मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः| सहस्त्रचन्द्रदर्शन शान्तिः । वयोवस्थाभिध शान्तिसमुच्चयः देवता स्तवनम् निवेदनम् च सर्वसामान्य विधी नक्षत्र, नक्षत्रदेवता व त्यांचे नाममंत्र शान्तेः प्रयोगदर्शनम् । अथ वैष्णवी शान्तिः । शान्तेः प्रयोगदर्शनम् । अथ वारुणी शान्तिः । अथ उग्ररथशान्तेर्मूलवचनानि उग्ररथशान्तिकारिकाः । अथ उग्ररथ शान्तेः प्रयोगदर्शनम् । अथ उग्ररथ शान्तिः । अथ मृत्युंजय महारथी शान्तेः प्रयोगदर्शनम् । अथ मृत्युंजय महारथी शान्तिः । अथ भैमरथी शान्ति प्रयोगः । अथ भैमरथी शान्तेः प्रयोगदर्शनम् । अथ भैमरथी शान्तिः । अथ ऐंद्री शान्तेः प्रयोगदर्शनम् । अथ ऐंद्री शान्तिः । सहस्त्रचन्द्रदर्शन शान्तिः । अथ सहरचन्द्र दर्शन शान्तेः प्रयोगदर्शनम् । अथ सहस्रचन्द्र दर्शन शान्तिः । अथ रौद्री शान्तेः प्रयोगदर्शनम् । अथ रौद्री शान्तिः । अथ कालस्वरुप सौरी शान्तेः प्रयोगदर्शनम् । अथ कालस्वरुप सौरी शान्तिः । अथ त्रैयंबक मृत्युंजय शान्तेः प्रयोगदर्शनम् । अथ महामृत्युंजय शान्तेः प्रयोगदर्शनम् । शान्तिः । वयोऽवस्थाभिधा शान्तिः मंगलाय चिरं भवेत् । ब्रह्मादि मंडळ देवता प्रार्थना - श्लोकाः । सहस्त्रचन्द्रदर्शन शान्तिः । आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत. Tags : shantividhiविधीशांती सहस्त्रचन्द्रदर्शन शान्तिः । Translation - भाषांतर सहस्त्रचन्द्रदर्शन - शान्तौ सहस्त्रचन्द्रदर्शन - विचारः ।शौनक :- अशीतिवर्षे संप्राप्ते जननान्मरणं ध्रुवम् ।सहस्त्रेन्दोर्दर्शनं च जायते वै तदा ध्रुवम् ॥१॥अस्यार्थ : - जननात् एकोनाशीतिवर्ष (७९) समाप्तौ अशीति - (८०) - वर्षारंभे सहस्त्रचन्द्रदर्शनानि भवन्ति, तदनिष्टम् मरणसदृशं अनिष्टफलदं, तद्दोषपरिहारार्थं शान्तिर्विधेया । इति वचसोऽर्थः ।आदौ - अत्रोक्तसहस्त्रचन्द्रदर्शनस्य सहस्त्रसंख्यापरिपूर्तिप्रकारः प्रदर्श्यते । प्रतिमासं अमावास्यायां सूर्येण सह स्थितस्य नाम लुप्तस्य चन्द्रस्य द्वितीयमासारंभे प्रतिपदि कदाचित् द्वितीयाणां चन्द्रदर्शनं भवति । एवं प्रतिवर्षं द्वादश चन्द्रदर्शनानि, एकोनाशीति - वर्ष - समाप्तौ संगुण्य अष्टचत्वारिंशदधिकनवशतानि चन्द्रदर्शनानि (९४८) ततश्च सौरवर्षस्य चान्द्रसंवत्सरस्य समन्वयार्थं पूर्वाचार्यैः मध्ये -द्वात्रिंशद्भिर्गतैर्मासौर्दिनैः षोडशभिस्तथा अधिकमासः प्रकल्पितः । ते च प्रायः अष्टाविंशतिर्भवन्ति । तांश्च मिलित्वा षटसप्तत्यधिकनवशतानि ( ९४८ + २८ = ९७६ ) चन्द्रदर्शनानि संपन्नानि । तथा खग्रासचन्द्रग्रहणे चन्द्रग्रहणमध्यकालः अमावास्या सदृशः चन्द्रस्य पूर्णतया लुप्तत्वात् पुनर्दर्शनं शुक्लप्रतिपद - चन्द्रदर्शन - सदृशम् लोपानंतरं जायमानत्वात् । तानि खग्रासचन्द्रग्रहणानि एकोनाशीतिवर्षपर्यंत चतुर्विंशति ( कदाचित् अधिकान्यपि ) भवन्त्येव, तानि मिलित्वा - अशीति- वर्षारंभे सहस्त्रचन्द्रदर्शनानि - ( ९७६ + २४ = १०० ) संपन्नानि । एतदभिप्रायेणैव शौनकेनोक्तम् अशीतिवर्षारंभे सहस्त्रचन्द्रदर्शनशान्तिर्विधेया इति युक्तं सप्रमाणं निराबाधं च । नात्र संदेहावसरः । अस्य विषयस्य प्रत्ययार्थे अस्माभिः शालिवाहन १८२१ शकादारभ्य १९०० शकपर्यंतं पंचांगस्थानि खग्रासचन्द्रग्रहणानि परिगणितानि तानि च त्रिंशत् - ( ३० ) - अधिकानि भवन्ति, इति कृत्वा -अल्पोऽपि शौनकोक्तवचसि नाक्षेपावसरः । एवं स्थिते ये केचन अदूरदर्शिनः, अशीतिवर्षारंभे चन्द्रदर्शनस्य सहस्त्रसंख्यापूर्तिर्न भवतीतिकृत्वा एकाशीति - (८१) व्द्यशीति (८२) वर्षारंभे इयं शान्तिर्विधेयेति वदन्ति ते तु भ्रान्ता एव । अविचारितरमणीयमेतत् इति त्याज्यमेव । शौनकोक्तवचसा अशीतिवर्षारंभे एव इयं शान्तिर्विधेया । श्रद्धया अनुष्ठेया, फलाय कल्पते । इति सर्वं सुस्थम् ।यत्तु वैखानस - गृह्यसूत्रेः - तदेवं वर्तमानस्य यद्यष्टमासाधिकाशीतिवर्षाणि रविवर्षेणाधिगच्छेयुः स दृष्टसहस्त्रचन्द्रो भवति । तमेनं क्रियायुक्तं पुण्यकृत्तमं ब्रह्मशरीरमित्याचक्षते इति, तृतीयप्रश्ने एकविंशतिकण्डिकायां इति, एतत्तु तत्सूत्रानुसारिभिरनुष्ठेयम्, सौरवर्षमासगणनयोक्तम् ।इति अशीतिवर्षारंभे चन्द्रदर्शनस्य सहस्त्रसंख्यापरिपूर्तिविचारः । N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP