गृहवास्तुप्रकरणम् - कूपोत्सर्गप्रयोगः
‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.
यजमानः आचम्य पवित्रपाणिः देशकालौ संकीर्त्य अस्य मया कारितस्य कूपस्य जलसमृद्धये सर्वेषां प्राणिनामुपकारार्थं सर्वारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं कूपप्रतिष्ठाकल्पोक्तफलावाप्त्यर्थं च कूपप्रतिष्ठां करिष्ये तदंगभूतमादौ गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यादिवरणं च करिष्ये इति संकल्प्य तान्याचार्यादिवरणांतानि कुर्यात् । तत आचार्यः अद्येत्यादि० अस्मिन् कूपप्रतिष्ठाख्ये कर्मणि यजमानेन वृतोऽहमिति कर्म संकल्प्य यदत्रेति सर्षपान् विकीर्य ‘ शुचिरग्निः शुचिर्वायुः शुचिः सूर्यः शुचिर्विधुः । शुचिः कविः शुचिर्गंगा कुर्वंत्येते स्थलं शुचि ’ इति मंत्रेण पंचगव्येन प्रोक्ष्य ‘ अपवित्रः पवित्रो वा ’ इति शुद्धोदकेन प्रोक्ष्य ‘ एनोमुचंतार्क्ष्यमरिष्टनेमिं दैत्यघ्नमात्रेयमृभुक्षमित्रम् । कल्याणरुपं शरणं प्रपद्येऽभयं शिवं स्वस्ति सनस्तनोतु ॥ इति पठित्वा भूमौ प्रादेशं कुर्यात् ततः कूपपश्चिमे देशे स्थंडिलं कृत्वा कूपचतुष्कोणेषु ईशान्यादिषु ‘ सर्वसस्याश्रया भूमिः ’ इत्यादि विधिना चतुरः कलशान् संस्थाप्य तेषु पंचत्वक्पंचपल्लवपंचरत्नानि प्रक्षिप्य स्थंडिलात्पूर्वतो बृहत्कलशं विधिवत्संस्थाप्य वस्त्रयुग्मेन संवेष्ट्य ‘ पूर्णपात्रमिदं दिव्यं ’ इति पूर्णपात्रं निधाय तत्र वरुणप्रतिमायां ‘ पाशहस्तं च वरुणं ’ इति मंत्रेण वरुणमावाह्य षोडशोपचारैः संपूज्य प्रार्थयेत् - अपांपतिस्त्वमापो वै देवदेव निगद्यते । शममायांतु विघ्नानि नमस्ते पाशपाणये - इति ॥ ततो देशकालौ स्मृत्वा कूपप्रतिष्ठांगहोमं कर्तुं स्थंडिलादि कर्म करिष्ये इति संकल्प्य स्थंडिलं संस्कृत्य बलवर्धननामानमग्निं प्रतिष्ठाप्य ध्यात्वाऽन्वादध्यात् । समिदद्वयमादाय देशकालौ स्मृत्वा क्रियमाणे कूपप्रतिष्ठांगहोमे देवतापरिग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा अत्र प्रधानं - अपः पंचविंशतिवारमाज्येन तथा सप्तदशवारं दशिसक्तुद्रव्येण वरुणं विंशतिवारं लाजद्रव्येण तथाऽष्टवारं तंडुलद्रव्येण यक्ष्ये । शेषेण स्विष्टकृतमित्यादि चक्षुषीहोमांतं कृत्वा यजमानेन देवतोद्देशेन द्रव्यत्यागे कृते प्रधानहोमं कुर्यात् । तत्र मंत्राः - स्त्रीरुपाः पाशकलशहस्ता मकरवाहनाः । श्वेता मौक्तिकभूषाढ्या अद्भ्यस्ताभ्यो नमो नमः ॥ इत्याज्येन पंचविंशतिवारं हुत्वा तेनैव मंत्रेण सप्तविंशतिवारं दधिसक्तुद्रव्येण हुत्वा ‘ पाशस्तंच वरुणं ’ इति मंत्रेण विंशतिवारं लाजद्रव्येण हुत्वा तेनैव मंत्रेणाष्टवारं तंडुलद्रव्येण होमं कुर्यात् । एवं चतुर्विधहोमं कृत्वा स्विष्टकृदादि होमशेषं समापयेत् तत आचार्यो ब्रह्मकलशं संपूज्य तं कलशं जलपूर्णं गृहीत्वा स्त्रीपुत्रमित्रसहितेन सहाचार्यः कूपमध्ये मत्स्यकूर्मादिसहितामुदकधारां पातयन् गंगाष्टकं पठन् कूपं परितः प्रदक्षिणात्रयं कुर्यात् । ततः कूपोदकं कलशे गृहीत्वा तेन सुरास्त्वेत्यादिमंत्रैरबमंत्रैर्वरुणमंत्रैश्च सकुटुंबं यजमानमभिषिंचेत् ततस्तं कलशं तंदुलैः पूरयित्वा आचार्याय दद्यात् । ततः देशकालौस्मृत्वा कृतस्यास्य कूपप्रतिष्ठाकर्मणः सांगतासिद्ध्यर्थं देवताचार्याग्निपूजां करिष्ये इति संकल्प्य देवतानामुत्तरपूजां विधाय आचार्यं संपूज्य तस्मै सवत्सां गां दत्त्वा अन्यर्त्विग्भ्यो दक्षिणां दत्त्वा अग्निं संपूज्य विभूतिं धृत्वा देवता विसृज्य तत्पीठं दत्त्वा कर्मफलं संगृह्य अन्येभ्यो यथाशक्ति भूयसीं दत्त्वा आमान्नादिना ब्राह्मणान् संतर्प्य आशिषो गृहीत्वा सति संभवे ध्वजमारोप्य यस्य स्मृत्येति कर्मेश्वरार्पणं कृत्वा सुह्रद्युतो भुंजीयात् । इति महादेवसूर्यात्मजदिवाकरविप्रकृते कृत्यदिवाकरे मध्यमांशौ संक्षिप्तकूपोत्सर्गप्रयोगः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP