संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|प्रायश्चित्ताध्यायः| यतिधर्मप्रकरणम् प्रायश्चित्ताध्यायः आशौचप्रकरणम् आपद्धर्मप्रकरणम् वानप्रस्थधर्मप्रकरणम् यतिधर्मप्रकरणम् प्रायश्चित्तप्रकरणम् रहस्यप्रायश्चित्तम् प्रायश्चित्ताध्यायः - यतिधर्मप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः यतिधर्मप्रकरणम् Translation - भाषांतर वनाद्गृहाद्वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् ।प्राजापत्यां तदन्ते तानग्नीनारोप्य चात्मनि ॥३.५६॥ अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्निमान् ।शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा ॥३.५७॥ सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ।एकारामः परिव्रज्य भिक्षार्थी ग्रामं आश्रयेत् ॥३.५८॥ अप्रमत्तश्चरेद्भैक्षं सायाह्नेऽनभिलक्षितः ।रहिते भिक्षुकैर्ग्रामे यात्रामात्रं अलोलुपः ॥३.५९॥ यतिपात्राणि मृद्वेणु दार्वलाबुमयानि च ।सलिलं शुद्धिरेतेषां गोवालैश्चावघर्षणम् ॥३.६०॥ संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च ।भयं हित्वा च भूतानां अमृतीभवति द्विजः ॥३.६१॥ कर्तव्याशयशुद्धिस्तु भिक्षुकेण विशेषतः ।ज्ञानोत्पत्तिनिमित्तत्वात्स्वातन्त्र्यकरणाय च ॥३.६२॥ अवेक्ष्या गर्भवासाश्च कर्मजा गतयस्तथा ।आधयो व्याधयः क्लेशा जरा रूपविपर्ययः ॥३.६३॥ भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः ।ध्यानयोगेन संपश्येत्सूक्ष्म आत्मात्मनि स्थितः ॥३.६४॥ नाश्रमः कारणं धर्मे क्रियमाणो भवेद्हि सः ।अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत् ॥३.६५॥ सत्यं अस्तेयं अक्रोधो ह्रीः शौचं धीर्धृतिर्दमः ।संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः ॥३.६६॥ निःसरन्ति यथा लोह पिण्डात्तप्तात्स्फुलिङ्गकाः ।सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि ॥३.६७॥ तत्रात्मा हि स्वयं किंचित्कर्म किंचित्स्वभावतः ।करोति किंचिदभ्यासाद्धर्माधर्मोभयात्मकम् ॥३.६८॥ निमित्तं अक्षरः कर्ता बोद्धा गुणी वशी ।अजः शरीरग्रहणात्स जात इति कीर्त्यते ॥३.६९॥ सर्गादौ स यथाकाशं वायुं ज्योतिर्जलं महीम् ।सृजत्येकोत्तरगुणांस्तथादत्ते भवन्नपि ॥३.७०॥ आहुत्याप्यायते सूर्यः सूर्याद्वृष्टिरथौषधिः ।तदन्नं रसरूपेण शुक्रत्वं अधिगच्छति ॥३.७१॥ स्त्रीपुंसयोस्तु संयोगे विशुद्धे शुक्रशोणिते ।पञ्चधातून्स्वयं षष्ठ आदत्ते युगपत्प्रभुः ॥३.७२॥ इन्द्रियाणि मनः प्राणो ज्ञानं आयुः सुखं धृतिः ।धारणा प्रेरणं दुःखं इच्छाहंकार एव च ॥३.७३॥ प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ ।तस्यैतदात्मजं सर्वं अनादेरादिं इच्छतः ॥३.७४॥ प्रथमे मासि संक्लेद भूतो धातुविमूर्च्छितः ।मास्यर्बुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः ॥३.७५॥ आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् ।वायोश्च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यं एव च ॥३.७६॥ पित्तात्तु दर्शनं पक्तिं औष्ण्यं रूपं प्रकाशिताम् ।रसात्तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ॥३.७७॥ भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिं एव च ।आत्मा गृह्णात्यजः सर्वं तृतीये स्पन्दते ततः ॥३.७८॥ दौहृदस्याप्रदानेन गर्भो दोषं अवाप्नुयात् ।वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः ॥३.७९॥ स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः ।षष्ठे बलस्य वर्णस्य नखरोम्णां च संभवः ॥३.८०॥ मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुशिरायुतः ।सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमानपि ॥३.८१॥ पुनर्धात्रीं पुनर्घर्मं ओजस्तस्य प्रधावति ।अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ॥३.८२॥ नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥३.८३॥ तस्य षोढा शरीराणि शट्त्वचो धारयन्ति च ।सडङ्गानि तथास्थ्नां च सह षष्ट्या शतत्रयम् ॥३.८४॥ स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः ।पाणिपादशलाकाश्च तेषां स्थानचतुष्टयम् ॥३.८५॥ षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयम् ।चत्वार्यरत्निकास्थीनि जङ्घयोस्तावदेव तु ॥३.८६॥ द्वे द्वे जानुकपोलोरु फलकांससमुद्भवे ।अक्षतालूषके श्रोणी फलके च विनिर्दिशेत् ॥३.८७॥ भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ।ग्रीवा पञ्चदशास्थिः स्याज्जत्र्वेकैकं तथा हनुः ॥३.८८॥ तन्मूले द्वे ललाटाक्षि गण्डे नासा घनास्थिका ।पार्श्वकाः स्थालकैः सार्धं अर्बुदैश्च द्विसप्ततिः ॥३.८९॥ द्वौ शङ्खकौ कपालानि चत्वारि शिरसस्तथा ।उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥३.९०॥ गन्धरूपरसस्पर्श शब्दाश्च विषयाः स्मृताः ।नासिका लोचने जिह्वा त्वक्श्रोत्रं च इन्द्रियाणि च ॥३.९१॥ हस्तौ पायुरुपस्थं च जिह्वा पादौ च पञ्च वै ।कर्मेन्द्रियाणि जानीयान्मनश्चैवोभयात्मकम् ॥३.९२॥ नाभिरोजो गुदं शुक्रं शोणितं शङ्खकौ तथा ।मूर्धांसकण्ठहृदयं प्राणस्यायतनानि तु ॥३.९३॥ वपा वसावहननं नाभिः क्लोम यकृत्प्लिहा ।क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानं एव च ॥३.९४॥ आमाशयोऽथ हृदयं स्थूलान्त्रं गुद एव च ।उदरं च गुदौ कोष्ठ्यौ विस्तारोऽयं उदाहृतः ॥३.९५॥ कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ ।कर्णौ शङ्खौ भ्रुवौ दन्त वेष्टावोष्ठौ ककुन्दरे ॥३.९६॥ वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातजौ स्तनौ ।उपजिह्वास्फिजौ बाहू जङ्घोरुषु च पिण्डिका ॥३.९७॥ तालूदरं बस्तिशीर्षं चिबुके गलशुण्डिके ।अवटश्चैवं एतानि स्थानान्यत्र शरीरके ॥३.९८॥ अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च ।नव छिद्राणि तान्येव प्राणस्यायतनानि तु ॥३.९९॥ शिराः शतानि सप्तैव नव स्नायुशतानि च ।धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥३.१००॥ एकोनत्रिंशल्लक्षाणि तथा नव शतानि च ।षट्पञ्चाशच्च जानीत शिरा धमनिसंज्ञिताः ॥३.१०१॥ त्रयो लक्षास्तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् ।सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा ॥३.१०२॥ रोम्णां कोट्यस्तु पञ्चाशच्चतस्रः कोट्य एव च ।सप्तषष्टिस्तथा लक्षाः सार्धाः स्वेदायनैः सह ॥३.१०३॥ वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः ।यद्यप्येकोऽनुवेत्त्येषां भावनां चैव संस्थितिम् ॥३.१०४॥ रसस्य नव विज्ञेया जलस्याञ्जलयो दश ।सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥३.१०५॥ षट्श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रं एव च ।वसा त्रयो द्वौ तु मेदो मज्जैकोर्ध्वं तु मस्तके ॥३.१०६॥ श्लेष्मौजसस्तावदेव रेतसस्तावदेव तु ।इत्येतदस्थिरं वर्ष्म यस्य मोक्षाय कृत्यसौ ॥३.१०७॥ द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः ।हिताहिता नाम नाड्यस्तासां मध्ये शशिप्रभम् ॥३.१०८॥ मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः ।स ज्ञेयस्तं विदित्वेह पुनराजायते न तु ॥३.१०९॥ ज्ञेयं चारण्यकं अहं यदादित्यादवाप्तवान् ।योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगं अभीप्सता ॥३.११०॥ अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः ॥३.१११॥ यथाविधानेन पठन्सामगायं अविच्युतम् ।सावधानस्तदभ्यासात्परं ब्रह्माधिगच्छति ॥३.११२॥ अपरान्तकं उल्लोप्यं मद्रकं प्रकरीं तथा ।औवेणकं सरोबिन्दुं उत्तरं गीतकानि च ॥३.११३॥ ऋग्गाथा पाणिका दक्ष विहिता ब्रह्मगीतिका ।गेयं एतत्तदभ्यास करणान्मोक्षसंज्ञितम् ॥३.११४॥ वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः ।तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति ॥३.११५॥ गीतज्ञो यदि योगेन नाप्नोति परमं पदम् ।रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥३.११६॥ अनादिरात्मा कथितस्तस्यादिस्तु शरीरकम् ।आत्मनस्तु जगत्सर्वं जगतश्चात्मसंभवः ॥३.११७॥ कथं एतद्विमुह्यामः सदेवासुरमानवम् ।जगदुद्भूतं आत्मा च कथं तस्मिन्वदस्व नः ॥३.११८॥ मोहजालं अपास्येह पुरुषो दृश्यते हि यः ।सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रकः ॥३.११९॥ स आत्मा चैव यज्ञश्च विश्वरूपः प्रजापतिः ।विराजः सोऽन्नरूपेण यज्ञत्वं उपगच्छति ॥३.१२०॥ यो द्रव्यदेवतात्याग संभूतो रस उत्तमः ।देवान्संतर्प्य स रसो यजमानं फलेन च ॥३.१२१॥ संयोज्य वायुना सोमं नीयते रश्मिभिस्ततः ।ऋग्यजुः सामविहितं सौरं धामोपनीयते ॥३.१२२॥ खमण्डलादसौ सूर्यः सृजत्यमृतं उत्तमम् ।यज्जन्म सर्वभूतानां अशनानशनात्मनाम् ॥३.१२३॥ तस्मादन्नात्पुनर्यज्ञः पुनरन्नं पुनः क्रतुः ।एवं एतदनाद्यन्तं चक्रं संपरिवर्तते ॥३.१२४॥ अनादिरात्मा संभूतिर्विद्यते नान्तरात्मनः ।समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ॥३.१२५॥ सहस्रात्मा मया यो व आदिदेव उदाहृतः ।मुखबाहूरुपज्जाः स्युस्तस्य वर्णा यथाक्रमम् ॥३.१२६॥ पृथिवी पादतस्तस्य शिरसो द्यौरजायत ।नस्तः प्राणा दिशः श्रोत्रात्स्पर्शाद्वायुर्मुखाच्छिखी ॥३.१२७॥ मनसश्चन्द्रमा जातश्चक्षुषश्च दिवाकरः ।जघनादन्तरिक्षं च जगच्च सचराचरम् ॥३.१२८॥ यद्येवं स कथं ब्रह्मन्पापयोनिषु जायते ।ईश्वरः स कथं भावैरनिष्टैः संप्रयुज्यते ॥३.१२९॥ करणैरन्वितस्यापि पूर्वं ज्ञानं कथं च न ।वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदनाम् ॥३.१३०॥ अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः ।दोषैः प्रयाति जीवोऽयं भवं योनिशतेषु च ॥३.१३१॥ अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् ।रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् ॥३.१३२॥ विपाकः कर्मणां प्रेत्य केषांचिदिह जायते ।इह वामुत्र वैकेषां भावस्तत्र प्रयोजनम् ॥३.१३३॥ परद्रव्याण्यभिध्यायंस्तथानिष्टानि चिन्तयन् ।वितथाभिनिवेशी च जायतेऽन्यासु योनिषु ॥३.१३४॥ पुरुषोऽनृतवादी च पिशुनः परुषस्तथा ।अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥३.१३५॥ अदत्तादाननिरतः परदारोपसेवकः ।हिंसकश्चाविधानेन स्थावरेष्वभिजायते ॥३.१३६॥ आत्मज्ञः शौचवान्दान्तस्तपस्वी विजितेन्द्रियः ।धर्मकृद्वेदविद्यावित्सात्त्विको देवयोनिताम् ॥३.१३७॥ असत्कार्यरतोऽधीर आरम्भी विषयी च यः ।स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥३.१३८॥ निद्रालुः क्रूरकृल्लुब्धो नास्तिको याचकस्तथा ।प्रमादवान्भिन्नवृत्तो भवेत्तिर्यक्षु तामसः ॥३.१३९॥ रजसा तमसा चैवं समाविष्टो भ्रमन्निह ।भावैरनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥३.१४०॥ मलिनो हि यथा आदर्शो रूपालोकस्य न क्षमः ।तथाविपक्वकरण आत्मज्ञानस्य न क्षमः ॥३.१४१॥ कट्वेर्वारौ यथापक्वे मधुरः सन्रसोऽपि न ।प्राप्यते ह्यात्मनि तथा नापक्वकरणे ज्ञता ॥३.१४२॥ सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् ।योगी मुक्तश्च सर्वासां यो न चाप्नोति वेदनाम् ॥३.१४३॥ आकाशं एकं हि यथा घटादिषु पृथग्भवेत् ।तथात्मा एको ह्यनेकश्च जलाधारेष्विवांशुमान् ॥३.१४४॥ ब्रह्मखानिलतेजांसि जलं भूश्चेति धातवः ।इमे लोका एष चात्मा तस्माच्च सचराचरम् ॥३.१४५॥ मृद्दण्डचक्रसंयोगात्कुम्भकारो यथा घटम् ।करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ॥३.१४६॥ हेममात्रं उपादाय रूपं वा हेमकारकः ।निजलालासमायोगात्कोशं वा कोशकारकः ॥३.१४७॥ कारणान्येवं आदाय तासु तास्विह योनिषु ।सृजत्यात्मानं आत्मा च संभूय करणानि च ॥३.१४८॥ महाभूतानि सत्यानि यथात्मापि तथैव हि ।कोऽन्यथैकेन नेत्रेण दृष्टं अन्येन पश्यति ॥३.१४९॥ वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् ।अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥३.१५०॥ जातिरूपवयोवृत्त विद्यादिभिरहंकृतः ।शब्दादिविषयोद्योगं कर्मणा मनसा गिरा ॥३.१५१॥ स संदिग्धमतिः कर्म फलं अस्ति न वेति वा ।विप्लुतः सिद्धं आत्मानं असिद्धोऽपि हि मन्यते ॥३.१५२॥ मम दाराः सुतामात्या अहं एषां इति स्थितिः ।हिताहितेषु भावेषु विपरीतमतिः सदा ॥३.१५३॥ ज्ञेयज्ञे प्रकृतौ चैव विकारे चाविशेषवान् ।अनाशकानलाघात जलप्रपतनोद्यमी ॥३.१५४॥ एवंवृत्तोऽविनीतात्मा वितथाभिनिवेशवान् ।कर्मणा द्वेषमोहाभ्यां इच्छया चैव बध्यते ॥३.१५५॥ आचार्योपासनं वेद शास्त्रार्थेषु विवेकिता ।तत्कर्मणां अनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः ॥३.१५६॥ स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् ।त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥३.१५७॥ विषयेन्द्रियसंरोधस्तन्द्रालस्यविवर्जनम् ।शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनम् ॥३.१५८॥ नीरजस्तमसा सत्त्व शुद्धिर्निःस्पृहता शमः ।एतैरुपायैः संशुद्धः सत्त्वयोग्यमृती भवेत् ॥३.१५९॥ तत्त्वस्मृतेरुपस्थानात्सत्त्वयोगात्परिक्षयात् ।कर्मणां संनिकर्षाच्च सतां योगः प्रवर्तते ॥३.१६०॥ शरीरसंक्षये यस्य मनः सत्त्वस्थं ईश्वरम् ।अविप्लुतमतिः सम्यक्स जातिसंस्मरतां इयात् ॥३.१६१॥ यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् ।नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः ॥३.१६२॥ कालकर्मात्मबीजानां दोषैर्मातुस्तथैव च ।गर्भस्य वैकृतं दृष्टं अङ्गहीनादि जन्मनः ॥३.१६३॥ अहंकारेण मनसा गत्या कर्मफलेन च ।शरीरेण च नात्मायं मुक्तपूर्वः कथंचन ॥३.१६४॥ वर्त्याधारस्नेहयोगाद्यथा दीपस्य संस्थितिः ।विक्रियापि च दृष्टैवं अकाले प्राणसंक्षयः ॥३.१६५॥ अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि ।सितासिताः कर्बुरूपाः कपिला नीललोहिताः ॥३.१६६॥ ऊर्ध्वं एकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् ।ब्रह्मलोकं अतिक्रम्य तेन याति परां गतिम् ॥३.१६७॥ यदस्यान्यद्रश्मिशतं ऊर्ध्वं एव व्यवस्थितम् ।तेन देवशरीराणि सधामानि प्रपद्यते ॥३.१६८॥ येऽनेकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः ।इह कर्मोपभोगाय तैः संसरति सोऽवशः ॥३.१६९॥ वेदैः शास्त्रैः सविज्ञानैर्जन्मना मरणेन च ।आर्त्या गत्या तथागत्या सत्येन ह्यनृतेन च ॥३.१७०॥ श्रेयसा सुखदुःखाभ्यां कर्मभिश्च शुभाशुभैः ।निमित्तशाकुनज्ञान ग्रहसंयोगजैः फलैः ॥३.१७१॥ तारानक्षत्रसंचारैर्जागरैः स्वप्नजैरपि ।आकाशपवनज्योतिर् जलभूतिमिरैस्तथा ॥३.१७२॥ मन्वन्तरैर्युगप्राप्त्या मन्त्रौषधिफलैरपि ।वित्तात्मानं वेद्यमानं कारणं जगतस्तथा ॥३.१७३॥ अहंकारः स्मृतिर्मेधा द्वेषो बुद्धिः सुखं धृतिः ।इन्द्रियान्तरसंचार इच्छा धारणजीविते ॥३.१७४॥ स्वर्गः स्वप्नश्च भावानां प्रेरणं मनसो गतिः ।निमेषश्चेतना यत्न आदानं पाञ्चभौतिकम् ॥३.१७५॥ यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः ।तस्मादस्ति परो देहादात्मा सर्वग ईश्वरः ॥३.१७६॥ बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च ।अहंकारश्च बुद्धिश्च पृथिव्यादीनि चैव हि ॥३.१७७॥ अव्यक्तं आत्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते ।ईश्रवः सर्वभूतस्थः सन्नसन्सदसच्च यः ॥३.१७८॥ बुद्धेरुत्पत्तिरव्यक्तात्ततोऽहंकारसंभवः ।तन्मात्रादीन्यहंकारादेकोत्तरगुणानि च ॥३.१७९॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ।यो यस्मान्निःसृतश्चैषां स तस्मिन्नेव लीयते ॥३.१८०॥ यथात्मानं सृजत्यात्मा तथा वः कथितो मया ।विपाकात्त्रिप्रकाराणां कर्मणां ईश्वरोऽपि सन् ॥३.१८१॥ सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः ।रजस्तमोभ्यां आविष्टश्चक्रवद्भ्राम्यते ह्यसौ ॥३.१८२॥ अनादिरादिमांश्चैव स एव पुरुषः परः ।लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः ॥३.१८३॥ पितृयानोऽजवीथ्याश्च यदगस्त्यस्य चान्तरम् ।तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति ॥३.१८४॥ ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः ।तेऽपि तेनैव मार्गेण सत्यव्रतपरायणाः ॥३.१८५॥ तत्राष्टाशीतिसाहस्र मुनयो गृहमेधिनः ।पुनरावर्तिनो बीज भूता धर्मप्रवर्तकाः ॥३.१८६॥ सप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः ।तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥३.१८७॥ तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ।तत्र गत्वावतिष्ठन्ते यावदाभूतसंप्लवम् ॥३.१८८॥ यतो वेदाः पुराणानि विद्योपनिषदस्तथा ।श्लोका सूत्राणि भाष्याणि यच्च किंचन वाङ्मयम् ॥३.१८९॥ वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः ।श्रद्धोपवासः स्वातन्त्र्यं आत्मनो ज्ञानहेतवः ॥३.१९०॥ स ह्याश्रमैर्विजिज्ञास्यः समस्तैरेवं एव तु ।द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः ॥३.१९१॥ य एनं एवं विन्दन्ति य वारण्यकं आश्रिताः ।उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥३.१९२॥ क्रमात्ते संभवन्त्यर्चिरहः शुक्लं तथोत्तरम् ।अयनं देवलोकं च सवितारं सवैद्युतम् ॥३.१९३॥ ततस्तान्पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् ।करोति पुनरावृत्तिस्तेषां इह न विद्यते ॥३.१९४॥ यज्ञेन तपसा दानैर्ये हि स्वर्गजितो नराः ।धूमं निशां कृष्णपक्षं दक्षिणायनं एव च ॥३.१९५॥ पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् ।क्रमात्ते संभवन्तीह पुनरेव व्रजन्ति च ॥३.१९६॥ एतद्यो न विजानाति मार्गद्वितयं आत्मवान् ।दन्दशूकः पतङ्गो वा भवेत्कीटोऽथ वा कृमिः ॥३.१९७॥ ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् ।उत्तानं किंचिदुन्नाम्य मुखं विष्टभ्य चोरसा ॥३.१९८॥ निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तानसंस्पृशन् ।तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः ॥३.१९९॥ संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः ।द्विगुणं त्रिगुणं वापि प्राणायामं उपक्रमेत् ॥३.२००॥ ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः ।धारयेत्तत्र चात्मानं धारणां धारयन्बुधः ॥३.२०१॥ अन्तर्धानं स्मृतिः कान्तिर्दृष्टिः श्रोत्रज्ञता तथा ।निजं शरीरं उत्सृज्य परकायप्रवेशनम् ॥३.२०२॥ अर्थानां छन्दतः सृष्टिर्योगसिद्धेर्हि लक्षणम् ।सिद्धे योगे त्यजन्देहं अमृतत्वाय कल्पते ॥३.२०३॥ अथ वाप्यभ्यसन्वेदं न्यस्तकर्मा वने वसन् ।अयाचिताशी मितभुक्परां सिद्धिं अवाप्नुयात् ॥३.२०४॥ न्यायागतधनस्तत्त्व ज्ञाननिष्ठोऽतिथिप्रियः ।श्राधकृत्सत्यवादी च गृहस्थोऽपि हि मुच्यते ॥३.२०५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP