संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|काव्य|शृङ्गारतिलक| द्वितीय परिच्छेदः शृङ्गारतिलक प्रथमः परिच्छेदः द्वितीय परिच्छेदः तृतीय परिच्छेदः शृङ्गारतिलक - द्वितीय परिच्छेदः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpoemकाव्यमहाकाव्यरुद्रभट्टशृङ्गारतिलकसंस्कृत द्वितीय परिच्छेदः Translation - भाषांतर विप्रलम्भाभिधानोऽयं शृङ्गारः स्याच्चतुर्विधः ।पूर्वानुरागो मानाख्यः प्रवासः करुणात्मकः ॥२.१॥दम्पत्योर्दर्शनादेव समुत्पन्नानुरागयोः ।ज्ञेयः पूर्वानुरागोऽयं अप्राप्तौ च दशा यथा ॥२.२॥किं चन्दनैर्रचयसे नु मृणालशय्यांमा मा ममालि कुरु कोमलतालवृन्तं ।मुञ्चाग्रहं विकचपङ्कजयोजनेषुतत्सङ्गमः परं अपाकुरुते स्मराग्निं ॥२.२॥यत्सारैरिव पङ्कजस्य घटितं यच्चन्द्रगर्भादिवप्रोत्कीर्णं यदनङ्गसायकशिखाभासेव संवर्धितं ।यत्संसिच्य सुधारसैरिव रतेरास्थानभूमीकृतंतद्भूयोऽपि कदा सरोरुहदृशः पश्यामि तस्या मुखं ॥२.२॥मृणालकदलीचन्द्र- चन्दनाम्बुरुहादिकं ।तत्रानयोः स्मरातङ्क- शान्तये नैव सेवितं ॥२.३॥आलोकालापसंरूढ- रागाकुलितचेतसोः ।तयोर्भवेदसंप्राप्तौ दशावस्थः स्मरो यथा ॥२.४॥अभिलाषोऽथ चिन्ता स्यात्स्मृतिश्च गुणकीर्तनं ।उद्वेगोऽथ प्रलापः स्यादुन्मादो व्याधिरेव च ॥२.५॥जडता मरणं चैव दशमं जायते ध्रुवं ।असंप्राप्तौ भवन्त्येतास्तयोर्दश दशा यथा ॥२.६॥व्यवसायो भवेद्यत्र बाढं तत्सङ्गमाशया ।सङ्कल्पाकुलचित्तत्वात्सोऽभिलाषः स्मृतो यथा ॥२.७॥प्रविशति यथा गेहेऽकस्माद्बहिश्च विचेष्टतेवदति च यथा सख्या सार्धं सहासं इहोत्सुका ।दयितवदनालोके मन्दं यथा च चलत्यसौमृगदृशि तथैतस्यां मन्ये स्मरेण कृतं पदं ॥२.७॥ कथं स वल्लभः प्राप्यः किं कुर्यां अस्य सिद्धये ।कथं भवेदसौ वश्य इति चिन्ता मता यथा ॥२.८॥सत्यं दुर्लभ एष वल्लभतमो रागो ममास्मिन्पुनः कोऽप्यन्योऽस्ति गुरुर्न चातिनिपुणाः सख्योऽस्य संबोधने ।संचिन्त्येति मृगीदृशा प्रियतमे दृष्टे श्लथां मेखलांबध्नन्त्या न गतं स्थितं न च गलद्वासो न वा संवृतं ॥२.८॥द्वेषो यत्रान्यकार्येषु तदेकाग्रं च मानसं ।श्वासैर्मनोरथैश्चापि चेष्टास्ताः स्मरणं यथा ॥२.९॥इन्दुं निन्दति पद्मकन्दलदलैस्तल्पं न वा मन्यते कर्पूरं किरति प्रयाति न रतिं प्रालेयधारागृहे ।श्वासैः केवलं एव खेदिततनुर्ध्यायत्यसौ बालिका यत्तत्कोऽपि युवा ध्रुवं स्मरसुहृच्चेतस्यमुषाः स्थितः ॥२.९॥सौन्दर्यहसितालापैर्नास्त्यन्यस्तत्समो युवा ।इति वाणी भवेद्यत्र तदित्थं गुणकीर्तनं ॥२.१०॥तद्वक्त्रं हसितेन्दुमण्डलं इति स्फारं तदालोकितंसा वाणी जितकामकार्मुकरवा सौन्दर्यं एतस्य तथ् ।इत्थं संततं आलि वल्लभतमध्यानप्रसक्तात्मनश्चेतश्चुम्बितकालकूटं इव मे कस्मादिदं मुह्यति ॥२.१०॥यस्मिन्रम्यं अरम्यं वा न च हर्षाय जायते ।प्रद्वेषः प्राणितव्येऽपि स उद्वेगः स्मृतो यथा ॥२.११॥अग्न्याकारं कलयसि पुरश्चक्रवाकीव चन्द्रंबद्धोत्कम्पं शिशिरमरुता दह्यसे पद्मिनीव ।प्राणान्धत्से कथं अपि बलाद्गच्छतः शल्यतुल्यांस्तत्केनासौ सुतनु जन्तिओ मान्मथस्ते विकारः ॥२.११॥ बम्भ्रमीति मनो यस्मिन्रत्यौत्सुक्यादितस्ततः ।वाचः प्रियाश्रिता एव स प्रलापः स्मृतो यथा ॥२.१२॥इत्थं तेन निरीक्षितं न च मयाप्येवं समालोकितस्तेनोक्तं सुभगेन तत्र न मया दत्तं वचो मन्दया ।तत्सत्यं कथयालि किं स सुभगः कुप्येन्न मह्यं गतइत्युक्त्वा सुदृशा कयापि वलितग्रीवं दृशौ स्फारिते ॥२.१२॥श्वासप्ररोदनोत्कम्प- वसुधोल्लेखनैरपि ।व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥२.१३॥देवीवानिमिषेक्षणा विलिखति क्षोणीं श्वसित्युच्चकैःकिंचिद्ध्यायति निश्चला च बलवद्रोमाञ्चिता कम्पते ।रोदित्यङ्गगतां विलोक्य सुचिरं वीणां अपि व्यापृतास्वल्पैरेव दिनैरियं वरतनुः केनापि संशिक्षिता ॥२.१३॥सन्तापवेदनाप्रायो दीर्घश्वाससमाकुलः ।तनूकृततनुर्व्याधिरष्टमोऽयं स्मृतो यथा ॥२.१४॥तापः शोषितचन्दनोदकरसः श्वासा विकीर्णोत्पलाः कर्पूराभिभवप्रचण्डपटिमा गण्डस्थले पाण्डिमा ।म्लायद्बालमृणालनालललिता प्राप्ता तनुस्तानवंतन्वङ्ग्याः कथितः स्मरेण गुरुणा कोऽप्येष कष्टक्रमः ॥२.१४॥अकाण्डे यत्र हुंकारो दृष्टिः स्तब्धा गता स्मृतिः ।श्वासाः समधिकाः कार्श्यं जडतेयं मता यथा ॥२.१५॥दृष्टिर्निश्चलतारकाधरदलं श्वासैः कृतं धूषरंप्राप्तं वासरचन्द्रबिम्बपदवीं वक्त्रं विनष्टा स्मृतिः ।हुंकारः परं एक एव वचनस्थाने स्थितः सांप्रतंमन्येऽस्याः कुसुमायुधः सशिबिरः प्रत्यङ्गं आवासितः ॥२.१५॥उपायैर्विविधैर्नार्या यदि न स्यात्समागमः ।कन्दर्पशरभिन्नाया मरणं जायते ततः ॥२.१६॥पुंसोऽपि हि भवन्त्येता दशावस्था मनोभवाथ् ।मरणं किं त्वसौन्दर्यात्तयोः कैश्चिन्न बध्यते ॥२.१७॥अन्ये तदपि बध्नन्ति प्रत्युज्जीवनकाङ्क्षया ।वृत्तानुवादे तच्छस्तं उत्पाद्ये प्रायशो नहि ॥२.१८॥एकस्मिंस्तु मृतेऽप्यन्यो यदि जीवेत्कथंचन ।का स्नेहगणना तत्र म्रियते चेन्न सङ्गमः ॥२.१९॥पूर्वं नारी भवेद्रक्ता पुमान्पश्चात्तदिङ्गितैः ।ततः संभोगलीलेति स्वभावसुभगा स्थितिः ॥२.२०॥अन्यथापि न दोषः स्याद्यदि प्रेम समं द्वयोः ।रक्तापरक्ता वृत्तिश्चेच्छृङ्गाराभास एव सः ॥२.२१॥अयं च प्रायशस्तज्ज्ञैरित्थं हास्येषु बध्यते ।निर्द्रव्येण मया सार्धं वेश्ये मानय यौवनं ॥२.२२॥अनुरक्तो भवेद्यस्यां नायकस्तत्सखीजनं ।साम्ना मानेन दानेन बाढं आवर्जयत्यसौ ॥२.२३॥तस्याग्रे तत्कथां कुर्वन्स्वाभिप्रायं प्रकाशयेथ् ।तदभावे प्रयुञ्जीत काश्चित्प्रव्रजितादिकाः ॥२.२४॥तद्द्वारेण समाख्यात- स्वभावो ज्ञाततन्मनाः ।उपचारैः परैर्लेखैः साधयेत्तां अतन्द्रितः ॥२.२५॥ततो दृष्ट्वा विविक्ते तां इन्द्रजालकलादिभिः ।प्रयोगैर्ललितैः स्वैरं विस्मयं परमं नयेथ् ॥२.२६॥धात्रीसखीवेश्मनि रात्रिचारेमहोत्सवे तीव्रतमे भये च ।निमन्त्रेण व्याधिमिषेण शून्ये गेहे तयोर्नूतनसङ्गमः स्याथ् ॥२.२७॥यदा रागो गुरुः सा च लभ्यते नैव याचिता ।क्षीणोपायस्तदा कन्यां नायकः साधयेदिति ॥२.२८॥परस्त्रीगमनोपायः कविभिर्नोपदिश्यते ।सुन्दरं किन्तु काव्याङ्गं एतत्तेन निदर्श्यते ॥२.२९॥वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।तदेव पञ्चबाणस्य मन्ये परमं आयुधं ॥२.३०॥बहुमानाद्भयाद्वापि नृणां अन्यत्र योषिति ।प्रच्छन्नकामितं रम्यं सतां अपि भवेद्यथा ॥२.३१॥जीर्णं तार्णकुटीरकं निवसनं तल्पीकृतं स्थण्डिलेनीरन्ध्रं तिमिरं किरन्ति सलिलं गर्जन्त एते घनाः ।गच्छामीति वदत्यसावपि मुहुः शङ्काकुला केवलंचेतश्चित्रं अहो तथापि रमते संकेतके कामिनां ॥२.३१॥स मानो नायिका यस्मिन्नीर्ष्यया नायकं प्रति ।धत्ते विकारं अन्यस्त्री- सङ्गदोषवशाद्यथा ॥२.३२॥किंचिद्बाष्पजलावलेपललिते नेत्रे समाकुञ्चितेरागो विस्फुरणानुबन्धरुचिरः संदर्शितो गण्डयोः ।कम्पश्चाधरपल्लवे विरचितः कामं कुरङ्गीदृशानो जाने किं अयं प्रिये प्रकटितः कोपोऽभिलाषोऽथवा ॥२.३२॥स प्रायशो भवेद्त्रेधा कामिनीनां प्रियं प्रति ।अवेक्ष्य दोषं एतस्य गरीयान्मध्यमो लघुः ॥२.३३॥पर्तिनार्यां गते कान्ते स्वयं दृष्टे नखाङ्किते ।तद्वासोदर्शने गोत्र- स्खलिते च गुरुर्यथा ॥२.३४॥बिम्बोष्ठः स्फुरति प्रयाति पटुतां गण्डस्थले शोणिमायातस्तिर्यगमू दृशौ च बलवद्भ्रूयुग्मां उद्भ्राम्यति ।इत्थं चण्डि तथा तवैष रुचिरः कोपक्रमो जृम्भतेजातोऽयं प्रणतीरपास्य सुतरां एतद्दिदृक्षुर्यथा ॥२.३४॥दृष्टे प्रियतमे रागादन्यया सह जल्पति ।सख्याख्यातेऽथवा दोषे मानोऽयं मध्यमो यथा ॥२.३५॥वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवोर्विभ्रमैर्विश्रान्तं कुत एव लोलनयने किं लोहिते लोचने ।स्वेदः किं नु घनस्तनि स्तनतटे मुक्ताफलानां तुलांधत्ते मुञ्च रुषं ममात्र दयिते लेशोऽपि नास्त्यागसः ॥२.३५॥सविलासं स्फुरच्चक्षुः वीक्षमाणे परां प्रिये ।किंचिदन्यमनस्केन जायते स लघुर्यथा ॥२.३६॥मां एव ताडय नितम्बिनि यद्यकस्मात्कोपो भवेत्तव मुखं तु निजं किं एतथ् ।आनीयते शशधरानुकृतिं कपोलपालीप्लुतेन घनकज्जलनेत्रवारा ॥२.३६॥देशकालबलात्कोपः प्रायशः सर्वयोषितां ।जायते सुखसाध्योऽयं कृच्छ्रसाध्यश्च कामिभिः ॥२.३७॥प्रज्वलितोज्ज्वलदीपं रतिगृहं इन्दूज्ज्वलं च सौधतलं ।मधुविधुरीकृतमधुकरमधुरध्वनिबोधितं च कमलवनं ॥२.३८॥इत्यादिषु प्रदेशेषु मानिनीनामसंशयं ।मन्युर्गुरुतरोऽप्याशु सुखसाध्यो भवेद्यथा ॥२.३९॥मधुसमयशशधरोदयकन्दर्पमदाधिकेषु कालेषु ।मानो मनस्विनीनां अतिसुखसाध्यो भवेद्भूम्ना ॥२.४०॥दूतीजनस्य परतो लघुरपि दोषो गुरूयते प्रायः ।अभिनवदोषावसारे तथैव वनिताजनस्य यथा ॥२.४१॥साम दानं च भेदः स्यादुपेक्षा प्रणतिस्तथा ।तथा प्रसङ्गविध्वंसो दण्डः शृङ्गारहानये ॥२.४२॥तस्याः प्रसादने सद्भिरुपायाः षट्प्रकीर्तिताः ।सुन्दरास्ते निदर्श्यन्ते सहोदाहृतिभिर्यथा ॥२.४३॥अविनीतोऽपि पाल्योऽहं त्वया सुभ्रु क्षमाभृता ।इति वाणी भवेद्यत्र तत्सामेति निगद्यते ॥२.४४॥अलंकारादिकं दद्यान्नायको यत्र तुष्टये ।उद्दिश्य कारणं किंचिद्दानं लुब्धासु तद्यथा ॥२.४५॥यस्मिन्परिजनं तस्याः समावर्ज्य प्रसादतः ।तेनैव लभते कान्तां कान्ताभेदः स उच्यते ॥२.४६॥प्रसादनविधिं त्यक्त्वा वाक्यैरन्यार्थसूचकैः ।यस्मिन्प्रसाद्यते योषिदुपेक्षा सा मता यथा ॥२.४७॥एतत्किं ननु कर्णभूषणमयं हारः सुकाञ्ची नवाबद्धा काचिदियं त्वयाद्य तिलकः श्लाघ्यः प्रिये कल्पितः ।प्रत्यङ्गं स्पृशतेति तत्क्षणभवद्रोमाञ्चमालाञ्चितातन्वी मानं उपेक्षयैव शनकैर्धूर्तेन संमोचिता ॥२.४७॥केवलं दैन्यं आलम्ब्य पादपातान्नतिर्मता ।अभीष्टा सा भृशं स्त्रीणां ललिता च भवेद्यथा ॥२.४८॥अकस्माज्जायते यत्र भयहर्षादिभावना ।सोऽयं प्रसङ्गविध्वंसः कोपभ्रंशात्मको यथा ॥२.४९॥कथं ममोरसि कृतपक्षनिःस्वनःशिलीमुखोऽपतदिति जल्पति प्रिये ।निवृत्य किं किं इदं इति ब्रुवाणया ससाध्वसं कुपितं अलोकि कान्तया ॥२.४९॥यथोत्तरं वलीयांस इत्युपायाः प्रसादने ।आद्यास्त्रयो घनं कार्या विदग्धैः पश्चिमाः क्वचिथ् ॥२.५०॥नातिखेदयितव्योऽयं प्रियः प्रमदया क्वचिथ् ।मानश्च विरलः कार्यः प्रणामोत्सवसिद्धये ॥२.५१॥इत्युपायान्प्रयुञ्जीत नायिकापि प्रियं प्रति ।कुलजा नेर्ष्यते किं तु तत्रान्यत्कारणं भवेथ् ॥२.५२॥स्नेहं विना भयं न स्यान्नेर्ष्या च प्रणयं विना ।तस्मान्मानप्रकारोऽयं द्वयोः प्रेमप्रकाशकः ॥२.५३॥प्रियसुभगदयितवल्लभनाथस्वामीशकान्तचन्द्रमुखाः ।दयित मनोरम रमणीजीवित इत्यादि नाम स्याथ् ॥२.५४॥प्रीतौ भर्तरि सुदृशां अप्रीतौ पुनरमूनि शठधृष्टौ ।निर्लज्जदुराचारौ निष्ठुरदुःशीलवानादि ॥२.५५॥गर्वाद्व्यसनत्यागाद्विप्रियकरणाच्च निष्ठुरालापाथ् ।लोभादतिप्रवासात्स्त्रीणां द्वेष्यः प्रियो भवति ॥२.५६॥परदेशं व्रजेद्यस्मिन्कुतश्चित्कारणात्प्रियः ।स प्रवास इति ख्यातः कष्टावस्थो द्वयोरपि ॥२.५७॥दृष्टं केतकधूलिधूसरं इदं व्योम क्रमाद्वीक्षिताःकच्चान्ताश्च शिलीन्ध्रकन्दलभृतः सोढाः कदम्बानिलाः ।सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान्मुदेवाकुलाएतानप्यधुनास्मि वज्रघटिता नूनं सहिष्ये धनान् ॥२.५७॥कामं कर्णकटुः कुतोऽतिमधुरः केकारवः केकिनांमेघाश्चामृतधारिणोऽपि विहिताः प्रायो विषस्यन्दिनः ।उन्मीलन्नवकन्दलावलिरसौ सह्याप्यसह्यायतेतत्किं यद्विपरीतं अत्र न कृतं तस्या वियोगेन मे ॥२.५७॥कार्श्यजागरमालिन्य- चिन्ताद्यं यत्र जायते ।अवस्था विविधाः स्त्रीणां मृत्युश्चेदवधेः परः ॥२.५८॥अद्यैव यत्प्रतिपदुद्गतचन्द्रलेखासख्यं त्वया वपुरिदं गमितं वराक्याः ।कृष्णे गते कुसुमसायक तत्प्रभातेबाणावलिं कथय कुत्र विमोक्ष्यसि त्वं ॥२.५८॥निःश्वासैः सह साम्प्रतं सखि गता वृद्धिं ध्रुवं रात्रयः सार्धं लोचनवारिणा विगलितं यत्प्राक्तनं मे सुखं ।प्राणाशा तनुतां उपैति च मुहुर्नूनं तनुस्पर्धया कन्दर्पः परं एक एव विजयी यातेऽपि कान्ते स्थितः ॥२.५८॥नीरागोऽधरपल्लवोऽतिमलिना वेणी दृशौ नाञ्जितेम्लायद्बालमृणालिकाधवलतां आलम्बतेऽङ्गच्छविः ।इत्थं सुभ्रु विसंस्थुलापि विरहव्यापाद्विमर्दादियंसख्येव स्थिरशोभया दृढतरं प्रत्यङ्गं आलिङ्गिता ॥२.५८॥किं तत्र नास्ति रजनी किं वा चन्द्रो न सुष्ठुरुचिः ।येन सखि वल्लभां अपि न स्मरति स मां विदेशरुचिः ॥२.५८॥प्रसर शिशिरामोदं कौन्दं समीर समीरयप्रकटय शशिन्नाशाः कामं मनोज समुल्लस ।अवधिदिवसः पूर्णः सख्यो विमुञ्चत तत्कथां हृदयं अधुना किञ्चित्कर्तुं ममान्यदिहेच्छति ॥२.५८ए ॥इत्यादिविरहावस्थाः पुंसोऽपि हि भवन्ति ताः ।कन्दर्पशरपाताद्या मा भूवन्वैरिणां अपि ॥२.५९॥यत्रैकस्मिन्विपन्नेऽन्यो मृतकल्पोऽपि तद्गतं ।नायकः प्रलपेत्प्रेम्णा करुणोऽअसौ स्मृतो यथा ॥२.६०॥दग्धा स्निग्धवधूविलासकदली वीणा समुन्मूलितापीता पञ्चमकाकलीकवलिता शीतद्यूतेः क्ॐउदी ।प्लुष्टाः स्पष्ट्मनेकरत्ननिवहा नालं रतेः केवलंकन्दर्पं हरता हरेण भुवनं निःसारं एतत्कृतं ॥२.६०॥वक्त्रं चन्द्रमसा दृशौ मृगगणैः केशाः कलापिव्रजैर्मातङ्गैः स्तनमण्डलं भुजयुगोल्लासो मृणालैरपि ।सौगन्ध्यं मलयानिलेन बलिना तन्वी विभज्येति सासर्वैर्निष्करुणैर्हृता ध्रुवं अहो दैवेन किंचिन्न मे ॥२.६०॥इयतीं सुभगावस्थां गतोऽसि यस्याः कृते स्मरातङ्काथ् ।मूर्च्छां हरामि सा तव गतपुण्या नयनसलिलेन ॥२.६०॥पाशो विपाशित उपाहित एष सान्द्रःकर्पूररेणुरुपगूढं उरो नताङ्गि ।पापेन येन गमितेति दशां अमुष्मिन्मूर्छाविरामललितं मयि धेहि चक्षुः ॥२.६०॥ग्लानो मुक्ताश्रुरुद्विग्नः स्रस्ताङ्गो मुक्तचेतनः ।सचिन्तो दैन्यभागस्मिन्नेवं प्रायो जनो भवेथ् ॥२.६१॥केषांचित्करुणभ्रान्तिः कारुण्यादत्र जायते ।एतस्य मिथुनावस्थां विस्मृत्य रतिमूलजां ॥२.६२॥स्त्रीपुंसयोर्भवेदेष सापेक्षः संगमे पुनः ।शृङ्गारवचनप्रायः करुणः स्यात्स चान्यथा ॥२.६३॥तस्माच्छृङ्गार एवायं करुणेनानुमोदितः ।सौन्दर्यं सुतरां धत्ते निबद्धो विरलं बुधैः ॥२.६४॥कारुर्दासी नटी धात्री प्रातिवेश्या च शिल्पिनी ।बाला प्रव्रजिता चेति स्त्रीनां ज्ञेयः सखीजनः ॥२.६५॥कलाकौशलं उत्साहो भक्तिश्चित्तज्ञता स्मृतिः ।माधुर्यं नर्मविज्ञानं वाग्मिता चेति तद्गुणाः ॥२.६६॥विनोदो मण्डनं शिक्षो- [उ]पालम्भोऽथ प्रसादनं ।सङ्गमो विरहाश्वासः सखीकर्मेति तद्यथा ॥२.६७॥मया कोऽयं मुग्धे कथय लिखितः सत्वरसखीवचः श्रुत्वेत्युच्चैर्विनिहितदृशा चित्रफलके ।न वक्तुं तन्वङ्ग्या शकितं अथ चोद्दामविदलत्कदम्बाकारेण प्रिय इति समाख्यायि वपुषा ॥२.६७॥प्रत्यङ्गं प्रति कर्म नर्मपरया कृत्वाधिरूढं स्मरादौत्सुक्यं प्रविलोक्य मोहनविधौ चातुर्यं आलोक्य च ।सद्यो यावकमण्डनं न रचितं पादे कुरङ्गीदृशास्मेरान्ता विशदच्छदे च शयने दृष्टिः समारोपिता ॥२.६७॥ नीरन्ध्रं परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यतेतद्बाढं क्रियते यदस्य रुचितं चाटूच्चकैस्तन्यते ।सख्या मुग्धवधूरियं रतिविधौ यत्नेन संशिक्षिता न्रिभ्रान्तं गुरुणा पुनः शतगुणं पुष्पेषुणा कारिता ॥२.६७॥सुभग भगवता हृद्ये तस्या ज्वलत्स्मरपावकेऽप्य्अभिनिवेशता प्रेमाधिक्यं चिरात्प्रकटीकृतं ।तव तु हृदये शीतेऽप्येवं सदैव सुखाप्तये मम सहचरी सा निःस्नेहा मनागपि न स्थिता ॥२.६७॥ कोऽयं विमुञ्च कुरु नाथ वचो मदीयम्आश्वासय स्मरकृशानुकृशां कृशाङ्गीं ।एकाकिनी कठिनतारकराजकान्त्यापञ्चत्वं आशु ननु यास्यति सा वराकी ॥२.६७॥अमुं दधेऽंशुकं अहं अत्र पादपेयुवां अलं निभृतं इहैव तिष्ठतां ।रहःस्थयोरिदं अभिधाय कामिनोः स्वयं ययौ निपुणसखी लतान्तरं ॥२.६७॥स्फुरति यदिदं उच्चैर्लोचनं तन्वि वामंस्तनतटं अपि धत्ते चारुरोमाञ्चमालां ।कलयति च यदन्तःकम्पतामूरुकाण्डंननु वदति तदद्य प्रेयसा संगमं ते ॥२.६७॥इत्यादि विविधं सख्यो व्यापारं कुर्वते सदा ।योषितां मन्त्रसर्वस्व- निधानकलशोपमाः ॥२.६८॥इत्थं विरचनीयोऽयं शृङ्गारः कविभिः सदा ।अनेन रहितं काव्यं प्रायो नीरसं उच्यते ॥२.६९॥इत्थं विचार्य प्रचुरप्रयोगान्योऽमुं निबध्नाति रसं रसज्ञः ।तत्काव्यं आरोप्य पदं विदग्धवक्त्रेषु विश्वं परिबम्भ्रमीति ॥२.७०॥इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे विप्रलम्भो नाम द्वितीयः परिच्छेदः । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP