माघमास: - भीष्मतर्पणविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ माधशुक्लाष्टम्यां भीष्मतर्पणविधि: ॥

अष्टमी च मध्याह्नव्यापिनी ग्राह्या । दिनद्वये चेत्परा । तस्यां प्रातर्नित्सकर्म समाप्य । आचम्य देशकालौ स्मृत्वा, मम संबत्सरोपात्तदुरितक्षयार्थं पुत्रपौत्राद्यनवच्छिन्नसन्ततिप्राप्त्यर्थं च माधशुक्लाष्टम्यां विहितं भीष्मतर्पणं करिष्ये । प्राचीनावीतिना तिलयुक्तजलेन पितृतीर्थेन द्वाभ्यां मन्त्रान्ते तर्पयेत् । भीष्म: शान्तनवो वीर: सत्यवादी जितेन्द्रिय: । आभिरद्भिरवाप्नोतु पुत्रपौत्रोचितां क्रियाम् ॥१॥
वैयाघपद्यगोत्राय साङ्कृत्यप्रवराय च । अपुत्राय ददाम्येतज्जलं भीष्माय वर्मणे ॥२॥
इति तर्पयित्वा, यज्ञोपवीत्याचम्यार्घ्यं दद्यात् । वसूनामवताराय शन्तनोरात्मजाय च । अर्ध्यं ददामि भीष्माय आबालब्रह्मचारिणे ॥३॥
ब्रह्मपुत्र महाभाग शन्तनो: कुलनन्दन । अमोघागर्भसम्भूत गृहाणार्घ्यं नमोऽस्तु ते ॥ ति मन्त्रेण वा । अनेन मया कृतेन तर्पणेन भीष्म: प्रीयताम् । जीवत्पितृकेण तु आप्रकोष्ठात्प्राचीनावीतिना केवलेन जलेन शुक्लतिलयुतेन वा अवश्यं कार्यम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP