गृहवास्तुप्रकरणम् - उदुंबरादिवृक्षोद्यापनम्
‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.
तत्रोदुंबराश्वत्थवटानां रोपणादष्टमे द्वादशे वा वर्षे पत्रांतरिते उदयने गुरुशुक्रास्तादि रहिते शुभे काले उद्यापनं कुर्यात् उदुंबरस्य समंतात् चतुर्हस्तां वेदिकां कृत्वा मूले चतुरस्रमालवालं कृत्वा तत्र दूर्वारोपणं कुर्यात् । सति सामर्थ्ये वृक्षात्पूर्वे पश्चिमे उत्तरे वा यथोक्तप्रकारेण हवनार्थं नवपंचचतुः कुंडाद्युपेतं मंडपं कुर्यात् असामर्थ्ये तु उदुंबरवेदिकायामेव । तत्र प्रागादिद्वारचतुष्टये आम्रोदुंबरप्लक्षाशोकपल्लवकृतानि क्रमेण चत्वारि तोरणानि तथा द्वारचतुष्टये श्वेतकृष्णहरितपीतवर्णाश्चत्वारो ध्वजाः पताकाश्च उदुंबरशिरसि सर्ववर्णो ध्वजः कार्यः । एवं संभृतसंभारो यजमानः शुभे मुहूर्ते प्रधानसंकल्पं कुर्यात् । स यथा - आचम्य पवित्रपाणिर्देशकालौ स्मृत्वा ममात्मनः सकलपापक्षयपूर्वककुलकोटिसमुद्धरणैहिकामुष्मिकनिरवधिसुखप्राप्तिपूर्वकब्रह्मपदप्राप्तिकामोऽहमुदुंबरोद्यापनं करिष्ये तथाऽभीष्टदातूत्वसिद्ध्यर्थं सर्वप्राणिसुखनिवासार्थं च उदुंबरसंस्कारं करिष्ये तदंगत्वेनादौ गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यादिवरणं च करिष्ये इति संकल्प्य तानि कृत्वा यथाविभवं मधुपर्कादिना आचार्यादिन् संपूज्य प्रार्थयेत् ‘ अस्य यागस्य निष्पतौ ’ इति । ततः सर्त्विंगाचार्यो यजमानः पूर्णकलशहस्तः मंगलवाद्यतूर्यघोषेण सह ‘ करोतु स्वस्ति ते ब्रह्मा ’ इत्यादि स्वस्तिमंत्रपाठपूर्वकमुदुंबरमंडपप्रादक्षिण्येन पश्चिमद्वारमागत्य तत्र ‘ सर्वेषामाश्रया भूमिः ’ इति मंत्रेण पृथिवीं संपूज्य अर्घ्यं दत्त्वा मंडपं प्रविश्य उदुंबरसमीपे कलशं निधाय वरुणनिऋतिमध्ये उपविशेत् । तत आचार्यो देशकालौ स्मृत्वा अस्मिन्नुदुंबरोद्यापनाख्ये कर्मणि यजमानेन वृतोऽहमाचार्यकर्म करिष्ये इति संकल्प्य यदत्रेति मंत्रेण सर्षपान्विकीर्य ‘ शुचिरग्निः शुचिर्वायुः शुचिः सूर्यः शुचिर्विधुः । शुचिः कविः शुचिर्गंगा कुर्वंत्वेते स्थलं शुचि ’ इति मंत्रेण पंचगव्येन प्रोक्ष्य ‘ अपवित्रः पवित्रो वा ’ इति शुद्धोदकेन प्रोक्षणं कृत्वा ‘ एनोमुचं तार्क्ष्यमरिष्टनेमिं दैत्यघ्नमात्रेयमृभुक्षमित्रम् । कल्याणरुपं शरणं प्रपद्येऽभयं शिवं स्वस्ति स नस्तनोतु ॥ इति मंत्रं पठित्वा भूप्रादेशं कुर्यात् । ततो यथोक्तमंडपे उक्ततोरणध्वजपताकादि बध्वा जपार्थं प्रागादिक्रमेण प्रतिद्वारं द्वौ एकं वा ब्राह्मणान्वृणुयात् । तत आचार्यः उदुंबरपश्चिमे चतुरस्रां वेदीं कृत्वा तत्र सर्वतोभद्रे उक्तप्रकारेण ब्रह्मादिमंडलदेवता आवाह्य संपूज्य तदुपरि अक्षतपुंजे कलशत्रयं एकं वा संस्थाप्य मध्यमकुंभे ब्रह्मप्रतिमायां - हंसारुढं चतुर्हस्तं रक्तवर्णं चतुर्मुखम् । पद्माद्यायुधयुक्तं च ब्रह्माणं प्रणमाम्यहम् । ब्रह्मणे नमः ब्रह्माणमावाहयामि ॥ तद्दक्षिणे - ‘ विष्णुं जिष्णुं महाविष्णुं० ’ इति मंत्रेण ‘ विष्णवे नमः विष्णुमा० ’ ॥ उत्तरे - ‘ रुद्रो देवो वृषारुढः ’ इति मंत्रेण रुद्राय नमः रुद्रमा० ॥ तत आग्नेयादिकोणेषु - ‘ अभीप्सितार्थसिद्धर्थं ’ इति गणपतिं ‘ तामग्निवर्णां तपसा ’ इति दुर्गां ‘ ब्राह्मी माहेश्वरी चैव ’ इति सप्तमातृः । त्र्यक्षायोग्रस्वरुपाय सर्पव्रातयुताय च । शूलाद्यायुधहस्ताय क्षेत्रपाल नमोस्तु ते । क्षेत्रपालय नमः क्षेत्रपालामा० ॥ ततस्तत्परितो लोकपालांस्तत्तन्मंत्रैरावाह्य संपूजयेत् ततश्चतुर्द्वारेषु जपार्थं वृता ब्राह्मणाः स्वस्तिमंत्रान् पठेयुः । तत ईशान्यां कुंडे स्थंडिले वा बलर्धननामानमग्निं प्रतिष्ठाप्य तदुत्तरवेद्यां प्रागुक्तप्रकारेण ग्रहानावाह्य संपूज्य तदीशान्यां कलशं संस्थाप्य तत्र वरुणं संपूजयेत् । तत्र जपार्थं ब्राह्मणं वृणुयात् । ततः प्रागाद्याचार्याश्चत्वारः स्वस्वकुंडे मुख्याचार्यकुंडात् अग्नीन् विधिना प्रणीय ध्यायेयुः । कुंडचतुष्ट्यपक्षे प्राक्कुंडादग्निप्रणयनं तत्रैव मुख्यहोमः । एककुंडपक्षे पश्चिमायां कुंडं स्थंडिलं वा कृत्वा तत्रैव सर्वहोमः । तत ईशानकुंडे आचार्यः समिदद्वयमादाय देशकालौ स्मृत्वा क्रियमाणे उदुंबरोद्यापनहोमे देवतापरिग्रहार्थंमित्यादि चक्षुष्यंतमुक्त्वा अत्र प्रधानंब्रह्माणं विष्णुं रुद्रंच प्रत्येकं प्रतिद्रव्यं अष्टोत्तरशतसंख्याभिः घृताक्तदूर्वाज्यद्रव्याहुतिभिः, इंद्राद्यष्टौलोकपालान् प्रत्येकं प्रतिद्रव्यं अष्टाविंशतिसंख्याभिः पलाशसमित्तंदुलाज्याहुतिभिर्यक्ष्ये । शेषेण स्विष्टकृतमित्यादि० ततोदक्षिणकुंडाचार्यः समिदद्वयादानादि देशकालकीर्तनांते अत्र प्रधानं - गणपतिं दुर्गां सप्तमातृः क्षेत्रपालं च प्रत्येकं प्रतिद्रव्यं अष्टाविंशतिसंख्याभिर्घृताक्ततिलहुतिभिर्यक्ष्ये शेषेणेत्यादि० । पश्चिमे - साधिप्रत्यधिदेवान् आदित्यादिनवग्रहान् प्रत्येकं प्रतिद्रव्यं अष्टाविंशतिसंख्याभिरर्कादियथालाभसमित्तंदुलव्रीहिद्रव्याहुतिभिर्यक्ष्ये । शेषेणेत्यादि० । उत्तरे - सोमं प्रतिद्रव्यं अष्टाविंशतिसंख्याभिर्घृताक्ततंदुलप्लक्षसमिदद्रव्याहुतिभिः, ब्रह्मादिमंडलदेवताश्चैकैकयाज्याहुत्या यक्ष्ये । शेषेणेत्यादि० । एककुंडपक्षे एकस्मिन्नेव सर्वान्वाधानं होमश्च । एवमन्वाधानादिचक्षुषीहोमांतं कृत्वा यजमानेन देवतोद्देशेन द्रव्यत्यागे कृते यथान्वाधानं तत्तन्मंत्रैर्होमं संपादयेत् । तत आचार्यः प्रतीच्यां संस्कारहोमार्थं स्थंडिलं कृत्वा संकल्पयेत् । देशकालौ स्मृत्वा अस्योदुंबरस्य पुंसवानादिविवाहांतान् संस्कारान् होमद्वारा करिष्ये इति संकल्प्य स्थंडिलेऽग्निं प्रतिष्ठाप्यान्वाधानं कुर्यात् । देशकालौ स्मृत्वा समिदद्वयमादाय क्रियमाणे अस्य उदुंबरस्य पुंसवनादि संस्कारहोमे देवतापरिग्रहार्थमित्यादि चक्षुष्यंते अत्र प्रधानं - अग्निं वायुं सूर्यं प्रजापतिं च प्रतिसंस्कारं आज्यद्रव्येण चतुश्चतुः संख्याभिराहुतिभिर्यक्ष्ये । शेषेणेत्यादिचक्षुषीहोमांतं कृत्वा ‘ अग्नये नमः ’ इति हुत्वा यजमानः ‘ अग्नय इदं न मम ’ । एवमग्नेऽपि त्यजेत् । वायवे नमः वायव इदं० सूर्याय० सूर्यायेदं० प्रजापतये नमः प्रजापतय इदं० एवं प्रतिसंस्कारं हुत्वा उदुंबरं स्पृशेत् । एवमुपनयनपर्यंतं हुत्वा ततो यजमानोदुंबरांतरालेंऽतः पटं धृत्वा मंगलपद्यपाठपूर्वकं सुमुहूर्ते ‘ तदेव लग्नं ’ इति पठितेंऽतः पटमपसार्य द्विजाः ‘ करोतु स्वस्ति ते ब्रह्मा ’ इत्यादि स्वस्तिमंत्रान् पठेयुः । ततः कौपीनं यज्ञोपवीतं मेखलां दंडं च दत्त्वा ‘ उदुंबराय विद्महे हेमदुग्धाय धीमहि । तन्नो यज्ञांगः प्रचोदयात् ॥ इति मंत्रेणोदुंबरस्योपदेशं कुर्यात् । ततोऽलंकारान् दत्त्वा ‘ आयुर्बलं यशो वर्चः ’ इति मंत्रं पठित्वा मौंजीं विसर्जयेत् । तत उदुंबरं दूर्वां च वस्त्रयुग्मेन संवेष्ट्य वस्त्रकंचुक्याभरणादि दत्त्वा - गृह्णामि ते करं भद्रे भार्यात्वस्यैव सिद्धये । भगोर्यमा च सविता मह्यं त्वामददुः सुराः ॥ इति मंत्रेणोदुंबरदूर्वयोः पल्लवमयान् हस्तान् योजयेत् । ततः संस्कारसंबंधि स्विष्टकृदादि होमशेषं समाप्य उक्तमंत्रेणोदुंबरं षोडशोपचारैः संपूज्य प्रार्थयेदेवं - आदितो ब्रह्मरुपाय मध्यतो विष्णुरुपिणे । अग्रतो रुद्ररुपायोदुंबराय नमो नमः ॥ अकारमूलरुपाय ह्युकारस्कंधशाखिने । मकारफलपुष्पायोदुंबराय नमो नमः ॥ तत आचार्याः स्वस्वकुंडे स्विष्टकृदादि होमशेषं समाप्य बलिदानं कृत्वा पूर्णाहुतिं जुहुयुः । यजमानः अद्येत्यादि० कृतस्योदुंबरोद्यापनकर्मणः सांगतासिद्ध्यर्थं आचर्येभ्यो दक्षिणां गांच दास्ये इति संकल्प्य क्रमेण तेभ्यो दक्षिणादि दद्यात् । ततः आचार्यो ऋत्विजश्च स्थापितकलशोदकैर्यजमानं ‘ सुरास्त्वा ’ इत्यादि मंत्रैरभिषिच्य कर्मशेषं समापयेयुः । ततो यजमानः पीठदेवताः संपूज्य यांतु देवेति विसृज्य तत्पीठमाचार्याय दत्त्वा मंडपं सदस्याय दत्त्वाऽन्यर्त्विग्भ्यो दक्षिणां दत्त्वा कर्मफलं गृहीत्वा यथाशक्ति भूयसीं दत्त्वा शताधिकान् ब्राह्मणान् आमान्नादिना संतर्प्य आशिषो गृहीत्वा ‘ मया कृतोदुंबरोद्यापनकर्मसंपूर्णतास्त्विति भवंतो ब्रुवंतु ’ इत्युक्त्वा ‘ तव कृतोदुंबरोद्यापनकर्मणः संपूर्णताऽस्तु ’ इति विप्रा ब्रूयुः । ततः यस्य स्मृत्येति कमश्वेरार्पणं कृत्वा इष्टैः सह भुंजीत ॥ इत्युदुंबराद्युद्यापनम् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP