सुत उवाच
आत्मन्यवस्थिते व्यक्ते विकारे प्रतिसंहते ।
साधर्म्येणावतिष्ठेते प्रधानपुरुषौ तदा ॥१॥

तमःसत्त्व गुणावेतौ समत्वेन व्यवस्थितौ ।
अनुद्रिक्तावनुचरौ तेन प्रोक्तौ परस्परम् ॥२॥

गुणसाम्ये लयो ज्ञेय आधिक्ये सृष्टिरुच्यते ।
सत्त्ववृद्धौ स्थितिरभूद्ध्रुवं पद्म शिखास्थितम् ॥३॥

यदा तमसि सत्त्वे च रजोप्यनुगतं स्थितम् ।
रजः प्रवर्तकं तच्च बीजेष्विव यथा जलम् ॥४॥

गुणा वैषम्यमासाद्य प्रसंगेन प्रतिष्ठिताः ।
गुणेभ्यः क्षोभ्यमाणेभ्यस्त्रयो ज्ञेया हि सादरे ॥५॥

शाश्वताः परमा गुह्याः सर्वात्मानः शरीरिणः ।
सत्त्वं विष्णू रजो ब्रह्मा तमो रुद्रः प्रजापतिः ॥६॥

रजःप्रकाशकोविष्णुर्ब्रह्मस्रष्टृत्वमाप्नुयात् ।
जायते च यतश्चत्रा लोकसृष्टिर्महोजसः ॥७॥

तमःप्रकाशको विष्णुः कालत्वेन व्यवस्थितः ।
सत्त्वप्रकाशको विष्णुः स्थितित्वेन व्यवस्थितः ॥८॥

एत एव त्रयो लोका एत एव त्रयो गुणाः ।
एत एव त्रयो वेदा एत एव त्रजोऽग्नयः ॥९॥

परस्परान्वया ह्येते परस्परमनुव्रताः ।
परस्परेण वर्तन्ते प्रेरयन्ति परस्परम् ॥१०॥

अन्योन्यं मिथुनं ह्येते अन्योन्यमुपजीविनः ।
क्षणं वियोगो न ह्येषां न त्यजन्ति परस्परम् ॥११॥

प्रधानगुणवैषम्यात्सर्गकाले प्रवर्त्तते ।
अदृष्टाधिष्ठितात्पूर्वे तस्मात्सदसदात्मकात् ॥१२॥

ब्रह्मा बुद्धित्वमिथुनं युगपत्संबभूव ह ।
तस्मात्तमोव्यक्तमयं क्षेत्रज्ञो ब्रह्मसंज्ञकः ॥१३॥

संसिद्धकार्यकरणो ब्रह्मग्रे समवर्त्तत ।
तेजसाप्रतिमो धीमानव्यक्तः संप्रकाशकः ॥१४॥

स वै शरीरप्रथमो धारणत्वव्यवस्थितः ।
ज्ञानेनाप्रतिमेनेह वैराग्येण च सप्ततिः ॥१५॥

अव्यक्तत्वाय तेनास्य मनसा यद्यदिच्छति ।
वशीकृतत्वात्त्रैगुण्यात्सापेक्षत्वाच्च भावतः ॥१६॥

चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकृद्भवः ।
सहस्रमूर्धा पुरुषस्तिस्रोऽवस्थाःस्वयंभुवः ॥१७॥

सर्वं रजश्च ब्रह्मत्वे कालत्वे चरजस्तमः ।
सात्त्विकः पुरुषत्वे च गुणवृतं स्वयंभुवः ॥१८॥

ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षयत्यपि ।
पुरुषत्वे उदासीनस्तिस्रोऽवस्थाः स्वयंभुवः ॥१९॥

ब्रह्मा कमल पत्राक्षः कालो जात्यञ्जनप्रभः ।
पुरुषः पुण्डरीकाक्षो रूपेण परमात्मनः ॥२०॥

एकधा स द्विधा चैव त्रिधा च बहुधा पुनः ।
योगीश्वरः शरीराणि करोति विकरोतिच ॥२१॥

नानाकृतिक्रियारूपमाश्रयन्तिस्वलीलया ।
त्रिधा यद्वर्तते लोके तस्मात्र्रिगुण उच्यते ॥२२॥

चतुर्द्धा प्रविभक्तत्वाच्चतुर्व्यूहः प्रकीर्त्तितः ।
यदा शेते तदार्धाते यद्भुङ्क्ते विषयान्प्रभुः ॥२३॥

यत्स्वस्थाः सततं भावस्तस्मादात्मा निरूच्यते ।
ऋषिः सर्वगतश्चात्र शरीरे सोऽभ्ययात्प्रभुः ॥२४॥

स्वामी सर्वस्य यत्सर्वंविष्णुः सर्वप्रवेशनात् ।
भगवानग्रसद्भावान्नागो नागस्वसंश्रयात् ॥२५॥

परमः संप्रहृष्टत्वाद्देवतादोमिति स्मृतिः ।
सर्वज्ञः सर्वविज्ञानात्सर्वःसर्वंयतस्ततः ॥२६॥

नराणां स्वापनं ब्रह्मा तस्मान्नारायणः स्मृतः ।
त्रिधा विभज्य चात्मानं सकलः संप्रवर्त्तते ॥२७॥

सृजते ग्रसते चैव पाल्यते च त्रिभिः स्वयम् ।
सोऽग्रे हिरण्यगर्भः सन् प्रादुर्भूतः स्वयं प्रभुः ॥२८॥

आद्यो हि स्ववशश्चैव अजातत्वादजः स्मृतः ।
तस्माद्धिरण्यगर्भश्च पुराणेषु निरुच्यते ॥२९॥

स्वयंभुवो निवृत्तस्य कालो वर्णाग्रतस्तु यः ।
न शक्यः परिसंख्यातुं मनुवर्षशतैरपि ॥३०॥

कल्पसंख्यानिवृत्तस्तु परार्धो ब्रह्मणः स्मृतः ।
तावत्त्वे सोऽस्य कालोऽन्यस्तस्यान्ते प्रतिबुद्ध्यते ॥३१॥

कोटिवर्षसहस्राणि गृहभूतानि यानि च ।
समतीतानि कल्पानां तावच्छेषात्परेतु ये ॥३२॥

यत्स्वयं वर्त्तते कल्पो वाराहस्तन्निबोधत ।
प्रथमं सांप्रतस्तेषां कल्पो वै वर्त्तते च यः ॥३३॥

पूर्णे युगसहस्रे तु परिपाल्यं नरेश्वरैः ॥३४॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापदे लोककल्पनं नाम चतुर्थोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP