शुक्रनीतिः - द्वितीय अध्याय
प्रस्तुत नीति शुक्राचार्यांनी न लिहिता मूळ नीति भगवान् श्रीशंकरांनी लिहिली आहे.
युवराजादिलक्षण
सहकार्याची आवश्यकता
यद्यप्यल्पतरं कर्म तदप्येकेन दुष्करम् ।
पुरुषेणासहायेन किमु राज्यं महोदयम् ॥१॥
सर्वविद्यासु कुशलो नृपो ह्यपि सुमंत्रवित् ।
मंत्रिभिस्तु विना मंत्रं नैकोऽर्थं चितयेत्क्कचित् ॥२॥
सभ्या धकारिप्रकृतिसभासत्सु मते स्थितः ।
सर्वदा स्यान्नृपः प्राज्ञः स्वमते न कदाचन ॥३॥
प्रभुः स्वातन्त्र्यमापन्नो ह्यनर्थायैव कल्पते ।
निन्नराष्ट्रो भवेत्सद्यो भिन्नप्रकृतिरेव च ॥४॥
राजाचा सहाय्यक कसा असावा ?
कुलगुणशीलवृध्वाञ्छरान् भक्तान्प्रियंवदान् ।
हितोपेदशकान्नलेशसहान् धर्मरतान्सदा ॥५॥
कुमार्गगं नृपमपि बुद्धयोद्धर्त्तुं क्षणाञ्छुचीन ।
निर्मत्सरान्कामक्रोध लोभही नान्निरालसान् ॥६॥
हीयते कुसहायेन स्वधर्माद्राज्यतो नृपः ।
कुकर्मणा प्रतष्टास्तु दितिजाः कुसहायतः ॥७॥
नष्टा दुर्योधनाद्यास्तु नृपाः शूरा बलाधिकाः ।
निरभिमानो नृपतिः सुसहायो भवेदतः ॥८॥
युवराज आणि मंत्रीगण यांची नियुक्ती
युवराजोऽमात्यगणो भुजावेतौ महीभुजः ।
तावेव नयने कर्णो दक्षसव्यौ क्रमात्स्मृतौ ॥९॥
बाहुकर्णाक्षिहीनः स्याद्विना ताभ्यामतो नृपः ।
योजयेञ्चिन्तयित्वा तौ महानाशाय चान्यथा ॥१०॥
युवराज कसा असावा ?
सुनीतिशास्त्रकुशलान् धनुर्वेदविशारदान् ।
क्लेशसहांश्च वाग्दंडपारुष्यानुभवान् सदा ॥११॥
शौर्ययुद्धरतान् सर्वकलाविद्याविदोंऽजसा ।
सुविनीतान्प्रकुवीत हयमात्याद्यैर्नृपः सुतान् ॥१२॥
सुवस्त्राद्यैर्भूषयित्वा लालयित्वा सुक्रीडनैः ।
अर्हयित्वाऽऽसनाद्यैश्च पालयित्वा सुभोजनैः ॥१३॥
कृत्वा तु यौवराज्यार्हान् यौवराज्येऽभिषेचयेत् ।
अविनीतकुमारं हि कुलमाशु विनश्यति ॥१४॥
राजपुत्रः सुदुर्वृत्तः परित्यागं हि नार्हति ।
क्लिश्यमानः स पितरं परानाश्रित्य हन्ति हि ॥१५॥
व्यसने सज्जमानं तं क्लेशयेद् व्यसनाश्रयैः ।
दुष्टं गजमिवोद् वृत्तं कुर्वीत सुखबन्धनम् ॥१६॥
सुदुर्वृत्तास्तु दायादा हन्तव्यास्ते प्रयत्नतः ।
व्याघ्रादिभिः शत्रुभिर्वा छलै राष्ट्रविवृद्धये ॥१७॥
अतोऽन्यथा विनाशाय प्रजाया भूपतेश्च ते ।
युवराजाची कर्तव्ये
प्राप्यापि महतीं वृद्धिं वर्तेत पितुराज्ञया ॥१८॥
पुत्रस्य पितुराज्ञापि परमं भूषणं स्मृतम् ।
भार्गवेण हता माता राघवस्तु वनं गतः ॥१९॥
पितृस्तपोबलात्तौ तु मातरं राज्यमापतुः ।
शापानुग्रहयोः शक्तो यस्तस्याज्ञा गरीयसी ॥२०॥
सोदरेषु च सर्वेषु स्वस्याधिक्यं न दर्शयेत् ।
भागार्हभ्रातृणां नष्टो हयवमानात्सुयोधनः ॥२१॥
पितुराज्ञोल्लंघनेन प्राप्यापि पदमुत्तमम् ।
तस्माद् भ्रष्टा भवन्तीह दासवद्राजपुत्रकाः ॥२२॥
ययातेश्च यथा पुत्रा विश्वामित्रसुता यथा ।
पितृसेवापरस्तिष्ठेत्कायवाड्मानसैः सदा ॥२३॥
तत्कर्म नियतं कुर्याद्येन तुष्टो भवेत्पिता ।
तन्न कुर्याद्येन पिता मनागपि विषीदति ॥२४॥
यस्मिन्पितुर्भवेत्प्रीतिः स्वयं तस्मिन्प्रियं चरेत् ।
यस्मिन्द्वेषं पिता कुर्यात्स्वस्यापि द्वेष्य ऐव सः ॥२५॥
असंमतं विरुद्धं वा पितुर्नैव समाचरेत् ।
चारपूचकदोषेण यदि स्यादन्यथा पिता ॥२६॥
प्रकृत्यनुमतं कृत्वा तमेकान्ते प्रबोधयेत् ।
अन्यथा सूचकान्नित्यं महाद्दंडेन दण्डयेत् ॥२७॥
विद्यया कर्मणा शीलैः प्रजा संरंजन्मुदा ।
त्यागी च सत्वसपन्नः सर्वान्कुर्याद्वशे स्वके ॥२८॥
मंत्री कसे असावेत ?
परीक्षकैर्द्रावयित्वा यथा स्वर्ण परीक्षते ।
कर्मणा सहवासेन गुणैः शीलकुलादिभिः ॥२९॥
भृत्यं परीक्षयेन्नित्यं विश्वात्स्यं विश्वसेत्तदा ।
नैव जातिर्न च कुलं केवलं लक्षयेदपि ॥३०॥
कर्मशीलगुणाः पूज्यास्तथा जातिकुलेन हि ।
न जात्या न कुलेनैव श्रेष्ठत्व प्रतिपश्चते ॥३१॥
विवाहे भोजने नित्यं कुलजातिविवेचनम् ।
श्रेष्ठ सेवकाची लक्षणे
सत्यवान् गुणसम्पन्नस्तथाऽभिजनवान्धती ॥३२॥
सुकुलश्च सुशीलश्च सुकर्मा च निरालसः ।
यथा करोत्यात्मकार्यं स्वामिकार्यं ततोऽधिकम् ॥३३॥
चतुर्गुणेन यानेन कायवाड्मानसेन च ।
भृत्या च तुष्टो मृदुवाक्कार्यदक्षः शचिर्दुढः ॥३४॥
परोपकारणे दक्षो ह्यपकारपराड्मुखः ।
स्वाम्यागस्कारिणं पुत्रं पितरं चापि दर्शकः ॥३५॥
अन्यायगामिनी परयो यतद्रूप; सुबोदकः ।
नाक्षेप्ता तद्रिरं कांचित्तन्यूनस्या प्रकाशकः ॥३६॥
अदीर्घसूत्रः सत्कार्ये ह्यसत्कार्ये चिरक्रियः ।
न तभ्दार्यापुत्रमित्रच्छि द्रदर्शी कदाचन ॥३७॥
तद्भद् बुद्धिस्तदीयेषु भार्यापुत्रादि बन्धुषु ।
न श्लाघते स्पर्धते न नाभ्यसूर्यात निन्दति ॥३८॥
नेच्छत्यन्याधिकारं हि निःस्पृहे मोदते सदा ।
तद्दत्तवस्त्रभूषादिधारक स्तत्पुरोऽनिशम् ॥३९॥
भृतितुल्यव्ययी दान्तो दयालुः शूर ऐव हि ।
तदकार्यस्य रहसि सूचको भृतको वरः ॥४०॥
विपरीतगुणैरेभिर्भृतको निन्द्य उच्यते ।
निंदीत सेवकाची लक्षणे
ये भृत्या हीनभृतिका ये दंडेन प्रकर्षिताः ॥४१॥
शठाश्च कातरा लुब्धाः समक्षप्रियवादिनः ।
मत्ता व्यसनिनश्चार्ता उत्कोचेष्टाश्च देविनः ॥४२॥
नास्तिका दाम्भिकाश्चैवासत्यवाचोऽप्यसूयकाः ।
ये चापमानिता येऽसद्वाक्यैर्मर्मणि भेदिताः ॥४३॥
रिपोर्मित्राः सेवकाश्च पूर्ववैरानुवन्दिनः ।
चण्डाः साहसिका धर्महीना नैते सुसेवकाः ॥४४॥
संक्षेपतस्तु कथितं सदसद् भृत्यलक्षणम् ।
पुरोहिताची लक्षणे
मन्त्रानुष्ठानसम्पन्नस्त्रैविद्यः कर्मतत्परः ॥४५॥
जितेन्द्रियो जितक्रोधो लोभमोहविवर्जितः ।
षडंगवित्सांगधनुर्वेद विच्चाश्रमवित् ॥४६॥
यत्कोमभीत्या राजापि धर्मनीतिरतो भवेत् ।
नीतिशास्त्रव्यूहादिकुशलस्तु पुरोहितः ॥४७॥
सैवाचार्यः पुरोधा यः शापानुग्रहयोः क्षमः ।
विना प्रकृतिसन्मन्त्राज्यनाशो भवेद् ध्रुवम् ॥४८॥
रोधनं न भवेत्तेस्माद्राज्ञस्ते स्युः सुमन्मिणः ।
न बिभेति नृपो येभ्यस्तैः स्यात् किं राज्यवर्धनम् ॥४९॥
यथालंकारवस्त्राद्यैः स्त्रियो भूष्यास्तथा हि ते ।
राज्यं प्रजा बलं कोशः सुनृपत्वं न वर्धितम् ॥५०॥
यन्मन्मतोऽरिनाशस्तैर्मंत्रिभिः किं प्रयोजनम् ।
प्रतिनिधी, प्रधान आणि सचिव कोण ?
कार्यकार्यप्रविज्ञाता स्मृतः प्रतिनिधीस्तु सः ॥५१॥
सर्वदर्शी प्रधानस्तु सेनावित्सचिवस्तथा ।
मंत्री, पंडित आणि न्यायाधिश कोण ?
मंत्री तु नीतिकुशलः पण्डितो धर्मतत्त्ववित् ॥५२॥
लोकशास्त्रनयज्ञस्तु प्राडविवाकः समृतः सदा ।
अमात्य आणि सुमंत कोण ?
देशकालप्रविज्ञाता ह्यमात्य इति कथ्यते ॥५३॥
आयव्ययप्रविज्ञाना सुमंत्रः स च कीर्तितः ।
दूताचे लक्षण
इंगिताकारचेष्टज्ञः स्मृतिमान्देशकालवित् ॥५४॥
षाड्गुण्यमंत्रविद्वाग्मी वीतभीर्दूत इष्यते ।
प्रतिनिधीचे कर्तव्य
अहितं चापि यत्कार्यं सद्यः कर्तुं यदोचितम् ॥५५॥
अकर्तुं यद्धितमपि राज्ञ प्रतिनिधी सदा ।
बोधयेत्कारयेत्कुर्यान्त कुर्यान्न प्रबोधयेन् ॥५६॥
प्रधानाचे कर्तव्य
सत्यं वा यदि वाऽसत्यं कार्यजाते च यत्किल ।
सर्वेषां राजकृत्येषु प्रधानस्ताद्विचिन्तयेत ॥५७॥
सचिवाचे कर्तव्य
गजानां च तथाऽश्वानां रथानां पदगामिनाम् ।
सदुद्दढानां तथोष्ट्राणां वृषाणां सद्य एव हि ॥५८॥
वाद्यकाषासु संकेतव्यूहाभ्यसनशालिनम् ।
प्राक्प्रत्यग्गामिनां राज्यचिन्ह शस्त्रास्त्र धारिणाम् ॥५९॥
परिचारगणानां हीनमध्योत्तम कर्मणाम् ।
अस्त्राणामस्त्रजातीनां संघः स्वतुर गीगणः ॥६०॥
कार्यक्षमश्च प्राचीनः साधस्कः काते विद्यते ।
कार्यासमर्थः कत्यस्ति शस्त्रगोलाग्नि चूर्णयुक् ॥६१॥
सांग्रामिकश्च कत्थस्ति संभारस्तान्विचिन्त्य च ।
सचिवश्चापि तत्कार्य राज्ञे सभ्यग् निवेदयेन ॥६२॥
मंत्र्याचे कार्य
साम दानञ्च भेदश्च दण्डः केषु कदा कथम् ।
कर्तव्यः किं फलं तेभ्यो बहुमध्यं तथाऽल्पकम् ॥६३॥
एतत्संचिन्त्य निश्चित्य मन्मो सर्व निवेदयेन् ।
न्यायाधिशाचे कर्तव्य
साक्षिभिलिंखितैर्भोवौश्छलैर्भूतैश्च मानुषान् ॥६४॥
स्वानुत्पादि संप्राप्त व्यवहार न्विचिन्त्य च ।
दिव्य - संसाधनाद् वापि केषु किं सायते परम् ॥६५॥
युक्ति प्रत्यक्षानुमानोपमानैर्लोकशास्त्रतः ।
बहुसंमत्त संसिद्धान्विनिश्चित्य सभास्थितः ॥६६॥
समभ्यः प्राडविवाकस्तु नृपं सम्बोधयेतत्सदा ।
पंडिताचे कर्तव्य
वर्तमानश्च प्राचीना धर्माः के लोकसंधिताः ॥६७॥
शास्त्रेषु के समुद्दिष्टा विसभ्यन्ते च केऽधुना ।
लोकशास्त्र विरुद्धाः के पण्डितस्तान्विचिन्त्य च ॥६८॥
नृपं संबोधयेनैश्च परन्तेह सुखप्रदैः ।
सुमंताचे कर्तव्य
इयञ्च संचितं द्रव्यं वत्सरेऽस्मिस्तृणादिकम् ॥६९॥
व्ययीभूतमियश्चैव शेषं स्थावर जंगमम् ।
इयदस्तीवि वै राज्ञे सुमन्तो विनिवेदयेत् ॥७०॥
अमात्याचे कार्य
पुराणि च कति ग्रामा अरण्यनि च सन्ति हि ।
कर्विता कति भूःकेन प्राप्तो भागस्ततः कति ॥७१॥
भागशेषं स्थितं कस्मिन्कत्यकृष्टा च भूमिका ।
भागद्रव्यं वत्सरेऽस्मिञ्छुल्कदण्डादिजं कति ॥७२॥
अकृष्टपच्यं कति च कति चारण्यसंभवम् ।
कति चाकरसंजातं निधिप्राप्तं कतीति च ॥७३॥
अस्वामिकं कति प्राप्तं नाष्टिक तस्कराह्रतम् ।
संचितं तु विनिश्चत्यामात्यो राज्ञे निवेदयेत् ॥७४॥
समासाल्लक्षणं कृत्यं प्रधानदशकस्य च ।
अधिकाराची व्याख्या कशी असावी ?
एकस्मिन्नधिकारे तु पुरुषाणां त्रयं सदा ॥७५॥
निपुज्जीत प्राज्ञतमं मुख्यमेकन्तु तेषु वै ।
द्वौ दर्शकौ तु तत्कार्ये हायनैस्तान्निवर्तनम् ॥७६॥
त्रिभिर्वा पञ्चभिवपि सप्तभिर्दशभिश्च वा ।
दृष्ट्वा तत्कार्यकौशल्ये तथा तं परिवर्तयेत् ॥७७॥
नाधिकारं चिरं दद्याद्यस्मै कस्मै सदा नृप ।
अधिकारे क्षमं दृष्ट्वा ह्यधिकारे नियोजयेत् ॥७८॥
अधिकारमदं पीत्वा को न मुह्येत्पुनश्चिरम् ।
अतः कार्यक्षमं दृष्ट्वा कार्येऽन्ये तं नियाजयेत् ॥७९॥
तत्कार्ये कुशलं चान्यं तत्पदानुगतं खलु ।
नियोजयेद्वर्तने तु तदभावे तथा परम् ॥८०॥
तद् गुणों यदि तत्पुत्रस्तत्कार्ये तं नियोजयेत् ।
यथा यथा श्रेष्ठपदे ह्यधिकरी यदा भवेत् ॥८१॥
अनुक्रमेण संयोज्यो ह्यन्ते तं प्रकृति नयेत् ।
बुद्धिजीवि लोकांचे रक्षण
तपस्विनो दानशीलाः श्रुतिस्मृतिविशारदाः ॥८२॥
पौराणिकाः शास्त्रविदो दैवाज्ञा मानित्रिकाश्चये ।
आयुर्वेदविदः कर्मकाण्डज्ञास्तान्मिकाश्चये ॥८३॥
ये चान्ये गुणिनः श्रेष्ठा बुद्धिमन्तो जितेन्द्रियाः ।
तान् सर्वान् पोषयेद् भृत्या दानैर्मानैः सुपूजितान् ॥८४॥
हीयते चान्यथा राजा ह्यकीर्ति चापि विन्दति ।
बहुसाध्यानि कार्याणि तेषामप्यधिपांस्या ॥८५॥
तत्तकार्येषु कुशलाञ्ज्ञात्वा तांस्तु नियोजयेत् ।
योजना अधिकार्याची दुर्लभता
अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ॥८६॥
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ।
सेनापती आणि सैनिक यांची लक्षणे
नीतिशस्त्रास्त्रव्यूहादिनतिविद्याविशारदाः ॥८७॥
अबला मध्यवयसः शूरा दान्ता दृढांगकाः ।
स्वधर्म निरता नियं स्वामिभक्ता रिपुद्विषः ॥८८॥
शूद्रा वा क्षत्रिय वैश्या म्लेच्छाः संकटसम्भवाः ।
सेनाधिपाः सैनिकाश्च कार्या राज्ञा जयार्थिना ॥८९॥
कोषाध्यक्षाचे लक्षण
दान्तस्तु सधनो यस्तु व्यवहार विशारदः ।
धनप्राणोऽतिकृपणः कोषाध्यक्षः स एव हि ॥९०॥
देवाध्यक्षाचे लक्षण
स्वधर्माचरणे दक्षो देवताधने रतः ।
निःस्पृह स च कर्तव्यो देवतुष्टिपतिः सदा ॥९१॥
दानाध्यक्षाचे लक्षण
याचकं विमुखं नैव करोति न च संग्रहम् ।
दानशीलश्च निर्लोभी गुणज्ञश्च निरालसः ॥९२॥
दयालुर्मृवाग्दान - पात्रविन्नति - तत्परः ।
नित्यमेभिर्गुणैर्युक्तो दानस्यक्षः प्रकीर्तितः ॥९३॥
सभासदाचे लक्षण
व्यवहारविदः प्राज्ञा वृत्तशीलगुणान्विताः ।
रिपौ मित्रे समा ये च धर्मता सत्यवादिनः ॥९४॥
निरालसा जितक्रोधकामलोभाः प्रियंवदाः ।
सभ्या सभासदः कार्या वृद्धाः सर्वासु जातिषु ॥९५॥
परीक्षकाचे लक्षण
परोपकार निरतः परमर्माप्रकाशकः ।
निर्यत्सरो गुणग्राही सद् विद्यः स्यात् परीक्षकः ॥९६॥
कराधिकार्याचे लक्षण
वृक्षान् संपुण्य यत्नेन फलं पुष्पं विचिन्वति ।
मालाकार इवात्यन्तं भागहारस्तथाविधः ॥९७॥
लेखकाचे लक्षण
गणनाकुशलो यस्तु देश भाषाप्रभेदवित् ।
असंदिग्धगूढार्थं बिलिश्वेत्स च लेखकः ॥९८॥
द्वारपालाचे लक्षण
शस्त्रास्त्रकुशलो यस्तु दृढांगश्च निरावसः ।
यथायोग्यं समाहूयीत् प्रनम्रः प्रतिहारकः ॥९९॥
कर घेणार्याचे लक्षण
यथा विक्रयिणां मूलधननाशो भवेन्नहि ।
तथा शुल्कं तु हरति शौल्किकः स उदाह्रतः ॥१००॥
तपोनिष्टाचे लक्षण
जपोपवास - नियम- कर्मध्यानरतः सदा ।
दान्तः क्षमो निःस्पृहश्च तपोनिष्ठः स उच्यते ॥१०१॥
दानशील माणसाचे लक्षण
याचकेभ्यो ददात्यर्थं भार्यापुत्रादिकं त्वपि ।
न संगृहणाति यत्किंचितद् दानशीलः स उच्चते ॥१०२॥
श्रुतज्ञाचे लक्षण
पठनं पाठनं तुक क्षमास्त्वभ्यासशालिनः ।
श्रृतिस्मृतिपुराणानां श्रुतज्ञास्त्रे प्रकीर्तिताः ॥१०३॥
पौराणिकाचे लक्षण
साहित्यशास्त्रनिपुणः संगीतज्ञश्च सुस्वरः ।
सर्गादिपञ्चकज्ञाता स वै पौराणिकः स्मृतः ॥१०४॥
शास्त्राविदाचे लक्षण
मीमांसातर्कवेदान्त शब्द शासन तत्परः ।
अहवान्बोधितुं शक्तस्तत्वतः शास्त्रविश्च सः ॥१०५॥
ज्योतिर्विदाचे लक्षण
संहितां च तथा होरां गणितं वेत्ति तत्वतः ।
ज्योतिर्षिच्च स विज्ञेयोस्त्रिकालज्ञश्च यो भवेत ॥१०६॥
मांत्रिकाचे लक्षण
बीजानुपूर्व्या मंत्राणां गुणान्दोषांश्च वेत्ति यः ।
मंत्रानुष्ठान संपन्नो मांत्रिकः सिद्धदैवतः ॥१०७॥
वैद्याचे लक्षण
हेतुलिंगौषधीमिर्यो व्याधीनां तत्वनिश्चयम् ।
साध्यासाध्यं विदित्वोपक्रमते स भिषक्स्मृतः ॥१०८॥
तांत्रिकाचे लक्षण
श्रृतिस्मृतीतदैर्मन्मानुष्ठानैर्देवतार्चनम् ।
कर्तु हिततमं मत्वा यतते स च तांत्रिकः ॥१०९॥
परिचारकाचे लक्षण
अनन्याः स्वामिभक्ताश्च धर्मनिष्ठा दृढांकाः ।
अबाला मध्यवयसः सेवासु कुशलाः सदा ॥११०॥
सर्वं यद्यत्कार्यजातं नीचं वा कर्तुमुद्यताः ।
निदेशकारिणो राज्ञा कर्तव्याः परिचारिकाः ॥१११॥
गुप्तचराचे लक्षण
शत्रुप्रजाभृत्यवृत्तं विज्ञातुं कुशलाश्च ये ।
ते गूढाचराः कर्त्तव्या यथार्थश्रुतबोधकाः ॥११२॥
प्रोक्तंपुण्यतमं सत्यं परोपकरणं तथा ।
आज्ञायुक्तांश्च भृतकान्सततं धारयेन्नृपः ॥११३॥
हिंसा गरीयसी सर्वपापेभ्योऽनृतभाषणम् ।
गरीयस्तरमेताभ्यां युक्तान्भृत्यान्त धारयेत् ॥११४॥
सुसेवकाचे लक्षण आणि कर्तव्य
यदा यदुचितं कर्तुं वक्तुंवा तत्प्रबोधयन् ।
तद्वक्ति कुरुते द्राक्तु स सद् भृत्यः सुपूज्यते ॥११५॥
उत्थाय पश्चिमे यामे गृहकृत्यं विचिन्त्य च ।
कुत्वोसर्गं तु विष्णुं हि स्पृत्वा स्नायाद नन्तरम् ॥११६॥
प्रातः कृत्यं तु निर्वर्त्य यावत्सार्धमुहूर्तकम् ।
गत्वा स्वकार्यशाजां वा कार्याकार्यं विचिन्त्य च ॥११७॥
द्वारपालाचे कर्तव्य
विनाज्ञया विशन्तं तु द्वास्थः सम्यङ निरोधयेत् ।
निदेशकार्य विज्ञाप्य तेनाज्ञप्त प्रमोचयेत् ॥११८॥
हितकारी सेवकाचे काम
प्रियं तथ्यं च पथ्यं च वदेद्धर्मार्थकं वचः ।
समानवार्तया चापि तद्धितं बोधयेत्सदा ॥११९॥
यत्कार्ये यो नियुक्तः स भूयात्तत्कार्यतप्तरः ।
नान्याधिकार मन्विच्छेन्ताभ्यसूयेश्च केनचित् ॥१२०॥
न न्यून लक्षयेत्कस्य पूरयेत स्वशक्तितः ।
परोपकरणादन्यन्न स्यान्मित्रकरं सदा ॥१२१॥
करिण्यामीति ते कार्य न कुर्यात्कार्यलम्बनम् ।
द्राक्कुर्यात्त समर्थश्येत्साशं दीर्घ न रक्षयेत् ॥१२२॥
एकवारमप्यशितं यस्यान्नं ह्यादरेण च ।
तदिष्टं चिन्तयोन्नित्यं पालकस्याञ्जसा न किम् ॥१२३॥
अप्रधानः प्रधानः स्यात्काले चात्यन्त सेवनात् ।
प्रधानोऽप्यप्रधानः स्यात्सेवालस्यादिना यतः ॥१२४॥
मित्रायापि न वक्तव्यं राजकार्य सुमिन्त्रतम् ॥१२५॥
भृतिविना राजद्रव्यमदत्तं नाभिलाषयेत् ।
राजाज्ञया विना नेच्छेत्कार्यमाध्यस्थिकीं भृतिम् ॥१२६॥
न निहन्याद् द्रव्यलोभात्सत्कार्यं यस्थ कस्यचित् ।
स्वस्त्रीपुत्रधनप्राणैः काले संरक्षयेन्नृपम् ॥१२७॥
उत्कोचं नैव गृण्हीयांचन्यथा बोधयेन्नृपम् ।
अन्यथा दंडकं भूपं नित्यं प्रबलदण्डकम् ॥१२८॥
निगृह्य बोधयेत्सम्यगेळांते राज्यगुप्तये ।
हितं राज्ञश्चहितं यल्लोकानां तन्न कारयेत् ॥१२९॥
नवीनकरशुल्काद्यैर्लोक उद्विजते ततः ।
गुणनीतिबलद्वेषी कुलभूतोऽप्यधार्मिकः ॥१३०॥
नृपो यदि भवेत्तं तु त्यजेद्राष्ट्रविनाशकम् ।
न कार्यं भृतकः कुर्यान्नृपलेखाद्विना क्कचित् ।
नाज्ञापयोल्लेखनेन ऽ विनाऽल्पं वा महन्नृपः ॥१३१॥
भ्रान्ते पुरुषधर्मत्वाल्लेख्यं निर्णायकं परम् ।
अलेख्यमाज्ञापयति ह्यलेख्यं यत्करोति यः ॥१३२॥
राजकृत्यमुभौं चोरौ तौ भृत्यनृपति सदा ।
नृपसंचिन्हितं लेख्यं नृपस्तन्न नृपो नृपः ॥१३३॥
राजाद्यांकितलेख्यस्य धारयेत्स्मृतिपत्रकम् ।
कालेऽतीते विस्मृतिर्वा भ्रान्तिः संजायते नृणाम् ॥१३४॥
जय पत्राचे लक्षण
यथोपन्यस्तयाध्यार्थसंयुक्तं सोत्तरक्रियम् ॥१३५॥
सावधारणकं चैव जयपत्रकमुच्यते ।
आज्ञापत्राचे लक्षण
सामन्तेष्यथ भृत्येषु राष्ट्रपालादिकेषु यत् ॥१३६॥
कार्यमादिश्यते येन तदाज्ञापत्रमुच्यते ।
शासन पत्राचे लक्षण
सर्वेश्रृणुत कर्तव्यमाज्ञया मम निश्चितम् ॥१३७॥
स्वहस्तकालसम्पन्नं शासनं पत्रमेव तत् ।
दान पत्राचे लक्षण
गृहभूम्यादिकं दत्त्वा पत्र कुर्यात्प्रकाशकम् ॥१३८॥
अनुच्छेद्यमनाहार्यं दानलेख्यं तदुच्चते ।
क्रयपत्राचे लक्षण
गृहक्षेत्रादिकं क्रित्वा तुल्यमूल्यप्रमाणयुक् ॥१३९॥
पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते ।
ऋणलेख्य पत्राचे लक्षण
वृध्यै धनं गृहीत्वा तु कृतं वा कारितं च यत ॥१४०॥
समाधिमच्च तत्प्रोक्तमृणलेखां मनीषिभिः ।
शुद्धिपत्राचे लक्षण
अभिशापे समुत्तीर्णे प्रायश्चिते कृते बुधैः ॥१४१॥
दत्तं लेख्यं साक्षिमद्यच्छुद्धिपत्रं वदुच्चते ।
प्रतिदान, पारितोषिक आणि वेतनव्यय यांची लक्षणे
मूल्यत्वेन च यद्दत्तं प्रतिदानं स्मृतं हि तत् ।
सेवाशौर्यादिसंतुष्टैर्दतं तत्पारितोषिकम् ॥१४२॥
भृतिरुपेण संदत्तं वेतनं तत् प्रकीर्तितम् ।
उपभोग्याचे लक्षण
धान्यवस्त्रगृहाराम योगजादिरथार्थकम् ॥१४३॥
विद्याराज्याधनार्थं धनाप्त्यर्थं तथैव च ।
व्यथीकृतं रक्षणार्थमुपभोग्यं तदुच्चते ॥१४४॥
यत्र यादृग् व्यवहारस्तत्र तादृक्प्रकल्पयेत् ॥१४५॥
मूल्याची परिभाषा
कारणादि समायोगात्पदार्थस्तु भवेद् भुवि ।
येन व्ययेन संसिद्धस्तद्वययस्तस्य मूल्यकम् ॥१४६॥
मूल्याचे न्यूनाधिक्य यांचे कारण निर्देश
सुलभासुलभत्वाश्चागुणत्व गुणसंश्रयेः ।
यथाकामात्पदार्थानामर्घ हीनाधिकं भवेत् ॥१४७॥
कमी वेतन देण्याने होणार्या अनर्थाचे निर्देश
ये भृत्या हीनभृतिकाः शत्रवस्ते स्वयंकृताः ॥१४८॥
परस्य साधकास्ते तु छिद्रकोश प्रजाहराः ।
सेवकांचे प्रकार
मन्दो मध्यस्तथा शीघ्रस्त्रिविधं भृत्य उच्चते ॥१४९॥
समा मध्या च श्रेष्ठा च भृतिस्तेषां क्रमात्स्मृता ।
सेवकांना सुट्टी देण्याचा नियम
भृत्यानां गृहकृत्यार्थ दिवा यामं समुत्सृजेत् ॥१५०॥
निशि यामत्रयं नित्यं दिनभृत्येऽर्धयामकम् ।
दुखण्याच्या काळात नोकराला पगार देण्याचा प्रकार
पादहीनां भृतिं खर्ति दद्यात्त्रैमासिकीं ततः ॥१५१॥
पञ्चवत्सरभृत्ये तु न्यूनाधिक्यं यथा तथा ।
षाण्मासिकीं तु दीर्घार्त्ते तदूर्ध्वं न च कल्पयेत् ॥१५२॥
नैव पक्षार्धमार्तस्य हाव्याऽल्पापि वै भृतिः ।
संवत्सरोषितस्यापि ग्राह्यः प्रतिनिधिस्ततः ॥१५३॥
सुमहद् गुणिनं त्वार्त भृत्यर्धं कल्पयेत्सदा ।
पेन्शनचा निर्देश
चत्वारिंशत्समा नीताः सेवद्या येन वै नृपः ।
ततः सेवां विना तस्मै भृत्यर्थ कल्पयेत्सदा ॥१५४॥
यावज्जीवं तु तत्पुत्रेऽक्षमे बाले तदयकम् ।
भार्यायां वा सुशीलायां कन्यायां वा स्वश्रेयसे ॥१५५॥
स्वामिकार्ये विनष्टो यस्तत्पुत्रे तद् भृतिं वहेत् ।
यावद्वालो न्यथा पुत्रगणान्दृष्ट्वा भृतिं वहेत् ॥१५६॥
वेळेवर पगार
भृतिदानेन संतुष्टा मानेन परिवर्धिताः ।
सान्त्विता मृदुवाचा ये न त्यजन्त्यधियं हि ते ॥१५७॥
धनच मान आहे
अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥१५८॥
कसल्या राजाची सेवा करु नये
नोपकृतं मन्यते स्म न तृष्यति सुसेवनैः ।
कथान्तरे न स्मरति शंकते प्रलधत्यपि ॥१५९॥
क्षुब्धस्तनोति मर्माणि तं नृपं भृतकस्त्यजेत् ।
लक्षणं युवराजादेः कृत्यमुक्तं समासतः ॥१६०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP