संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|पूर्वभागः|प्रक्रियापादः| अध्यायः ३ प्रक्रियापादः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ प्रक्रियापादः - अध्यायः ३ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ३ Translation - भाषांतर सूत उवाचशृणु तेषां कथां दिव्यां सर्वपापप्रमोचनीम् ।कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमताम् ॥१॥य इमां धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः ।स्ववंशं धारणं कृत्वा स्वर्गलोके महीयते ॥२॥विश्वतारा या च पञ्च यथावृत्तं यथाश्रुतम् ।कीर्त्यमानं निबोधार्थं पूर्वेषां कीर्त्तिवर्द्धनम् ॥३॥धन्यं यशस्यमायुष्यं स्वर्ग्यं शत्रुघ्नमेव च ।कीर्त्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकर्मणाम् ॥४॥यस्मात्कल्पायते कल्पः समग्रं शुचये शुचिः ।तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च ॥५॥अजाय प्रथमायैव वरिष्ठाय प्रजासृजे ।ब्रह्मणे लोकतन्त्राय नमस्कृत्य स्वयंभुवे ॥६॥महदाद्यं विशेषान्तं सवैरूप्यं सलक्षणम् ।पञ्चप्रमाणं षद्श्रान्तः पुरुषाधिष्ठितं च यत् ॥७॥आसंयमात्प्रवक्ष्यामि भूतसर्गमनुत्तमम् ।अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ॥८॥प्रधानं प्रकृतिं चैव यमाहुस्तत्त्वचिन्तकाः ।गन्धरूपरसैर्हीनं शब्दस्पर्शविवर्जितम् ॥९॥जगद्योनिम्महाभूतं परं ब्रह्मसनातनम् ।विग्रहं सर्वभूतानामव्यक्तमभवत्किल ॥१०॥अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् ।असांप्रतिकमज्ञेयं ब्रह्म यत्सदसत्परम् ॥११॥तस्यात्मना सर्वमिदं व्याप्तमासीत्तमोमयम् ।गुणसाम्ये तदा तस्मिन्नविभातं तमोमयम् ॥१२॥सर्गकाले प्रधानस्य क्षत्रज्ञाधिष्ठितस्य वै ।गुणभावाद्भासमाने महातत्त्व बभूव ह ॥१३॥सूक्ष्मः स तु महानग्रे अव्यक्तेन समावृतः ।सत्त्वोद्रेको महानग्रे सत्त्वमात्रप्रकाशकः ॥१४॥सत्त्वान्महान्स विज्ञेय एकस्तत्कारणः समृतः ।निङ्गमात्रं समुत्पन्नं क्षेत्रज्ञाधिष्टितं महत् ॥१५॥संकल्पोऽध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम् ।महासृष्टिं च कुरुते वीतमानः सिसृक्षया ॥१६॥धर्मादीनि च भूतानि लोकतत्त्वार्थहेतवः ।मनो महात्मनि ब्रह्म दुर्बुद्धिख्यातिरीश्वरात् ॥१७॥प्रज्ञासंधिश्च सर्वस्वं संख्यायतनरश्मिभिः ।मनुते सर्वभूतानां तस्माच्चेष्टफलो विभुः ॥१८॥भोक्ता त्राता विभक्तात्मा वर्त्तनं मन उच्यते ।तत्त्वानां संग्रहे यस्मान्महांश्च परिमाणतः ॥१९॥शेषेभ्यो गुणातत्त्वेभ्यो महानिव तनुः स्मृतः ।विभक्तिमानं मनुते विभागं मन्यतेऽपि वा ॥२०॥पुरुषो भोगसंबन्धात्तेन चासौ सति स्मृतः ।बृहत्त्वाद्वृंहणत्वाच्च भावानामखिलाश्रयात् ॥२१॥यस्माद्वृंहयत भावान् ब्रह्मा तेन निरुच्यते ।आपूरयति यस्माच्च सर्वान् देहाननुग्रहैः ॥२२॥बुध्यते पुरुषश्चात्र सर्वान् भावान्पृथक्पृथक् ।तस्मिंस्तु कार्यकरणं संसिद्धं ब्रह्मणः पुरा ॥२३॥प्राकृतं देवि वर्तं मां क्षेत्रज्ञो ब्रह्मसंमितः ।स वै शरीरी प्रथमः पुरा पुरुष उच्यते ॥२४॥आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तिनाम् ॥२५॥हिरण्यगभः सोऽण्डेऽस्मिन्प्रादुर्भूतश्चतुर्मुखः ।सर्गे च प्रतिसर्गे च क्षेत्रज्ञो ब्रह्म संसितः ॥२६॥करणैः सह पृच्छन्ते प्रत्याहारेस्त्यजन्ति च ।भजन्ते च पुनर्देहांस्ते समाहारसंधिसु ॥२७॥हिरण्मयस्तु यो मेरुस्तस्योद्धर्तुर्महात्मनः ।गर्तोदकं सबुदास्तु हरेयुश्चापि पञ्चताः ॥२८॥यस्मिन्नण्ड इमे लोकाः सप्त वै संप्रतिष्ठिताः ।पृथिवी सप्तभिर्द्वीपैः समुद्रैः सह सप्तभिः ॥२९॥पर्वतैः सुमहद्भिश्च नदीभिश्च सहस्रशः ।अन्तःस्थस्य त्विमे लोका अन्तर्विश्वमिदं जगत् ॥३०॥चन्द्रादित्यौ सनक्षतौ संग्रहः सह वायुना ।लोकालोकं च यत्किञ्चिदण्डे तस्मिन्प्रतिष्टितम् ॥३१॥आपो दशगुणे नैव तेजसा बाह्यतो वृताः ।तेजो दशगुणेनैव बाह्यतो वायुना वृतम् ॥३२॥वायुर्दशगुणेनैव बाह्यतो नभसा वृतः ।आकाशमावृतं सर्वं बहिर्भूतादिना तथा ॥३३॥भूतादिर्महता चैव प्रधानेनावृतो महान् ।एभिरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् ॥३४॥इच्छया वृत्य चान्योन्यमरणे प्रकृतयः स्थितः ।प्रसर्गकाले स्थित्वा च ग्रसंतस्च परस्परम् ॥३५॥एवं परस्परैश्चैव धारयन्ति परस्परम् ।आधाराधेयभावेन विकारास्ते विकारिषु ॥३६॥अव्यक्तं क्षेत्रमित्युक्तं ब्रह्म क्षेत्रज्ञमुच्यते ।इत्येवं प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः ॥३७॥अबुद्धिपूर्वः प्रथमः प्रादुर्भूतस्तडिद्यथा ।एतद्धिरण्यगर्भस्य चन्म यो वेत्ति तत्त्वतः ।आयुष्मान्कीर्तिमान्धन्यः प्रज्ञावांश्च न संशयः ॥३८॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापादे हिरण्यगर्भोत्पत्तिवर्णनं नाम तृतीयोऽध्याय N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP