मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः| प्रार्थना - श्लोकाः । वयोवस्थाभिध शान्तिसमुच्चयः देवता स्तवनम् निवेदनम् च सर्वसामान्य विधी नक्षत्र, नक्षत्रदेवता व त्यांचे नाममंत्र शान्तेः प्रयोगदर्शनम् । अथ वैष्णवी शान्तिः । शान्तेः प्रयोगदर्शनम् । अथ वारुणी शान्तिः । अथ उग्ररथशान्तेर्मूलवचनानि उग्ररथशान्तिकारिकाः । अथ उग्ररथ शान्तेः प्रयोगदर्शनम् । अथ उग्ररथ शान्तिः । अथ मृत्युंजय महारथी शान्तेः प्रयोगदर्शनम् । अथ मृत्युंजय महारथी शान्तिः । अथ भैमरथी शान्ति प्रयोगः । अथ भैमरथी शान्तेः प्रयोगदर्शनम् । अथ भैमरथी शान्तिः । अथ ऐंद्री शान्तेः प्रयोगदर्शनम् । अथ ऐंद्री शान्तिः । सहस्त्रचन्द्रदर्शन शान्तिः । अथ सहरचन्द्र दर्शन शान्तेः प्रयोगदर्शनम् । अथ सहस्रचन्द्र दर्शन शान्तिः । अथ रौद्री शान्तेः प्रयोगदर्शनम् । अथ रौद्री शान्तिः । अथ कालस्वरुप सौरी शान्तेः प्रयोगदर्शनम् । अथ कालस्वरुप सौरी शान्तिः । अथ त्रैयंबक मृत्युंजय शान्तेः प्रयोगदर्शनम् । अथ महामृत्युंजय शान्तेः प्रयोगदर्शनम् । शान्तिः । वयोऽवस्थाभिधा शान्तिः मंगलाय चिरं भवेत् । ब्रह्मादि मंडळ देवता प्रार्थना - श्लोकाः । सप्तचिरंजीव - प्रार्थना - श्लोकाः । आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत. Tags : shantividhiविधीशांती सप्तचिरंजीव - प्रार्थना - श्लोकाः । Translation - भाषांतर मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ।आयुरारोग्यमैश्वर्यं देहि मे मुनिपुंगव ॥१॥द्रौणे मे त्वं महाभाग रुद्रतेजः समुद्भव ।आयुर्बलं यशो देहि अश्वत्थामन् नमोऽस्तु ते ॥२॥दैत्येन्द्रकुलसंभूत यज्ञदानक्रियारत ।बले त्वां शरणं यामि दीर्घायुष्यं प्रयच्छ मे ॥३॥वसिष्ठकुलसंभूत वेदशास्त्रविशारद ।नारायणांशसंभूत वेदव्यास नमोऽस्तु ते ॥४॥अंजनीगर्भसंभूत कपीन्द्र सचिवोत्तम ।रामप्रिय नमस्तुभ्यं हनुमन् रक्ष मां सदा ॥५॥बिभीषण नमस्तुभ्यं रामपादाब्जपूजक ।आयुरारोग्यमैश्वर्यं देहि पौलस्त्यनंदन ॥६॥द्विजेन्द्र भरताचार्य सर्वविद्याविशारद ।शरणं त्वां प्रपन्नोऽस्मि कृप मां रक्ष सर्वदा ॥७॥रेणुकेय महाभाग कार्तवीयकृतान्तक ।आयुः प्रयच्छ मे राम जामदग्न्य नमोऽस्तु ते ॥८॥इति ।अभिषेकोत्तरं सर्वासु शान्तिषु अन्ते यजमानेन पठनीयाः सप्तचिरंजीवप्रार्थनाश्लोकाः ।हिरण्यवर्णामिति पंचदशर्चस्य सूक्तस्य आनंदकर्दमचिक्लीतेंदिरासुता ऋषयः । श्रीर्देवता । आद्यास्तिस्रोऽनुष्टुभः । चतुर्थी बृहती पंचमीषष्ठयौ त्रिष्टुभौ । ततोऽष्टावनुष्टुभः । अंत्या प्रस्तारपंक्तिः ।हरिः ॐ हिरण्यवर्णांहरिणींसुवर्णरजतस्रजाम् ॥ चंद्रांहिरण्मयींलक्ष्मींजातवेदोम आवह ॥ तांम आवहजात वेदोलक्ष्मीमनपगामिनीम् ॥ यस्यांहिरण्यंविंदेयंगामश्वं पुरुषानहम् ॥ अश्वपूर्वांरथमध्यांहस्तिनादप्रबोधिनीम् ॥ श्रियंदेवीमुपह्वयेश्रीर्मादेवीजुषताम् ॥ कांसोस्मितांहिरण्य प्राकारामार्द्रांज्वलतींतृप्तांतर्पयंतीम् ॥ पद्मेस्थितांपद्मवर्णां तामिहोपह्वयेश्रियम् ॥ चंद्रांप्रभासांयशसाज्वलंतींश्रियं लोकेदेंवजुष्टामुदाराम् ॥ तांपद्मिनीमींशरणमहंप्रपद्येऽ लक्ष्मीर्मेनश्यतांत्वांवृणे ॥१॥आदित्यवर्णेतपसोधिजातो वनस्पतिस्तववृक्षोथबिल्वः ॥ तस्यफलानितपसानुदंतु मायांतरायाश्चबाह्याअलक्ष्मीः ॥ उपैतुमांदेवसखः कीर्तिश्चमणिनासह ॥ प्रादुर्भूतोसुराष्ट्रेस्मिन् कीर्तिमृद्धिंददातुमे ॥ क्षुत्पिपासामलांज्येष्ठामलक्ष्मींनाशयाम्यहम् ॥ अभूतिमसमृद्धिंचसर्वांनिर्णुदमेगृहात् ॥ गंधद्वारांदुराधर्षांनित्यपुष्टांकरीषिणीम् ॥ ईश्वरींसर्वभूतानांतामिहोपह्वयेश्रियम् ॥ मनसः काममाकूतिंवाचः सत्यमशीमहि ॥ पशूनांरुपमन्नस्यमयिश्रीः श्रयतांयशः ॥२॥कर्दमेन प्रजाभूतामयिसंभवकर्दम ॥ श्रियंवासयमेकुलेमा तरंपद्ममालिनीम् ॥ आपःस्रजंतुस्निग्धानिचिक्लीतवसमेगृहे ॥ निचदेवींमातरंश्रियंवासयमेकुले ॥ आर्द्रांपुष्करिणींपुष्टिंसुवर्णांहेममालिनीम् ॥ चन्द्रांहिरण्मयींलक्ष्मींजातवेदोम आवह ॥ आर्द्रांयः करिणींयष्टिंसुवर्णांहेममालिनीम् ॥ सूर्यांहिरण्मयींलक्ष्मींजातवेदोम आवह ॥ तांम आवहजात वेदोलक्ष्मीमनपगामिनीं ॥ यस्यांहिरण्यंप्रभूतंगावोदास्यो श्वान् विंदेयंपुरुषानहम् ॥३॥अ० ४ अ० ४ परि०रुद्राध्यायः न अत्र मुद्रितः सर्वेषां परिचितत्वात् ।तस्मात् नमकश्चमकेति रुद्राध्यायः अत्र पठनीयः ॥अथ वा नमः सोमाय० शं चमेति वर्गद्दयं पठेत् ।एष वां देवावितिद्वयोर्वामदेवाश्विनौ गायत्री ।हरिः ॐ एषवांदेवावश्विनाकुमारः साहदेव्यः । दीर्घायुरस्तुसोमकः ॥ तंयुवंदेवावश्विनाकुमारंसाहदेव्यं । दीर्घायुषंकृणोतन ॥१६॥अ० ३ अ० ५ वर्ग १६परावतो य इति सप्तदशर्चस्य सूक्तस्य गयो विश्वेदेवा जगत्यन्त्ये त्रिष्टुभौ ।हरिः ॐ परावतोयेदिधिषंतऽआप्यंमनुप्रीतासोजनिमाविवस्वतः । ययातेर्येनहुष्यस्यबर्हिषिदेवाऽआसतेतेऽअधिब्रुवंतुनः ॥ विश्वाहिवोनमस्यानिवंद्यानामानिदेवाऽउतयज्ञियानिवः । येस्थजाताऽअदितेरभ्द्यस्परियेपृथिव्या स्तेमऽइहश्रुताहवं ॥ येभ्योमातामधुमत्पिन्वतेपयः पीयूषं द्यौरदितिरद्रिबर्हाः । उक्थशुष्मान्वृषभरान्त्स्वप्नसस्ताँऽआदित्याँऽअनुमदास्वस्तये ॥ नृचक्षसोऽअनिमिषंतोऽअर्हणाबृहद्देवासोऽअमृतत्वमानशुः । ज्योतीरथाऽअहिमायाऽअनागसोदिवोवर्ष्माणंवसतेस्वस्तये ॥ सम्राजोयेसुवृधोयज्ञमाययुरपरिह्वृतादधिरेदिविक्षयं ॥ ताँऽआविवासनमसासुवृक्तिभिर्महोऽआदित्याँऽअदितिंस्वस्तये ॥३॥कोवस्तोमंराधतियंजुजोषथविश्वेदेवासोमनुषोयतिष्ठन । कोवोध्वरंतुविजाताऽअरंकरद्योनः पर्षदत्यंहः स्वस्तये ॥ येभ्योहोत्रांप्रथमामायेजेमनुः समिद्धाग्निर्मनसासप्तहो तृभिः । तऽआदित्याऽअभयंशर्मयच्छतसुगानः कर्तसुपथास्वस्तये ॥ यऽईशिरेभुवनस्यप्रचेतसोविश्वस्यस्थातुर्जगतश्चमंतवः । तेनः कृतादकृतादेनसस्पर्यद्यादेवासः पिपृतास्वत्यये ॥ भरेष्विंद्रंसुहवंहवामहेंहोमुचंसुकृतंदैव्यंजनं । अग्निंमित्रंवरुणंसातयेभगंद्यावापृथिवीमरुतः स्वस्तये ॥ सुत्रामाणंपृथिवींद्यामनेहसंसुशर्माणमदितिंसुप्रणीतिं । दैवींनावंस्वरित्रामनागसमस्रवंतीमारुहेमास्वस्तये ॥४॥विश्वेयजत्राऽअधिवोचतोतयेत्रायध्वंनोदुरेवायाऽअभिहुतः । सत्ययावोदेवहूत्याहुवेमशृण्वतोदेवाऽअवसेस्वस्तये ॥ अपामीवामपविश्वामनाहुतिमपारातिंदुर्विदत्रामघायतः । आरेदेवाद्वेषोऽअस्मद्युयोतनोरुणः शर्मयच्छतास्वस्तये ॥ अरिष्टः समर्तोविश्वऽएधतेप्रप्रजाभिर्जायतेधर्मणस्परि । यमादित्यासोनयथासुनीतिभिरतिविश्वानि दुरितास्वस्तये ॥ यंदेवासोवथवाजसातौयंशूरसातामरुतोहितेधने । प्रातर्यावाणंरथमिंद्रसानसिमरिष्यंतमारुहेमास्वस्तये ॥ स्वस्तिनः पथ्यासुधन्वसुस्वस्त्य १ प्सुवृजने स्वर्वति । स्वस्तिनः पुत्रकृथेषुयेनिषुस्वस्तिरायेमरुतोदधातन ॥ स्वस्तिरिद्धिप्रपथेश्रेष्ठारेक्णस्वत्यभियावाममेति । सानोऽअमासोऽअरणेनिपातुस्वावेशाभवतुदेवगोपा ॥ एवाप्लतेः सूनुरवीवृधद्वोविश्वऽआदित्याऽअदितेमनीषी । ईशानासोनरोऽअमर्त्येनास्ताविजनोदिव्योगयेन ॥५॥ अ० ८ अ० २ वर्ग ३-४-५आ नो भद्रा इति दशर्चस्य सूक्तस्य गोतमो राहुगणो विश्वेदेवा जगती षष्ठी विराट् - स्थाना अंत्यास्तिस्त्रस्त्रिष्टुभः ।हरिः ॐ आनोभद्राः क्रतवोयंतुविश्वतोदब्धासोअपरीतास उद्भिदः ॥ देवानोयथासदमिदृधेअसन्नप्रायुवोरक्षितारोदिवेदिवे ॥ देवानांभद्रासुमतिऋजूयतांदेवानांरातिरभिनोनिवर्ततां ॥ देवानांसख्यमुपसेदिमावयंदेवान आयुः प्रतिरंतुजीवसे ॥ तान्पूर्वयानिविदाहूमहेवयंभगंमित्रमदितिंदक्षमस्रिधं । अर्यमणंवरुणंसोममश्विनासरस्वतीनः सुभगामयस्करत् ॥ तन्नोवातोमयोभुवात्रुभेषजंतन्मातापृथिवीतत्पिताद्यौः ॥ तदग्रावाणः सोमसुतोमयोभुवस्तदश्विनाश्रृणुतंधिष्ण्यायुवं ॥ तमीशानंजगतस्तस्थुषस्पतिंधियंजिन्वमवसेहूमहेवयं ॥ पूषानोयथावेदसामसद्धधेरक्षितापायुरदब्धः स्वस्तये ॥१॥स्वस्तिन इंद्रोवृद्धश्रवाः स्वस्तिनः पूषाविश्ववेदाः ॥ स्वस्तिनस्तार्क्ष्योअरिष्टनेमिः स्वस्तिनोबृहस्पतिर्दधातु ॥ पृषदश्वामरुतः पृश्निमातरः शुभंयावानोविदथेषुजग्मयः ॥ अग्निजिह्वामनवः सूरचक्षसोविश्वेनोदेवाऽअवसागमन्निह ॥ भद्रंकर्णेभिः श्रृणुयामदेवाभद्रंपश्येमाक्षभिर्यजत्राः ॥ स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितंयदायुः ॥ शतमिन्नुशरदोअंतिदेवायत्रानश्चक्राजरसंतनूनां ॥ पुत्रासोयत्रपितरोभवंतिमानोमध्यारीरिषतायुर्गंतोः ॥ अदितिर्द्यौरदितिरंतरिक्षमदितिर्मातासपितासपुत्रः ॥ विश्वेदेवाअदितिःपंचजनाअदितिर्जातमदितिर्जनित्वं ॥२॥अ० १ अ० ६ वर्ग १५-१६इति वा इति त्रयो दशर्चस्य सूक्तक्य ऐंद्रो लब आत्मा स्तुतिर्गायत्री ।हरिः ॐ इतिवाइतिमेमनोगामश्वंसनुयामिति ॥ कुवित्सोमस्यापामिति ॥ प्रवाताइवदोधत उन्मापीताऽअयंसत ॥ कुवित्सोमस्यापामिति ॥ उपमामतिरस्थितवाश्रापुत्रमिवप्रियं ॥ कुवित्सोमस्यापामिति ॥ अहंतष्टेववंधुरंपर्यचामिह्रदामतिं ॥ कुवित्सोमस्यांपामिति ॥ नाहिमेऽअक्षिपच्चनाच्छान्त्सुः पंचकृष्टयः ॥ कुवित्सोमस्यापामिति ॥१॥नहिमेरोदसीउभेऽअन्यंपक्षंचनप्रति ॥ कुवित्सोमस्यापामिति ॥ अभिद्यांमहिनाभुवमभी ३ मांपृथिवींमहीं ॥ कुवित्सोमस्यापामिति ॥ हंताहंपृथिवीमिमांनिदधानीहवेहवा ॥ कुवित्सोमस्यापामिति ॥ ओषमित्पृथिवीमहंजंघनानीहवेहवा ॥ कुवित्सोमस्यापामिति ॥ दिविमेअन्यः पक्षो ३ धोऽअन्यमचीकृषं ॥ कुवित्सोमस्यापामिति ॥ अहमस्मिमहामहोभिनभ्यमुदीषितः ॥ कुवित्सोमस्यापामिति ॥ गृहोयाम्यरंकृतोदेवेभ्योहव्यवाहनः ॥ कुवित्सोमस्यापामिति ॥२॥अ० ८ अ० ६ वर्ग २६-२७आयुष्यमिति सूक्तस्य सनक - सनंदन सनातनादयो ऋषयः हिरण्यं देवता आद्याश्चतस्रोऽनुष्टुभः पंचमी त्रिष्टुप् षष्ट्यनुष्टुप् सप्तम्यतिशक्करी अष्टमीनवम्यौ त्रिष्टुभौ दशम्यनुष्टुबेकादशी पंक्तिः । सर्वेषां पठणे श्रवणे विनियोगः ।हरिः ॐ आयुष्यंवर्चस्यंरायस्पोषमौद्भिदं ॥ इदंहिरण्यंवर्चस्वजैत्रायाविशतादिमाम् ॥ उचैर्वाजीपृतनाषाटसभासाहंधनञ्जयं ॥ सर्वाःसमग्राऋद्धयोहिरण्येस्मिन्समाहिताः ॥ शुनमहंहिरण्यस्यपितुर्मानेवजग्रभ ॥ तेनमांसूर्यत्वचमकरंपूरुषुप्रियं ॥ सम्राजंचविराजंचाभिष्टिर्याचमेध्रुवा ॥ लक्ष्मीराष्ट्रस्ययामुखेतयामामिंद्र संसृज ॥ अग्नेः प्रजातंपरियद्धिरण्यममृतंजज्ञेअधिमर्त्येषु ॥ यएनद्वेदस इदेनमर्हतिजरामृत्युर्भवतियोबिभर्ति ॥१॥यद्वेदराजावरुणोयदुदेवीसरस्वती ॥ इंद्रोयद्धत्रहावेदतन्मेवर्चस आयुषे ॥ नतद्रक्षांसिनपिशाचाश्चरंतिदेवानामोजः प्रथमजंह्ये ३ तत् ॥ योबिभर्तिदाक्षायणाहिरण्यंसदेवेषुकृणुतेदीर्घमायुः समनुष्येषुकृणुतेदीर्घमायुः ॥ यदाबध्नन्दाक्षायणाहिरण्य़ंशतानीकायसुमनस्यमाना ॥ तन्न आवध्नामिशतशारदायायुष्मान्जरदष्टिर्यथासत् ॥ घृतदुर्लुप्तंमधुमत्सुवर्णंधनञ्जयंधरुणंठधारयिष्णु ॥ ऋणक्सपत्नादधरांश्चकृण्वदारोहमांमहुतेसौभगाय ॥ प्रियंमाकुरुदेवेषुप्रियंराजसुमाकुरु ॥ प्रियंविश्वेषुगोप्त्रेषुमयिधेहिरुचारुचं ॥ अग्निर्येनविराजतिसूर्योयेनविराजति ॥ विराज्येनविराजतितेनास्मान्ब्रह्मणस्पतेविराजसमिधंकुरु ॥अ० ८ अ० ७ परि०सहस्रशीर्षेतिषोडशर्चस्य सूक्तस्य नारायणः पौरुषमानुष्टुभं त्रिष्टुभन्त्या ।हरिः ॐ सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात् ॥ सभूमिंविश्वतोवृत्वाऽत्यतिष्ठद्दशांगुलम् ॥ पुरुषएवेदंसर्वंयद्भूतंयच्चभव्यम् ॥ उतामृतत्वस्येशानोयदन्नेनातिरोहति ॥ एतावानस्यमहिमातोज्यायांश्चपूरुषः ॥ पादोस्यविश्वाभूतानित्रिपादस्यामृतंदिवि ॥ त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवत्पुनः ॥ ततोविष्वङ्व्यक्रामत्साशनानशनेअभि ॥ तस्माद्विराळजायतविराजोअधिपूरुषः ॥ सजातोअत्यरिच्यतपश्चाद्भूमिमथोपुरः ॥१॥यत्पुरुषेणहविषादेवायज्ञमतन्वत ॥ वसंतोअस्यासीदाज्यंग्रीष्म इध्मः शरद्धविः ॥ तंयज्ञंबर्हिषिप्रौक्षन्पुरुषंजातमग्रतः ॥ तेनदेवाअयजंतसाध्याऋषयश्चये ॥ तस्माद्यज्ञात्सर्वहुतः संभृतंपृषदाज्यम् ॥ पशून्ताँश्चक्रेवायव्यानारण्यान् ग्राम्याश्चये ॥ तस्माद्यज्ञात्सर्वहुतऋचः सामानिजज्ञिरे ॥ छंदांसिजज्ञिरेतस्माद्यजुस्तस्मादजायत ॥ तस्मादश्वाअजायंतयेकेचोभयादतः ॥ गावोहजज्ञिरेतस्मात्तस्माज्जाताअजावयः ॥२॥यत्पुरुषंव्यदधुः कतिधाव्यकल्पयन् ॥ मुखंकिमस्यकौबाहूकाऊरुपादाउच्येते ॥ ब्राह्मणोस्यमुखमासीद्बाहूराजन्यः कृतः ॥ ऊरुतदस्ययद्वैश्यः पदभ्यांशूद्रोअजायत ॥ चंद्रमामनसोजातश्चक्षोः सूर्योअजायत ॥ मुखादिंद्रश्चाग्निश्चप्राणाद्वायुरजायत ॥ नाभ्याआसीदंतरिक्षंशीर्ष्णोद्यौः समवर्तत ॥ पदभ्यांभूमिर्दिशः श्रोत्रात्तथालोकाँअकल्पयन् ॥ सप्तास्यासन्परिधयस्त्रिः सप्तसमिधः कृताः ॥ देवायद्यज्ञंतन्वानाअबध्नन्पुरुषंपशुम् ॥ यज्ञेनयज्ञमयजंतदेवास्तानिधर्माणिप्रथमान्यासन् ॥ तेहनाकंमहिमानः सचंतयत्रपूर्वेसाध्याः संतिदेवाः ॥३॥अग्निमीळे इति वर्गद्वयस्य मधुच्छंदा अग्निर्गायत्री श्रवणे पठने विनियोगः ।हरिः ॐ अग्निमीळेपुरोहितंयज्ञस्यदेवमृत्विजम् ॥ होतारंरत्नधातमम् ॥ अग्निः पूर्वेभिऋषिभिरीडयोनूतनैरुत ॥ सदेवाँऽएहवक्षति ॥ अग्निनारयिमश्नवत्पोषमेवदिवेदिवे ॥ यशसंवीरवत्तमम् ॥ अग्नेयंयज्ञमध्वरंविश्वतः परिभूरसि ॥ सऽइद्देवेषुगच्छति ॥ अग्निर्होताकविक्रतुः सत्यश्चित्रश्रवस्तमः ॥ देवोदेवेभिरागमत् ॥१॥यदंगदाशुषेत्वमग्नेभद्रंकरिष्यसि ॥ तवेत्तत्सत्यमंगिरः ॥ उपत्वाग्नेदिवेदिवेदोषावस्तर्धियावयम् ॥ नमोभरंतऽएमसि ॥ राजंतमध्वराणांगोपामृतस्यदीदिविम् ॥ वर्धमानंस्वेदमे ॥ सनः पितेवसूनवेऽग्नेसूपायनोभव ॥ सचस्वानः स्वस्तये ॥२॥अ० १ अ० १ वर्ग १-२समुद्रज्येष्ठा इति चतसृणां वसिष्ठ आपस्त्रिष्टुप् । त्रायन्तामिति तिसृणां सप्तर्षय आपोऽनुष्टुप् ॥ इमा आप इति तिसृणामैतयेय अपोनुष्टुब्जगत्यनुष्टुभः ।हरिः ॐ समुद्रज्येष्ठाः सलिलस्यमध्यात्पुनानायंत्यनिविशमानाः ॥ इंद्रोयावज्रीवृषभोररादताआपोदेवीरिहमामवंतु ॥ याआपोदिव्याउतवास्रवंतिखनित्रिमाउतवायाः स्वयंजाः ॥ समुद्रार्थायाः शुचयः पावकास्ताआपोदेवीरिहमामवंतु ॥ यासांराजावरुणोयातिमध्येसत्यानृतेअवपश्यंजनानां ॥ मधुश्चुतः शुचयोयाः पावकास्ताआपोदेवीरिहमामवंतु ॥ यासुराजावरुणोयासुसोमोविश्वेदेवायासूर्जंमदंति ॥ वैश्वानरोयास्वग्निः प्रविष्टस्ताआपोदेवीरिहमामवंतु ॥ त्रायंतामिहदेवास्त्रायतांमरुतांगणः ॥ त्रायंतांविश्वाभूतानियथायमरपाअसत् ॥ आप इद्वाउभेषजीरापोअमीवचातनीः ॥ आपः सर्वस्यभेषजीस्तास्तेकृण्वंतुभेषजं ॥ हस्ताभ्यांदशशाखाभ्यांजिह्वावाचः पुरोगवी ॥ अनामयित्नुभ्यांत्वाताभ्यांत्वोपस्पृशामसि ॥ इमाआपः शिवतमाइमाः सर्वस्यभेषजीः ॥ इमाराष्ट्रस्यवर्धनीरिमाराष्ट्रभृतोमृताः ॥ याभिरिंद्रमभ्यषिंचत्प्रजापतिः सोमंराजानंवरुणंयमंमनुं ॥ ताभिरद्भिरभिषिंचामित्वामहंराज्ञांत्वमधिराजोभवेह ॥ महांतंत्वामहीनांसम्राजंचर्षणीनांदेवीजनित्र्यजीजनद्भद्राजनित्र्यजीजनत् ॥अ० ५ अ० ४ वर्ग १६ शं न इंद्राग्नी इति पंचदशर्चस्य सूक्तस्य वसिष्ठो विश्वेदेवास्त्रिष्टुप् ।हरिः ॐ शंनऽइंद्राग्नीभवतामवोभिः शंनऽइंद्रावरुणारातहव्या । शमिंद्रासोमासुवितायशंयोः शंनऽइंद्रापूषणावाजसातौ ॥ शंनोभगः शमुनः शंसोऽअस्तुशंनः पुरंधिः शमुसंतुरायः । शंनः सत्यस्यसुयमस्यशंसः शंनोऽअर्यमापुरुजातोऽअस्तु ॥ शंनोधाताशमुधर्तानोऽअस्तुशंनऽउरुचीभवतुस्वधाभिः । शंरोदसीबृहतीशंनोऽअद्रिः शंनोदेवानांसुहवानिसंतु ॥ शंनोऽअग्निर्ज्योतिरनीकोऽअस्तुशंनोमित्रावरुणावश्विनाशं । शंनः सुकृतांसुकृतानिसंतुशंनऽइषिरोऽअभिवातुवातः ॥ शंनोद्यावापृथिवीपूर्वहूतौशमंतरिक्षंदृशयेनोऽअस्तु । शंनऽओषधीर्वनिनोभवंतुशंनोरजसस्पतिरस्तुजिष्णुः ॥२८॥शंनऽइंद्रोवसुभिर्देवाऽअस्तुशमादित्येभिर्वरुणः सुशंसः ॥ शंनोरुद्रोरुद्रेभिर्जलाषः शंनस्त्वष्टाग्नीभिरिहश्रृणोतु ॥ शंनः सोमोभवतुब्रह्मशंनः शंनोग्रावाणः शमुसंतुयज्ञाः । शंनः स्वरुणांमितयोभवंतुशंनः प्रस्व १: शम्वस्तुवेदिः ॥ शंनःसूर्यऽउरुचक्षाऽउदेतुशंनश्चतस्रः प्रदिशोभवंतु । शंनः पर्वताध्रुवयोभवंतुशंनः सिंधवः शमुसंत्वापः ॥ शंनोऽअदितिर्भवतुव्रतेभिः शंनोभवंतुमरुतः स्वर्काः । शंनोविष्णुः शमुपूषानोऽअस्तुशंनोभवित्रंशम्वस्तुवायुः ॥ शंनोदेवः सवितात्रायमाणः शंनोभवंतूषसोविभातीः । शंनः पर्जन्योभवतुप्रजाभ्यः शंनः क्षेत्रस्यपतिरस्तुशंभुः ॥२९॥शंनोदेवाविश्वदेवाभवंतुशंसरस्वतीसहधीभिरस्तु । शमभिषाचः शमुरातिषाचः शंनोदिव्याः पार्थिवाः शंनोऽअप्या ॥ शंनः सत्यस्यपतयोभवंतुशंनोऽअर्वंतः शमुसंतुगावः । शंनऽऋभवः सुकृतः सुहस्ताः शंनोभवंतुपितरोहवेषु ॥ शंनोऽअजऽएकपाद्देवोऽअस्तुशंनोहिर्बुध्न्य १: शंसमुद्रः । शंनोऽअपांनपात्पेरुरस्तुशंनः पृश्निर्थवतुदेवगोपा ॥ आदित्यारुद्रावसवोजुषंतेदंब्रह्मक्रियमाणंनवीयः । शृष्वंतुनोदिव्याः पार्थिवासोगोजाताऽउतयेयज्ञियासः ॥ येदेवानांयज्ञियायज्ञियानांमनोर्यजत्राऽअमृताऋतज्ञाः । तेनोरासंतामुरुगायमद्ययूयंपातस्वस्तिभिः सदानः ॥३०॥अ० ५ अ० ३ वर्ग २८-२९-३०पुरुषसूक्तम् पठेत् ।परं मृत्यो इति चतुर्दशर्चस्य सूक्तस्य संकुसुको विश्वेदेवास्त्रिष्टुप् । एकादशी प्रस्तारपंक्तिस्त्रयोदशी जगती चतुर्दश्यनुष्टुप् ।हरिः ॐ परंमृत्योऽअनुपरेहिपंथांयस्तेस्वऽइतरोदेवयानात् । चक्षुष्मतेशृण्वतेतेब्रवीमिमानः प्रजांरीरिषोमोतवीरान् ॥ मृत्योः पदंयोपयंतोयदैतद्राघीयऽ आयुः प्रतरंदधानाः ॥ आप्यायमानाः प्रजयाधनेनशुद्धाः पूताभवतयज्ञियासः ॥ इमेजीवाविमृतैराववृत्रन्नभूद्भद्रादेवहूतिर्नोऽअद्य । प्रांचोऽअगामनृतयेहसायद्राघीयऽ आयुः प्रतरंदधानाः ॥ इमंजीवेभ्यः परिधिंदधामिमैषांनुगादपरोऽअर्थमेतं । शतंजीवंतुशरदः पुरुचीरंतर्मृत्युंदधतांपर्वतेन ॥ यथाहान्यनुपूर्वंभवंतियथऽऋतवऽऋतुभिर्यंतिसाधु । यथानपूर्वमपरोजहात्येवाधातरायूंषिकल्पयैषां ॥२६॥आरोहतायुर्जरसंवृणानाऽअनुपूर्वंयतमानायतिष्ठ । इहत्वष्टासुजनिमासजोषादीर्घमायुः करतिजीवसेवः ॥ इमानारीरविधवाः सुपत्नीरांजनेनसर्पिषासंविशंतु । अनश्रवोनमीवाः सुरत्नाऽआरोहंतुजनयोयोनिमग्रे ॥ उदीर्ष्वनार्यभिजीवलोकंगतासुमेतमुपशेषऽएहि ॥ हस्तग्राभस्यदिधिषोस्तवेदंपत्युर्जनित्वमभिसंबभूथ ॥ धनुर्हस्तादाददानोमृतस्यास्मेक्षयायवर्चसेबलाय ॥ अत्रैवत्वमिहवयंसुवीराविश्वास्पृधोऽअभिमातीर्जयेम ॥ उपसर्पमातरंभूमिमेतामुरुव्यचसंपृथिवींसुशेवां । ऊर्णम्रदायुवतिर्दक्षिणावतऽएषात्वापातुनिऋतेरुपस्थात् ॥२७॥उच्छ्वंचस्वपृथिविमानिबाधथाः सूपायनास्मैभवसूपवंचना । मातापुत्रंयथासिचाभ्येनंभूमऽऊर्णुहि ॥ उच्छ्वंचमानापृथिवीसुतिष्ठतुसहस्रंमितऽउपहिश्रयंतां ॥ तेगृहासोघृतश्चुतोभवंतुविश्वाहास्मैशरणाः संत्वत्र ॥ उत्तेस्तभ्नामिपृथिवींत्वत्परीमंलोगंनिदधन्मोऽअहंरिषं । एतांस्थूणांपितरोधारयंतुतेत्रायमः सादनातेमिनोतु ॥ प्रतीचीनेमामहनीष्वाः पर्णमिवादधुः । प्रतीचींजग्रभावाचमश्वंरशनयायथा ॥२८॥अ० ७ अ० ६ वर्ग २६-२७-२८एष वां देवाइति द्वे पठेत् ।परावतो य इति सप्तदशर्चं पठेत् ।स्वादिष्ठयेति दशर्चस्य सूक्तास्य मधुच्छन्दाः पवमानसोमः गायत्री ।हरिः ॐ स्वादिष्ठयामदिष्ठयापवस्वसोमधारया ॥ इंद्रायपातवेसुतः ॥ रक्षोहाविश्वचर्षणिरभियोनिमयोहतं ॥ द्रुणासधस्थमासदत् ॥ वरिवोधातमोभवमंहिष्ठोवृत्रहन्तमः ॥ पर्षिराधोमघोनां ॥ अभ्यर्षमहानांदेवानांवीतिमंधसा ॥ अभिवाजमुतश्रवः ॥ त्वामच्छाचरामसितदिदर्थंदिवेदिवे ॥ इंदोत्वेनऽआशसः ॥१॥पुनातितेपरिस्रुतंसोमंसूर्यस्यदुहिता ॥ वारेणशश्वतातना ॥ तमीमण्वीः समर्यऽआगृभ्णंतियोषणोदश ॥ स्वसारः पार्येदिवि ॥ तमींहिन्वंत्यग्रुवोधमंतिबाकुरंदृतिं ॥ त्रिधातुवारणंमधु ॥ अभी ३ ममघ्न्याऽउतश्रीणंतिधेनवः शिशुं ॥ सोममिंद्रायपातवे ॥ अस्येदिंद्रोमदेष्वाविश्वावृत्राणिजिघ्नते ॥ शूरोमघाचमंहते ॥२॥अक्षिभ्यामिति षडऋचं काश्यपो विवृहा यक्ष्मघ्नी अनुष्टुप् ॥६॥हरिः ॐ अक्षीभ्यांतेनासिकाभ्यांकर्णाभ्यांछुबुकादधि । यक्ष्मंशीर्षण्यंमस्तिष्काज्जिह्वायाविवृहामिते ॥ ग्रीवाभ्यस्तऽउष्णिहाभ्यः कीकसाभ्योऽअनूक्यात् । यक्ष्मंदोषण्य १ मंसाभ्यांबाहुभ्यांविवृहामिते ॥ आंत्रेभ्यस्तेगुदाभ्यावनिशष्ठोर्ह्रदयादधि । यक्ष्मंमतस्राभ्यांयाक्नः प्लाशिभ्योविवृहामिते ॥ ऊरुभ्यांतेऽअष्ठीवद् भ्यांपार्ष्णिभ्यांप्रपदाभ्यां । यक्ष्मंश्रोणिभ्यांभासदाद्भंससोविवृहामिते ॥ मेहनाद्वनंकरणाल्लोम - भ्यस्तेनखेभ्यः । यक्ष्मंसर्वस्मादात्मनस्तमिदांविवृहामिते ॥ अंगादंगाल्लोम्नोलोम्नोजातंपर्वणिपर्वणि । यक्ष्मंसर्वस्मादात्मनस्तमिदंविवृहामिते ॥२१॥यज्जाग्रत इति षण्णां शिवसंकल्पमंत्राणां प्रजापतिर्मनस्त्रिष्टुप् । सर्वेषां अभिषेके विनियोगः ।हरिः ॐ यज्जाग्रतोदूरमुदैतुदैवंतदुसुप्तस्यतथैवैति ॥ दूरंगमंज्योतिषांज्योतिरेकंतन्मेमनः शिवसंकल्पमस्तु ॥ येनकर्माण्यपसोमनीषिणो यज्ञेकृण्वंतिविदथेषुधीराः ॥ यदपूर्वंयक्ष्ममंतः प्रजानांतन्मेमनः शिवसंकल्पमस्तु ॥ यत्प्रज्ञानमुतचेतोधृतिश्चयज्जोतिरंतरमृतंप्रजासु ॥ यस्मान्नऋतेकिंचनकर्मक्रियतेतन्मेमनः शिवसंकल्पमस्तु ॥ येनेदंभूतंभुवनंभविष्यत्परिगृहीतममृतेनसर्वं ॥ येनयज्ञस्त्रायतेसप्तहोतातन्मेमनः शिवसंकल्पमस्तु ॥ यस्मिन्नृचःसामयजू षियस्मिन्प्रतिष्ठितारथनाभाविवाराः ॥ यस्मिश्चित्त सर्वमोतंप्रजानांतन्मेमनः शिवसंकल्पमस्तु ॥ सुषारथिरश्वानिवयंमनुष्यान्नेनीयतेभिशुभिर्वाजिन इव ॥ ह्रत्प्रतिष्ठंयदजिरंयविष्ठंतन्मेमनः शिवसंकल्पमस्तु ॥आज्यावलोकन - मंत्रः ।रुपंरुपमित्यस्य भारद्वाजो गर्ग इंद्रास्त्रिष्टुप् ।मुखावलोकने विनियोगः ।वैदिकमंत्रः ।ॐ रुपं रुपं प्रतिरुपो बभूव तदस्य रुपं प्रतिचक्षणाय । इंद्रो मायाभिः पुरुरुप ईयते युक्ता ह्यस्य हरयः शता दश ॥ ( अ - ४, अ - ७, वर्ग - ३३ )पुराणमंत्रः ।आज्यं तेजः समुद्दिष्टं, आज्यं पापहरं स्मृतम् ।आज्यं सुराणामाहार आज्ये देवाः प्रतिष्ठिताः ॥ इति ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP