस्य धनसंमोहमये संसारवर्त्मनि । अत्यन्तपक्ववैराग्यादरसेषु रसेष्वपि ॥६४॥
संसारवासनाजाले खगजाल इवाधुना । त्रोटिते हृदयग्रन्थौ श्लथे वैराग्यरंहसा ॥६५॥
कातकं फलमासाद्य यथा वारि प्रसीदति । तथा विज्ञानवशतः स्वभावः संप्रसीदति ॥६६॥
नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् । विनिर्याति मनो मोहाद्विहङ्गः पञ्जरादिव ॥६७॥
शान्तसन्देहदौरात्म्यं गतकौतुकविभ्रमम् । परिपूर्णान्तरं चेतः पूर्णेन्दुरिव राजते ॥६८॥
नाहं न चान्यदस्तीह ब्रह्मैवास्मि निरामयम् । इत्थं सदस्तोर्मध्याद्यः पश्यति स पश्यति ॥६९॥
अयत्नोपतेष्वक्षिदृग्दृश्येषु यथा मनः । नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥७०॥
परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये । विज्ञाय सेवितश्चोरो मैत्रीमेति न चोरताम् ॥७१॥
अशङ्कितापि संप्राप्ता ग्रामयात्रा यथाध्वगैः । प्रेक्ष्यते तद्वदेव ज्ञैर्भोगश्रीरवलोक्यते ॥७२॥
मनसो निगृहीतस्य लीलाभोगोऽल्पकोऽपि यः । तमेवालब्धविस्तारं क्लिष्टत्वाद्बहु मन्यते ॥७३॥
बद्धमुक्तो महीपालो ग्रासमात्रेण तुष्यति । परैरबद्धो नाक्रान्तो न राष्ट्रं बहु मन्यते ॥७४॥
हस्तं हतेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च । अङ्गान्यङ्गैरिवाक्रम्य जयेदादौ स्वकं मनः ॥७५॥
मनसो विजयान्नान्या गतिरस्ति भवार्णवे । महानरकसाम्राज्ये मत्तदुष्कृतवारणाः ॥७६॥
आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः । प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ॥७७॥
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः । तावन्निशीव वेताला वसन्ति हृदि वासनाः । एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ॥७८॥
भृत्योऽभिमतकर्तृत्वान्मन्त्री सर्वार्थकारणात् । सामन्तश्चेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः ॥७९॥
लालनात्स्निग्धललना पालानात्पालकः पिता । सुहृदुत्तमविन्यासान्मनो मन्ये मनीषिणः ॥८०॥
स्वालोकतः शास्त्रदृशा स्वबुद्ध्या स्वानुभावतः । प्रयच्छति परां सिद्धिं त्यक्त्वात्मानं मनःपिता ॥८१॥
सुहृष्टः सुदृढः स्वच्छः सुक्रान्तः सुप्रबोधितः । स्वगुणेनोर्जितो भाति हृदि हृद्यो मनोमणिः ॥८२॥
एनं मनोमणिं ब्रह्मन्बहुपङ्ककलङ्कितम् । विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान्भव ॥८३॥
विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च । इन्द्रियारीनलं छित्त्वा तीर्णो भव भवार्णवात् ॥८४॥
आस्थामात्रमनन्तानां दुःखानामाकरं विदुः । अनास्थामात्रमभितः सुखानामालयं विदुः ॥८५॥
वासनातन्तुबद्धोऽयं लोको विपरिवर्तते । सा प्रसिद्धातिदुःखाय सुखायोच्छेदमागता ॥८६॥
धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि । तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा ॥८७॥
परमं पौरुषं यत्नमास्थादाय सृद्यमम् । यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक् ॥८८॥
अहं सर्वमिदं विश्वं परमात्माहमच्युतः । नान्यदस्तीति संवित्त्या परमा सा ह्यहङ्कृतिः ॥८९॥
सर्वस्माद्व्यतिरिक्तोऽहं वालाग्रादप्यहं तनुः । इति या संविदो ब्रह्मन्द्वितीयाहङ्कृतिः शुभा ॥९०॥
मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते ॥९१॥
पाणिपादादिमात्रोऽयमहमित्येष निश्चयः । अहंकारस्तृतीयोऽसौ लैकिकस्तुच्छ एव सः ॥९२॥
जीव एव दुरात्मासौ कन्दः संसारदुस्तरोः । अनेनाभिहतो जन्तुरधोऽधः परिधावति ॥९३॥
अनया दुरहंकृत्या भावात्संत्यक्तया चिरम् । शिष्टाहंकारवाञ्जन्तुः शमवान्याति मुक्तताम् ॥९४॥
प्रथमौ द्वावहंकारावङ्गीकृत्य त्वलौकिकौ । तृतीयाहंकृतिस्त्याज्या लौकिकी दुःखदायिनी ॥९५॥
अथ ते अपि संत्यज्य सर्वाहंकृतिवर्जितः । स तिष्ठति तथात्युच्चैः परमेवाधिरोहति ॥९६॥
भोगेच्छामात्रको बन्धस्तत्त्यागो मोक्ष उच्यते । मनसोऽभ्युदयो नाशो मनोनाशो महोदयः ॥९७॥
ज्ञमनो नाशमभ्येति मनोऽज्ञस्य हि शृङ्खला । नानन्दं न निरानन्दं न चलं नाचलं स्थिरम् । न सन्नासन्न चैतेषां मध्यं ज्ञानिमनो विदुः ॥९८॥
यथा सौक्ष्म्याच्चिदाभास्य आकाशो नोपलक्ष्यते । तथा निरंशश्चिद्भावः सर्वगोऽपि न लक्ष्यते ॥९९॥
सर्वसंकल्परहिता सर्वसंज्ञाविवर्जिता । सैषा चिदविनाशात्मा स्वात्मेत्यादिकृताभिधा ॥१००॥
आकाशशतभागाण्छा ज्ञेषु निष्कलरूपिणी । सकलामलसंसारस्वरूपैकात्मदर्शिनी ॥१०१॥
नास्तमेति न चोदेति नोत्तिष्ठति न तिष्ठति । न च याति न चायाति न च नेह न चेह चित् ॥१०२॥
सैषा चियमलाकारा निर्विकल्पा निरास्पदा ॥१०३॥
आदौ शमदमप्रायैर्गुणैः शिष्यं विशोधयेत् । पश्चात्सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् ॥१०४॥
अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् । महानरकजालेषु स तेन विनियोजितः ॥१०५॥
प्रबुद्धबुद्धेः प्रक्षीणभोगेच्छस्य निराशिषः । नास्त्यविद्यामलमिति प्राज्ञस्तूपदिशेद्गुरुः ॥१०६॥
सति दीप इवालोकः सत्यर्क इव वासरः । सति पुष्प इवामोदश्चिति सत्यं जगत्तथा ॥१०७॥
प्रतिभासत एवेदं न जगत्परमार्थतः । ज्ञानदृष्टौ प्रसन्नायां प्रबोधविततोदये ॥१०८॥
यथावज्ज्ञास्यसि स्वस्थो मद्वाग्वृष्टिबलाबलम् । अविद्ययैवोत्तमया स्वार्थनाशोद्यमार्थया ॥१०९॥
विद्या संप्राप्यते ब्रह्मन्सर्वदोषापहारिणी । शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलम् ॥११०॥
शमं विषं विषेणैति रिपुणा हन्यते रिपुः । ईदृशी भूतमायेयं या स्वनाशेन हर्षदा ॥१११॥
न लक्ष्यते स्वभावोऽस्या वीक्ष्यमाणैव नश्यति । नास्त्येषा परमार्थेनेत्येवं भावनयेद्धया ॥११२॥
सर्वं ब्रह्मेति यस्यान्तर्भावना सा हि मुक्तिदा । भेददृष्टिरविद्येयं सर्वथा तां विसर्जयेत् ॥११३॥
मुने नासाद्यते तद्धि पदमक्षयमुच्यते । कुतो जातेयमिति ते द्विज मास्तु विचारणा ॥११४॥
इमां कथमहं हन्मीत्येषा तेऽस्तु विचारणा । अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि तत्पदम् ॥११५॥
यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् । तदस्या रोगशालाया यत्नं कुरु चिकित्सने ॥११६॥
यथैषा जन्मदुःखेषु न भूयस्त्वां नियोक्ष्यति । स्वात्मनि स्वपरिस्पन्दैः स्फुरत्यच्छैश्चिदर्णवः ॥११७॥
एकात्मकमखण्डं तदित्यन्तर्भाव्यतां दृढम् । किंचित्क्षुभितरूपा सा चिच्छक्तिश्चिन्मयार्णवे॥ ११८॥
तन्मयैव स्फुरत्यच्छा तत्रैवोर्मिरिवार्णवे । आत्मन्येवात्मना व्योम्नि यथा सरसि मारुतः ॥११९॥
तथैवात्मात्मशक्त्यैव स्वात्मन्येवैति लोलताम् । क्षणं स्फुरति सा देवी सर्वशक्तितया तथा ॥१२०॥
देशकालक्रियाशक्तिर्न यस्याः संप्रकर्षणे । स्वस्वभावं विदित्वोच्चैरप्यनन्तपदे स्थिता ॥१२१॥
रूपं परिमितेनासौ भावयत्यविभाविता । यदैवं भावितं रूपं तया परमकान्तया ॥१२२॥
तदैवैनामनुगता नामसंख्यादिका दृशः । विकल्पकलिताकारं देशकालक्रियास्पदम् ॥१२३॥
चितो रूपमिदं ब्रह्मन्क्षेत्रज्ञ इति कथ्यते । वासनाः कल्पयन्सोऽपि यात्यहंकारतां पुनः ॥१२४॥
अहङ्कारो विनिर्णेता कलङ्की बुद्धिरुच्यते । बुद्धिः संकल्पिताकारा प्रयाति मननास्पदम् ॥१२५॥
मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः । पाणिपादमयं देहमिन्द्रियाणि विदुर्बुधाः ॥१२६॥
एवं जीवो हि संकल्पवासनारज्जुवेष्टितः । दुःखजालपरीतात्मा क्रमादायाति नीचताम् ॥१२७॥
इति शक्तिमयं चेतो घनाहंकारतां गतम् । कोशकारक्रिमिरिव स्वेच्छया याति बन्धनम् ॥१२८॥
स्वयं कल्पित तन्मात्राजालभ्यन्तरवर्ति च । परां विवशतामेति शृङ्खलाबद्धसिंहवत् ॥१२९॥
क्वचिन्मनः क्वचिद्बुद्धिः क्वचिज्ज्ञानं क्वचित्क्रिया । क्वचिदेतदहंकारः क्वचिच्चित्तमिति स्मृतम् ॥१३०॥
क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् । क्वचिन्मलमिति प्रोक्तं क्वचित्कर्मेति संस्मृतम् ॥१३१॥
क्वचिद्बन्ध इति ख्यातं क्वचित्पुर्यष्टकं स्मृतम् । प्रोक्तं क्वचिदविद्येति क्वचिदिच्छेति संमतम् ॥१३२॥
इअमं संसारमखिलमाशापाशविधायकम् । दधदन्तःफलैर्हीनं वटधाना वटं यथा ॥१३३॥
चिन्तानलशिखादग्धं कोपाजगरचर्वितम् । कामाब्धिकल्लोलरतं विस्मृतात्मपितामहम् ॥१३४॥
समुद्धर मनो ब्रह्मन्मातङ्गमिव कर्दमात् । एवं जीवाश्रिता भावा भवभावनयाहिताः ॥१३५॥
ब्रह्मणा कल्पिताकारा लक्षशोऽप्यथ कोटिशः । संख्यातीताः पुरा जाता जायन्तेऽद्यापि चाभितः ॥१३६॥
उत्पत्स्यन्तेऽपि चैवान्ये कणौघा इव निर्झरात् । केचित्प्रथमजन्मानः केचिज्जन्मशताधिकाः ॥१३७॥
केचिच्चासंख्यजन्मानः केचिद्द्वित्रिभवान्तराः । केचित्किन्नरगन्धर्वविद्याधरमहोरगाः ॥१३८॥
केचिदर्केन्दुवरुणास्त्र्यक्षाधोक्षजपद्मजाः । केचिद्ब्रह्मणभूपालवैश्यशूद्रगणाः स्थिताः ॥१३९॥
केचित्तृणौषधीवृक्षफलमूलपतङ्गकाः । केचित्कदम्बजम्बीरसालतालतमालकाः ॥१४०॥
केचिन्महेन्द्रमलयसह्यमन्दरमेरवः । केचित्क्षारोदधिक्षीरघृतेक्षुजलराशयः ॥१४१॥
केचिद्विशालाः कुकुभः केचिन्नद्यो महारयाः । विहायस्युच्चकैः केचिन्निपतन्त्युत्पतन्ति च ॥१४२॥
कन्तुका इव हस्तेन मृत्युनाऽविरतं हताः । भुक्त्वा जन्मसहस्राणि भूयः संसारसंकटे ॥१४३॥
पतन्ति केचिदबुधाः संप्राप्यापि विवेकताम् । दिक्कालाद्यनवच्छिन्नमात्मतत्त्वं स्वशक्तितः ॥१४४॥
लीलयैव यदादत्ते दिक्कालकलितं वपुः । तदेव जीवपर्यायवासनावेशतः परम् ॥१४५॥
मनः संपद्यते लोलं कलनाकलनोन्मुखम् । कलयन्ती मनःशक्तिरादौ भावयति क्षणात् ॥१४६॥
आकाशभावनामच्छां शब्दबीजरसोन्मुखीम् । ततस्तद्घनतां यातं घनस्पन्दक्रमान्मनः ॥१४७॥
भावयत्यनिलस्पन्दं स्पर्शबीजरसोन्मुखम् । ताभ्यामाकाशवाताभ्यां दृढाभ्यासवशात्ततः ॥१४८॥
शब्दस्पर्शस्वरूपाभ्यां संघर्षाज्जन्यतेऽनलः । रूपतन्मात्रसहितं त्रिभिस्तैः सह संमितम् ॥१४९॥
मनस्ताद्दृग्गुणगतं रसतन्मात्रवेदनम् । क्षणाच्चेतत्यपां शैत्यं जलसंवित्ततो भवेत् ॥१५०॥
ततस्तादृग्गुणगतं मनो भावयति क्षणात् । गन्धतन्मात्रमेतस्माद्भूमिसंवित्ततो भवेत् ॥१५१॥
अथेत्थंभूततन्मात्रवेष्टितं तनुतां जहत् । वपुर्वह्निकणाकारं स्फुरितं व्योम्नि पश्यति ॥१५२॥
अहंकारकलायुक्तं बुद्धिबीजसमन्वितम् । तत्पुर्यष्टकमित्युक्तं भूतहृत्पद्मषट्पदम् ॥१५३॥
तस्मिंस्तु तीव्रसंवेगाद्भावयद्भासुरं वपुः । स्थूलतामेति पाकेन मनो बिल्वफलं यथा ॥१५४॥
मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे । संनिवेशमथादत्ते तत्तेजः स्वस्वभावतः ॥१५५॥
ऊर्ध्वं शिरःपिण्डमयमधः पादमयं तथा । पार्श्वयोर्हस्तसंस्थानं मध्ये चोदरधर्मिणम् ॥१५६॥
कालेन स्फुटतामेत्य भवत्यमलविग्रहम् । बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थितः ॥१५७॥
स एव भगवान्ब्रह्मा सर्वलोकपितामहः । अवलोक्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम् ॥१५८॥
चिन्तामभ्येत्य भगवांस्त्रिकालामलदर्शनः । एतस्मिन्परमाकाशे चिन्मात्रैकात्मरूपिणी ॥१५९॥
अदृष्टपारपर्यन्ते प्रथमं किं भवेदिति । इति चिन्तितवान्ब्रह्मा सद्यो जातामलात्मदृक् ॥१६०॥
अपश्यत्सर्गवृन्दानि समतीतान्यनेकशः । स्मरत्यथो स सकलान्सर्वधर्मगुणक्रमात् ॥१६१॥
लीलया कल्पयामास चित्राः संकल्पतः प्रजाः । नानाचारसमारम्भा गन्धर्वनगरं यथा ॥१६२॥
तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये । अनन्तानि विचित्राणि शास्त्राणि समकल्पयत् ॥१६३॥
विरञ्चिरूपान्मनसः कल्पितत्वाज्जगत्स्थितेः । तावत्स्थितिरियं प्रोक्ता तन्नाशे नाशमाप्नुयात् ॥१६४॥
न जायते न म्रियते क्वचित्किंचित्कदाचन । परमार्थेन विप्रेन्द्र मिथ्या सर्वं तु दृश्यते ॥१६५॥
कोशमाशाभुजङ्गानां संसाराडंबरं त्यज । असदेतदिति ज्ञात्वा मातृभावं निवेशय ॥१६६॥
गन्धर्वनगरस्यार्थे भूषितेऽभूषिते तथा । अविद्यांशे सुतादौ वा कः क्रमः सुखदुःखयोः ॥१६७॥
धनदारेषु वृद्धेषु दुःखयुक्तं न तुष्टता । वृद्धायां मोहमायायां कः समाश्वासवानिह ॥१६८॥
यैरेव जायते रागो मूर्खस्याधिकतां गतैः । तैरेव भागैः प्राज्ञस्य विराग उपजायते ॥१६९॥
अतो निदाघ तत्त्वज्ञ व्यवहारेषु संसृतेः । नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर ॥१७०॥
अनागतानां भोगानामवाञ्छनमकृत्रिमम् । आगतानां च संभोग इति पण्डितलक्षणम् ॥१७१॥
शुद्धं सदसतोर्मध्यं पदं बुद्ध्वावलंब्य च । सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्च मा ॥१७२॥
यस्य चेच्छा तथानिच्छा ज्ञस्य कर्मणि तिष्ठतः । न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः ॥१७३॥
यदि ते नेन्द्रियार्थश्रीः स्पन्दते हृदि वै द्विज । तदा विज्ञातविज्ञेया समुत्तीर्णो भवार्णवात् ॥१७४॥
उच्चैःपदाय परया प्रज्ञया वासनागणात् । पुष्पाद्गन्धमपोह्यारं चेतोवृत्तिं पृथक्कुरु ॥१७५॥
संसाराम्बुनिधावस्मिन्वासनाम्बुपरिप्लुते । ये प्रज्ञानावमारूढास्ते तीर्णाः पण्डिताः परे ॥१७६॥
न त्यजन्ति न वाञ्छन्ति व्यवहारं जगद्गतम् । सर्वमेवानुवर्तन्ते पारावारविदो जनाः ॥१७७॥
अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः । चितश्चेत्योन्मुखत्वं यत्तत्संकल्पाङ्कुरं विदुः ॥१७८॥
लेशतः प्राप्तसत्ताकः स एव घनतां शनैः । याति चित्तत्वमापूर्य दृढं जाड्याय मेघवत् ॥१७९॥
भावयन्ति चितिश्चैत्यं व्यतिरिक्तमिवात्मनः । संकल्पतामिवायाति बीजमङ्कुरतामिव ॥१८०॥
संकल्पनं हि संकल्पः स्वयमेव प्रजायते । वर्धते स्वयमेवाशु दुःखाय न सुखाय यत् ॥१८१॥
मा संकल्पय संकल्पं मा भावं भावय स्थितौ । संकल्पनाशने यत्तो न भूयोऽननुगच्छति ॥१८२॥
भावनाभावमात्रेण संकल्पः क्षीयते स्वयम् । संकल्पेनैव संकल्पं मनसैव मनो मुने ॥१८३॥
छित्त्वा स्वात्मनि तिष्ठ त्वं किमेतावति दुष्करम् । यथैवेदं नभः शून्यं जगच्छून्यं तथैव हि ॥१८४॥
तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा । नश्यति क्रियया विप्र पुरुषस्य तथा मलम् ॥१८५॥
जीवस्य तण्डुलस्येव मलं सहजमप्यलम् । नश्यत्येव न सन्देहस्तस्मादुद्योगवान्भवेत् ॥१८६॥
इति महोपनिषत् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP