जाबालदर्शनोपनिषत् - षष्ठः खण्डः
आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic
प्राणायामक्रमं वक्ष्ये सांकृते श्रुणु सादरम् । प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः ॥१॥ वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः । स एष प्रणवः प्रोक्तः प्राणायामस्तु तन्मयः ॥२॥ इडया वायुमाकृष्य पूरयित्वोदरे स्थितम् । शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् ॥३॥ पूरितं धारयेत्पश्चाच्चतुःषष्ट्या तु मात्रया । उकारमूर्तिमन्त्रापि संस्मरन्प्रणवं जपेत् ॥४॥ यावद्वा शक्यते तावद्धारयेज्जपतत्परः । पूरितं रेचयेत्पश्चान्मकारेणानिलं बुधः ॥५॥ शनैः पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः । प्राणायामो भवेदेवं ततश्चैवं समभ्यसेत् ॥६॥ पुनः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा । अकारमूर्तिमत्रापि स्मरेदेकाग्रमानसः ॥७॥ धारयेत्पूरितं विद्वान्प्रणवं संजपन्वशी । उकारमूर्तिं स ध्यायंश्चतुःषष्ट्या तु मात्रया ॥८॥ मकारं तु स्मरन्पश्चाद्रेचयेदिडयानिलम् । एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान् ॥९॥ एवं समभ्यसेन्नित्यं प्राणायामं मुनीश्वर । एवमभ्यासतो नित्यं षण्मासाद्यत्नवान्भवेत् ॥१०॥ वत्सराद्ब्रह्मविद्वान्स्यात्तस्मान्नित्यं समभ्यसेत् । योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः ॥११॥ प्राणसंयमनेनैव ज्ञानान्मुक्तो भविष्यति । बाह्यादापूरणं वायोःरुदरे पूरको हि सः ॥१२॥ संपूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् । बहिर्विरचनं वायोरुदराद्रचेकः स्मृतः ॥१३॥ प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः । कंपनं मध्यमं विद्यादुत्थानं चोत्तमं विदुः ॥१४॥ पूर्वंपूर्वं प्रकुर्वीत यावदुत्थानसंभवः । संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् ॥१५॥ प्राणायमेन चित्तं तु शुद्धं भवति सुव्रत । चित्ते शुद्धे शुचिः साक्षात्प्रत्यग्ज्योतिर्व्यवस्थितः ॥१६॥ प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति । प्राणायामपरस्यास्य पुरुषस्य महात्मनः ॥१७॥ देहश्चोत्तिष्ठते तेन किंचिज्ज्ञानाद्विमुक्तता । रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत् ॥१८॥ सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् । मनोजवत्वमाप्नोति पलितादि च नश्यति ॥१९॥ प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् । तस्मात्सर्वप्रयत्नेन प्राणायामान्समभ्यसेत् ॥२०॥ विनियोगान्प्रवक्ष्यामि प्राणायामस्य सुव्रत । सन्ध्ययोर्ब्राह्मकालेऽपि मध्याह्ने वाथवा सदा ॥२१॥ बाह्यं प्राणं समाकृष्य पूरयित्वोदरेण च । नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारयेत् ॥२२॥ सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः । नासाग्रधारणाद्वापि जितो भवति सुव्रत ॥२३॥ सर्वरोगनिवृत्तिः स्यान्नाभिमध्ये तु धारणात् । शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात् ॥२४॥ जिह्वया वायुमाकृष्य यः पिबेत्सततं नरः । श्रमदाहविनिर्मुक्तो योगी नीरोगतामियात् ॥२५॥ जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् । पिबेदमृतमव्यग्रं सकलं सुखमाप्नुयात् ॥२६॥ इडया वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् । यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः ॥२७॥ इडया वेदतत्त्वज्ञस्तथा पिङ्गलयैव च । नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः ॥२८॥ मासमात्रं त्रिसन्ध्यायां जिह्वयारोप्य मारुतम् । अमृतं च पिबेन्नाभौ मन्दंमन्दं निरोधयेत् ॥२९॥ वातजाः पित्तजा दोषा नश्यन्त्येव न संशयः । नासाभ्यां वायुमाकृष्य नेत्रद्वन्द्वे निरोधयेत् ॥३०॥ नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात् । तथा वायुं समारोप्य धारयेच्छिरसि स्थितम् ॥३१॥ शिरोरोगा विनश्यन्ति सत्यमुक्तं हि सांकृते । स्वस्तिकासनमास्थाय समाहितमनास्तथा ॥३२॥ अपानमूर्ध्वमुत्थाप्य प्रणवेन शनैः शनैः । हस्ताभ्यां धारयेत्सम्यक्कर्णादिकरणानि च ॥३३॥ अङ्गुष्ठाभ्यां मुने श्रोत्रे तर्जनीभ्यां तु चक्षुषी । नासापुटवधानाभ्यां प्रच्छाद्य करणानि वै ॥३४॥ आनन्दाविर्भवो यावत्तावन्मूर्धनि धारणात् । प्राणः प्रयात्यनेनैव ब्रह्मरन्ध्रं महामुने ॥३५॥ ब्रह्मरन्ध्रं गते वायौ नादश्चोत्पद्यतेऽनघ । शङ्खध्वनिनिभश्चादौ मध्ये मेघध्वनिर्यथा ॥३६॥ शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा । पश्चात्प्रीतो महाप्राज्ञः साक्षादात्मोन्मुखो भवेत् ॥३७॥ पुनस्तज्ज्ञाननिष्पत्तिर्योगात्संसारनिह्नुतिः । दक्षिणोत्तरगुल्फेन सीविनीं पीडयेत्स्थिरम् ॥३८॥ सव्येतरेण गुल्फेन पीडयेद्बुद्धिमान्नरः । जान्वोरधः स्थितां सन्धिं स्मृत्वा देवं त्रियम्बकम् ॥३९॥ विनायकं च संस्मृत्य तथा वागीश्वरीं पुनः । लिङ्गनालात्समाकृष्य वायुमप्यग्रतो मुने ॥४०॥ प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् । मूलाधारस्य विप्रेन्द्र मध्ये तं तु निरोधयेत् ॥४१॥ निरुध्य वायुना दीप्तो वह्निरूहति कुण्डलीम् । पुनः सुषुम्नया वायुर्वह्निना सह गच्छति ॥४२॥ एवमभ्यासतस्तस्य जितो वायुर्भवेद्भृशम् । प्रस्वेदः प्रथमः पश्चात्कम्पनं मुनिपुङ्गव ॥४३॥ उत्थानं च शरीरस्य चिह्नमेतज्जितेऽनले । एवमभ्यासतस्तस्य मूलरोगो विनश्यति ॥४४॥ भगन्दरं च नष्टं स्यात्सर्वरोगाश्च सांकृते । पातकानि विनश्यन्ति क्षुद्राणि च महान्ति च ॥४५॥ नष्टे पापे विशुद्धं स्याच्चित्तदर्पणमद्भुतम् । पुनर्ब्रह्मादिभोगेभ्यो वैराग्यं जयते हृदि ॥४६॥ विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम् । तेन पापापहानिः स्याज्ज्ञात्वा देवं सदाशिवम् ॥४७॥ ज्ञानामृतरसो येन सकृदास्वादितो भवेत् । स सर्वकार्यमुत्सृज्य तत्रैव परिधावति ॥४८॥ ज्ञानस्वरूपमेवाहुर्जगदेतद्विलक्षणम् । अर्थस्वरूपमज्ञानात्पश्यन्त्यन्ये कुदृष्टयः ॥४९॥ आत्मस्वरूपविज्ञानादज्ञानस्य परिक्षयः । क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः ॥५०॥ रागाद्यसंभवे प्राज्ञ पुण्यपापविमर्दनम् । तयोर्नाशे शरीरेण न पुनः संप्रयुज्यते ॥५१॥ इति॥
इति षष्ठः खण्डः ॥६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP