संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|पाञ्चरात्रागमः|प्रथमपरिच्छेदः| पञ्चदशोऽध्यायः प्रथमपरिच्छेदः प्रथमोध्यायः द्वितीयोऽध्यायः तृतीयोध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमपरिच्छेदः - पञ्चदशोऽध्यायः 'पाञ्चरात्रागमः' एक उत्कृष्ट रचना. Tags : pancharatraपाञ्चरात्रागमःसंस्कृत पञ्चदशोऽध्यायः Translation - भाषांतर ॥ श्रीहंसः ॥सत्यात् कोटिर्द्वादशोर्ध्वः लोको वैकुण्ठनामकः ।दुर्गाभागस्त्वधोदेशः भूकन्दो दशलक्षकः ॥तस्योपरिष्टाद्भूभागः श्रीभागस्तु तदूर्ध्वतः ।भूकन्देन त्रयस्तुल्या त्रिंशल्लक्षोन्नतं मितम् ॥शिखरं तत्रिभागेषु महाहर्म्याण्यनेकशः ।मण्यात्मकानि वैद्व्यष्टसंख्यानि च शुभानि च ॥मध्ये वज्रमयानेको पर्यावरणमानि च ।महरादीनि चत्वारि हयजतं विस्तराणि च ॥भुवनानि यथा भागत्रये वैकुण्ठभूमयः ।अजाण्डखर्परस्पृष्टाः मध्ये प्राकारसप्तकाः ॥युक्ता पूर्वादिदिक्द्वारा सप्तसप्त हिरण्मयः ।पुष्करागावर्णयुक्तपद्मरागकवाटकाः ॥इन्द्रनीलनिरोढोरुवज्रपट्टसभासुराः ।सव्यापसव्यो देदिप्यन्मणि वेदी तटोन्नताः ॥द्वारि द्वारि कृतोदार रत्नकञ्जासना सभाः ।अनन्तसूर्यभादीप्तलोकमण्डनभूषणाः ॥तेषु तेषु त्रिभागेषु रमानन्तानन्ताधिरूपिणी ।विपेशानां समस्तानां ब्रह्मणा सह कर्हिचित् ॥वैकुण्ठादि त्रिभागानां दर्शनं भवति ध्रुवम् ।न तत्र संस्थितिस्तेषां महरादिषु संस्थितिः ॥तृणादयो महर्लोके मानुषाद्यास्तदूर्ध्वतः ।राजानस्तु तपोलोके सत्यलोके नृगायकाः ॥मुक्तानामेव बद्धानामुत्क्रान्ता नामिहस्थितिः ।नृगन्धर्वाजानजान्ता उत्क्रान्तास्तु तपस्थिताः ॥कर्मदेवास्समुत्क्रम्य सत्यलोके वसन्ति हि ।अतात्विका लिङ्गमुक्ता स्थानत्रयगता अपि ॥भागत्रयेष्वपि न हि प्राकारसंस्थिता भवत् ।तस्योपरिष्टात् प्राकाराः श्रीभागस्य बहिस्थिताः ॥चतुष्कोट्यात्मकस्तस्यपरितः परिघात्मिका ।द्विषट्कोट्या यामयुक्ता बाह्यप्राकार ईरितः ॥षट्प्राकारास्तदन्तस्था कोट्यन्तरवकाशकाः ।अष्टकोट्यात्मकस्तस्य परिष्टाद्बहिरावृतिः ॥श्रीः कोटियोजनमिता विरजाख्या नदीशुभा ।यदम्भःस्पर्शनाल्लिङ्गमुक्ताः सद्यो भवन्ति हि ॥जनास्तत्र हरिर्नित्यं जलक्रीडारतः श्रिताः ।भूभारोर्ध्वावरणगा भूरेवावराणात्मिका ॥तन्मध्ये तु ततो लक्षोन्नत श्रीभागभूतळे ।विरजा तत्र द्वौ भागौ मुक्तामुक्ताश्रयौ शुभौ ॥एवं दुर्गाभागगतो पर्यावरणसङ्गता ।भूभागदुर्गा भागौ द्वौ मध्यो भूरुन्नताकृति ॥ तयोरूर्ध्वावरणतत्सन्धिगेरण्यनामके ।नद्यौ दुर्गाभूमयाम्बुसमिते श्रीहरिप्रिये ॥न तत्र लिङ्गभङ्गादि हरिणा चिन्तितं क्वचित् ।प्रधानपरमोव्योम्नोरन्तरा विरजा नदी ॥प्रधानात्मकदेहौ तौ ब्रह्मवायू सभार्यकौ ।भूभागोर्ध्वावरणगो लये सर्वसुरैः सह ॥सुरान् विनावताराणाम् आरम्भे च समाप्तिके ।काले भूभागोर्ध्वगतौ स्यातां क्वापि हरीच्छया ॥अतो भूभागोर्ध्वदेशः प्रधानमिति कीर्तितम् ।यदधीना यस्य सत्ता तत्तदित्येव भण्यते ॥ तादृक्प्रधान संसृष्टः श्रीभागः परमाम्बरम् ।अतः प्रधानपरमो व्योमगेत्यभिधीयते ॥निरंशतात्विकानां च ह्यण्डान्तस्तन्निमज्जनम् ।तात्विकानां तु सर्वेषाम् अनिरुद्धावृति स्थिते ॥सत्वारणतस्तूच्च प्रदेशे संस्थिते मले ।श्वेतद्वीपस्वधामभ्यो एकीभूतेति शोभने ॥श्रीदुर्गाभ्यां च भूम्या च एकीभूते विलक्षके ।श्रीभागे तत्रगे तस्य परिघा विरजा नदी ॥तज्जले तु ततः स्नात्वा लिङ्गभङ्गः प्रदृश्यते ।लये पृथिव्यावरणं व्युत्क्रामद्गच्छतां सताम् ॥प्रथमावरणं प्रोक्तं सत्वावरणमन्तिमम् ।तदुच्चाव्याकृताकाशो व्योमशब्देन भण्यते ॥अनन्ता(अन्तिमा)वरणव्योम्नोरन्तरा विरजेत्यतः ।सोत्पत्यङ्गेषु देवानाम् अङ्गसायुज्यमिष्यते ॥श्रीभागवैकुण्ठतद्गवासुदेवस्य चक्रिणः ।अनन्तरूपे सर्वाङ्गसायुज्यं ब्रह्मणो भवेत् ॥मुक्तस्य च स्वरूपेण ह्यणोर्वृद्धिर्न युज्यते ।नोहानिः पुनरावृत्तिदुःखाज्ञानभयादयः ॥नीचनीचाल्पमुक्तानां पूर्तिः स्वानन्दमात्रतः ।नैवोत्तममुदाकाङ्क्षा सेवाध्यानादिकं फलम् ॥न हरेर्नपरस्यापि मुद्भुजस्ते स्वमुद्भुजः ।प्रलयत्वं क्वचित्सृष्टिः काले श्रीभाग एव हि ॥ब्रह्मा चिन्मात्रदेहेन ह्यन्तप्राकारगो मतः ।रुद्रादयः षष्टमगाः इन्द्राद्याः पञ्चमस्थिताः ॥चतुर्थस्थाः सूर्याद्या तृतीयस्थाः मरुद्गणाः ।द्वितीयप्राकारसंस्थाः पर्जन्याद्याः सुरोत्तमाः ॥चिन्मात्रदेहैः श्रीभागे आद्ये कर्मजपूर्वकाः ।एते मुक्तास्तु भूभागे दुर्गाभागे तथैव च ॥शुद्धसात्विकदेहैस्तु प्राप्तास्तु सुखिनो हरेः ।चतुर्लक्षाधिकाशीतिलक्षजीवगणस्य तु ॥ बिम्बात्मा तत्तादाकारो सदा तद्गः प्ररक्षति ।सर्वजीवगणामुक्ताः सन्ति वैकुण्ठमन्दिरे ॥जीवा(न)नां पात्य(पायो)पि हरिः स हि रूपान्तरैविभुः ।सर्वजीवसमात्यल्परूपैः स्थूलैश्चतादृशैः ॥अनन्तकोटिकल्पीयमुक्तोपास्यः त्रिभागगः ।तादृग्रूपानन्तयुक्तश्रिया सह चरत्यसौ ॥.तौ तत्र पूजोपयोग्यानन्तानन्तार्थरू पकौ ।तत्र स्वारूपिककिरीटादि शङ्खचक्रादि साधनैः ॥सुदर्शनाद्यायुध्यैश्च गन्धमाल्यादिकार्हणैः ।नैवेद्यवस्त्रा(सङ्गाद्यैः)शय्याद्यैः रूपैः स्वैः स्वयमर्चितः ॥श्रियासदैक्यमापन्नः मोदरूप्यनुमोदते ।श्रीः देव(वि)मखिलाकारा तैर्विष्णुं पूजयत्यलम् ॥तैर्न्निमाल्यैः विष्णुदत्तैः रमैकी भवति स्फुटम् ।भूदुर्गभागयोरेवं शुद्धसात्विकसाधनैः ॥तन्मानिनी श्रीःसम्पूज्य तन्निर्माल्यैरजादिकान् ।मुक्तास्तोषयति प्राज्ञाः गन्धमाल्यादिभिः शुभैः ॥ते विमानरथांडोला डोलालोल विशेषकैः ।शय्याभरणवस्त्राद्यैः करिहर्यादिभिः क्वचित् ॥समानैरुत्तमजनैः फलपुष्पाक्षतादिभिः ।स्वस्व्येष्टतरुणीभिश्च जलक्रीडादिभिस्तथा ॥अव्याहृतेष्टगतयः पूजाया सत्कथादिभिः ।पुनरावृत्तिरहिता नमन्ति निखिला अपि ॥नवकोट्यो हि देवानां पदस्था देवतागणाः ।लिङ्गसूक्ष्मस्थूलदेहयुक्तास्सर्वे सभार्यकाः ॥सेवार्थं श्रीहरेर्दुर्गाभागे सम्यग्वसन्ति हि ।ते कामधुक्कल्पवृक्षचिन्तामणिसमुत्थितैः ॥पूज्योप(युक्ता)योगानन्तार्थैः जलेन श्रीकरार्पितैः ।तया सम्पूजितहरिनिर्माल्यैः पुनरार्पितैः ॥पवित्रिताङ्गापरितः सञ्चरन्त्यपि मोदिनः ।सायुज्यमपि सालोक्यं सामीप्यं सर्वदा हरेः ॥सारूप्यमपि मुक्तिर्हि चतुर्था किल भण्यते ।विष्णुर्मुक्तान् स्वदेहस्थान् स्वस्वानन्दैकभोजिनः ॥करोति तद्धि सायुज्यं तत्सुराणां च नीचगम् ।सामीप्यादि त्रयं कर्मदेवानां युज्यते क्वचित् ॥तद्भिन्नदेवदासानां सारूप्यादि द्वयं मतम् ।एकलोकनिवासाख्यं सालोक्यमितरस्य तु ॥शुद्धसात्विकदेहेषु चतुर्भुजसमन्विताः ।दरारिपीताम्बरिणो यदि सारूप्यमीरितम् ॥जयश्च विजयश्चैव बलश्च प्रबलस्तथा । चण्डः प्रचण़्डश्च तथा नन्दश्चापि सुनन्दकः ॥कुमुदः कुमुदाक्षश्च तथा भद्रसुभद्रकौ ।सुधामदामनामानौ विष्वक्सेनवशे स्थितौ ॥रूपैश्चतुर्भिसर्वेपि चतुर्दिक्ष्वपि सप्तसु ।अन्तः प्राकारगद्वारमारभ्यद्वारपालकाः ॥नन्दिनी हरिपादोत्था दुर्गाभागशुभोदका ।परिघा स तु वैकुण्ठश्चतुरस्रः प्रकीर्तितः ॥बाह्यण्डव्यापिनो विष्णोर्लोके वैकुण्ठनामकः ।कोट्युच्छ्रितानन्तमूर्ध्नः मुखे मूर्ध्नि सुचित्यते ॥गर्भोदकान्तर्देहस्थखर्परास्पृष्टपादुकः ।स्वरतस्यानन्तासनाख्यः कटिः पीताम्बरात्मकः ॥घनोदकं कटितटी मेरुस्तन्नाभिमध्यगे ।योजनानां पञ्चविंशत्कोटिगं मेरुपर्वतात् ॥अजाण्डखर्परं दिक्षुविदिक्षूर्ध्वमधः स्मृतम् ।मह्यादिभिरावरण्यैर्दशभिस्तु दशादिकैः ॥दत्तं चावरणान्येत्यन्यूर्ध्वशिष्टानि सर्वशः ।अधः पादानि तद्विष्णोः स्थळान्याहुर्मनीषिणः ॥शिलावत्प्रतिमा विष्णोरजादेरभिमानतः ।अण्डंलोकाश्च देवानां क्रमाद्धेहास्तु मानिनः ॥एवं विधाजाण्डकोट्यनन्तात्मकरूपकैः ।सावकाशं सञ्चरद्भिः विलासद्रोमकूपतः ॥हरेरेवं जगत्तस्य वशेज्ञात्वा विशेषतः । विराड्रूपस्य च हरेः सत्यलोकः शिरस्यलम् ॥लोकालोकस्तस्य हरेः कटिसूत्रे विचिन्त्यते ।पीताम्बरः स्वर्णभूमिः शुद्धोदाब्धिः कटिस्तळे ॥कटिप्रधानस्थिगणे चिन्तयेन्मानसोत्तरम् ।मूलाधारे जाम्बवाख्यं केसरेषु इळावृतम् ॥जठराद्यास्तु तद्रेखा मेरुस्तन्नाभिमध्यगः ।मेरूपरिस्थलोकेश भवनानि च सर्वशः ॥बीजकोशेषु सञ्चिन्त्य मुच्यते पुरुषर्षभः ।भुवर्लोकं तस्य नाभौ स्वर्लोकं हृदि चिन्तयेत् ॥महर्लोकमुरस्स्थाने जनलोकं गले हरेः ।तपोलोकं मुखे ध्यात्वा सत्यलोकं तु मस्तके ॥षडष्टद्वादशाद्व्यष्टद्विसहस्रदळान्यपि ।नाभ्यादिकानि पद्मानि भुवरादीनि वै हरेः ॥पाताळं तस्य पादे तु प्रपदेषु रसातळम् ।महातळन्तु जघने जङ्घयोश्च तळातळम् ॥सुतळं जानुदेशे तु ऊर्वो(पि तु)स्तु वितळातळे ।विराड्रूपस्य चाङ्गेषु लोकाश्चिन्त्या सुचेतनैः ॥पद्मनाभस्य नाभ्युत्थं प्राकृतं पद्ममूर्जितम् ।संसृष्टतत्वसञ्जातं भूतत्वादिकसङ्गतम् ॥ सर्वलोकात्मकं तस्य शिखाग्रे सत्यनामके ।आद्यः ब्रह्मांशतो जातो विष्णुनैव चतुर्मुखः ॥ सृष्टः स्वयं द्रष्टुमिच्छन् चतुर्दिक्षुविधिर्हरिम् ।मुखानि लेभे चत्वारि नापश्यद्धिक्षु वै स्वयम् ॥ ततस्तन्नाळमध्यं तच्छिद्रादन्तर्गतं हरिम् । पश्यामीति तपश्चक्रे न तत्राविददीश्वरम् ॥ सत्यभागधोसंस्पृष्ट संस्पृष्टाम्बुस्थया श्रिया । वायुरूपस्थया धाता भीता विष्णोर्विभीरभूत् ॥ .॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे पञ्चदशोऽध्यायः सम्पूर्णः ॥॥ श्री कृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP