अधिकरणम् ३ - अध्यायः ४

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


दर्शितेङ्गिताकारां कन्यां उपायतोऽभियुञ्जीत ॥१॥

द्यूते क्रीडनकेषु च विवदमानः साकारं अस्याः पाणिं अवलम्बेत ॥२॥

यथोक्तं च स्पृष्टकादिकम् (८१) आलिङ्गनविधिं विदध्यात् ॥३॥

पत्त्रच्छेद्यक्रियायां च स्वाभिप्रायसूचकं मिथुनं अस्या दर्शयेत् ॥४॥

एवं अन्यद्विरलशो (८२) दर्शयेत् ॥५॥

जलक्रीडायां तद्दूरतोऽप्सु निमग्नः समीपं अस्या गत्वा स्पृष्ट्वा चैनां तत्रैवोन्मज्जयेत् ॥६॥

नवपत्त्रिकादिषु च सःविशेषभावनिवेदनम् ॥७॥

आत्मदुःखस्यानिर्वेदेन कथनम् ॥८॥

स्वप्नस्य च भावयुक्तस्यान्यापदेशेन ॥९॥

प्रेक्षणके स्वजनसमाजे वा समीपोपवेशनम् । तत्रान्यापदिष्टं स्पर्शनम् ॥१०॥

अपाश्रयार्थं च चरणेन चरणस्य पीडनम् ॥११॥

ततः शनकैरेकैकां अङ्गुलिं अभिस्पृशेत् ॥१२॥

पादाङुष्ठेन च नखाग्राणि घट्टयेत् ॥१३॥

तत्र सिद्धः पदात्पदं अधिकं आकाङ्क्षेत् ॥१४॥

क्षान्त्यर्थं च तदेवाभ्यसेत् ॥१५॥

पादशौचे पादाङ्गुलिसंदंशेन तदङ्गुलिपीडनम् ॥१६॥

द्रव्यस्य समर्पणे प्रतिग्रहे वा तद्गतो विकारः ॥१७॥

आचमनान्ते चोदकेनासेकः ॥१८॥

विजने तमसि च द्वन्द्वं आसीनः क्षान्तिं कुर्वीत । समानदेशशय्यायां च ॥१९॥

तत्र यथार्थं अनःउद्वेजयतो भावनिवेदनम् ॥२०॥

विविक्ते च किं चिदस्ति कथयितव्यं इत्युक्त्वा निर्वचनं भावं च तत्रोपलक्षयेत् । यथा पारदारिके वक्ष्यामः ॥२१॥

विदितभावस्तु व्याधिं अपदिश्यैनां वार्ताग्रहणार्थं स्वं उदवसितं आनयेत् ॥२२॥

आगतायाश्च शिरःपीडने नियोगः । पाणिं अवलम्ब्य चाश्याः साकारं नयनयोर्ललाटे च निदध्यात् ॥२३॥

औशाधापदेशार्थं चास्याः कर्म विनिर्दिशेत् ॥२४॥

इदं त्वया कर्तव्यम् । न ह्येतदृते कन्याया अन्येन कार्यं इति गच्छन्तीं पुनरागमनानुबन्धं एनां विसृजेत् ॥२५॥

अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः ॥२६॥

अभीक्ष्णदर्शनार्थं आगतायाश्च गोष्ठीं वर्धयेत् ॥२७॥

अन्याभिरपि सह विश्वासनार्थं अधिकं अधिकं चाभियुञ्जीत । न तु वचा निर्वदेत् ॥२८॥

दूरगतभावोऽपि हि कन्यासु न निर्वेदेन सिध्यातीति घोटकमुखः ॥२९॥

यदा तु बहुसिद्धां मन्येत तदैवोपक्रमेत् प्रदोषे निशि तमसि च योषितो मन्दसाध्वसाः (८३) सुःरतव्यवसायिन्यो रागवत्यश्च भवन्ति । न तु पुरुषं प्रत्याचक्षते । तस्मात्तत्कालं प्रयोजयितव्या इति प्रायोवादः ॥३०॥

एकपुरुषाभियोगानां त्वःसंभवे गृहीतार्थया धात्रेयिकया सख्या वा तस्यां अन्तरःभूतया तं अर्थं अःनिर्वदन्त्या सहैनां अङ्कं आनाययेत् । ततो यथोक्तं अभियुञ्जीत ॥३२॥

स्वां वा परिचारिकां आदावेव सखीत्वेनास्याः प्रणिदध्यात् ॥३३॥

यज्ञे विवाहे यात्रायां उत्सवे व्यसने प्रेक्षणकव्यापृते (८४) जने तत्र तत्र च दृष्टेङ्गिताकारां परीक्षितभावां एकाकिनीं उपक्रमेत ॥३४॥

न हि दृष्टभावा योषितो देशे काले च प्रयुज्यमाना (८५) व्यावर्तन्त इति वात्स्यायनः ॥३५॥

२८ इत्येकपुरुषाभियोगः (८६) ।

(प्रकरण)२९

मन्दापदेशा (८७) गुणवत्यपि कन्या धनहीना कुलीनापि समानैरःयाच्यमाना मातापितृवियुक्ता वा ज्ञातिकुलवर्तिनी वा प्राप्तयौवना पाणिग्रहणं स्वयं अभीप्सेत ॥३६॥

सा तु गुणवन्तं शक्तं सुःदर्शनं बालप्रीत्याभियोजयेत् ॥३७॥

यं वा मन्येत मातापित्रोरःसमीक्षया स्वयं अप्ययं इन्द्रियदौर्बल्यान्मयि प्रवर्तिष्यत इति प्रियहितोपचारैरभीक्ष्णसंदर्शनेन च तं आवर्जयेत् ॥३८॥

माता चैनां सखीभिर्धात्रेयिकाभिश्च सह तदभिमुखीं कुर्यात् ॥३९॥

पुष्पगन्धताम्बूलहस्ताया विःजने विःकाले च तदुपस्थानम् । कलाकौशलप्रकाशने वा संवाहने शिरसः पीडने चौचित्यदर्शनम् । प्रयोज्यस्य सात्म्ययुक्ताः कथायोगाः बालायां उपक्रमेषु यथोक्तं आचरेत् (८८) ॥४०॥

न चैवान्तरापि (८९) पुरुषं स्वयं अभियुञ्जीत । स्वयं अभियोगिनी हि युवतिः सौभाग्यं जहातीत्याचार्याः ॥४१॥

तत्प्रयुक्तानां त्वभियोगानां आनुलोम्येन ग्रहणम् ॥४२॥

परिष्वक्ता (९०) च न विकृतिं भजेत् । श्लक्ष्णम् (९१) आकारं अःजानतीव प्रतिगृहीयात् । वदनग्रहणे बलात्कारः ॥४३॥

रतिभावनां अभ्यर्थ्यमानायाः कृच्छ्राद्गुह्यसंस्पर्शनम् ॥४४॥

अभ्यर्थितापि नातिविवृता स्वयं स्यात् । अन्यत्राःनिश्चयकालात् (९२) ॥४५॥

यदा तु मन्येतानुरक्तो मयि न व्यावर्तयिष्यत इति तदैवैनं अभियुञ्जानं बालभाव मोक्षाय त्वरेत् ॥४६॥

विमुक्तकन्याभावा च विश्वास्येषु प्रकाशयेत् ॥४७॥

चिति प्रयोज्यस्योपावर्तनम् (९३) ॥४७॥

(प्रकरण)३०

भवन्ति चात्र श्लोकाः ॥४८॥

व्कन्याभियुज्यमाना तु यं मन्येताश्रयं सुखम् । अनुकूलं च वश्यं च तस्य कुर्यात्परिग्रहम् ॥४८॥

वनःअपेक्ष्य गुणान्यत्र रूपं औचित्यं एव च । कुर्वीत धनलोभेन पतिं सापत्नकेष्वपि ॥४९॥

व्तत्र युक्तगुणं वश्यं शक्तं बलवदर्थिनम् । उपायैरभियुञ्जानं कन्या न प्रतिलोभयेत् ॥५०॥

व्वरं वश्यो दरिद्रोऽपि निरःगुणोऽप्यात्मधारणः । गुणैर्युक्तोऽपि न त्वेवं बहुसाधारणः ॥५१॥

व्प्रायेण धनिनां दारा बहवो निरःअवग्रहाः । बाह्ये सत्युपभोगेऽपि निर्विस्रम्भा बहिःसुखाः ॥५२॥

व्नीचो यस्त्वभियुञ्जीत पुरुषः पलितोऽपि वा । विःदेशगतिशीलश्च न स संयोगं अर्हति ॥५३॥

व्यदृच्छयाभियुक्तो यो दम्भद्यूताधिकोऽपि । सःपत्नीकश्च सापत्यो न स संयोगं अर्हति ॥५४॥

व्गुणसाम्येऽभियोक्तॄणां एको वरयिता वरः । तत्राभियोक्तरि श्रैष्ठ्यं अनुरागात्मको हि सः (९४) ॥५५॥

चिति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे एकपुरुषाभियोगा अभियोगतश्च कन्यायाः प्रतिपत्तिश्चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP