अधिकरणम् ४ - अध्यायः १
महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.
भार्यैकचरिणी गूढविश्रम्भा((१०७)) देववत्पतिं आनुकुल्येन वर्तेत ॥१॥
तन्मतेन कुटुम्बचिन्तां आत्मनि संनिवेशयेत् ॥२॥
वेश्म च शुचि सुःसंमृष्टस्थानं विरचितविविधकुसुमं श्लक्ष्णभूमितलं हृद्यदर्शनं((१०८)) त्रिषवणाचरितबलिकर्म पूजितदेवतायतनं कुर्यात् ॥३॥
न ह्यतोऽन्यद्गृहस्थानां चित्तग्राहकं अस्तीति गोनर्दीयः ॥४॥
गुरुषु भृत्यवर्गेषु नायकभगिनीषु((१०९)) तत्पतिषु च यथार्हं प्रतिपत्तिः((११०)) ॥५॥
परिपूतेषु च हरितशाकवप्रानिक्षुस्तम्बाञ् जीरकसर्षपाजमोदशतपुष्पातमालगुल्मांश्च कारयेत्((१११)) ॥६॥
कुब्जकामलकमल्लिकाजातीकुरण्टकनवमालिकातगरनन्द्यावर्तजपागुल्मानन्यांश्च बहुपुष्पान्बालकोशीरकपातालिकांश्च वृक्षवाटिकायां च स्थण्डिलाणि मनोज्ञानि कारयेत्((११२)) ॥७॥
मध्ये कूपं वापीं दीर्घिकां वा खानयेत् ॥८॥
भिक्षुकीश्रमाणाक्षपणाकुलटाकुहकेक्षणिकामूलकारिकाभिर्न संसृज्येत ॥९॥
भोजने च रुचितं इदं अस्मै द्वेष्यं इदं पथ्यं इदं अःपथ्यं इदं इति च विन्द्यात् ॥१०॥
स्वरं बहिरुपश्रुत्य भवनं आगच्छतः किं कृत्यं इति ब्रुवती सज्जा((११३)) भवनमध्ये तिष्ठेत् ॥११॥
परिचारिकं अपनुद्य स्वयं पादौ प्रक्षालयेत् ॥१२॥
नायकस्य च न विमुक्तभूषणं विजने संदर्शने तिष्ठेत् ॥१३॥
अतिःव्ययं अःसद्व्ययं वा कुर्वाणं रहसि बोधयेत् ॥१४॥
आवाहे विवाहे यज्ञे गमनं सखीभिः सह गोष्ठीं देवताभिगमनं इत्यनुज्ञाता कुर्यात् ॥१५॥
सर्वक्रीडासु च तदानुलोम्येन प्रवृत्तिः ॥१६॥
पश्चात्संवेशनं पूर्वं उत्थानं अनःअवबोधनं च सुप्तस्य ॥१७॥
महानसं च सुःगुप्तं स्याद्दर्शनीयं च ॥१८॥
नायकापचारेषु किं चित्कलुषिता नात्यःअर्थं निर्वदेत् ॥१९॥
साधिक्षेपवचनं त्वेनं मित्रजनमध्यस्थं एकाकिनं वाप्युपालभेत । न च मूलकारिका स्यात् ॥२०॥
न ह्यतोऽन्यदःप्रत्ययकारणं अस्तीति गोनर्दीयः ॥२१॥
दुरःव्याहृतं दुरःनिरीक्षितं अन्यतो मन्त्रणं द्वारदेशावस्थानं निरीक्षणं वा निष्कुटेषु((११४)) मन्त्रणं विविक्तेषु चिरं अवस्थानं इति वर्जयेत् ॥२२॥
स्वेददन्तपङ्कदुरःगन्धांश्च बुध्येतेति विरागकारणम् ॥२३॥
बहुभूषणं विविधकुसुमानुलेपनं विविधाङ्गरागसमुज्ज्वलं वास इत्याभिगामिको वेषः ॥२४॥
प्रतनुश्लक्ष्णाल्पदुकूलता परिमितं आभरणं सुःगन्धिता नात्यःउल्वणम्((११५)) अनुलेपनम् । तथा शुक्लान्यन्यानि पुष्पाणीति वैहारिको वेषः ॥२५॥
नायकस्य व्रतं उपवासं च स्वयं अपि करणेनानुवर्तेत । वारितायां च नाहं अत्र निर्बन्धनीयेति तद्वचसो निवर्तनम् ॥२६॥
मृद्विदलकाष्ठचर्मलोहभाण्डानां च काले समःअर्घग्रहणम्((११६)) ॥२७॥
तथा लवणस्नेहयोश्च गन्धद्रव्यकटुकभाण्डौषधानां च दुरःलभानां भवनेषु प्रच्छन्नं निधानम् ॥२८॥
मूलकालुकपालङ्कीदमनकाम्रातकैर्वारुकत्रपुसवार्ताककूष्माण्डालाबुसूरणशुकनासा स्वयम्गुप्तातिलपर्णिकाग्निमन्थलशुनपलाण्डुप्रभृतीनां सर्वौषधीनां च बीजग्रहणं काले वापश्च ॥२९॥
स्वस्य च सारस्य परेभ्यो नाख्यानं भर्तृमन्त्रितस्य च ॥३०॥
समानाश्च स्त्रियः कौशलेनोज्ज्वलतया पाकेन मानेन तथोपचारैरतिशयीत ॥३१॥
सांवत्सरिकं आयं संख्याय तदनुरूपं व्ययं कुर्यात् ॥३२॥
भोजनावशिष्टाद्गोरसाद्घृतकरणं तथा तेलगुडयोः । कर्पासस्य च सूत्रकर्तनं सूत्रस्य वानम् । शिक्यरज्जुपाशवल्कलसंग्रहणम् । कुट्टनकण्डनावेक्षणम् । आमचामण्डतुषकखकुट्यङ्गाराणां उपयोजनम् । भृत्यवेतन भरणज्ञानम् । कृषिपशुपालनचिन्तावाहनविधानयोगाः । मेषकुक्कुटलावक शुकशारिकापरभृतमयूरवानरमृगाणां अवेक्षणम् । दैवसिकायव्ययपिण्डी करणं इति च विद्यात् ॥३३॥
तज्जघन्यानां च जीर्णवाससां संचयस्तैर्विविधरागैः शुद्धैर्वा कृतकर्मणां परिचारकाणां अनुग्रहो मानार्थेषु च दानं अन्यत्र वोपयोगः ॥४ ।१ ।३५ सुराकुम्भीनां आसवकुम्भीनां च स्थापनं तदुपयोगः क्रयविक्रयावायव्यायावेक्षणम् ॥३४॥
नायकमित्राणां च स्रगनुलेपनताम्बूलदानैः पूजनं न्यायतः ॥३६॥
श्वश्रूस्वशुरपरिचर्या तत्पारतन्त्र्यं अनःउत्तरवादिता परिमिताःप्रचण्डालापकरणं अनःउच्चैर्हासः तत्प्रियाःप्रियेषु स्वप्रियाःप्रियेष्विव वृत्तिः ॥३७॥
भोगेष्वनःउत्सेकः ॥३८॥
परिजने दाक्षिण्यम् ॥३९॥
नायकस्याःनिवेद्य न कस्मै चिद्दानम् ॥४०॥
स्वकर्मसु भृत्यजननियमनं उत्सवेषु चास्य पूजनम् ॥४१॥
चित्येकचारिणीवृत्तम्((११७)) ॥४१॥
(प्रकरण)३३ [प्रवासचर्य्याप्रकरणम्]
प्रवासे मङ्गलमात्राभरणा देवतोपवासपरा वार्तायां स्थिता गृहानवेक्षेत ॥४२॥
शय्या च गुरुजनमूले । तदभिमता कार्यनिष्पत्तिः । नायकाभिमतानां चार्थानां अर्जने प्रतिसंस्कारे च यत्नः ॥४३॥
नित्यनैमित्तिकेषु कर्मसूचितो व्ययः । तदारब्धानां च कर्मणां समापने मतिः ॥४४॥
ज्ञातिकुलस्यानःअभिगमनं अन्यत्र व्यसनोत्सवाभ्याम्((११८)) । तत्रापि नायकपरिजनाधिष्ठिताया नातिकालं अवस्थानं अःपरिवर्तितप्रवासवेषता च ॥४५॥
गुरुजनानुज्ञातानां करणं उपवासानाम् । परिचारकैः शुचिभिराज्ञाधिष्ठितैरनुमतेन क्रयविक्रयकर्मणा सारस्यापूरणं तनूकरणं च शक्त्या व्ययानाम् ॥४६॥
आगते च प्रकृतिस्थाया एव प्रथमतो दर्शनं दैवतपूजनं उपहाराणां चाहरणम् ॥४७॥
इति प्रवासचर्या((११९)) ॥४७॥
भवतश्चात्र श्लोकौ ॥४८॥
व्सद्वृत्तम्((१२०)) अनुवर्तेत नायकस्य हितैषिणी । कुलयोषा पुनर्भूर्वा वेश्या वाप्येकचारिणी । धर्मं अर्थं तथा कामं लभन्ते स्थानं एव च । निःःसपत्नं च भर्तारं नार्यः सद्वृत्तं आश्रिताः ॥४८॥
इति श्रीवात्स्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थेऽधिकरणे एकचारिणीवृत्तं प्रवासचार्या च प्रथमोऽध्यायः ॥१॥
N/A
References : N/A
Last Updated : June 27, 2014
TOP