संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ भाद्रपदमास:| जनार्दनपूजाविधि: अथ भाद्रपदमास: हरितालिकापूजाविधि: सिद्धिविनायकपूजाविधि: दूर्वायुग्मपूजा स्यमन्तकोपाख्यानप्रारम्भ: ऋषिपञ्चमीव्रताङ्गपूजाविधि सूर्यषष्ठी मुक्ताभरणपूजाविधिः ज्येष्ठापूजनविधि: महालक्ष्मीपूजाविधि: दूर्वाष्टमीवतम् अदु:खनवमीव्रताङ्गपूजाविधि विष्णुपरिवर्तनविधि: जनार्दनपूजाविधि: वामनपूजाविधि: श्रवणद्वादशीकथाप्रारम्भ: अनन्तपूजाविधि: कपिलाषष्ठीपर्वयोग: भाद्रपदमास: - जनार्दनपूजाविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत जनार्दनपूजाविधि: Translation - भाषांतर ॥ भाद्रपदशुक्लश्रवणद्वादश्यां जनार्दनपूजाविधि: ॥श्रवणयुतायां द्वादश्यां यं कञ्चित्सङ्गमं गत्वा द्वादशापामार्गसमिद्भि: मुखदुर्गन्धीतिमन्त्रेण दन्तान् संशोध्य, द्वादशगण्डूषान् कृत्वा, सङ्गमं प्रार्थयेत् । त्वमेव तीर्थराजोऽसि त्वमेव सरितां पति: । सङ्गमस्त्वं प्रसन्नो मे प्रसादं कुरु सङ्गम इति ॥ तत: आचम्य देशकालौ स्मृत्वा, मम समस्तपापक्षयपूर्वकविष्णुलोकप्राप्त्यर्थं शरीरशुध्यर्थं अमुक सङ्गमे स्नानमहं करिष्ये । इति सङ्कल्प्य, वरो वरेण्यो वरदो वराहो धरणीधर: । अपवित्रं पवित्रं मां करोतु भगवान् हरि: ॥ इति मन्त्रेण स्नात्वा देवपितृतर्पणं कृत्वा शुक्ले वाससी परिधाय आचम्य जलैर्घटं पूरयित्वा मौनेन गृहमागच्छेत । ततो भूर्मि गोमयेनोपलिप्त रङ्गवल्यादिभिरलङकृत्य तत्र पीठोपरि आनीतघटं बाह्मणद्वारा महीद्यौरित्यादिना स्थाप्य, पूर्णपात्रनिधानान्तं कृत्वा, तदुपरि सौवर्णीं लक्ष्मीसहितां जनार्दनप्रतिमामग्न्युत्तारणप्राणप्रतिष्ठापूर्वक स्थापयेत् । तत्समीपे दध्योदनसहितं शिक्यं कौपीनं मेखलां यज्ञोपवीतं पालाशदण्डं छत्रं पादुके कमण्डलुं च स्थापयेत् ॥ अथ पूजाविदि: ॥ आचम्य देशकालौ स्मृत्वा, मम इह जन्मनि जन्मान्तरे च पिशाचादिदुर्योनित्वादिसकलदोषपरिहारपूर्वकसमस्तपापक्षयार्थं पुत्रपौत्राद्यभिवृदुध्यर्थं श्रीविष्णुलोकप्राप्त्यर्थं आचरितश्रवणद्वादशीव्रताङ्गभूतं यथामिलितषोडशोपचारद्रव्यै: पुरुषसूक्तेन पुराणोक्तमन्त्रैर्वा, श्रीजनार्दनपूजनमहं करिष्ये । गणपतिपूजनादिसम्भारप्रोक्षणान्तं कृत्वा, ध्यायेत । शान्ताकारं० । ध्यायेज्जनार्दनं देवं शङ्खशार्ड्गविभूषितम् । सितवस्त्रयुगच्छन्नं सितचन्दनचर्चितम् ॥ श्रीलक्ष्मीसहितजनार्दनाय नम: जनार्दनं ध्यायामि ॥ सहस्त्रशी० । नमो नमस्ते गोविन्द बुधश्रवणसंज्ञक । अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ॥ इति मन्त्रेण सर्वा पूजा कार्या । श्रीलक्ष्मीसहितं जनार्दनं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि । तत: आसनादिपुष्पसमर्पणान्तं कृत्वा, अङ्गपूजां कुर्यात् । १. वासुदेवाय० शिर: पू० ।२. श्रीधराय० मुखं पू० ।३. वैकुण्ठाय न० हृदयं पू० ।४. श्रीपतये न० नेत्रे पू० ।५. सर्वास्त्रधारिणे० भुजौ० ।६. व्यापकाय न० कुक्षी पू० ।७. केशवाय न० उदरं पू० ।८. त्रैलोक्यजनका० मेण्ढं पू० ।९. सर्वाधिपतये० जङघे पू० ।१०. सर्वात्मने न० पादौ पू० ।पूर्वोक्तमन्त्रेण धूपदीपादिभि: पूजां समाप्य, जगदादिर्जगद्रूप अनादिर्जगदन्तकृत् । जलाशयो जगद्योनि: प्रीयतां मे जनार्दन: ॥ इति सम्प्रार्थ्य, शिक्योऽसि दधिभक्तोऽसि लम्बितोऽसि ममोपरि । सूत्रेणैवाश्रितोऽसि त्वं वामन: प्रीयतां मम ॥ इति शिक्यं बध्वा, तदुपरि दध्यन्नकरकं स्थापयेत् । अन्नं प्रजापतिर्बुह्माविष्णुरुद्रेन्द्रभास्करा: । सर्वमन्नमयं विश्वं सर्वपापं व्यपोहतु ॥ तदुपरि सुगन्धजलपूरितकरकं स्थापयेत् ॥ पर्जन्यो वरुण: सोमो विष्णू रूद्र: प्रजापति: । त्रैलोक्यबीजरूपोऽसि प्रीतो भव सुरेश्वर ॥ यस्य स्मृ० । अनेन श्रवणद्वादशीव्रताङगपूजनेन श्रीजनार्दन: प्रीयताम् । ततो रात्रौ जागरणं कृत्वा कथां श्रृणुयात् । प्रात: स्नात्वा नित्यकर्म निर्वर्त्य, आचम्य देशकालौ स्मृत्वा, स्थापितदेवताया उत्तरपूजनं ब्रह्मचारिणे दध्योदनसहितशिक्यदानं सोपस्करपीठदानं च करिष्ये । लक्ष्मीसहितजनार्दनाय नम: इति नाममन्त्रेण पञ्चोपचारपूजां कृत्वा दध्योदननैवेद्यं समर्प्य, यान्तुदेवेति देवतां विसृज्य ब्रह्मचारिणं पूजयेत । गन्धा: पातु० । स्वस्त्यस्तु दीर्घ० । दानमन्त्र:---दध्योदनयुतं शिवयं वारिधानीयुतं विभो । छत्रोपानहसंयुक्तं ब्राह्मणाय ददाम्यहम् ॥ इदं दध्यादनशिक्यं छत्रोपानहादिस्थापितपदार्थसहितं सोपस्करपीठं च ब्रह्मचारिणे अमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्रति०प्रतिगृ० । दान०इमां दक्षिणां० । यस्य स्मृत्या० । अनेन श्रवणद्वादशीव्रताख्येन कर्मणा श्रीजनार्दन: प्रीयताम् । यथाशक्ति ब्रह्मचारिणो ब्राह्मणांश्च भोजयित्वा निर्णीतपारणाकाले स्वयं भुञ्जीत ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP