शुक्रनीतिः - प्रथम अध्याय
प्रस्तुत नीति शुक्राचार्यांनी न लिहिता मूळ नीति भगवान् श्रीशंकरांनी लिहिली आहे.
मंगलाचरण
प्रणम्य जगदाधारं सर्गस्थित्यन्नकारणम् ।
संपूज्य भार्गवः पृष्टो वन्दितः पूजितः स्तुतः ॥१॥
पूर्व देवैर्ययान्यायं नीतिसार उवाच तान् ।
शतलक्षश्लोकमितं नीतिशास्त्रमयोक्तवान् ॥२॥
नीतिशास्त्राचा उपक्रम
स्वयंभूर्भगवाँल्लोकहितार्थ संग्रहेण वै ।
तत्सारं तु वसिष्ठाद्यैरस्माभिर्वृद्धिहेतवे ॥३॥
अर्ल्पायुर्भूभृदाद्यर्थ संक्षिप्तं तर्कविस्तृतम् ।
क्रियैकदेशबोधीनि शास्त्राण्यन्यानि संति हि ॥४॥
नीतिशास्त्राची प्रशंसा
सर्वोपंजीवकंलोकस्थितिकृन्नीतिशास्त्रकम् ।
धर्मार्थ काममूलं हि स्मृतं मोक्षप्रदं यतः ॥५॥
अतः सदानीतिशास्त्रमभ्यसेद्यत्नतो नृपः ।
यद्विज्ञानान्नृपाद्याश्च शत्रुजिल्लोकरंजकाः ॥६॥
सुनीतिकुशला नित्यं प्रभंवित च भूमिपाः ।
शब्दार्थानां न किं ज्ञानं विना व्याकरणादभवेत् ॥७॥
सर्वलोकव्यवहारस्थितिर्नीत्या विना नहि ।
यथाऽशनैर्विना देहस्थितिर्न स्याद्धि देहिनाम् ॥८॥
राजाचे नीतिशास्त्र ज्ञानामागील प्रयोजन
सर्वाभीष्टकरं नीतिशास्त्रं स्यात्सर्वसंमतम् ।
अत्यावश्यं नृपस्यापि स सर्वेषां प्रभुर्यतः ॥९॥
शत्रवो नीतिहीनानां यथाऽपथ्याशिनां गदाः ।
सद्यः केश्रिश्च कालेन भवंति न भवंति च ॥१०॥
नृपस्य परमो धर्मः प्रजानां परिपालनम् ।
दुष्टनिग्रहणं नित्यं न नीत्याऽतो विना ह्युभे ॥११॥
अनीतिरेव सच्छिद्रं राज्ञो नित्यं भयावहम् ।
शत्रुसंवर्धनं प्रोक्तं बलहासकरं मलत् ॥१२॥
नीति त्यक्त्वा वर्त्ततेयः स्वतंत्रः स हि दुःखभाक् ।
स्वतंत्रप्रभुसेवा तु ह्यसिधारावलेहनम् ॥१३॥
स्वाराध्यो नीतिमान् राजा दुराराध्यस्त्वनीतिमान् ।
यत्र नीतिबले चोभे तत्र धीस्सर्वतोमुखी ॥१४॥
अप्रेरितहितकरं सर्वराष्ट्रं भवेद्यथा ।
तथा नीतिस्तु संद्यार्था नृपेणात्महिताय वै ॥१५॥
भिन्नं राष्ट्रंबलं भिन्नं भिन्नोऽमात्यादिको गणः ।
अकौशल्यं नृपस्येतदनीतेर्यस्य सर्वदा ॥१६॥
राजदंडभयाल्लोकः स्वस्वधर्मपरो भवेत् ।
यो हि स्वधर्मनिरतः स तेजस्वी भवेदिह ॥१७॥
धर्माची प्रशंसा
विना स्वधर्मान्न सुखं स्वधर्मो हि परं तपः ।
तपः स्वधर्मरुपं यद्वर्थितं येन वै सदा ॥१८॥
देवास्तु किंकरास्तस्य किं पुनर्मनुजा भुवि ।
सुदण्डैर्धर्मनिरताः प्रजाः कुर्यान्महाभयैः ॥१९॥
नृपः स्वधर्मानिरतो भूत्वा तेजः क्षयोऽन्यथा ।
नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते ।
तिर्थच्चोऽपि वंश यांति शौर्यनीतिबलैर्धनैः ॥२०॥
राजाचे भेद
सात्विकं राजसं चैव तामसं त्रिविधं तपः ।
याद्दक्तपति योऽत्यर्थ ताद्दग् भवति वै नृपः ॥२१॥
यो हि स्वधर्मनिरतः प्रजानां परिपालकः ।
यष्टा च सर्वयज्ञानां नेता शत्रुगुणस्य च ॥२२॥
दानशौण्डः क्षमी शूरो निः स्पृहो विषयेण्वपि ।
विरक्तः सात्त्विकः स हि नृपोऽन्ते मोक्षमन्वियात् ॥२३॥
विपरीतस्तामतसः स्यात सोऽन्ते नरकभाजनः ।
निर्घृणश्च मरोन्मत्तो हिंसकः सत्यवर्जितः ॥२४॥
राजसो दांभिको लोभी विषयी वंचकश्शठः ।
मनसाऽन्यश्च वचसा कर्मणा कलहप्रियः ॥२५॥
नीचप्रियः स्वतंत्रश्च नीतिहीनश्छलांतरः ।
स तिर्यक्त्वं स्थावरत्वं भविताऽन्ते नृषाधमः ॥२६॥
देवांशान् सात्त्विको भुंक्ते राक्षसांशांस्तु तामसः ।
राजसो मानवांशांस्तु सत्त्वे धार्य मनो यतः ॥२७॥
सत्त्वस्य तमसः साम्यान्मानुषं जन्म जायते ।
यद्यदाश्रयते मर्त्यस्तत्तुल्यो दिष्टतो भवेत् ॥२८॥
कर्माची महत्ता
कर्मैव कारणं चात्र सुयतिं दुर्गतिं प्रति ।
कर्मेव प्राक्तनमपि क्षणं कि कोऽस्ति चाक्रियः ॥२९॥
जाति भेद
न जात्या ब्राह्मणश्चात्र क्षत्रियो वैश्य ऐव न ।
न शूद्रो न च वै म्लेच्छो भेदिता गुणकर्मभिः ॥३०॥
ब्रह्मणस्तु समत्पन्नाः सर्वे ते किं तु ब्राह्मणाः ।
न वर्णतो न जनकाद् ब्राह्मतेज; प्रपयते ॥३१॥
ज्ञान कर्मोपासनाभिर्देवताराधने रतः ।
शान्तो दांतो दयालुश्च ब्राह्मणश्च गुणैः कृतः ॥३२॥
लोकसंरक्षणे दक्षः शूरो दांतः पराक्रमी ।
दुष्टनिग्रहशीलो यः स वै क्षत्रिय उच्चते ॥३३॥
क्रयविक्रयकुशला ये नित्यं पण्यजीविनः ।
पशुरक्षाकृषिकरास्ते वैश्याः कीर्तिता भुवि ॥३४॥
द्विजसेवाचनरताः शूराः शान्ता जितेन्द्रियाः ।
सीरकाष्ढतृणवहास्ते नीचाः शूद्रसंज्ञकाः ॥३५॥
त्यक्तस्वधर्माचरणा निर्घृणाः परपीडकाः ।
चण्डाश्च हिंसका नित्यं म्लेच्छस्ते ह्यविवेकिनः ॥३६॥
कर्मफल आणि भाग्य
प्राक्कर्मफलभोगार्हा बुद्धिः संजायते नृणाम् ।
पापकर्मणि पुण्ये वा कर्तुं शक्तो न चान्यथा ॥३७॥
बंद्धिसत्पधते ताद्दग् याद्दक्कर्मफलोदयः ।
सहायास्ताद्दशा ऐव याद्दशी भवितव्यता ॥३८॥
प्राक्कमवशतः सर्वं भवत्येवेति निश्चितम् ।
तदोपदेशा व्यर्थाः स्युः कार्याकार्यप्रबोधकाः ॥३९॥
श्रीमन्तो वन्द्यचरिता मन्यन्ते पौरुषं महत् ।
अशक्ताः पौरुषं कर्तुं क्लीबा दैवमुपासते ॥४०॥
दैवे पुरुषकारे च खलु सर्वं प्रतिष्ठितम् ।
पूर्वजन्मकृतं कर्मेहाजितं तद् द्विधा कृतम् ॥४१॥
बलवत्प्रतिकारि स्याद् दुर्बलस्य सदैव हि ।
सबलाबलयोर्ज्ञानं फलप्राप्त्याऽन्यथा नहि ॥४२॥
फलोपलब्धिः प्रत्यक्षहेतुना नैव दृश्यते ।
प्राक्कर्महैतुकी सा तु नान्यथैवेति निश्चयः ॥४३॥
यज्जयतेऽल्पक्रियया नृणां कपि महत्फलम् ।
तदपि प्राक्तनादेव केचित् प्रागिह कर्मजम् ॥४४॥
वदन्तीहैव क्रियया जायते पौरुषं नृणाम ।
सस्नेहवर्तिर्दीपस्य रक्षा वातात् प्रयत्नतः ॥४५॥
अवश्यंभाविभावानां प्रतीकारो न चेद्यदि ।
दुष्टानां क्षपणं श्रेयो यावद् बुद्धिबलोदयैः ॥४६॥
प्रतिकूलानुकूलाभ्यां फलाभ्यां च नृपोऽप्यतः ।
यीषन्मध्याधिकाभ्यां च त्रिधा दैवं विचिन्तयेत् ॥४७॥
रावणस्य च भीष्मादेर्वनभंगे च गोग्रहे ।
प्रतिकूल्यं तु विज्ञातयकस्याद्वानरान्नरात् ॥४८॥
कालानुकूष्यं विस्पष्टं राघवस्यार्जुनस्य च ।
अनुकूले यदा दैवे क्रियाऽल्पा सुफला भवेत् ॥४९॥
महती सत्क्रियाऽनिष्टफला स्यात् प्रतिकूलके ।
बलिर्दानेन संबद्धी परिश्चन्द्रस्तथैव च ॥५०॥
भवतीष्टं सत्क्रिययाऽनिष्टं तद्विपरीतया ।
शास्त्रतः सदसज्ज्ञात्वा त्यक्त्वाऽसत्सयाचरेत् ॥५१॥
कालस्य कारणं राजा सदसत्कर्मणस्त्वतः ।
स्वक्रौर्योद्यतदण्डाभ्यां स्वधर्मेस्थापयेत् प्रजाः ॥५२॥
राजाची अंगे
स्वाम्यमात्यसुह्रत्कोशराष्ट्रदुर्गबलानि च ।
सप्तांगमुच्यते राज्यं तत्र मूर्धा नृपः स्मृतः ॥५३॥
द्दगमात्यः सुह्रच्छोत्रं मुखं कोशो बलं मनः ।
हस्तौ पादौ दुर्गराष्ट्रे राज्यांगानि स्मृतानि हि ॥५४॥
यदि न स्यान्नरपतिः सम्यड् नेता ततः प्रज्ञाः ।
अकर्णधारा जलधौ विप्लवेते नौरिव ॥५५॥
न तिष्ठन्ति स्वस्वधर्मे विना पालेन वै प्रजाः ।
प्रजया तु बिना स्वामी पृथिव्यां नैव शोभते ॥५६॥
न्यायप्रवृत्तो नृपतिरात्मानमय च प्रजा ।
त्रिवर्गेणोपसंधत्ते निहन्ति ध्रुवमन्यथा ॥५७॥
वायुर्गन्धस्य सदसत्कर्मणः प्रेरको नृपः ।
धर्मप्रवर्त्तको धर्मनाशकस्तमसो रविः ॥५८॥
पिता माता गुलरुभ्राता बन्धुर्वैश्रवणो यमः ।
नित्यं सप्तगुणैरेषां युक्तो राजा न चान्यथा ॥५९॥
गुणसाधनसंदक्षः स्वप्रजायाः पिता यथा ।
क्षमयित्र्य पराधानां माता पुष्टिविधायिनी ॥६०॥
हितोपदेष्टा शिष्यस्य सुविधाऽध्यापको गुरुः ।
स्वभागोद्धारकृद् भ्राता यथाशास्त्रं पितृर्थनात् ॥६१॥
आत्मस्त्रीधनगुह्यानां गोप्ता बन्धुस्तु मित्रवत् ।
धनदस्तु कुबेरः स्याद्यमः स्याश्च सुदण्डकृत् ॥६२॥
प्रवृद्धिमति सम्राजि निवसन्ति गुणा अमी ।
ऐते सप्त गुणा राज्ञा न हातव्याः कदाचन ॥६३॥
क्षमते योऽपराधं स शक्तः स दयने क्षमी ।
क्षमया तु विना भूपो न भात्यखिल सदगुणैः ॥६४॥
स्वान् दुर्गुणान् परित्यज्य ह्यतिवादांस्तितिक्षते ।
दानैर्मानैश्च सत्कारैः स्वप्रजारंजकः सदा ॥६५॥
दान्तः शूरश्च शस्त्राकुशलो रिनिषूदनः ।
अस्वतन्यश्च मेधावी ज्ञानविज्ञानसंयुतः ॥६६॥
नीचाहीतो दीर्घदर्शी वृद्धसेवी सुनीतियुक् ।
गुणिजुष्टस्तु यो राजा स ज्ञेयो देवतांशकः ॥६७॥
अवश्यमेव भोक्तव्यं कृतकर्मफलं नरैः ।
प्रतिकारैर्विना नैव प्रतिकारे कृते सति ॥६८॥
तथा भोगाय भवति चिकित्सितगदो यथा ।
उपदिष्टेऽनिष्टहेतौ तत्तकर्तुं यतेत कः ॥६९॥
रज्यते सत्फले स्वान्तं दुष्फले नहि कस्यचित् ।
सदसद्धोधकान्येव द्दष्टवा शास्त्राणि चाचरेत् ॥७०॥
नयस्य विनयो मूलं विनयः शास्त्रनिश्चयात् ।
विनयस्येन्द्रियजस्तद्युक्तः शास्त्रपृच्छति ॥७१॥
आत्मानं प्रथमं राजा विनयेनोपपादयेत् ।
ततः पुत्रांस्तनोऽमात्यांस्ततो भृत्यांस्ततः प्रजाः ॥७२॥
परोपदेशकुशलः केवलो न भवेन्नृपः ।
प्रजाधिकारहीनः स्यात् सगुणोपि नृपः क्कचित् ॥७३॥
न तु नृपविहीनाः स्युर्दुर्गुणा ह्यपि तु प्रजाः ।
यथा न वियवेन्द्राणी सर्वदा तु तथा प्रजाः ॥७४॥
सदानुरक्तप्रकृतिः प्रजापालनतत्परः ।
विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते ॥७५॥
प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनम् ।
ज्ञानांकशेन कुर्वीत वशमिन्द्रियदंतिनम् ॥७६॥
ऐकस्येव हि यो शक्तो मनसः सन्निबर्हणे ।
महीं सागरपर्यन्तां स कथं ह्यवजेष्यति ॥७७॥
शब्द स्पर्शश्च रुपं च रसो गन्धश्च पञ्चमः ।
ऐकैकन्त्वलमेतेषां विनाशप्रतिपत्तये ॥७८॥
द्युतं स्त्री मद्यमेवैतत्मित्यं बह्वनर्थकृत् ।
अद्युक्तं युक्तियुक्त हि धनुपुत्रमतिप्रदम् ॥७९॥
स्त्रीचे आकर्षण
स्त्रीणांर्द्वनामापि संह्लादि विकरोत्येव मानसम ।
किपुनर्दर्शनं तासां विलासोल्लासितभ्रुवाम् ॥८०॥
रहः प्रचारकुशला मृदुगद्रदभाषिणी ।
कं न नारी वशीकुर्यान्नरं रक्तान्तलोचना ॥८१॥
मुनेरपि मनो वश्यं सरागं कुसतेंऽगना ।
जितेंद्रियस्य का वार्ता किंपुत्रश्चाजितात्मनाम् ॥८२॥
व्यायच्छन्तश्च बहवः स्त्रीषु नाशं गता अर्या ।
इंद्रदण्डक्यनहुषरावणाद्या नृपा ह्यतः ॥८३॥
मद्य आणि काम - क्रोध यांचा प्रयोग
अतिमद्यं हि पिबतो बुद्धिलोपो भवेत्किल ।
प्रतिभां बुद्धिवैशद्यं धैर्यं चित्तविनिश्चयम् ॥८४॥
तनोति मात्रया पीतं मद्यमन्याद्विनाशकृत ।
कामक्रोधौ मद्यतमो नियोक्तव्यौ यथोचितम् ॥८५॥
परस्त्री संगमे कामो लोभो योज्यो नान्यधनेषु च ।
स्वप्रजादण्डने क्रोधो नैव धार्यो नृपैः कदा ॥८६॥
राजा कुणाला म्हणावे
किमुच्चते कुटुम्बीति परस्त्रीसंगमान्नरः ।
स्व प्रजादण्डनाच्छूरो धनिकोऽन्यधनैश्च किम् ॥८७॥
अरक्षितारं नृपतिं ब्राह्मणं चातपस्विनम् ।
धनिकं चाप्रदातारं देवा ध्नन्ति त्यजन्त्यधः ॥८८॥
स्वामित्वं चैव दातृत्वं धनिकत्वं तपः फलम् ।
ऐनसः फलमथित्वं दास्यत्वं च दरिद्रता ॥८९॥
द्दष्ट्वा शास्त्राण्यथात्मानं सन्नियम्य यथोचितम् ।
कुर्यान्नृपः स्ववृत्तं तु परत्रेह सुखाय च ॥९०॥
राजाचे गुण - दोष
दुष्टनिग्रहणं दानं प्रजायाः परिपालनम् ।
यजनं राजसूयादेः कोशानां न्यायतोऽर्जनम् ॥९१॥
करदीकरणं राज्ञां रिपूणां परिमर्दनम् ।
भूमेरुपार्जनं भूयो राजवृत्तं तु चाष्ट्या ॥९२॥
न वर्धितं बलं यैस्तु न भूपाः करदीकृताः ।
न प्रजाः पालिताः सम्यक्ते वै षंढतिला नृपाः ॥९३॥
प्रजा सूद्विजते यस्माथत्कर्म परिनिन्दति ।
त्यज्यते धनिकैर्यस्तु गुणिभिस्तु नृपाधमः ॥९४॥
नट गायक गणिकामल्लषंढाल्पजातिषु ।
योऽतिसक्तो नृपो निन्द्यः स हि शत्रुमुखे स्थितः ॥९५॥
बुद्धिमंतं सदा द्वेष्टि मोदते वंचकैः सह ।
स्वदुर्गुणं न वै वेत्ति स्वात्मनाशाय सो नृपः ॥९६॥
नापराधं हि क्षमते प्रदंडो धनकारकः ।
स्वदुर्गुणश्रवणतो लोकानां परिपीऽकः ॥९७॥
नृपो यदा तदा लोकः क्षुभ्यते भिद्यते यतः ।
गूढ चारैः श्रावयित्वा स्ववृत्तं दूषयंति के ॥९८॥
भूषयंति च कैर्भावैरमात्याद्याश्च तद्विदः ।
मयि कीद्दक् च संप्रीतिः केषामप्रीतिरेव वा ।
ममागुणैर्गुणैर्वापि गूढं संश्रुत्य चाखिलम् ॥९९॥
चारैः स्वदुर्गुणं ज्ञात्वा लोकतः सर्वदा नृपः ।
सुकीर्त्यै संत्यजेन्नित्यं नावमन्येत वै प्रजाः ॥१००॥
शक्तेनापि हि न घृतो दण्डा तपो रजके कचित् ।
ज्ञान विज्ञान संपन्न - राजदत्ताभयो पि च ॥१०१॥
समक्षं वक्ति न भयाद्राज्ञो गुर्वपि दूषणम् ।
स्तुतिप्रिया हि वै देवा विष्णुमुख्या इति श्रुतिः ॥१०२॥
किं पुनर्मनुजा नित्यं निंदाजः क्रोध इत्यतः ।
राजा सुभागदंडी स्यात्सुक्षमी रंजकः सदा ॥१०३॥
यौवनं जीवितं चित्तं दाया लक्ष्मीश्च स्वामिता ।
चञ्चलानि षडेतानि ज्ञात्वा धर्मरतो भवेत् ॥१०४॥
अदानेनापमानेन छलाञ्च कटुवाक्यतः ।
राज्ञः प्रबलदंडेन नृपं मुंचति वै प्रजा ॥१०५॥
अतिभीसमतिदीर्घसूत्रं चातिप्रमादिनम् ।
व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं प्रजाः ॥१०६॥
विपरीतगुणैरेभिः सात्वया रज्यते प्रजा ।
ऐकस्तनोति दुष्कीर्ति दुर्गुणः संघशो न किम् ।
मृगयाऽक्षास्तया पानं गर्हितानि महीभुनाम् ॥१०७॥
द्दष्टास्तेभ्यस्तु विपदः पांडुनैषधवृष्णिषु ।
कामक्रोधस्तथा मोहो लोभो मानो मदस्तथा ।
षड्वर्गमुत्यृजेदेनमस्मिंस्त्यक्ते सुखी नृपः ॥१०८॥
दंडक्यो नृपतिः कामात्क्रोधाच्च जनमेजयः ।
लोभदैलस्तु राजषिर्मोहाद्वाता पिरासुरः ॥१०९॥
पौलस्त्यो राक्षसो मानान्मदाद्दम्भोभ्दवो नृपः ।
प्रयाता निधनं ह्येते शत्रुषड्वर्गमाश्रिताः ॥११०॥
शास्त्राय गुरुसंयोगः शास्त्रं विनयवृद्धवे ।
विद्याविनीतो नृपतिः सतां भवति समतः ॥१११॥
प्रेर्थमाणोप्यसदवृत्तैर्नाकार्येषु प्रवतते ।
श्रृत्या स्मृत्या लोकतश्च मनसा साधु निश्चितम् ॥११२॥
यत्कर्मधर्मसंज्ञं तद्वचवस्यति च पंडितः ।
आददानः प्रतिदिनं कलाः सम्यड्महीपतिः ॥११३॥
जितेंद्रियस्य नृपतेर्नीतिशास्त्रानुसारिणः ।
भवत्युच्चलिता लक्ष्म्या कीर्तयश्च नभः स्पृशः ॥११४॥
अंगानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
धर्मशास्त्रपुराणानि त्रयीदं सर्वमुच्यते ॥११५॥
कुसीदकृषिवाणिज्यं गोरक्षा वार्तयोच्यते ।
संपन्नो वार्तया साधुर्न वृत्तेर्भयमृच्छति ॥११६॥
सुजनैः संगमं कुर्याद्धर्माय च सुखाय च ।
सेव्यमानस्तु सुजनैर्महानतिविराजते ॥११७॥
हिमांशुमालीव तथा नवोत्फल्लोत्पलं सरः ।
आनन्दयति चेतांसि तथा सुजनचेष्टितम् ॥११८॥
ग्रीष्मसूर्यांशुसंतप्तमुद्वेजनमनाश्रयम् ।
मरुस्थलभिवोदग्रं त्यजेद् दुर्जनसंगतम् ॥११९॥
निः श्वासोद्रीणहुतभुग् धुमधूम्रीकृताननैः ।
वरमाशीविषैः संगं कुर्यान्त त्वेव दुर्जनैः ॥१२०॥
क्रियतेऽभ्यर्हणीयाय सुजनाय यथांऽजलिः ।
ततः साधुतरः कार्यो दुर्जनाय हिताथिना ॥१२१॥
ह्यदि विद्ध ऊवात्यर्थ यथा संतप्यते जनः ।
पीडितोऽपि हि मेधावी न तां वाचमुदीरयेत् ॥१२२॥
प्रियमेवाभिधातव्यं नित्यं सत्सु द्विषत्सु वा ।
शिखीव केकां मधुरां वाचं ब्रुते जनप्रियः ॥१२३॥
मदरक्तस्य हंसस्य कोकिलस्य शिखंडिनः ।
हरंति न तथा वाचो यथा वाचो विपश्चिताम् ॥१२४॥
ये प्रियाणि प्रभाषंते प्रियमिच्छंति सत्कृतम् ।
श्रीमन्तो वंद्यचरिता देवास्ते नरविग्रहाः ॥१२५॥
नहीदृशं संवननं त्रिषु लोकेषु विद्यते ।
दया मैत्री च भृतेषु दानं च मधुरा च वाक् ॥१२६॥
पराक्रमो बलं बुद्धिः शौर्यमेते वरा गुणाः ।
एभिर्हीनो न्यगुणयुग्मद्दिभुक् सयतो मि च ॥१२७॥
महीं स्वल्पां नैव भुक्ते द्रुतं राज्ज्याद्विनश्यति ।
महाधनाथ नृपतेर्विभात्यल्पो पि पार्थिवः ॥१२८॥
अव्याहताज्ञस्तेजस्वी एभिरेव गुणर्भवेत् ।
राज्ञः साधारणास्त्वन्ये न शक्ता भूप्रसाधने ॥१२९॥
पूज्यस्त्वेभिर्गुणैभूपो न भूपः कुलसंभवः ।
न कुले पूज्यते याद्दग्वलशौर्यपराक्रमैः ॥१३०॥
धर्मशाळेची व्यवस्था
ग्रामद्वयान्तरे चैव पान्थशाला प्रकल्पयेत् ।
नित्यं सम्मार्जितां चैव ग्रामपैश्च सुगोपिताम् ॥१३१॥
तत्रागतं तु संपृच्छेत्पान्थं शालाधिपः सदा ।
प्रयातोसि कुतः कस्यात्क्क गच्छसि ऋतंवद ॥१३२॥
ससहायोऽसहायो वा सशस्त्रः किं सवाहनः ।
का जातिः किं कुलं नाम स्थितीः कुत्रास्तिते चिरम् ॥१३३॥
इति पृष्ट्व लिखेत्सायं शस्त्रं तस्य प्रगृह्य च ।
सावयानमना भूत्वा स्वापं कुर्विति शासयेत ॥१३४॥
तत्रस्थान्गणयित्वा तु शालाद्वारं पिधाय च ।
संरक्षयेद्यामिकेश्च प्रभाते तान् प्रबोधयेत् ॥१३५॥
शस्त्रं दद्याश्च गणयेद् द्वारमुद्धारय मोचयेत् ।
कुर्यात्सहायं सीमान्तं तेषां ग्राम्यजनस्सदा ॥१३६॥
राजाची दिनचर्या
प्रकुर्याद्दिनकृत्यं तु राजधान्यां वसन्नृपः ॥१३७॥
उत्थाय पश्चिमे यामे मुहूर्ताद्वितयेन वै ।
नियतायश्च कत्यास्ति व्यवश्च नियतः कति ॥१३८॥
कोशभूतस्य द्रव्यस्य व्ययः कतिगतस्तथा ।
व्यवहारे मुद्रितायव्ययशेषं कतीति च ॥१३९॥
प्रत्यक्षतो लेखतश्च ज्ञात्वा चाद्य व्ययः कति ।
भविष्यति च तत्तुल्यं द्रव्यं कोशन्त् निर्हरेत् ॥१४०॥
पश्चात्तु बेगनिर्मोक्षं स्नानं मौहूर्तिकं मतम् ।
सन्ध्यापुराणदानैश्च मुहूर्तद्वितयं नयेत् ॥१४१॥
पारितोषिकदानेन मुहूर्तं तु नयेत्सुधीः ।
धान्यवस्त्रस्वर्णरत्नसेनादेशविले खनैः ॥१४२॥
सायव्ययैमुहूर्तानां चतुष्कं तु नयेत्सदा ।
स्वस्थचित्तो भोजनेन मुहूर्तं ससुह्रन्नृपः ॥१४३॥
प्रत्यक्षीकरणाज्जीर्णनवीनानां मुहूर्तकम् ।
ततस्तु प्राडविवाकादिबोधितव्यवहारतः ॥१४४॥
मुहूर्तद्वितयं चैव मृगयाक्रीडनैर्नयेत् ।
व्यूहाभ्यासैर्मुहूर्तं तु मुहूर्तं सन्धया ततः ॥१४५॥
मुहूर्तं भोजनेनैव द्विमुहूर्तं च वार्तया ।
गूढचारैः श्रावितया निद्रयाष्टमुहूर्तकम् ॥१४६॥
एव विहरतो राज्ञः सुखं सम्यक्प्रजायते ।
अहोरात्रं विभज्यैवं त्रिंशभ्दिस्तु मुहूर्तकैः ॥१४७॥
नयेत्कालं वृथा नैव नयेत्स्त्रीमद्यसेवनैः ।
यत्कालै ह्युचितं कर्तु तत्कार्य द्रागशंकितम् ॥१४८॥
काले वृष्टिः सुपोषाय ह्यन्यथा सुविनाशिनी ।
कार्यस्थानानि सर्वाणि यामिकैरभितोऽनिशम् ॥१४९॥
नयवान्नीतिगतिवित्सिद्ध शस्त्रादिकैर्वरैः ।
चतुर्भिः पञ्चभिंर्वापि षड् भिर्वा गोपयेत्सदा ॥१५०॥
तत्रत्यानि दैनिकानि श्रृणुयाल्लेखकाधिपैः ।
दिने दिने यामिकांना प्रकुर्यात्परिवर्तनम् ॥१५१॥
राजाचे आदेश
शासनं त्वीद्दशं कार्य राज्ञा नित्यं प्रजासु च ॥१५२॥
दासे भूत्येऽथ भार्यायां पुत्रे शिष्येपि वा क्कचित ।
वाग्दंडपरुषन्नैव कार्य मददेशसंस्थितैः ॥१५३॥
तुलाशासनमानानां नाणकस्यापि वा क्कचित् ।
निर्यासनां च धातूनां सजातीनां घृतस्य च ॥१५४॥
मधुदुग्धवसादीनां पिष्टादीनां च सर्वदा ।
कूट नैव तु कार्यं स्याद्वलाश्च लिखितं जनैः ॥१५५॥
युत्कोचग्रहणं नैव स्वामिकार्यविलोपनम् ।
दुर्वृत्तकारिणं चोरं जारमेद्वषिणं द्विषम ॥१५६॥
न रक्षन्त्वप्रकाशं हि तथान्यानपकारकान् ।
मातृणां पितृणां चैव पूज्यानां विदुषामपि ॥१५७॥
नावमानं नोपहासं कुयुः सदवृत्तशालिनाम् ।
न भेदं जनयेयुर्वै नृनार्योः स्वामिभृत्ययोः ॥१५८॥
भ्रातृणां गुरुशिष्याणां न कुर्युः पितृपुत्रयोः ।
द्यूतं च मद्यपानं च मृगया शस्त्रधारणम् ॥१५९॥
गोगजाश्वोष्ट्रमहिणीनृणां वै स्थावरस्य च ।
रजतस्वर्णरत्नानां मादकस्य विषस्य च ॥१६०॥
क्रयं वा विक्रयं वापि मद्यसंधानमेव च ।
क्रयपत्रं दानपत्रमृणनिर्णय पत्रकम् ॥१६१॥
राजाज्ञथा विना नैव जनैः कार्यं चिकित्सितम् ।
महापापाभिशपनं निधिग्रहणमेव च ॥१६२॥
स्वधर्ममहानिमनृतं परदाराभिमर्शनम् ॥१६३॥
कूटसाक्ष्यं कूटलेख्यमप्रकाश प्रतिग्रहम् ।
निर्धारितकराधिक्यं स्जेयं साहसमेव च ॥१६४॥
मनसापि न कुर्वन्तु स्वामिद्रोहं तथैव च ।
भृत्या शुतकेन भागेन वृद्धया दर्पबलाच्छलात् ॥१६५॥
आघर्षणं न कुर्वन्तु यस्य कस्यापि सर्वदा ।
परिमाणोन्मानमानं धार्यं राजमुद्रितम् ॥१६६॥
गुणसाधनसंदक्षा भवन्तु निखिला जनाः ।
साहसाधिकृते दधुविनिगृहयाततायिनम् ॥१६७॥
उत्सृष्टा वृषभाद्या यैस्तैस्ते धार्याः सुयंत्रिताः ।
इति मच्छासनं श्रृत्वा येऽन्यथा वर्तयन्ति तान् ॥१६८॥
विनिशिष्यामि दण्डेन महता पापकारकान् ।
इति प्रबोधयेन्नित्यं प्रजाः शासनडिंडिमैः ॥१६९॥
प्रजानां पालनं कार्य नीतिपूर्व नृपेण हि ।
मार्गसंरक्षण कुर्यान्नृपः पान्थसुखाय च ॥१७०॥
पान्थप्रपीडका ये ये हंतव्यास्ते प्रयत्नतः ।
राजस्य यशसः कीर्तेर्धनस्य च गुणस्य च ॥१७१॥
प्राप्तस्य रक्षणेन्यस्य हरणेऽनुद्यमोपि च ।
संरक्षणे संहरणे सुप्रयत्नो भवेत्सदा ॥१७२॥
शौर्यपांडित्यवक्तृत्वं दातृत्वं न त्यजेत्क्कचित् ।
बलं पराक्रमं नित्यमुत्थानं चापि भूमिपः ॥१७३॥
शूर कोण आहे ?
समितौ स्वात्मकार्ये वा स्वामिकार्ये तथैव च ।
त्यक्त्वा प्राणभयं युध्येत्स शूरस्त्वविशंकित; ॥१७४॥
पंडित कोण आहे ?
पक्षं संत्यज्य यत्नेन बालव्यापि सुभाषितम् ।
ग्रहणाति धर्मतत्त्वं व व्यवस्यति च पण्डितः ॥१७५॥
वक्ता कोण आहे ?
राज्ञोपि दुर्गुणान्वक्ति प्रत्यक्षमविशंकितः ।
स वक्ता गुणतुल्यांस्तान्न प्रस्तौति कदाचन ॥१७६॥
दाता कोण आहे ?
अदेयं यस्य वै नास्ति भार्यापुत्राविकं धनम् ।
आत्मानमपि सन्दत्ते पात्रे दाता स उच्यते ॥१७७॥
बल, पराक्रम आणि उत्थान काय आहे ?
अशंकितक्षमो येन कार्यं कर्तुं बलं हि तल् ।
किंकरा यिव येनान्ये नृपाधाः स पराक्रमः ॥१७८॥
युद्धानुकूलव्यापार युत्थाननमितिकीर्तितम् ।
विषाक्त अन्नाची परीक्षा कशी करतात ?
विषदोषभयादन्नं विमृशेत् कपिकुक्कुरैः ॥१७९॥
हंसाः स्खलन्ति कूजन्ति भृंगा नृत्यन्ति मायुराः ।
विरौति कुक्कुरो माद्येत् क्रौंचो वै रेचते कपिः ॥१८०॥
ह्रष्टरोमा भवेद् बभ्रुः सारिका वमते तथा ।
हष्टवैवं सविषं चान्नं तस्माद् भोज्यं परीक्षयेत् ॥१८१॥
शिकारीचा लाभ
शीर्यं प्रवर्धते नित्यं लक्ष्यसन्धानमेव च ॥१८२॥
अकातरत्वं शस्त्रास्त्रशीघ्र पातनकारिता ।
मृगयायां गुणा ऐते हिंसादोषों महत्तरः ॥१८३॥
राज्याचा स्वामी
सदैकनायकं राज्यं कुर्यान्न बहुनायकम् ।
नानायकं क्कचिदपि कर्तुमीहेत भूमिपः ॥१८४॥
राजा कुणाला बनवावे ?
राजकुले तु बहवः पुरुषा यदि संति हि ।
तेषु ज्येष्ठो भवेद्राजा दोषास्तत्कार्यसाधकाः ॥१८५॥
गरीयांसो वराः सर्वसहायेभ्योऽभिवृद्धये ।
ज्येष्ठोपि बधिरः कुष्ठी मूको न्धः ऐव यः ॥१८६॥
स राज्यार्हो भवेन्नैव भ्राता तत्पुत्र ऐव हि ।
स्वकनिष्ठोणि ज्येष्ठस्य भ्रातुः पुत्रस्तु राज्यमाक् ॥१८७॥
यथाऽग्रजस्य चाभावे कनिष्ठा राज्यभागिनः ।
राजाने निर्णय कसा घ्यावा ?
सर्वस्मादधिको दाता शूरस्त्वं धामिको ह्यसि ।
ऐति वाचं न धुणुयाच्छावका वंचकास्तु ते ॥१८८॥
रागाल्लोभाद् भयाद्राज्ञः स्युर्मूका ऐव मंत्रिणः ।
नताननुमतान्विद्यान्नृपतिः स्वार्थसिद्धये ॥१८९॥
पृथक्पृथड्मतं तेषां लेखायित्वा ससाधनम् ।
विमृशेत्स्वमतेनैव यत्कृर्याद्वहुसम्मतम् ॥१९०॥
राजाने संगती कुणाशी धरावी ?
अतः स्वबांधवैमित्रैः स्वसाम्यप्रापितैर्गुणैः ॥१९१॥
प्रकृतिभिर्नृपो गच्छेन्न नीचैस्तु कदाचन ।
मिथ्यासत्यसदाचारैर्नीचः साधुः क्रमात्स्मृतः ॥१९२॥
साधुभ्योऽतिस्वमृदुत्वं नीचाः संदर्शऽयान्ति हि ।
राजाने दरवर्षी निरीक्षण करावे
ग्रामान्पुराणि देशांश्च स्वयं संवीक्ष्य वत्सरे ।
अधिकारिगणैः काश्च रंजिताः काश्च कर्षिताः ॥१९३॥
प्रजास्तासां तु भूतेन व्यवहारं विचिन्तयित् ।
न भुत्यपक्षपाती स्थात्प्रजापक्षं समाश्रयेत् ॥१९४॥
न संत्यजेञ्च स्वस्थानं नीत्या शत्रुगणं जयेत् ।
स्थानभ्रष्टा नो विभांति दंताः केशा नखा नृपाः ॥१९५॥
उक्तं समासतो राजकृत्यं मिश्रेऽधिकं ब्रुवे ॥१९६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP