संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|उड्डामरेश्वरतन्त्र| नवमः पटलः उड्डामरेश्वरतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः ढशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः उड्डामरेश्वरतन्त्र - नवमः पटलः ‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात. Tags : shastratantraउड्डामरेश्वरतन्त्रशास्त्रसंस्कृत नवमः पटलः Translation - भाषांतर अथान्यत्सम्प्रवक्ष्यामि औषधं परमदुर्लभं ।आस्फोटी नाम विख्याता नागदमनीति विश्रुता ॥अस्या विधानं वक्ष्यामि दुर्लभं त्रिदिवौकसां ।विषाः सर्वे विनश्यन्ति लेपनाद्भक्षणात्क्षणात् ॥पत्त्रहस्ते तां प्रलिप्य सर्पो ध्रियते धृतमात्रे सर्पो न नश्यति नैव क्षतानि प्रलिप्य नागपूजितमन्त्रेण सर्पो विनश्यति ।नागदमनीमूलं खननान्नाडीललाटलेपनान्नाशयति समन्ततः आमवातं पित्तवातं श्लेष्मवातं एते वाता विनश्यन्ति भक्षणान्नात्र संशयः ।अथ कथयाम्योषधीकरणे करणकारणानि ।पुत्रमय वशीकरणकारकपुत्रपुत्रं कंसं कातरापि वशं परं महिलाजनस्यैकश अप्यस्य दीयते सा पतिं परित्यज्य पश्यतां लोकानां नग्ना भूत्वा भ्रमति ।अथ कथयामि तान्त्रिकविधिं ।ताम्रवेदीपरोर इति लोकैरुच्यते शनिवारे तां अभिमन्त्र्य दिगम्बरो मुक्तकेशो भूत्वानुदिते भानौ ग्रहणं कुर्यात् ।पिष्ट्वा सम्यक्प्रकारेण स्त्रीपञ्चमलेन च कामातुरेण कृत्वा ताम्बूलेन सह भगिनीकृत्वा दीयते सा वश्या भवति नान्यथा ।मातापि पुत्रं परित्यज्य तत्परा भूत्वा पृष्ठतो नग्ना भवति यत्र कुत्रापि तथा तं अनुयाति न संशयः ।काकजङ्घेति विख्याता महौषधिर्ग्रामे सर्वत्र तिष्ठति शनिवारे संध्यासमये तस्या अभिमन्त्रणं कुर्यात्तदन्तरं ब्राह्मे मुहूर्ते उत्थायानुदिते भानौ पुष्यर्क्षे हस्तर्क्षे वा योगे खदिरकीलकेन तां समूलां उत्पाटयेत् ।पुनस्तां सप्तम्यां अष्टम्यां नवम्यां वा एतासु तिथिषु पुनर्वसुपुष्यहस्तर्क्षयुक्तासु स्वपञ्चमलेन सह पिष्ट्वा स्ववीर्यं स्वरक्तं अपि तस्मिन्दत्त्वा यस्यै वनितायै दीयते सा स्त्री वश्या भवति सत्यं एव मन्त्रेणानेन मन्त्रयेत् ।उओं नमो भगवति त्रिपुरे त्रैलोक्यमोहिनि ऐं द्रां श्रीं क्लीं स्ॐ अमुकनाम्नीं शीघ्रं मे वशं आनय स्वाहा ।इति मन्त्रः ।अथ गुञ्जाकल्पो लिख्यते श्वेतगुञ्जां शनिवारे संध्यासमयेऽभिमन्त्रितां कृत्वा ततो ब्राह्मे मुहूर्ते उत्थायानुदिते भानौ खदिरकीलकेन दिगम्बरो भूत्वा समूलां उत्पाटयेत् ।पुष्यर्क्षे हस्तर्क्षे वा स्त्रीपुष्पेण सह गोरोचनकश्मीरकुङ्कुमश्वेतचन्दनरक्तचन्दनकस्तूरीकर्पूरहस्तिमदेन सहाभिमन्त्र्य तिलकं कुर्यात्तदा स्त्री कामबाणविमोहिता विह्वला भवति ।मन्त्रेणानेन मन्त्रयेतुओं ऐं ह्रीं श्रीं क्लीं हूं फट्स्वाहा ।इति कामबाणतिलकं ।अथान्यतन्त्रोक्तं वशीकरणादिकं लिख्यते सारं उद्धृत्य संक्षेपाद्वशीकरणमोहने ।कामिनां प्रीतिजनकं किंचित्तदपि गद्यते ॥तत्रादौ तिलकविधिः ।लज्जां मधूकं कव्यं च नलिनीमूलं एव च ।एतान्पिष्ट्वा स्ववीर्येण यः कुर्यात्तिलकं पुमान् ॥तत्क्षणादेव नयति वश्यतां भुवनत्रयं ।वात्स्यायनेन मुनिना प्रोक्तं योगं अनुत्तमं ॥सिताष्टमूलमञ्जिष्ठा वचा मुस्ता सकुष्ठका ।स्त्रीयोनिशोणिते चैतदेकीकृत्य ललाटके ॥शुभं तिलकं आधत्ते यः स लोकत्रयं क्रमात् ।कृतज्ञः स्ववशं कुर्यान्मोदते च चिरं भुवि ॥तगरं पिप्पलीमूलं मेषशृङ्गी कणा जटा ।एतत्समं स्वपञ्चाङ्गमले नीत्वैकतां सुधीः ॥मधुना तिलकं कुर्याद्यः क्षोणीसुतवासरे ।जगत्सर्वं वशीकुर्यात्स पुमान्नात्र संशयः ॥गोरोचनं च संभाव्य स्वपुंसो रुधिरेण या ।कुर्यात्सा तिलकं भाले पतिं च मोहयेद्भृशं ॥अथाञ्जनविधिः ।महाष्टमीदिने यस्तु श्मशाने नरमस्तके ।पातितं कज्जलं विश्वं मोहयेन्नयनाञ्जनात् ॥रोचनां केसरं कन्यां शिलां चेति विशोधयन् ।याजयेद्दृष्टिपथगं सर्वं एव विमोहयेत् ॥तालीशकुष्ठनागरैः कृत्वा क्षोणीशवर्तिकां ।सिद्धार्थतैले निःक्षिप्य कज्जलं नरमस्तके ॥पातयेदञ्जनं तस्य सर्वदा भुवनत्रये ।दृष्टिगोचरं आयातः सर्वो भवति दासवत् ॥शिलाकिञ्जल्कफलिनी रोचनानां तथाञ्जनं ।पुष्यर्क्षयोगे विहितं दम्पत्योर्मोहनं परं ॥इति अथ चूर्णविधिः ।काकजङ्घा शिला पक्षौ भ्रामरौ कृष्णं उत्पलं ।तगरजं चैषां चूर्णं क्षिप्तं विमोहने ॥वातपैत्तिकदलं पुंसो मलं मालासवस्य च ।पक्षावलेरिदं चूर्णं क्षिप्तं शिरसि मोहनं ॥अथ भक्षणविधिः ।अन्त्रादि सर्वं निष्कास्य खञ्जरीटोदरं कुलैः ।पूरयित्वा स्ववीर्येण सारमेयगले क्षिपेत् ॥मुद्रां कृत्वा तदेकान्ते सप्ताहं धारयेत्सुधीः ।पश्चान्निष्कास्य संशोध्य वटीं कुर्याद्विशोषयेत् ॥सा भक्षणविधानेन दीपमाला परस्परं ।दम्पत्योः प्रीतिजननी कीर्तिता नियमोत्तमा ॥अन्यत्सुमतं ।अथान्यत्सम्प्रवक्ष्यामि तिलकं सर्वकामिकं ।गोरोचनं वंशलोचनं मत्स्यपित्तं कश्मीरकुङ्कुमकेसरस्वयम्भूकुसुमस्ववीर्यश्रीखण्डरक्तचन्दनकस्तूरीकर्पूरकाकजङ्घामूलानि समभागानि कृत्वा कूपतडागनदीजलेन मर्दयित्वा कुमारिकापार्श्वकां गुटिकां कृत्वा छायां गुटिकां कारयेत् ।तया ललाटे तिलकं कृत्वा यां यां स्त्रियं पश्यति सा सा वश्या भवति ।द्र्ॐ वां धां क्ष्ॐ अं कं छः इत्यनेन मन्त्रेण महिषास्थिमयं कीलकं एकोनविंशत्यङ्गुलं सहस्रेणाभिमन्त्रितं यस्य नाम्ना कूपतटे निखनेत्स महिषेण वध्यते ।उओं च्छः च्छः íं अमुकं हुं ईं च्छः च्छः उओं इति ।अनेन मन्त्रेण मयूरास्थिमयं कीलकं त्र्यङ्गुलं सहस्रेणाभिमन्त्रितं यस्य नाम्ना चतुष्पथे निखनेत्स तत्र भ्रमति ।तत्रानेनावतिष्ठति पर्यटति क्षणमात्रेण उत्तोलनेन शान्तिर्भवति ।उओं श्रीं श्रीं व्रां व्रीं ईं ईं च्छः च्छः स्वाहा ।अनेन मन्त्रेण मेषास्थिमयं कीलकं द्वादशाङ्गुलं सहस्रेणाभिमन्त्रितं कृत्वा यस्य गृहे निखनेत्सर्वसिद्धिरसिद्धा तस्य भवति ।द्रीं बन्धूकपुष्पसंकाशं ध्यातव्यं मन्त्रदीपके ।कुम्भकेन वरारोहे शृणु वक्ष्यामि षड्गुणं ॥ध्यात्वा तु मासं एकं तु महास्त्रीं आनयेद्ध्रुवं ।मासेनैकेन मनुना आनयेन्नागकन्यकां ॥देवकन्यां त्रिभिर्मासैः सायाह्ने नान्यथा भवेत् ।उओं हं हः इति ।अनेनैव तु मन्त्रेण ध्यातव्याः क्रोधयाजकाः ॥याज्यस्य रुद्रसंकाशं रुद्रहस्तं सुरासुरैः ।मासेन मानुषं लोकं नागलोकं द्विमासतः ॥त्रिभिर्मासैस्तु देवेशि स्वर्गलोकं न संशयः ।षण्मासाभ्यासयोगेन त्रैलोक्यं निश्चलं कुरु ॥उओं रक्तहटा रक्तगटा मुकुटधारिणी एधति स्वाहा ।मन्त्रराज उल्टा वेधा ।उओं ह्रीं श्रीं ध्रीं विकृतानना बाह्ये फट्स्वाहा ।मन्त्रं इमं यन्त्रे लिखित्वा यस्य ईक्षितं दीयते स ऐकाहिकद्व्याहिकत्र्याहिकविषमज्वरेण गृह्यते तत्क्षणादेव नश्यति नात्र संशयः ।उओं बन्धुन क्षयं द्रीं द्रीं अमुकस्यात्मानं नित्यज्वरेण पत्त्रीबन्धनमात्रस्य स्फुर स्वाहा ।इति नित्यज्वरशोधनपत्त्रिका ।उओं क्षः स्वाहा ।अनेन मन्त्रेण मन्त्रितं जलं भृशं कृत्वा ज्वरिताङ्गं सेचयेत्तेन ज्वरविमुक्तिर्भवति निश्चितं ।खरवाहनसिंहस्य क्रमादेवानुशासनं ।ऋक्षतुरगगतो वायुर्जीमूत इव गर्जितः ॥रविवारे श्लोकं इमं लिखित्वा शिरसि न्यसेत् ।तेन स्थापितमात्रेण त्रैमासिकज्वरं हरेत् ॥वानेयस्य बिडालस्य गृहीत्वा रुधिरं ततः ।पद्मसूत्रोत्थवर्तिं च भावयेत्सप्तवारकं ॥शिवाग्रे तज्जतैलेन पातयेत्कज्जलं ततः ।तेनाञ्जितलोचनस्तु अदृश्यो भवति ध्रुवं ॥हेभिरिहेभेरिहे ।अनेनोदकं आदायालोक्य सहस्रवारं परिजप्य अनेनैवाञ्जनेन त्रिरात्रेण सिद्धिः ।पद्मसूत्रवर्तिकस्य तैलेन कज्जलं पातयेत्तेनाञ्जितनेत्रस्तु अदृश्यो भवति ।ततो गोमूत्रेण चक्षुषी प्रक्षाल्य पुनः प्रत्यक्षो भवति ॥अथ डाकिनीदमनमन्त्रः अक्षः क्षां क्षौकाजसिनौ देवता तत्त्वधूलिनी घोनाशालिनी भमन्त्रि बन्धुशनादैवतं लघुकण्टकेन पुरुं अभिशासनो देवतां महाभैरव मण्डलं अचल उओं च्छः च्छः च्छः डाकिनीमतबन्धु नमः ।उओं नमो भगवते वज्राय चण्डेश्वराय ईं ईं फट्स्वाहा ।इति सर्वभूतडाकिनीदमनमन्त्रः ।दमन सर्पलङ्ग एभलिसिं अजबन्धनिशि नागपाशं अचलः इति दमनमन्त्रं बन्धनं च ।उओं रंस्त्रीं शीघ्रं ह स्वाहा ।त्रिपुरां सिन्दूरशङ्खचूर्णाभ्यां उदनालपत्त्रे लिखित्वा शोधयितव्यः स दिवसत्रयेण ज्वरेणागत्य मिलति ।उओं अहोहः अमुकनम्नीं शीघ्रं आनय स्वाहा इत्याकर्षणं ॥उओं स्त्रीं स्त्रीं वलीं वलीं ईं अहः फट्स्वाहा ।मज्जनस्वस्थो भवति ।अप्सरणीं अमुकीं जीव ।तेन अनेन मन्त्रेण सप्तवारं जलं प्रजप्य कामिन्यै पानार्थं दातव्यं ।उओं नमो जले मोहे कुले फलानि संकुले स्वाहा ।अनेन मन्त्रेण सप्तवाराभिमन्त्रितं यस्य दीयते स वश्यो भवति ।उओं नमो जले मोहे द्रां अब्जिनि फट्स्वाहा ।अनेन मन्त्रेण प्रत्यूषे पानीयेन मुखं प्रक्षालयेत्सर्वजनप्रियो भवति सर्वसिद्धीश्वरो भवति ॥उओं भूर्भुवः स्वः स्वाहा ।ताम्बूलं मन्त्रयित्वा यस्य दीयते स वश्यो भवति ।उओं नमो जले मोहे हन हन दह दह पच पच मथ मथ अमुकं मे वशं आनय स्वाहा ।अथ यक्षिणीमन्त्रसाधनं सुरसुन्दरीमनोहारिणीकनकावतीरतिकरीकामेश्वरीनट्यनुरागिणीपद्मिनी एता अष्टौ यक्षिण्यः कामनायां साधनं ।अथ सुरसुन्दरीसाधनं उओं ह्रीं आगच्छ आगच्छ सुरसुन्दरि स्वाहा ।वज्रपाणिगृहं गत्वा गुग्गुलधूपं दत्त्वा त्रिसंध्यं पूजयेत्सहस्रं त्रिसंध्यं मासपर्यन्तं जपेत्ततो मासाभ्यन्तरे प्रत्यक्षा भवति अन्तिमदिने रक्तचन्दनेनार्घ्यं दद्यात् ।तत आगत्य माता भगिनी भार्या वा भवति तासां यानि कर्माणि तान्येव करोति ।यदि माता भवति तदा सिद्धद्रव्याणि रसायनानि ददाति ।यदि भगिनी भवति तदा पूर्ववदमूल्यं वस्त्रं ददाति ।यदि भार्या भवति तदा सर्वं ऐश्वर्यं परिपूरयति ।परं तु वर्जनीयं इहान्यया सह शयनं सा च मैथुनप्रिया भवति अन्यथा नश्यति ॥अथ मनोहारिणीसाधनं उओं हीं आगच्छ आगच्छ मनोहरि स्वाहा ।इह नदीसंगमे गत्वा चन्दनेन मण्डलं कृत्वा अगुरुधूपं दत्त्वा सहस्रैकं मन्त्रं मासपर्यन्तं प्रत्यहं जपेत् ।ततो मासान्ते चन्दनोदकेनार्घ्यं दद्यात्पुष्पफलेनैकचित्तेन तस्या अर्चनं कर्तव्यं ततोऽर्धरात्रसमये नियतं आगच्छति आगता सती तदाज्ञां करोति सुवर्णशतं तस्मै साधकाय प्रत्यहं ददाति ॥अथ कनकावतीसाधनं उओं ह्रीं कनकावति मैथुनप्रिये आगच्छ आगच्छ स्वाहा ।वटवृक्षसमीपे स्थित्वा मद्यमांसादिनैवेद्यं तस्यै मूलमन्त्रेण दत्त्वा शेषं स्वयं अप्यङ्गीकृत्य सहस्रं एकं मूलमन्त्रं जपेत् ।एवं सप्तदिनपर्यन्तं कुर्यात् ।अष्टम्यां रात्रावर्धरात्रसमये वस्त्रालंकारभूषिता अष्टौ परिवारानादायोपगच्छति ।आगता सा कामयितव्या भार्या वा भवति द्वादशजनानां वस्त्रालंकारभोजनं च ददाति अष्टौ कला नित्यं साधकाय प्रयच्छति ॥अथ कामेश्वरीसाधनं उओं हीं आगच्छ आगच्छ कामेश्वरि स्वाहा ।इह गोरोचनया भूर्जपत्त्रोपरि स्त्रीरूपां प्रतिमां संलिख्य षोडशोपचारैः पञ्चोपचारैर्वा सम्पूज्य ततः शय्यायां एकाकी एकान्ते उपविश्य तन्मना भूत्वा सहस्रं जपेत्ततो मासान्ते तद्बुद्ध्या स्वकीयां भार्यां पूजयेत् ।ततो मधुसर्पिर्भ्यां प्रतिरात्रं दीपं प्रज्वाल्य पश्चान्मौनं कृत्वा मूलमन्त्रं सहस्रसंख्यं जपेत् ।ततोऽर्धरात्रसमये नियतं आगच्छति परं त्वन्याः स्त्रियो वर्जनीयाः ॥अथ रतिप्रियासाधनं उओं हीं आगच्छ आगच्छ रतिकरि स्वाहा ।अत्र पटे चित्ररूपिणी लेख्या वस्त्रकनकालङ्कारभूषिता उत्पलहस्ता कुमरी जातीपुष्पैः प्रपूजनं कुर्यात्गुग्गुलेन धूपं दद्यात्ततोऽष्टसहस्रं प्रत्यहं जपेत् ।मासान्ते तु विधिवत्पूजनं कुर्यात् ।धूपदीपौ प्रज्वालनीयौ ततोऽर्धरात्रसमयेऽवश्यं आगच्छति आगता सा स्त्रीभावेन कामयितव्या भार्या भवति साधकस्य परिवारं पालयति दिव्यं कामिकं भोजनं च ददाति ॥अथ पद्मिनीसाधनं उओं हीं आगच्छ आगच्छ पद्मिनि स्वाहा ।स्वगृहे चन्दनेन मण्डलं कृत्वा शिरःस्थं कारयेत्गुग्गुलेन धूपं दत्त्वा सहस्रं एकं प्रत्यहं जपेत्ततो मासान्ते पौर्णमास्यां रात्रौ विधिवत्पूजां कृत्वा जपेत् ।जपान्तेऽर्धरात्रसमये नियतं आगच्छति आगता सा कामयितव्या भार्या भूत्वा सर्वकामप्रदा भवति रसं रसायनं सिद्धद्रव्यं प्रत्यहं साधकाय प्रयच्छति ॥अथ नटीसाधनं उओं ह्रीं आगच्छ आगच्छ नटि स्वाहा ।अत्राशोकतले गत्वा मत्स्यमांसाद्याहारगन्धपुष्पादिधूपदीपबलिं दत्त्वा सहस्रं प्रत्यहं जपेत्ततः सा मासान्ते नियतं आगच्छति आगता सा माता भगिनी भार्या वा भवति ।यदि माता भवति तदा दिव्यं कामिकं भोजनं ददाति वस्त्रसुगन्धिसुवर्णशतं ददाति च ।यदि भगिनी भवति तदा शतयोजनादुत्तमां स्त्रियं आनीय ददाति ।यदि भार्या भवति तदा दिव्यं वस्त्रं रसायनं अष्टदिनान्तरेण ददाति ॥अथानुरागिणीसाधनं उओं ह्रीं अनुरागिणि आगच्छ आगच्छ स्वाहा ।इह कश्मीरकुङ्कुमेन भूर्जपत्त्रे स्त्रीसदृशीं प्रतिमां विलिख्यावाहनादिकं कृत्वा गन्धपुष्पधूपदीपादिकं दत्त्वा ताम्बूलानि निवेद्य सहस्रं प्रत्यहं जपेत् ।मासं एकं त्रिसंध्यं जपेत्मासान्ते पौर्णमास्यां विधिवत्पूजां कृत्वा घृतदीपं प्रज्वाल्य समग्ररात्रौ मन्त्रं प्रजपेत् ।ततः प्रभातसमये नियतं आगच्छति आगता सा सर्वकामप्रदा भवति दिव्यरसायनानि ददाति प्रत्यहं च दीनाराणां सहस्रं ददाति ।तस्याः प्रसादेन वर्षसहस्राण्यायुश्च भवति ॥अथ षट्त्रिंशद्यक्षिण्यः ।विचित्रा विभ्रमा हंसी भीषणी जनरञ्जिनी ।विशाला मदना घण्टा कालकर्णी महाभया ॥माहेन्द्री शङ्खिनी चान्द्री श्मशाना वटयक्षिणी ।मेखला विकला लक्ष्मीर्मालिनी शतपत्त्रिका ॥सुलोचना सुशोभाढ्या कपालिनी विशालिनी ।नटी कामेश्वरी स्वर्णरेखा च सुरसुन्दरी ॥मनोहरा प्रमोदानुरागिणी नखकेशिका ।भामिनी पद्मिनी चैव स्वर्णावती रतिप्रिया ॥षट्त्रिंशदेता यक्षिण्यः कथिताः सिद्धिकामदाः ।करङ्किणीमते तन्त्रे महादेवेन विस्तरात् ॥आराधनं महत्तासां प्रवक्ष्यामि समासतः ।फलं चैव यथा तुष्टाः प्रयच्छन्ति समाहितं ॥लक्षद्वयं जपेन्मन्त्रं वटवृक्षतले शुचिः ।पश्चाच्चम्पकपुष्पैश्च होमं मधुघृतान्वितं ॥कुर्याद्दशांशतो मन्त्री शंकरेणोदितं यथा ।ततः सिद्धा भवेद्देवि विचित्रा वाञ्छितप्रदा ॥उओं विचित्रे चित्ररूपिणि मे सिद्धिं कुरु स्वाहा ।इति मन्त्रः ।लक्षद्वयं जपेन्मन्त्रं श्मशाने निभृते निशि ।घृताक्तैर्गुग्गुलैर्होमे दशांशेन कृते सति ॥विभ्रमा तोषं आयाति पञ्चाशन्मानुषैः समं ।ददाति भोजनं द्रव्यं प्रत्यहं शंकरोऽब्रवीत् ॥उओं ह्रीं विभ्रमे विभ्रमङ्गरूपे विभ्रमं कुरु भगवति स्वाहा ।प्रदेशे नगरस्याथ लक्षसंख्यं जपेन्मनुं ।पद्मपत्त्रैर्घृतोपेतैः कृते होमे दशांशतः ॥प्रयच्छत्यञ्जनं हंसी येन पश्यति भूनिधिं ।सुखेन तं च गृह्णाति न विघ्नैः परिभूयते ॥उओं द्रीं नमो हंसि हंसवाहिनी क्लीं क्लीं स्वाहा ।त्रिपथस्थो जपेन्मन्त्रं लक्षसंख्यं दशांशतः ।उओं श्रीं द्रीं वटवासिनि यक्षकुलप्रसूते वटयक्षिणि एह्येहि स्वाहा ।मधूकवृक्षतले मन्त्रं चतुर्दशदिनावधि ।प्रजपेन्मेखला तुष्टा ददात्यञ्जनं उत्तमं ॥उओं द्रीं हुं मदनमेखलायै मदनविडम्बनायै नमः स्वाहा ।गुहान्तःस्थोऽधरे मासत्रयं मन्त्रं जपेन्नरः ।ततः सिद्धा भवेद्देवि विकला वाञ्छितप्रदा ॥ओं विकले ऐं ह्रीं श्रीं क्लीं स्वाहा ।स्वगृहावस्थितो रक्तैः प्रसूनैः करवीरजैः ।लक्षं आवर्तयेन्मन्त्री दूर्वाज्याभ्यां दशांशतः ॥होमे कृते भवेत्सिद्धा लक्ष्मीनम्नी च यक्षिणी ।रसं रसायनं दिव्यं निधानं च प्रयच्छति ॥उओं ऐं ह्रीं श्रीं लक्ष्मि कमलधारिणि हंसः सोऽहं स्वाहा ।चतुष्पथस्थितो लक्षं आपदि प्रजपेन्मनुं ।मालिनी जायते सिद्धा दिव्यं खङ्गं प्रयच्छति ॥यत्प्रभावेन लोकेऽस्मिन्दुर्लभं राज्यं आप्नुयात् ।उओं द्रीं उओं नमो मालिनी स्त्रि एह्येहि सुन्दरि हंसहंसि समीहां मे सङ्गभय स्वाहा ।शतपत्त्रवने यस्तु मन्त्रलक्षं जपेन्मुनिः ।क्षीराज्यहोमैः संसिद्धा सिद्धिं यच्छति भूनिधिं ॥उओं द्रीं शतपत्त्रिके द्रीं द्रीं श्रीं स्वाहा ।नदीतीरस्थितो लक्षत्रयं मन्त्री जपेन्मनुं ।घृतहोमे दशांशेन कृते देवी प्रसीदति ॥ददाति पादुकां तस्मै यथारुचि नभस्तले ।मनःपवनवेगेन याति चायाति साधकः ॥उओं द्रीं क्लीं सुलोचने सिद्धिं मे देहि देहि स्वाहा ।रक्ताम्बरधरो मन्त्री चतुर्दशदिनावधि ।जपेत्सिद्धा भवेद्देवी शोभना भोगदायिनी ॥उओं द्रीं अशोकपल्लवकरतले शोभने श्रीं क्षः स्वाहा ।महाव्रतधरो मन्त्री यः शाल्योदनभोजनैः ।लक्षद्वयं जपेन्मन्त्रं कपालं लभते मुनिः ॥आकाशगमनं दूरात्स्वप्नरूपसमागमः ।दूराद्दर्शनं इत्यादि साधकाय प्रयच्छति ॥उओं ऐं कपालिनी द्रां द्रीं क्लां क्लीं क्लूं क्लैं क्ल्ॐ क्लः हंसः सोऽहं सकलह्रीं फट्स्वाहा ।सरित्तीरे जपेन्मन्त्रं अर्धं लक्षस्य देशिकः ।घृताक्तगुग्गुलैर्होमे देवी सौभाग्यदा भवेत् ॥ओं वरयक्षिणी वरयक्षविशालिनि आगच्छ प्रियं मे भवतु हैमे भव स्वाहा ।पुण्याशोकतलं गत्वा चन्दनेन सुमण्डलं ।कृत्वा चाभ्यर्चयेद्देवीं धूपं दत्त्वा सहस्रकं ॥मन्त्रं आराधयेन्मासं नक्तंभोजी रसः सदा ।रात्रौ पूजां शुभां कृत्वा जपेन्मन्त्रं मुनिव्रतः ॥नटी देवी समागत्य निधानं रसं अञ्जनं ।ददाति मन्त्रिणे मन्त्रं दिव्ययोगं च सिद्धिदं ॥उओं द्रीं नटि महानटि रूपवति द्रीं स्वाहा ।एकासने शुचौ देशे त्रिसंध्यं त्रिसहस्रकं ।मासं एकं जपेन्मन्त्रं तदा पूजां समारभेत् ॥पुष्पैर्धूपैश्च नैवेद्यैः प्रदीपैर्घृतपूरितैः ।रात्रौ देवीं समभ्यर्च्य जपेन्मन्त्रं प्रसन्नधीः ॥अर्धरात्रे गते देवी समागत्य प्रयच्छति ।रसं रसायनं दिव्यं वस्त्रालंकरणानि च ॥उओं ह्रीं आगच्छ आगच्छ कामेश्वरि स्वाहा ।नदीतीरे शुभे रम्ये चन्दनेन सुमण्डलं ।विधाय पूजयेद्देवीं ततो मन्त्रायुतं जपेत् ॥एकविंशतिघस्रान्तं प्रसन्ना वितरेत्सदा ।अर्धरात्रे गते देवी दीनाराणां सहस्रकं ॥ददाति प्रत्यहं तस्मै व्ययं कुर्याद्दिने दिने ।तद्व्ययाभावतो भूयो न ददाति प्रकुप्यति ॥उओं हीं सर्वकामदे मनोहरे स्वाहा ।अर्धरात्रे समुत्थाय सहस्रं प्रजपेन्मनुं ।मासं एकं ततो देवी निधिं दर्शयति ध्रुवं ॥ओं ह्रीं प्रमोदायै स्वाहा ।कुङ्कुमेन समालिख्य भूर्जे देवीं सुलक्षणां ।प्रतिपत्तिथिं आरभ्य धूपदीपादिभिर्वरां ॥कृत्वा देवीं सहस्रं च त्रिसंध्यं परिवर्तयेत् ।मासं एकं ततः पूजां रात्रौ कृत्वा पुनर्जपेत् ॥अर्धरात्रे गते देवी समागत्य प्रयच्छति ।दीनाराणां सहस्रैकं प्रत्यहं परितोषिता ॥उओं अनुरागिणि मैथुनप्रिये यक्षकुलप्रसूते स्वाहा ।गत्वा पक्षिगृहं मन्त्री नखकेशैः प्रपूजयेत् ॥दिनैकविंशतिर्यावत्पूजां कृत्वा ततो निशि ।आवर्तयेदेकचित्तो मन्त्री मन्त्रं सुसंयतः ॥निशार्धे वाञ्छितं कार्यं देव्यागत्य प्रयच्छति ।उओं हीं नखकेशिके स्वाहा ।दिनत्रयं अनाहरी सोमसूर्यग्रहे सति ॥स्पर्शाद्विमुक्तिपर्यन्तं जपेत्तद्गतमानसः ।ततः प्रसन्ना सा देवी यच्छत्यञ्जनं उत्तमं ॥तेनाञ्जितो नरोऽदृश्यं निधिं पश्यति भूगतं ।उओं हीं यक्षिणि भामिनि रतिप्रिये स्वाहा ।वटवृक्षतले कृत्वा चन्दनेन सुमण्डलं ॥यक्षिणीं पूजयित्वा तु नैवेद्यं उपदर्शयेत् ।शशमांसं घृतं चीरं मन्त्रं आवर्तयेत्ततः ॥दिने दिने सहस्रैकं यावत्सप्तदिनं भवेत् ।अथागत्य सदा तस्मै मन्त्रं अञ्जनमुत्तमं ॥यत्प्रभावान्तरे सर्वं पश्येन्निधिं अशङ्कितः ।उओं ह्रीं आगच्छ स्वर्णावति स्वाहा ।शङ्खलिप्तपटे यस्माद्देवीं गौरीं धृतोत्पलां ॥सर्वालंकारिणीं दिव्यां समालिख्यार्चयेन्नरः ।जातीपुष्पैः प्रपूज्याथ सहस्रं परिवर्तयेत् ॥सप्ताहं मन्त्रवित्तस्याः कुर्यादर्चां शुभां ततः ।अर्धरात्रे गते देवी समागत्य प्रयच्छति ॥पञ्चविंशतिदीनारान्प्रत्यहं परितोषिता ।वाञ्छितं मनसस्तस्मै मन्त्रज्ञाय न संशयः ॥उओं उओं हीं रतिप्रिये स्वाहा । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP