संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पाञ्चरात्रागमः|प्रथमपरिच्छेदः| चतुर्थोऽध्यायः प्रथमपरिच्छेदः प्रथमोध्यायः द्वितीयोऽध्यायः तृतीयोध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमपरिच्छेदः - चतुर्थोऽध्यायः 'पाञ्चरात्रागमः' एक उत्कृष्ट रचना. Tags : pancharatraपाञ्चरात्रागमःसंस्कृत चतुर्थोऽध्यायः Translation - भाषांतर ॥ श्रीहंस उवाच ॥सूक्ष्मं सर्वजगद्बीजं मितं त्रातं च विष्णुना ।प्रधानमव्यक्तमिति यद्वदन्ति मनीषिणः ॥महामायेत्यविद्येति प्रकृतिर्मोहिनीति च ।त्रिगुणात्मकमव्यक्तं त्रिरूपं तत्त्रिशक्तिमत् ॥अविद्याकामकर्मादि बीजमित्यपि तां विदुः ।रक्षितं प्रळये सृष्टा(वेवा)वण्वनन्तस्वरूपवान् ॥ अनादिकर्मग्रन्थीति बन्धोबन्धकमित्यपि ।अजामनन्यवशगां कळाषोडशसंयुताम् ॥तीव्रदुःखात्मकां नानायोनिप्रापकमीरितम् ।नारिकेळसमाकारं परिच्छेदत्रयात्मकम् ॥मूर्ध्निच्छिद्रयुतं दिव्यं रत्नवद्भास्वरं सदा ।विष्णुना रमयाच्छन्नाच्छिद्रगर्भावकाशवत् ॥सृष्टौ लये रमा तस्य मानिनी च निरन्तरम् ।सृष्टावेव ब्रह्मवायू सभार्यावभिमानिनौ ॥रजस्सत्त्वतमस्संज्ञभागत्रयसमन्वितम् ।सत्वभागः शुक्लवर्णः रक्तवर्णस्तु राजसः ॥नीलवर्णस्तमोभाग इति भागत्रयात्मकः ।ज्ञानकर्मेन्द्रियकळाः रजोभागे व्यवस्थिताः ॥तमोभागगताः प़ञ्चतन्मात्रासंज्ञिताः कळाः ।मनः कळा सत्वभागगता सर्वप्रधानिका ॥मनोबुद्धिरहंकारश्चित्तं चेति चतुर्विधम् ।कामक्रोधमहालोभमदमात्सर्यमोहकाः ॥द्वेषाहंकारममकारेर्ष्यसूयाभयादयः ।मनोदोषास्तद्विहीनं मनोज्ञानाय साधनम् ॥मनश्चतुर्विधं नित्यं जडप्रकृतिगं मतम् ।तज्जन्यमप्यनित्यं स्यात्तत्र चित्तं न दोषयुक् ॥मनः स्वर्णाद्यनेकार्थमपेक्षां जनयिष्यति ।बुद्धिर्निषिद्धभोग्च्छां सदासंकल्पयिष्यति ॥अहङ्कारः पुमर्थानां घातकः स्सोत्तमैः सह ।स्पर्धां विष्णुसुरद्वेषं कल्पयत्यपि सर्वशः ॥चित्तं सत्साधनगतं करोति पुरुषं सदा ।सत्साधनमहङ्कारकलितं पापमेवहि ॥अहङ्कारविहीनं तच्चित्तं विज्ञानसाधनम् ।रचिते भारते वर्षे यथा मानुषसत्तनुम् ॥लब्ध्वा गुरुकुलावासं कृत्वानेकसुजन्मभिः ।कृत्वात्मयोग्यसत्कर्म लब्धसद्गुरुसेवया ॥प्रसन्नैरुपदिष्टोरु सच्छास्त्रश्रवणादिभिः ।वृत्तिज्ञानप्रदं तच्च वृत्तिभक्त्यादि साधकम् ॥ताभ्यां स्वारूपिकज्ञानभक्तिर्व्यक्तिर्भविष्यति ।स्वारूपिकं मनो नित्यं ततः स्वारूपिकी मतिः ॥व्यक्ता भवति नित्या सा भक्तिः स्वारूपिकी तथा ।सैवानन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति ॥इन्द्रियाणां गोळकानि दृश्यान्याहुः समग्रशः ।अतीन्द्रियाणीन्द्रियाणि ज्ञानकर्ममयानि च ॥श्रोत्रत्वङ्नेत्ररसनघ्राणाद्या ज्ञानशक्तयः ।वाक्पाणिपादपायूपस्थाः सर्वे कर्मशक्तयः ॥श्रोत्रं शब्दग्राहिशब्दो द्विविधः परिकीर्तितः ।शब्दो ध्वन्यात्मको वर्णात्मकश्चेति तदादिमः ॥अहङ्कारात्समुद्भूतः आकाशोत्पत्तिकारणः ।ध्वन्यात्मकस्तु शब्दस्तु प्रथमः परिकीर्तितः ॥ज्ञानकर्मेन्द्रियमनोमात्राः सूक्ष्माह्यनादयः ।नित्याश्च प्रळये सृष्टावनित्यास्ते प्रकीर्तिताः ॥वर्णात्मकस्तु यश्शब्दो नित्यः सर्वगतो विभुः ।द्रव्यमित्येव सर्वेषां न गुणः कस्यचिन्मते ॥वेदाः पदाद्वर्णतश्च शब्दतः स्वरतस्तथा ।अनादिनित्यास्ते सर्वेप्यपौरुषेयगुणोत्कराः ॥विष्णोर्माहात्म्यविज्ञप्तौ सत्प्रमेये च साधकाः ।शास्त्राणिच पुराणानि पौरुषेयाणि कृत्स्नशः ॥यथार्थानि प्रणीतानि हरिणाथ सुरर्षिभिः ।नित्यान्येवार्थतो वर्णक्रमयोगादनित्यकाः ॥सात्विकानि पुराणानि मन्वादि स्मृतयस्तथा ।यथार्थ एव तत्रोक्तं ग्राह्यं श्रीहरितत्परैः ॥वाराहं वैष्णवं पाद्मं वायुप्रोक्तं च गारुडम् ।श्रीमद्भागवतं चैव सात्विकानीति हि श्रुतिः ॥ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ।भविष्यं नारसिंहं च राजसानि षडैव हि ॥मात्स्यं कौर्म्यं तथा लैङ्ग्यं शैवं स्कान्दं तथैव च ।पाशुपतसंज्ञिकं चेति तामसानि विदो विदुः ॥ग्राह्यं सर्वं सात्विकोक्तं योजना भेदतोथवा ।वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ॥इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि ।व्यासोक्तानि पुराणानि सात्विकान्यपि कृत्स्नशः ॥क्वचित् क्वचित् पुराणानि प्रायोज्ञानकराण्यपि ।आसुरावेशवशतः तदन्योक्तान्यनन्तशः ॥श्रोत्राग्राह्याणि सन्त्येव अप्रमाणानि तान्यलम् ।परशुक्लत्रयोक्तानि नित्यं विष्ण्वाज्ञयैव तु ॥अतिप्रमाणानि दैत्यावेशाज्ञानादि वर्जनात् ।बधिरत्वादयः श्रोत्रृदोषास्तद्वर्जितेन्द्रियैः ॥एतानि विषयाण्याहुः श्रोतव्यानि सहस्रशः ।शब्ददोषविहीनानि ग्राह्याणि मनसा सह ॥तत्रोक्तानन्तसुगुणं निर्दोषं ज्ञेयमीश्वरम् ।गम्यं सत्यं च सुखचिन्मयं विष्णुं सनातनम् ॥आत्मेश्वरं हरिं भक्त्योपा(स्त्या)स्यमुक्ता भवन्ति हि ।कुशास्त्रेषूक्तदुर्मार्गे हेयता बुद्धिसंयुतम् ॥॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्थोऽध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP