उत्तर गीता भाष्य - द्वितीयोऽध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


अरूढस्यारुरुक्षोश्च स्वरूपे परिकीर्तिते । तत्रारूढस्य बिम्बैक्यं कथं स्यादिति पृच्छति॥ अर्जुन उवाच--- ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञं परमेश्वरम् । अहं ब्रह्मेति निर्देष्टुं प्रमाणं किं भवेत् ॥१॥ हे भगवन् ब्रह्म बिम्बभूतं चैतन्यं सर्वगतं सर्वत्र परिपूर्णं सर्वज्ञं सर्वसाक्षिभूतं परमेश्वरं सर्वनियामकमिति ज्ञात्वा तत्त्वमसीत्यादिवाक्यतो विबुध्य अहं ब्रह्मेति , प्रतिबिम्बात्मा जीवः ब्रह्मेति निर्देष्टुं वक्तुं तत्र तस्मिन्नैक्ये किं प्रमाणं किमुपपादकमित्यर्थः॥ एवं पृष्टो भगवान् क्षीरजलादिदृष्टान्तेन उपाधिनिवृत्तावात्मैक्यं सम्भवतीत्याह--- श्रीभगवानुवाच--- यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् । अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः ॥२॥ जले नद्यादौ जलं तदेव पात्रादुद्धृतं पात्रोपाधितः पृथक्भूतं तत्रैव क्षिप्ते पात्रोपाधिनिवृत्तौ महाजलैक्यं प्राप्नोति , एवं क्षीरे क्षीरं घृते घृतं क्षिप्तं सत् तत्तदैक्यं प्राप्नोति , तद्वत् जीवात्मपरमात्मनोः अविद्या- द्युपाधितो भेदेऽपि तन्निवृत्तावविशेषः सम्भवतीति भावः॥ एवमैक्यज्ञानं गुरुमुखादेव सम्भावितमविद्या- निवर्तकम् , न तु स्वतन्त्रविचारसम्भावितमिति वदन् तत्त्व- ज्ञानार्थं गुरुमेव अभिगच्छेदिति गुरूपासनामाह--- जीवे परेण तादात्म्यं सर्वगं ज्योतिरीश्वरम् । प्रमाणलक्षणैर्ज्ञेयं स्वयमेकाग्रवेदिना ॥३॥ स्वयमधिकारी एकाग्रवेदिना ब्रह्मनिष्ठेन गुरुणा प्रमाणलक्षणैः 'तत्त्वमसि ''यतो वा इमानि भूतानि ''यः सर्वज्ञः सर्ववित् 'इत्यादिभिः जीवे परेण परमात्मना तादात्म्यम् ऐक्यं बोधिते सति , तदनन्तरं स्वयमेव सर्वगं सर्वव्यापिनमीश्वरं सर्वनियन्तारं ज्योतिः स्वयम्प्रकाशात्मा इति विज्ञेयं ज्ञातुं योग्यमित्यर्थः॥ एवं गुरूपदेशानन्तरभविज्ञानेननैवोपपत्तौ किं कर्मयोगेनेति पृच्छति--- अर्जुन उवाच--- ज्ञानादेव भवेज्ज्ञेयं विदित्वा तत्क्षणेन तु । ज्ञानमात्रेण मुच्येत किं पुनर्योगधारणा ॥४॥ हे भगवन् ज्ञेयं विचार्यं ब्रह्मैक्यं ज्ञानादेव गुरूपदिष्टादेव भवेत् ; तथा च विदित्वा गुरूपदेशानन्तरं तत्त्वं ज्ञात्वा तत्क्षणेन तु वेदान्तवाक्यजन्यचरमवृत्त्युत्तर- क्षणमेव मुच्येत मुक्तो भवेत् ; एवं ज्ञानमात्रेण मुक्त्युपपत्तौ योगधारणाकर्मयोगाभ्यासः किं पुनः किं प्रयोजनम् व्यर्थ- त्वादित्यभिप्रायः॥ एवं कर्मयोगवैयर्थ्ये शङ्किते यावत्तत्त्वज्ञानं न सम्भवति , तावदन्तःकरणशुद्ध्यर्थमनुष्ठेयं कर्म ; सिद्धे च तस्मिन् ज्ञाने , पुनः कर्मानुष्ठानं मा भूत् इत्याह--- श्रीभगवानुवाच--- ज्ञानेन दीपिते देहे बुद्धिर्ब्रह्मसमन्विता । ब्रह्मज्ञानाग्निना विद्वान्निर्दहेत्कर्मबन्धनम् ॥५॥ हे अर्जुन विद्वान् विवेकी ज्ञानेन देहे लिङ्गशरीरे दीपिते शुद्धे , ततः बुद्धिः निश्चयात्मिका ब्रह्मसमन्विता चेत् ब्रह्मणि स्थिथा असम्भावनारहिता चेत् , तदनन्तरं ब्रह्मज्ञानाग्निना ब्रह्मज्ञानानलेन कर्मबन्धनं कर्मपाशं निर्दहेत् त्यजेदित्यर्थः । तदुक्तम्---'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन 'इति॥ एवं प्राप्ततत्त्वैकस्य ततः परं किमपि न कार्यमित्याह--- ततः पवित्रं परमेश्वराख्य- मद्वैतरूपं विमलाम्बराभम् । यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थः॥६॥ ततः तत्त्वज्ञानानन्तरम् उदके महोदके अनुप्रविष्टम् ऐक्यं गतं तोयं परिच्छिन्नोदकम् , तद्वत् पवित्रं शुद्धम् परमेश्वराख्यं परमेश्वरसज्ञं तथापि विमलाम्बराभं निर्मलाकाशवदसङ्गम् अद्वैतरूपं सजातीयविजातीयस्वगत- भेदरहितं ब्रह्म परं ब्रह्म अनुप्रविष्टः तदैक्यं गतः अत एव परमात्मरूपः सन् निरुपाधिसंस्थो भवेत् औपाधिक- कर्तृत्वादिभेदरहितो भवेत् , स्वयं निष्क्रिय आसीतेत्यर्थः ; गुणा गुणेषु वर्तन्ते इति न्यायादिति भावः॥ एवं यथोक्तकर्मानुष्ठानद्वारा तत्त्वज्ञाने जात एव परमात्मतत्त्वं ज्ञातुं शक्यम् , न ततः पूर्वैत्याह--- आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा । स बाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कया पश्यति चान्तरात्मा॥७॥ आकाशवत् सूक्ष्मशरीरः आकाशं यथातीन्द्रियम् , तद्वत् परमात्मा सूक्ष्मशरीरः , सूक्ष्मत्वमत्र अतीन्द्रियत्व- मभिप्रेतम् , तादृशः परमात्मा वायुवत् वायुर्यथा चक्षुरादिविषयो न , तद्वत् अन्तरात्मा जीवोऽपि न दृश्यते , तत्स्वरूपमपीन्द्रियविषयं न भवतीत्यर्थः , मनसोऽप्रमाणत्वसाधनादिति भावः । तर्हि तयोः अपरोक्षतत्त्वज्ञानं केनेत्यत आह---स बाह्यमभ्यन्तरनिश्चलात्म विषयविक्षिप्तचित्तो न भवति , सः ज्ञानोल्कया वेदान्तजन्यतत्त्वापरोक्षवृत्तिरूपज्ञानदीपेन अन्तरात्मा अन्तर्मुखचित्तः पश्यति तदुभयैक्यं जानातीत्यर्थः॥ इह केषाञ्चिद्दर्शनं अर्चिरादिमार्गेण लोकान्तरप्राप्तिः मुक्तिः इति , तन्निराकर्तुम् 'अत्र ब्रह्म समश्नुते ' इत्यादि श्रुत्या पूर्वोक्तज्ञानिनो मुक्तिस्वरूपमाह--- यत्र यत्र मृतो ज्ञानी येन केनापि मृत्युना । यथा सर्वगतं व्योम तत्र तत्र लयं गतः॥८॥ सर्वगतं सर्ववस्त्ववच्छिन्नं व्योम आकाशं यथा अवच्छेदकवस्तुनाशे तत्रैव महाव्योम्नि लयम् ऐक्यं प्राप्नोति , तथा सर्वगतः ज्ञानी सर्वत्र परिपूर्णब्रह्माभिन्नः शरीराद्युपाधिना भिन्नत्वेन व्यवह्रियमाणः ब्रह्मापरोक्ष- ज्ञानी येन केन मृत्युना यत्र कुत्रापि वा मृतः अज्ञानोपादानक- देहं ज्ञानेन नाशयति , तत्र तत्रैव ब्रह्मणि लयम् ऐक्यं गतः प्राप्त एवेत्यर्थः । अनेन तत्त्वज्ञानिनो देशकालाद्यपेक्षा मरणे मा भूदिति सूचितम् । भृग्वग्न्याद्यपमृत्युनिमित्तक- प्रायश्चित्तान्यपि आरुरुक्ष्वधिकृतानि इति वेदितव्यम्॥ एकस्यापि जीवस्य देहाद्यवच्छेदकभेदेन नानात्वं जीव- स्याणुत्वपक्षे न सम्भवतीत्याशङ्क्य जीवस्य व्यापित्वं साधयति --- शरीरव्यापितं व्योम भुवनानि चतुर्दश । निश्चलो निर्मलो देही सर्वव्यापी निरञ्जनः॥९॥ शरीरव्यापितं शरीरादिसर्वद्रव्यव्यापितं व्योमं आकाशं यथा भुवनानि चतुर्दश भूर्भुवरादीनि व्यापितं सत् वर्तते , एवं निश्चलः क्रियारहितः निर्मलः परिशुद्धः निरञ्जनः स्वयं- प्रकाशो देही जीवः सर्वव्यापी जगद्व्यापीत्यर्थः । जगन्मात्रस्य अविद्यापरिणामत्वेन जगदुपादानाविद्याप्रतिबिम्बस्यैव जीवत्वेन तस्य व्यापित्वमेव नाणुत्वमिति भावः॥ एवं तत्त्वज्ञानिनो मुक्तिस्वरूपमभिधाय ततः परं तत्त्व- ज्ञानसाधनानुष्ठातुः तदेव सर्वपापप्रायश्चित्तमित्याह- -- मुहूर्तमपि यो गच्छेन्नासाग्रे मनसा सह । सर्वं तरति पाप्मानं तस्य जन्म शतार्जितम् ॥१०॥ यः ज्ञानसाधनानुष्ठाता मनसा सह साधनेन सह मुहूर्तमात्रमपि नासाग्रे गच्छेत् नासाग्रे तत्त्वज्ञानार्थं निश्चलं चक्षुः कुर्यात् , तस्य तादृशहंसमुद्रानिष्ठस्य जन्मशतार्जितं अनेकजन्मसंचितं सर्वं यत्पापमस्ति तत्सर्वं पाप्मानं पापं योगी तरति नाशयतीत्यर्थः । तदुक्तम् 'यस्य ब्रह्मविचारणं क्षणमपि प्राप्नोति धैर्यं मनः '' कुलं पवित्रं जननी कृतार्था विश्वम्भरा पुण्यवती च तेन 'इत्यादि--- मुक्तिः द्विविधा---सद्यो मुक्तिः क्रममुक्तिरिति , तत्र सद्यो मुक्तिः 'यत्र यत्र मृतो योगी 'इत्यादिना, 'अत्र ब्रह्म समश्नुते ' इत्यादि श्रुत्या च , प्रतिपादिता । 'ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं परम् ' इत्यादिभिः प्रतिपादितां क्रममुक्तिं निरूपयितुम् , अर्चिरादिमार्गं गन्तुः पुनरावृत्तिराहित्यम् , धूमादिमार्गं गन्तुः पुनरावृत्तिं च , निरूपयितुं योगधारणया तदुभयमार्गस्वरूपमाह--- दक्षिणे पिङ्गला नाडी वह्निमण्डलगोचरा । देवयानमिति ज्ञेया पुण्यकर्मानुसारिणी ॥११॥ दक्षिणे देअहस्य दक्षिणे भागे वह्निमण्डलगोचरा वह्नि- मण्डलं सम्प्राप्ता पुण्यकर्मानुसारिणी पुण्यकर्मभिः प्राप्तुं योग्या पिङ्गला नाम नाडी मूलाधारादारभ्य दक्षिणभागतः सहस्रारपर्यन्तं व्यामा या नाडी सा देवयानमिति ज्ञेया पुनरा- वृत्तिरहितार्चिरादिमार्ग इति ज्ञेयत्यर्थः॥ धूमादिमार्गप्रापकेलानाडीस्वरूपमाह--- इला च वामनिश्वाससोममण्डलगोचरा । पितृयानमिति ज्ञेयं वाममाश्रित्य तिष्ठति ॥१२॥ इलानाडी वामनिश्वाससोममण्डलगोचरा वामनासापुट- मार्गेण चन्द्रमण्डलं प्राप्ता वाममाश्रित्य तिष्ठति , मूला- धारादारभ्य वामभागतः सहस्रारपर्यन्तं गता या नाडी सा पितृयानमिति ज्ञेया पुनरावृत्त्यनुकूलधूममार्ग इति ज्ञेयेत्यर्थः॥ एवमिलापिङ्गलानाड्योः स्थानं स्वरूपं च अभिधाय सुषुम्नानाडीस्वरूपं निरूपयितुं तत्सम्बन्धिन्याः ब्रह्म- दण्ड्याः स्वरूपमाह--- गुदस्य पृष्ठभागेऽस्मिन्वीणादण्डस्य देहभृत् । दीर्घास्ति मूर्ध्निपर्यन्तं ब्रह्मदण्डीति कथ्यते ॥१३॥ अस्मिन् देहे गुदस्य मूलाधारस्य पृष्ठभागे पश्चिम- भागे वीणादण्डस्य देहभृत् वीणायास्तन्त्र्याधारभूतो यो दण्डः तदाकारभृत् तद्वत्स्थितं मूर्ध्निपर्यन्तं सहस्रारपर्यन्तव्याप्तं यद्दीर्घास्ति दीर्घं पृष्ठभाग- स्थितम् , तत् ब्रह्मनाडीति कथ्यते ब्रह्मैक्यप्रतिपादकसुषुम्ना- धारत्वादिति भावः॥ इतः परं सुषुम्नानाडीस्वरूपमाह--- तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः । तस्य ब्रह्मदण्ड्याख्यास्थ्नः अन्ते अग्रे सूक्ष्मं सुषिरं रन्ध्रं वर्तत इति शेषः , तद्गता नाडी सूरिभिः विवेकिभिः ब्रह्मनाडीति ब्रह्मैक्यप्रतिपादिका नाडीति कथ्यत इति शेषः॥ तामेव नाडीं निरूपयति--- इलापिङ्गलयोर्मध्ये सुषुम्ना सूक्ष्मरूपिणी । सर्वं प्रतिष्ठितं यस्मिन्सर्वगं सर्वतोमुखम् ॥१४॥ इलापिङ्गलनाड्योर्मध्ये सूक्ष्मरूपिणी अतिसूक्ष्मबिस- तन्तुरूप्णी मूलाधारादारभ्य स्वाधिष्ठानादिचक्रद्वारा सहस्रारपर्यन्तं गता कुण्डलिनी शक्तिरिति प्रसिद्धा या सुषुम्ना नाडी , तस्याः अग्रे उपरि सर्वं सर्वात्मकं विश्वतोमुखं सर्व- द्रष्टृ सर्वगं सर्वव्याप्तं यत्तेजः ब्रह्मज्योतिः , तत् प्रतिष्ठितं विद्यत इत्यर्थः , 'तस्याः शिखाया मध्ये ' इति श्रुतेः । 'शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति--- ' इत्यादिश्रुतेः । सुषुम्नामार्गगतस्य ब्रह्मप्राप्तिं निरूपयितुं तस्याः कुण्डलिन्याः सकलजगदात्मकत्वं सकलजगदाधारत्वं सर्व- देवात्मत्वं सर्ववेदाधारकत्वं च आह--- तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः । भूतलोका दिशः क्षेत्रसमुद्राः पर्वताः शिलाः ॥१५॥ द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः । स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः ॥१६॥ बीजं बीजात्मकास्तेषां क्षेत्रज्ञाः प्राणवायवः । सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् ॥१७॥ सूर्यसोमाग्निपरमेश्वराः सूर्यमण्डलसोममण्डल- वह्निमण्डलानि तन्मध्यस्थितेश्वरश्च , भूतलोकाः पञ्च- महाभूतानि व्योमादीनि , चतुर्दश भुवनानि भूर्भुवः- सुवरादीनि , दिशः पूर्वादयः , क्षेत्राणि वाराणस्यादीनि , समुद्राः लवणेक्ष्वादयः , पर्वताश्च मेर्वादयः , शिलाः यज्ञशिलाः चित्तशिलादयः , द्वीपाः जम्ब्वादयः , निम्नगाः जाह्नव्यादयः , वेदाः ऋग्वेदादयः , शास्त्राणि मीमांसादीनि , कलाः चतुःषष्टिकलाः , अक्षराः ककारादीनि , स्वराः अकारादयः , मन्त्राः गायत्र्यादयः , पुराणानि ब्रह्माण्डादीनि , गुणाः सत्त्वादयः , बीजं प्रधानम् , बीजात्मकाः महदादयः , क्षेत्रं जानन्तीति क्षेत्रज्ञाः जीवाः , प्राणवायवः--- प्राणादयः पञ्चनागादयः पञ्च आहत्य दशवायवः , सर्व एते तस्य सुषुम्नानाडीविशेषस्य मध्यगताः यस्मात् , तस्मात्कारणात् सर्वं जगज्जातं सुषुम्नान्तर्गतं कुण्डलिनीशक्त्यन्तर्भूत- मित्यर्थः । अत एव तस्मिन् सर्वं प्रतिष्ठितम् इति , ' तस्यान्ते सुषिरँ सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम् 'इति श्रुतेः॥ तस्मात्सर्वजगदुत्पत्तिकारणमाह--- नानानाडीप्रसवकं सर्वभूतान्तरात्मनि । ऊर्ध्वमूलमधः शाखं वायुमार्गेण सर्वगम् ॥१८॥ सर्वभूतानां सर्वप्राणिनां अन्तरात्मनि देहे नाना- नाडीप्रसवकं नानानाड्युत्पत्तिस्थानभूतम् , ऊर्ध्वमूलं ऊर्ध्वं ब्रह्म तदेव मूलं उत्पत्तिस्थानं यस्य तत् , अधः- शाखं हिरण्यगर्भादिसृष्टिपरम्पराख्यादधः प्रसृत- तिर्यगादिशाखम् , वायुमार्गेण प्राणापानादिवायुमार्गेण , सर्वगं सर्वव्याप्तं सत् जगदुपादानतया तिष्ठतीत्यर्थः॥ ब्रह्मोपासनस्थानतया इतरनाड्याधिक्यमाह--- द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः । कर्ममार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मकाः ॥१९॥ अधश्चोर्ध्वगतास्तासु नवद्वाराणि शोधयन् । वायुना सह जीवोर्ध्वज्ञानी मोक्षमवाप्नुयात् ॥२०॥ वायुगोचराः वायुसंचारानुकूलाः नाड्यः सिराः द्विसप्ततिसहस्राणि द्वयाधिकसप्ततिसहस्राणि कर्ममार्गेण सुषिराः पुनरावृत्तिप्रापकसुषिरवत्यः ; अत एव तिर्यञ्चः तिर्यग्भूताः सुषिरात्मकाः रन्ध्रप्रधानाः अधश्चोर्ध्व- गताः अधोभागमूर्ध्वभागं च गताः सर्वत्र व्याप्ताः ; तासु नाडीषु मध्ये सुषुम्नानाड्या नव द्वाराणि शिधयन् प्राणायामेन मुखादिसर्वद्वाराणि शोधयन् ; जीवः वायुना सह ऊर्ध्वज्ञानी ब्रह्मापरोक्षज्ञानी सन् मोक्षमवाप्नुयात् ब्रह्मैक्यं प्राप्नुयादित्यर्थः । 'तयोर्ध्वमायन्नमृतत्व- मेति 'इत्यादिश्रुतेरिति भावः॥ तस्याः कुण्डलिन्याः सकलजगदाधारकत्वेन च उपासनां कर्तुमस्यामेव सर्वाणीन्द्रादिपुराणि कल्पयति--- अमरावतीन्द्रलोकोऽस्मिन्नासाग्रे पूर्वतो दिशि । अग्निलोको हृदि ज्ञेयश्चक्षुस्तेजोवती पुरी ॥२१॥ अस्मिन्नाडीविशेषे पूर्वतो दिशि पूर्वस्यां दिशि नासाग्रे नासिकाग्रभागे अमरावती अमरावत्याख्यः इन्द्रलोकः इन्द्रादि- देवावासभूतो लोकः वर्तत इति शेषः । तथा अनन्तरं चक्षुः दक्षिणं नेत्रं तेजोवती तेजोवती नाम पुरीति प्रसिद्ध , हृदि हृदये अग्निलोकः अग्न्यादिदेवावासभूतो लोकः ज्ञेयः वर्तत इति शेषः॥ याम्या संयमनी श्रोत्रे यमलोकः प्रतिष्ठितः । नैरृतो ह्यथ तत्पार्श्वे नैरृतो लोक आश्रितः ॥२२॥ श्रोत्रे दक्षिणे कर्णे याम्या यमसम्बन्धिनी संयमिन्याख्यो यमलोकः यमादिदेववासभूतो लोकः प्रतिष्ठितः अस्तीत्यर्थः । अथ तत्पार्श्वे दक्षिणकर्णभागे नैरृतः निरृतिसम्बन्धो नैरृत्याख्यो लोकः आश्रितः अस्तीत्यर्थः॥ किंच--- विभावरी प्रतीच्यां तु पृष्ठे वारुणिका पुरी । वायोर्गन्धवती कर्णपार्श्वे लोकः प्रतिष्ठितः ॥२३॥ प्रतीच्यां पश्चिमदिशि पृष्ठे पश्चिमभागे विबावरी- सञ्ज्ञका वारुणिका पुरी वरुणसम्बन्धिनी पुरी वर्तत इति शेषः ; कर्णपार्श्वे वामकर्णसमीपे गन्धवती गन्ध्वतीपुर्याख्या वायोर्लोकः प्रतिष्ठितः अस्तीत्यर्थः॥ किंच--- सौम्या पुष्पवती सौम्ये सोमलोकस्तु कण्ठतः । वामकर्णे तु विज्ञेयो देहमाश्रित्य तिष्ठति ॥२४॥ सौम्ये उत्तरदिशि कण्ठतः कण्ठदेशादारभ्य वामकर्णे वामश्रोत्रे सौम्या कुबेरसम्बन्धिनी पुष्पवती पुष्पवत्याख्या सोमलोकः एवं देहमाश्रित्य तिष्ठतीति विज्ञेयः॥ किंच--- वामे चक्षुषि चैशानी शिवलोको मनोन्मनी । मूर्ध्नि ब्रह्मपुरी ज्ञेया ब्रह्माण्डं देहमाश्रितम् ॥२५॥ वामे चक्षुषि वामनेत्रे ऐशानी ईशानसम्बन्धिनी मनोन्मनी मनोन्मनीपुर्याख्यः शिवलोकः शिवावासभूतो लोकः ज्ञेयः ; मूर्ध्नि शिरसि ब्रह्मपुरी ब्रह्मलोकः ज्ञेयः ; एवं ब्रह्माण्डं सर्वजगज्जातं देहमाश्रितं देह एव वर्तत इत्यर्थः॥ देहे एव लोकादिकल्पनामाह--- पादादधः शिवोऽनन्तः कालाग्निप्रलयात्मकः । अनामयमधश्चोर्ध्वं मध्यमं तु बहिः शिवम् ॥२६॥ पादादधः पादाधःप्रदेशे अनन्तः महाशेषः वर्तते , स तु कीदृशः ?शिवः रुद्रात्मकः ; पुनः कीदृशः ? कालाग्निप्रलयात्मकः प्रलयकालाग्न्यात्मक इत्यर्थः ; ' त्रिलोक्यां दह्यमानायां संकर्षणमुखाग्निना 'इति स्मृतेरिति भावः । तदधः किमित्याशङ्क्याह---अधश्चोर्ध्वमिति अधोदेशे ऊर्ध्व- देशे मध्यदेशे बहिर्देशे च सर्वत्र अनामयं निरञ्जनं शिवं मङ्गलात्मकं ब्रह्मैव वर्तत इत्यर्थः॥ शेषोपरि अतलादिलोककल्पनामाह--- अधः पदोऽतलं विद्यात्पादं च वितलं विदुः । नितलं पादसन्धिश्च सुतलं जङ्घमुच्यते ॥२७॥ महातलं तु जानु स्यादूरुदेशो रसातलम् । कटिस्तालतलं प्रोक्तं सप्त पातालसञ्ज्ञया ॥२८॥ पदः पादस्याधोदेशे अतललोकं विद्यात् ; पादं तु वितलं लोकमिति विदुः योगिन इति शेषः ; पादसन्धिं तु गुल्फस्थानं नितलं विद्यात् ; जङ्घं सुतलमित्युच्यते ; जानुदेशः महातलं स्यात् ; ऊरुदेशः रसातलं विद्यात् ; कटिदेशः तलातलं प्रोक्तम् ; एवं देहावयवाः सप्त पातालादिलोकसञ्ज्ञया कल्पनीया इत्यर्थः॥ किंच--- कालाग्निनरकं घोरं महापातालसञ्ज्ञया । पातालं नाभ्यधोभागो भोगीन्द्रफणिमण्डलम् ॥२९॥ वेष्टितः सर्वतोऽनन्तः स बिभ्रज्जीवसञ्ज्ञकः । घोरं भयंकरं कालाग्निनरकं कालाग्निदेशवत् कालाग्न्या- कारसह्यनरकदेशवत् भोगीन्द्रफणिमण्डलं भोगीन्द्राः सर्पराजानः फणयः इतरे सर्पाः तेषां मण्डलं समूहवत् यत् पातालम् , तत् नाभ्यधोभागे नाभ्यधःप्रदेशे महापातालसञ्ज्ञया अभिहितमिति विद्यात् ; स जीवसञ्ज्ञकः जीवसञ्ज्ञावान् शेषः सर्वतः सर्वं वेष्टितः सन् बिभ्रन्सन् स्थितः कुण्डलाकारेणावृत्य वर्तत इत्यर्थः॥ भूलोकं नाभिदेशं तु भुवर्लोकं तु कुक्षितः ॥३०॥ हृदयं स्वर्गलोकं विद्यात् , तत्र सूर्यादिग्रहाः नक्षत्राणि च तिष्ठन्तीत्यर्थः । शेषं स्पष्टम्॥ किंच--- हृदयं स्वर्गलोकं तु सूर्यादिग्रहतारकाः । सूर्यसोमसुनक्षत्रं बुधशुक्रकुजाङ्गिराः ॥३१॥ मन्दश्च सप्तमो ह्येष ध्रुवोऽतः स्वर्गलोकतः । सूर्यसोमेत्यादि सूर्यादिग्रहनक्षत्रमित्यस्य व्याख्यानम् । ध्रुवोऽन्तः स्वर्गलोकतः स्वर्गलोकस्यान्ते ध्रुवो वर्तत इत्यर्थः॥ एवं कल्पनाफलमाह हृदये कल्पयन्योगी तस्मिन्सर्वसुखं लभेत् ॥३२॥ योगी हृदये एव सूर्यादिग्रहनक्षत्रादीनि कल्पयन् तस्मिन् हृदि कल्पनाविशेषेण सर्वसुखं लभेत् ; तत्तल्लोकगतसुखानि प्राप्नोतीत्यर्थः॥ किंच--- हृदयस्य महर्लोकं जनोलोकं तु कण्ठतः । तपोलोकं भ्रुवोर्मध्ये मूर्ध्नि सत्यं प्रतिष्ठितम् ॥३३॥ हृदयस्योपरीति शेषः । स्पष्टमन्यत्॥ एवं देहे एव सर्वलोककल्पनामुक्त्वा तल्लयप्रकारमाह- -- ब्रह्माण्डरूपिणी पृथ्वी तोयमध्ये विलीयते । अग्निना पच्यते तोयं वायुना ग्रस्यतेऽनलः ॥३४॥ आकाशं तु पिबेद्वायुं मनश्चाकाशमेव च । बुद्ध्यहङ्कारचित्तं च क्षेत्रज्ञः परमात्मनि ॥३५॥ अत्र तामसाहङ्कारकार्याणां पृथिव्यादीनां सात्त्विक- अहङ्कारकार्ये मनसि क्रमेण लयकथनं मनोवृत्तिविषय- त्वादुपचारात् इति मन्तव्यम् । तच्च मनो बुद्धौ बुद्धि- रहङ्कारे अह्ङ्कारं चित्ते चित्तं क्षेत्रज्ञे क्षेत्रज्ञः परमात्मनि एवं सर्वात्मनि प्रविलापयेदित्यर्थः॥ एवं योगाभ्यासेन ब्रह्मैक्यानुसन्धानवतः सकल- दुरितनिवृत्तिरित्याह--- अहं ब्रह्मेति मां ध्यायेदेकाग्रमनसा सकृत् । सर्वं तरति पाप्मानं कल्पकोटिशतैः कृतम् ॥३६॥ स्पष्टोऽर्थः॥ जीवस्य मुक्तिस्वरूपमाह--- घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नश्यति नाकाशं तद्वज्जीव इहात्मनि ॥३७॥ घटे नीयमाने पूर्वदेशाज्ञदेशं प्राप्यमाने घटे नष्टे च यथा घटाकाशं महाकाशे ऐक्यं प्राप्नोति , तद्वज्जीवः परमात्मनीत्यर्थः॥ किंच--- घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः । स गच्छति निरालम्बं ज्ञानालोक्यं न संशयः ॥३८॥ यः आत्मानं जीवं घटाकाशमिव परमात्मनि लयं गतं तत्त्वतः यथार्थतया वेत्ति , सः ज्ञानी निरालम्बं निःसङ्गं ज्ञानालोक्यं ब्रह्मप्रकाशात्मतत्त्वं गच्छति प्राप्नोति , न संशयः सन्देहो नास्तित्यर्थः॥ एतस्य ज्ञानयोगस्य किमपि तुल्यमित्याह--- तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥३९॥ आलोड्य चतुरो वेदान्धर्मशास्त्राणि सर्वदा । यो वै ब्रह्म न जानाति दर्वी पाकरसं यथा ॥४०॥ यथा खरश्चन्दनभारवाही सारस्य वाही न तु चन्दनस्य । एवं हि शास्त्राणि बहून्यधीत्य सारं त्वजानन्खरवद्वहेत्सः ॥४१॥ चन्दनभारवाही श्रीचन्दनकाष्ठभारवाही खरः चन्दनसारवाही न भवति तद्गन्धानुभववान्न भवति , एवं बहूनि शास्त्राण्यधीत्यपि सारं तु अजानन् ब्रह्म न जानन् खरवत् शोच्यः आक्रोश्य इत्यर्थः॥ ब्रह्मज्ञानपर्यन्तं सर्वमनुष्ठेयम् , ज्ञाते तु सर्वं व्यर्थमित्याह--- अनन्तकर्म शौचं च जपो यज्ञस्तथैव च । तीर्थयात्रादिगमनं यावत्तत्त्वं न विन्दति ॥४२॥ देहे भिन्नेऽप्यात्मैक्यं दृष्टान्तेनाह --- गवामनेकवर्णानां क्षीरं स्यादेकवर्णकम् । क्षीरवद्दृश्यते ज्ञानं देहिनां च गवां यथा ॥४३॥ अनेकवर्णानां शुक्लादिभिन्नभिन्नवर्णानां गवां क्षीरं यथा एकवर्णम् , मीमांसकमते गुणव्यक्तेरेकत्वादिति भावः ; तथा भिन्नभिन्नानां देहिनां ज्ञानं ब्रह्म एकं दृश्यत इत्यर्थः॥ अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे बन्धमोक्षाय न ममेति ममेति च ॥४४॥ ममेति बध्यते जन्तुर्न ममेति विमुच्यते॥ ममेति ममताविषयत्वेन स्वीकृतं सर्वं बन्धाय भवति ; न ममेति ममत्वं विहाय त्यक्तं मोक्षायैवेत्यर्थः । स्पष्टमन्यत्॥ अहङ्कारत्यागकार्यमाह--- मनसो ह्युन्मनीभावाद्द्वैतं नैवोपलभ्यते । यदा यात्युन्मनीभावं तदा तत्परमं पदम् ॥४५॥ मनसः चित्तस्य उन्मनीभावात् अहङ्कारत्यागात् द्वैतं नैवोपलभ्यते , अहङ्कारोपाधिकत्वाद्भेदस्येति भावः । तथा उन्मनीभावं मनो यदा याति निष्कृष्टाहङ्कार चैतन्यं भवति तदा तदेव परमं पदं मोक्ष इत्यभिधीयते॥ ब्रह्मविचारमकुर्वतः सर्वं व्यर्थमित्याह--- हन्यान्मुष्टिभिराकाशं क्षुधार्तः कण्डयेत्तुषम् । नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते ॥४६॥ यो वेदशास्त्राण्यधीत्य श्रुत्वापि नाहं ब्रह्मेति जानाति तस्य सर्वाणि शास्त्रणि प्रयासकराण्येव । यथा क्षुधार्तः मुष्टिभिराकाशं हन्याच्चेति करभङ्ग एव जायते न किमपि फलं यथा वा तुषं कण्डयेदवहन्यात् । अवहननश्रम एव फलं न तु तण्डुलभावः ।तद्वन्मुक्तिर्न जायते इति भावः । तदुक्तं भागवते 'तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषा- वधातिनाम् 'इति॥
इति श्रीगौडपादाचार्यविरचितायाम् उत्तरगीताव्याख्यायाम् द्वितीयोऽध्यायः॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP