अधिकरणम् ३ - अध्यायः ५

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


प्राचुर्येण (९५) कन्याया विविक्तदर्शनस्यालाभे धात्रेयिकां प्रियहिताभ्यां उपगृह्योपसर्पेत् ॥१॥

सा चैनां अःविदिता नाम नायकस्य भूत्वा तद्गुणैरनुरञ्जयेत् । तस्याश्च रुच्यान्नायकगुणान्भूयिष्ठं उपवर्णयेत् ॥२॥

अन्येषां वरयितॄणां दोषानभिप्रायविरुद्धान्प्रतिपादयेत् ॥३॥

मातापित्रोश्च गुणानःअभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम् ॥४॥

याश्चान्या अपि समानजातीयाः कन्याः शकुन्तलाद्याः स्वबुद्ध्या भर्तारं प्राप्य संप्रयुक्ता मोदन्ते स्म (९६) ताश्चास्या निदर्शयेत् ॥५॥

महाकुलेषु सापत्नकैर्बाध्यमाना विद्विष्टाः दुःखिताः परित्यक्ताश्च दृश्यन्ते ॥६॥

आयतिं चास्य वर्णयेत् ॥७॥

सुखं अनःउपहतं एकचारितायां नायकानुरागं च वर्णयेत् ॥८॥

सःमनोरथायाश्चास्या अपायं साध्वसं व्रीडां च हेतुभिरवच्छिन्द्यात् ॥९॥

दूतीकल्पं च सकलं आचरेत् (९७) ॥१०॥

त्वां अःजानतीं इव नायको बलाद्ग्रहीष्यतीति तथा सुःपरिगृहीतं स्यादिति योजयेत् ॥११॥

प्रतिपन्नां अभिप्रेतावकाशवर्तिनीं नायकः श्रोत्रियागारादग्निं आनय्य कुशानास्तीर्य यथास्मृति हुत्वा च त्रिः परिक्रमेत् ॥१२॥

ततो मातरि पितरि च प्रकाशयेत् ॥१३॥

अग्निसाक्षिका हि विवाहा न निवर्तन्त इत्याचार्यसमयः ॥१४॥

दूषयित्वा चैनां शनैः स्वजने प्रकाशयेत् ॥१५॥

तद्बान्धवाश्च यथा कुलस्याघं परिहरन्तो दण्डभयाच् (९८) च तस्मा एवैनां दद्युस्तथा योजयेत् ॥१६॥

अनःअन्तरं च प्रीत्युपग्रहेण रागेण तद्बान्धवान्प्रीणयेद् (९९) इति ॥१७॥

गान्धर्वेण विवाहेन वा चेष्टेत ॥१८॥

अःप्रतिपद्यमानायां अन्तश्चारिणीं अन्यां कुलप्रमदां पूर्व संसृष्टां प्रीयमाणां चोपगृह्य तया सह विषह्यं अवकाशं एनां अन्यकार्यापदेशेनानाययेत् ॥१९॥

ततः श्रोत्रियागारादग्निं इति समानं पूर्वेण (१००) ॥२०॥

आसन्ने च विवाहे मातरं अस्यास्तदभिमतदोषैरनुशयं (१०१) ग्राहयेत् ॥२१॥

ततस्तदनुमतेन प्रातिवेश्याभावने (१०२) निशि नायकं आनाय्य श्रोत्रियागारादग्निं इति सम्~आनं पूर्वेण ॥२२॥

भ्रातरं अस्या वा समानवयसं वेश्यासु परस्त्रीषु वा प्रसक्तं अःसुकरेण साहाय्यदानेन प्रियोपग्रहश्च सुःदीर्घकालं अनुरञ्जयेत् । अन्ते च स्वाभिप्रायं ग्राहयेत् ॥२३॥

प्रायेण हि युवानः समानशीलव्यसनवयसां वयस्यानां अर्थे जीवितं अपि त्यजन्ति । ततस्तेनैवान्यकार्यात्तां आनाययेत् । विषह्यं सावकाशम् (१०३) इति समानं पूर्वेण ॥२४॥

अष्टमीचन्द्रिकादिषु च धात्रेयिका मदनीयं एनां पाययित्वा किं चिदात्मनः कार्यं उद्दिश्य नायकस्य विषह्यं देशं आनयेत् । तत्रैनां मदात्संज्ञां अःप्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण ॥२५॥

सुप्तां चैकचारिणीं धात्रेयिकां वारयित्वा संज्ञां अःप्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण (१०४) ॥२६॥

ग्रामान्तरं उद्यानं वा गच्छन्तीं विदित्वा सुःसंभृतसहायो नायकस्तदा रक्षिणो वित्रास्य हत्वा वा कन्यां अपहरेत् (१०५) ॥२७॥

चिति विवाहयोगाः ॥२७॥

व्पूर्वः पूर्वः प्रधानं स्याद्विवाहो धर्मतः स्थितेः । पूर्वाभावे ततः कार्यो यो य उत्तर उत्तरः ॥२८॥

व्व्यूढानां हि विवाहानां अनुरागः फलं यतः । मध्यमोऽपि हि सद्योगो गान्धर्वस्तेन पूजितः ॥२९॥

व्सुखत्वादःबहुक्लेशादपि चावरणादिह । अनुरागात्मकत्वाच्च गान्धर्वः प्रवरो मतः (१०६) ॥३०॥

इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे विवाहयोगाः पञ्चमोऽध्यायः । भार्याधिकारिकं चतुर्थं अधिकरणम् ॥५॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP