संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|शृङ्गारतिलक| तृतीय परिच्छेदः शृङ्गारतिलक प्रथमः परिच्छेदः द्वितीय परिच्छेदः तृतीय परिच्छेदः शृङ्गारतिलक - तृतीय परिच्छेदः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpoemकाव्यमहाकाव्यरुद्रभट्टशृङ्गारतिलकसंस्कृत तृतीय परिच्छेदः Translation - भाषांतर विकृताङ्गवचःकृत्य- वेषेभ्यो जायते रसः ।हास्योऽयं हासमूलत्वात्पात्रत्रयगतो यथा ॥३.१॥किञ्चिद्विकसितैर्गण्डैः किञ्चिद्विस्फारितेक्षणैः ।किञ्चिद्लक्ष्यद्विजैः सोऽयं उत्तमानां भवेद्यथा ॥३.२॥पाणौ कङ्कणं उत्फणः फणिपतिर्नेत्रं ज्वलत्पावकंकण्ठः कुण्ठितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनं ।गौरीलोचनलोभनाय सुभगो वेषो वरस्येति मेगण्डोल्लासविभावितः पशुपतेर्हासोद्गमः पातु वः ॥३.२॥मध्यमानां भवत्येष विवृताननपङ्कजः ।नीचानां निपतद्बाष्पः श्रूयमाणध्वनिर्यथा ॥३.३॥मुग्धे त्वं सुभगे न वेत्सि मदनव्यापारं अद्यापि तंनूनं ते जलजैषिणायं अलिना दृष्टो न भर्ताधरः ।सख्यैवं हसितं वधूं प्रति तथा सानन्दं आविर्भवद्वक्त्रान्तर्गतसीधुवासरसिकैर्भृङ्गैर्यथा धावितं ॥३.३॥त्यक्त्वा गुञ्जफलानि मौक्तिकमयी भूषा स्तनेष्वाहितास्त्रीणां कष्टं इदं कृतं सरसिजं कर्णे न बर्हिच्छदं ।इत्थं नाथ तवारिधाम्नि शवरैरालोक्य चित्रस्थितिंबास्पार्द्रीकृतलोचनैः स्फुटरवं दारैः समं हस्यते ॥३.३॥अस्मिन्सखीकराघात- नेत्रोल्लासाङ्गवर्तनं ।नासाकपोलविस्पन्दो मुखरागश्च जायते ॥३.४॥शोकात्मा करुणो ज्ञेयः प्रियभृत्यधनक्षयाथ् ।तत्रेत्थं नायको दैव- हतः स्याद्दुःखभाजनं ॥३.५॥भर्ता संगर एव मृत्युवसतिं प्राप्तः समं बन्धुभिर्यूनां कामं इयं दुनोति च मनो वैधव्यभावाद्वधूः ।बालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा जीवामीति महीपते प्रलपति त्वद्वैरिसीमन्तिनी ॥३.५॥भूपातो दैवनिन्दा च रोदनं दीननिःस्वनः ।शरीरताडनं मोहो वैवर्ण्यं चात्र जायते ॥३.६॥क्रोधात्मको भवेद्रौद्रः प्रतिशत्रूनमर्षतः ।रक्षःप्रायो भवेदत्र नायकोऽत्युग्रविग्रहः ॥३.७॥यः प्राणापहतिः कृता मम पितुः क्षुद्रैर्युधि क्षत्रियैरामोऽहं रमणीर्विहाय बलवन्निःशेषं एषां हठाथ् ।भास्वत्प्रौढकुठारकोटिघटनाकाण्डत्रुटत्कन्धरास्रोतोऽन्तःस्रुतविस्रशोणितभरैः कुर्यां क्रुधां निर्वृतिं ॥३.७॥मुखरागायुधोत्क्षेप- स्वेदकम्पाधरग्रहाः ।शक्तिशंसा कराघातो भ्रुकुटी चात्र जायते ॥३.८॥उत्साहात्मा भवेद्वीरो दयादानाजिपूर्वकः ।त्रिविधो नायकस्तत्र जायते सत्त्वसंयुतः ॥३.९॥गाम्भीर्यौदार्यसौन्दर्य- शौर्यधैर्यादिभूषितः ।आवर्जितजनो जन्य- निर्व्यूढप्रौढविक्रमः ॥३.१०॥अयि विहङ्ग वराक कपोतकं विमृज धेहि धृतिं मम मेदसा ।शिबिरहं भवता विदितो न किंसकलसत्त्वसमुद्धरणक्षमः ॥३.१०॥सुखितोऽसि हरे नूनंभुवनत्रयमात्रलब्धितोषेण ।बलिरर्थितदोऽस्मि यतो न याचितः किंचिदप्यधिकं ॥३.१०॥यत्रैरावणदन्ततीव्रमुसलैरेरण्डकाण्डायितंवज्रेणापि विकीर्णवह्निततिना मार्णालनालायितं ।मद्वक्षस्यवलम्ब्य किंचिदधुना तद्विस्मृतं वज्रिणायुद्धं यद्यवलम्बते स तु पुनः सज्जोऽस्म्यहं रावणः ॥३.१०॥धृतिगर्वौद्धत्यमतिस्मृतिरोमाञ्चा भवन्ति चामुष्मिन् ।विविधा वाक्यक्षेपाः सोत्साहामर्षवेगाश्च ॥३.११॥भयानको भयस्थायि- भावोऽसौ जायते रसः ।शब्दादेर्विकृताद्वोढं बालस्त्रीनीचनायकः ॥३.१२॥श्रुत्वा तूर्यनिनादं द्वारे भयचकितललितबाहुलतः ।धन्यस्य लगति कण्ठे मुग्धशिशुर्धूलिधूसरितः ॥३.१२॥प्रणयकलहसङ्गान्मन्युभाजा निरस्तः प्रकटितचटुकोटिः पादपद्मानतोऽपि ।नवजलधरगर्जेर्भीतयासौ कयाचित्त्रुटिततरलहारं सस्वजे प्राणनाथः ॥३.१२॥कम्पोपरुद्धसर्वाङ्गैर्गलत्स्वेदोदबिन्दुभिः ।त्वदारब्धैर्महीनाथ वैरिभिर्वनितायितं ॥३.१२॥वैवर्ण्यं अश्रु संत्रासो हस्तपादादिकम्पनं ।स्वेदास्यशोषदिक्प्रेक्षा- संभ्रमाश्च प्रकीर्तिताः ॥३.१३॥जुगुप्साप्रकृतिर्ज्ञेयो बीभत्सोऽहृद्यदर्शनाथ् ।श्रवणात्कीर्तनाद्वापि पूत्यादिविषयाद्यथा ॥३.१४॥लुठत्कृमिकलेवरं स्रवदसृग्वसावासितंविशीर्णशवसंततिप्रसरदुग्रगन्धान्वितं ।भ्रमत्प्रचुरपत्रिकं त्रिकविवर्तिनृत्यक्रियाप्रवीणगुणकौणपं परिबभौ परेताजिरं ॥३.१४॥नासाप्रच्छादनं वक्त्र- कूणनं गात्रसंवृतिः ।निष्ठीवनादि चात्र स्यादुद्वेगादुत्तमेष्वपि ॥३.१५॥विस्मयात्माद्भुतो ज्ञेयो रसो रसविचक्षणैः ।मायेन्द्रजालदिव्यस्त्री- विपिनाद्युद्भवो यथा ॥३.१६॥सत्यं हृता त्वया हंस वनितानां इयं गतिः ।भ्रमन्त्येतास्तथाप्येतदिन्द्रजालं तदद्भुतं ॥३.१६॥गद्गदः साधुवादश्च स्वेदः पुलकवेपथू ।दृष्टेर्निशलतारत्वं विकासश्चात्र जायते ॥३.१७॥सम्यग्ज्ञानोद्भवः शान्तः समत्वात्सर्वजन्तुषु ।गतेच्छो नायकस्तत्र तमोरागपरिक्षयाथ् ॥३.१८॥धनं अहरहर्दत्तं स्वीयं यथार्थितं अर्थिने कृतं अरिकुलं नारीशेषं स्वखड्गविजृम्भितैः ।प्रणयिनि जने रागोद्रिक्ते रतिर्विहिता चिरंकिं अपरं अतः कर्तव्यं नस्तनावपि नादरः ॥३.१८॥निरालम्बं मनो ह्यत्र बाढं आत्मनि तिष्ठति ।सुखे नेच्छा तथा दुःखेऽप्युद्वेगो नात्र जायते ॥३.१९॥अष्टावमी रसाः पूर्वं ये प्रोक्तास्तत्र निश्चितं ।प्रत्यनीकौ रसौ द्वौ द्वौ तत्सम्पर्कं विवर्जयेथ् ॥३.२०॥शृङ्गारबीभत्सरसौ तथा वीरभयानकौ ।रौद्राद्भुतौ तथा हास्य- करुणौ वैरिणौ मिथः ॥३.२१॥हास्यो भवति शृङ्गारात्करुणो रौद्रकर्मतः ।अद्भुतश्च तथा वीराद्बीभत्साच्च भयानकः ॥३.२२॥यौ जन्यजनकावेतौ रसावुक्तौ मनीषिभिः ।युक्त्या कृतोऽपि संभेदस्तयोर्बाढं न दुष्यति ॥३.२३॥केचिद्रसविभागेषु भावाः पूर्वं प्रदर्शिताः ।स्वातन्त्र्येणेह कीर्त्यन्ते रम्यास्ते कृतिनां मताः ॥३.२४॥रत्यादय इमे भावा रसाभिप्रायसूचकाः ।पञ्चाशत्स्थायिसंचारि- सात्त्विकास्तान्निबोधत ॥३.२५॥शृङ्गारादिरसेष्वेव भावा रत्यादयः स्मृताः ।प्रत्येकं स्थैर्यतोऽन्ये च तर्यस्त्रिंशच्चराः स्मृताः ॥३.२६॥प्रायोऽनवस्थिते चित्ते भावाः संकीर्णसंभवाः ।बाहुल्येन निगद्यन्ते तथाप्येते यथा स्थिताः ॥३.२७॥शङ्कासूया भयं ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः ।औत्सुक्यं विस्मयो हर्षो व्रीडोन्मादो मदस्तथा ॥३.२८॥विषादो जडता निद्रा- [अ]वहित्थं चापलं स्मृतिः ।इति भावाः प्रयोक्तव्या शृङ्गारे व्यभिचारिणः ॥३.२९॥श्रमश्चपलता निद्रा स्वप्नो ग्लानिस्तथैव च ।शङ्कासूयावहित्थं च हास्ये भावा भवन्त्यमी ॥३.३०॥दैन्यं चिन्ता तथा ग्लानिर्निर्वेदो जडतास्मृतिः ।व्याधिश्च करुणे ज्ञेया भावा भावविशारदैः ॥३.३१॥हर्षोऽसूया तथा गर्व उत्साहो मद एव च ।चापल्यं उग्रता वेगो रौद्रे भावाः प्रकीर्तिताः ॥३.३२॥अमर्षः प्रतिबोधश्च वितर्कोऽथ मतिर्धृतिः ।क्रोधोऽसूयाश्रु संमोह आवेगो रोमहर्षणं ॥३.३३॥गर्वो मदस्तथोग्रत्वं भावा वीरे भवन्त्यमी ।संत्रासो मरणं चैव वचनीयं भयानके ॥३.३४॥अपस्मारो विषादश्च भयं वेगो मतिर्मदः ।उन्मादश्चेति विज्ञेया भावा बीभत्ससंभवाः ॥३.३५॥आवेगो जडता मोहो विस्मयो हर्षणं मतिः ।इति भावान्निबध्नन्ति रसेऽस्मिन्नद्भुते बुधाः ॥३.३६॥एवं संचारिणो भावा ज्ञेयाः प्रतिरसं स्थिताः ।सात्त्विकास्तु भवन्त्येते सर्वे सर्वरसाश्रयाः ॥३.३७॥या नृत्यगीतप्रमदोपभोगवेषाङ्गसङ्कीर्तनचारुबन्धा ।माधुर्ययुक्ताल्पसमासरम्यावाणी स्मृतासाविह कैशिकीति ॥३.३८॥शृङ्गारहास्यकरुण- रसानां परिवृद्धये ।एषा वृत्तिः पर्योक्तव्या प्रयत्नेन बुधैर्यथा ॥३.३९॥सौन्दर्यं शशलाञ्छनस्य कविभिर्मिथ्यैव तद्वर्ण्यतेसौभाग्यं क्व नु पङ्कजस्य रजनीसंभोगभग्नत्विषः ।इत्यालोच्य चिराय चारु रुचिमन्त्रस्यत्कुरङ्गीदृशोवीक्षेते नवयौवनोन्नतमुखौ मन्ये स्तनावाननं ॥३.३९॥हस्तेषुः कुसुमायुधस्य ललितं रागश्रियो लोचनंसौभाग्यैकगृहं विलासनिकषो वैदग्ध्यसिद्धिध्वजः ।साक्षीदं मदबान्धवस्य निभृतं कस्यापि लीलानिधेःकक्षान्तर्नखमण्डनं सखि नवं प्रच्छाद्यतां वाससा ॥३.३९॥समुल्लसत्काञ्चनकुण्डलोज्ज्वलप्रभापि तापाय बभूव येष्वलं ।विलासिनीरम्यमुखाम्बुजन्मसुप्रजज्वलुस्तेष्वकृशाः कृशानवः ॥३.३९॥या चित्रयुद्धभ्रमशस्त्रपातमायेन्द्रजालप्लुतिलाङ्घिताढ्या ।ओजस्विगुर्वक्षरबन्धगाढा ज्ञेया बुधैः सारभटीति वृत्तिः ॥३.४०॥रौद्रे भयानके चैव बीभत्से च विचक्षणैः ।काव्यशोभाकरी वृत्तिरियं इत्थं प्रयुज्यते ॥३.४१॥शस्त्रोद्दारितकुम्भिकुम्भविगलद्रक्ताक्तमुक्ताफलंस्फारस्फूर्जितकान्तिकल्पितबृहच्चञ्चच्चतुष्कायितं ।क्रोधोद्धावितधीरधोरणलसात्खड्गाग्रं उग्राग्रहंयुद्धं सिद्धवधूगृहीतसुभटं जातं तदा दुर्धरं ॥३.४१॥नायं गर्जिरवो गभीरपरुषं तूर्यं तदीयं त्विदंनैते भीमभुजङ्गभोगरुचयो मेघा इमे तद्रजाः ।इत्थं नाथ नवाम्बुवाहसमये त्वत्सैन्यशङ्काकुलाम्लायद्वक्त्ररुचो विरोधिवनितास्त्रस्यन्ति नश्यन्ति च ॥३.४१॥पिबन्नसृक्स्वदन्मांसं आकर्षन्नन्त्रमालिकां ।कबन्धसङ्कुले क्रोष्टा भ्रमत्येष महारणे ॥३.४१॥हर्षप्रधानाधिकसत्त्ववृत्तिस्त्यागोत्तरोदारवचोमनोज्ञा ।आश्चर्यसंपत्सुभगा च या स्यात्सा सात्वती नाम मतात्र वृत्तिः ॥३.४२॥नातिगूढार्थसंपत्तिः श्रव्यशब्दमनोरमा ।वीरे रौद्रेऽद्भुते शान्ते वृत्तिरेषा मता यथा ॥३.४३॥लक्ष्म्यास्त्वं जनको निधिश्च पयसां निःशेषरत्नाकरोमर्यादानिरतस्त्वं एव जलधे ब्रूतेऽत्र कोऽन्यादृशं ।किं त्वेकस्य गृहं गतस्य बडवावह्नेः सदा तृष्णयाक्लान्तस्योदरपूरणेऽपि न सहो यत्तन्मनाङ्मध्यमं ॥३.४३॥स्फारितोत्कटकठोरतारकाकीर्ण वह्निकणसंततिः क्रुधा ।दुर्निमित्ततडिदाकृतिर्बभौ दृष्टिरिष्टसमरांशुमालिनः ॥३.४३॥अत्यद्भुतं नराधिप तव कीर्तिर्धवलयन्त्यपि जगन्ति ।रक्तान्करोति सुहृदो मलिनयति च वैरिवदनानि ॥३.४३॥निवृत्तविषयासङ्ग- मधुना सुचिराय मे ।आत्मन्येव समाधानं मनः केवलं इच्छति ॥३.४३॥प्रधानपुरुषप्राया सद्वक्रोक्तिनिरन्तरा ।भारतीयं भवेद्वृत्तिर्वीरहास्याद्भुताश्रया ॥३.४४॥जन्मदेहवधबन्धनादिकं तुल्यं एतदितरैः समं सतां ।यत्तथापि विपुलाचलाः श्रियःसाहसैकपरतात्र कारणं ॥३.४४॥यशोदाकृतरक्षस्य शासितुर्भुवनद्रुहां ।बाल्ये निभृतगम्भीरो हरेर्हासः पुनातु वः ॥३.४४॥निर्भयोऽप्येष भूपालस्तद्ददाति द्विषां युधि ।असत्तेषु यशः शुभ्रं आदत्ते चेदं अद्भुतं ॥३.४४॥इत्यादि रम्याः प्रविलोक्य वृत्तीर्दृष्ट्वा निबन्धांश्च महाकवीनां ।आलोक्य वैचित्र्यं इदं विदध्यात्काव्यं कविः सज्जनचित्तचौरं ॥३.४५॥विरसं प्रत्यनीकं च दुःसन्धानरसं तथा ।नीरसं पात्रदुष्टं च काव्यं सद्भिर्न शस्यते ॥३.४६॥विहाय जननीमृत्यु- शोकं मुग्धे मया सह ।यौवनं मानय स्पष्टं इत्यादि विरसं मतं ॥३.४७॥प्रबन्धे नीयते यत्र रस एको निरन्तरं ।महतीं वृद्धिं इच्छन्ति नीरसं तच्च केचन ॥३.४८॥नखक्षतोच्छलत्पूति- प्लुतगण्डस्थलं रतौ ।पिबामि वदनं तस्याः प्रत्यनीकं तदुच्यते ॥३.४९॥तां एवानुचितां गच्छ ज्वलिता त्वत्कृते तु या ।किं ते कृत्यं मया धूर्त दुःसन्धानरसं त्विदं ॥३.५०॥दुर्जनो दयितः कामं मनो म्लानं मनोभवः ।कृशो वियोगतप्तायास्तस्या इत्यादि नीरसं ॥३.५१॥मुग्धा व्याजं विना वेश्या कन्येयं निपुणा रतौ ।कुलस्त्री सर्वदा धृष्टा पात्रदुष्टं त्विदं मतं ॥३.५२॥अन्येष्वपि रसेष्वेते दोषा वर्ज्या मनीषिभिः ।यत्सम्पर्कान्न यात्येव काव्यं रसपरम्परां ॥३.५३॥इति मया कथितेन पथामुनारसविशेषं अशेषं उपेयुषा ।ललितपादपदासदलङ्कृतिःकृतधियां इह वाग्वनितायते ॥३.५४॥शृङ्गारतिलको नाम ग्रन्थोऽयं ग्रथितो मया ।व्युत्पत्तये निषेवन्तु कवयः कामिनश्च ये ॥३.५५॥कान्या काव्यकथा कीदृग्वैदग्धी को रसागमः ।किं गोष्ठीमण्डनं हन्त शृङ्गारतिलकं विना ॥३.५६॥त्रिपुरवधादेव गतां उल्लासं उमां समस्तदेवनतां ।शृङ्गारतिलकविधिना पुनरपि रुद्रः प्रसादयति ॥३.५७॥इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे हास्यादिरसनिरूपणं नाम तृतीयः परिच्छेदः । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP