संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|आश्चर्यरासप्रबन्धः| भाग १ आश्चर्यरासप्रबन्धः भाग १ भाग २ भाग ३ आश्चर्यरासप्रबन्धः - भाग १ संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. Tags : epicpoemकाव्यमहाकाव्यसंस्कृत भाग १ Translation - भाषांतर जयति जयति राधापाङ्गसङ्गीभुजङ्गीकवलित ऊरुबाधामूर्च्छितोऽनन्यसाध्यः ।तदधरसुधयोच्चैर्जीवितः श्यामधामातदतिविषविषङ्गेनैव कश्चित्किशोरः ॥१॥जयति जयति वृन्दारण्यचन्द्रोऽतिचित्रोन्मदरसमयरासोल्लाससम्भ्रान्तमूर्तिः ।प्रमदमदनलीलामोहनः श्यामधामानिरुपमसुखसीमाभीररामाभिरामः ॥२॥अस्ति महाद्भुतवृन्दारण्यंसन्ततवाहिमहारसवन्यम् ।परममनोहरपरमसुपुण्यंरसमयसकलधाममूर्धन्यम् ॥३॥सकलगुणानां स्फुरदतिभूमिप्रोज्ज्वलचिन्तामणि मयभूमि ।श्रुतिदुर्गमतृणमात्रविभूतिस्फीतमहासुखसिन्ध्वनुभूति ॥४॥प्रकृतिपरे परिपूर्णानन्देमहसि महाद्भुतहरिरसकन्दे ।भ्राजमानमखिलोज्ज्वलरम्यंमधुरविशदहरिभावसुगम्यम् ॥५॥मुख्यरसात्मकपरमाकारंविमलमनोजबीजरुचिसारम् ।मायाविद्यापारमपारंराधामाधवनित्यविहारम् ॥६॥राधामधुपतिचारुपदाङ्कैर्अङ्कितमतुलसुधारसपङ्कैः ।स्वच्छसुशीतलमृदुलसुवासंबिभ्रदवनितलमद्भुतभासम् ॥७॥क्वचन परागपुञ्जकमनीयंक्वच मकरन्दपूररमणीयम् ।क्वचन गलितकुसुमैः कृतशोभंक्व च मणिकर्पूररजरुचिराभम् ॥८॥सन्ततफलकुसुमादिविचित्रैःकोटिमहासुरपादपजैत्रैः ।गुल्मलतातरुभिः सुपवित्रैर्मण्डितमीशजुषामपि चित्रैः ॥९॥कुसुमितपल्लवितद्रुमवल्लिस्फुटितकदम्बककिंशुकमल्लि ।स्मेरकुमुदकरवीरविराजिप्रहसितकेतकचम्पकराजि ॥१०॥विकसितकुटजकुन्दमन्दारंसुफलितपनसपूगसहकारम् ।हरिचरणप्रियतुलसीविपिनैःशोभमानमूरुपरिमलमसृणैः ॥११॥विलसज्जातीयूथिकमतुलंविकचस्थलपङ्कजबकवञ्जुलम् ।सन्ततसन्तानकसन्तानंवरहरिचन्दन चन्दनविपिनम् ॥१२॥पारिजातवनपरमामोदंराधाकृष्णजनितबहुमोदम् ।कुरुवकमरुवकमाधविकाभिर्दमनकदाडिममालतिकाभिः ॥१३॥शेफलिकया नवमालिकया शोभितमपि बहुविधझिण्टिकया ।ललितलवङ्गवनैरतिमधुरंनवपुन्नागनागरुचिरुचिरम् ॥१४॥स्तवकितनवकाशोकवनालिस्मेरशिरीषपरिस्फुटपाण्टलि ।बन्धुरमभिनवबन्धुकविपिनैःशोभितमभितस्तिलकम्लानैः ॥१५॥निजनिजविभवैः प्रतिपदं अधिकं विलसदनन्तजातितरुलतिकम् ।निरवधिवर्धिमधुरगुणसिन्धुसुविचिरनिन्दितकोटिरबिन्दु ॥१६॥वापीकूपतडागैर्ललितंमणिमयकेलिमहीधरमहितम् ।रासोचितमणिकुट्टिमराजंरञ्जयदेकविमलरसराजम् ॥१७॥रक्तकनककर्पूरपरागंबिभ्रद्रविजापुलिनसुभागम् ।राधामाधवकेलिनिकुञ्जंदधदतिमञ्जुरगुञ्जदलिपुञ्जम् ॥१८॥मदकलकोकिलपञ्चमरागंस्थिरचरनिकरमूर्च्छदनुरागम् ।मदशिखण्डिकृतताण्डवरङ्गंचकितचकितपरिलोलकुरङ्गम् ॥१९॥परमविचित्रतराकृतिर्रावैःखगपशुभिर्बहुभिर्बहुभावैः ।शोभितमपि प्चुकसारीनिचयैर्वरदम्पत्योः स्वपदविनेयैः ॥२०॥अत्यद्भुततमऋतुषट्कश्रिश्रंसितनैः श्रेयसि विपिनश्रि ।मन्दसुगन्धसुशीतलमरुताजुष्टममृतयमुनाम्भसि विशता ॥२१॥आद्यविशुद्धमहारसरूपंखेलदेकवरमन्मथभूपम् ।सान्द्रानन्दपरमरसकाष्ठंराधानागरभावगरिष्ठम् ॥२२॥अधिललितादिकसुललितभावंप्रकटितसहजरसवदनुभावम् ।निखिलनिगमगणदुर्गममहिमप्रेमानन्दचमत्कृतिसीम ॥२३॥शारदचन्द्रकरखचितंस्फीतरसाम्बुधिवीचीनिचितम् ।अधिरजननीमुखमुज्ज्वलवेशःकोऽपि किशोरस्तत्र प्रविवेश ॥२४॥महाचमत्कारनिधानरूपविलासभूषादिभिरत्यपूर्वः ।रासोत्सवाय प्रविशन्प्रदोषेवृन्दावनं नन्दति कृष्णचन्द्रः ॥२५॥रसमयलीलः कुवलयनीलःसकलयुवतिमोहनगुणशीलः ।कुञ्चितकेशसकलकलेशःपीतपटाञ्चितपृथुकटिदेशः ॥२६॥मकराकृतिमणिकुण्डलदोलः स्फुरदतिरुचिकल्लोलकपोलः ।मुक्तारत्नविचित्रनिचोलःस्मररसमधुरविलोचनखेलः ॥२७॥रत्नतिलकरुचिरञ्जितभालःस्निग्धचपलकुटिलालकजालः ।कलितललिततरबहुविधमालःकेलिकलारभसातिरसालः ॥२८॥प्रमुदितवदनमनोहरहासःकम्बुकण्ठतटपदकविलासः ।विरचितयुवतिविमोहनचूडश्चित्रमाल्यकृतबर्हापीडः ॥२९॥पीनोरसि लसदुरुमणिहारःस्फुटदङ्गदकङ्कणधारः ।सुभगनितम्बरणन्मणिरसनःपरिहितरासोचितवरवसनः ॥३०॥मणिमञ्जीरमञ्जुरुतचरणःप्रसृमरपादोङ्गदमणिकिरणः ।श्रवणविराजितरत्नवतंसःकरधृतमणिमयमोहनवंशः ॥३१॥राधानुस्मृतिमुहुरुत्पुलकःसकलरसिकवरनागरतिलकः ।प्रत्यङ्गाद्भुतसुषमासिन्धुःप्रतिपदवर्धितवर्धिमदनरससिन्धुः ॥३२॥प्रोद्वेलाद्भुतमधुरिमसिन्धुःप्रकटमहारसमयगुणसिन्धुः ।मत्तमतङ्गजलङ्गिमगमनःपरमरसैकनिमज्जितभुवनः ।काश्मीरागुरुचन्दनलिप्तः श्यामतनुर्मणिभूषणदीप्तः ॥३३॥त्रिभङ्गीविन्यासस्थिततनुकदम्बद्रुमतलेयदा राधानामाङ्कितमधुरसङ्केतमुरलीम् ।निधाय श्रीबिम्बाधरवरपुटे नागरगुरुर्जगौ गोप्योऽधावन्नभिकमभि तर्ह्येव विवशाः ॥३४॥अथ नीपकल्पतरुमूलगतःकलिल्तत्रिभङ्गललिताङ्गयुतः ।अरुणाधरे निहितवेणुवरःकलमुज्जगौ स रसिकप्रवरः ॥३५॥श्रुत्वा माधवमुरलीनिनादंतत्क्षणमुज्झितगुरुजनवादम् ।ध्वन्यभिमुखमनुधावितवत्यःप्रतिदिशमभिनवगोपयुवत्यः ॥३६॥काश्चिद्व्यत्यस्ताम्बरभरणाःकाश्चन नूपुरैकयुतचरणाः ।अपरा अञ्जितैकवरनयनाःका अपि परिहृतनिजपतिशयनाः ॥३७॥स्नानमथोद्वर्तनमनुलेपंनीविनिबन्धनमार्जनलेपम् ।कुर्वत्योतिजवाद्ययुरपराःकाश्चिदथार्धप्रसाधितचिकुराः ॥३८॥काश्चिद्गुर्वादिषु भुञ्जानेष्व्अपि पर्विवेषं हित्वा याने ।चक्रुर्मतिमतिखण्डितलज्जाःकेवलवांशिकसङ्गमसज्जाः ॥३९॥काश्चन हारग्रथने सक्ताःसूत्रकरःअ ययुरत्यनुरक्ताः ।मुग्धा दुग्धावर्तननिरताययुरपरा अपि हरिरसभरिताः ॥४०॥लोकवेदविधिकृतसमुपेक्षादूरदलितगृहदेहापेक्षाः ।प्रेममहाग्रहगाढगृहीता हरिमभिसस्रुर्व्रजपुरवनिताः ॥४१॥गण्डलोलमणिकुण्डलसुषमाः मुक्तकवरभरविगलितकुसुमाः ।विपुलनितम्बस्तनभरविकलास्तनुरुचिप्रकटीकृतबहुचपलाः ॥४२॥उपरि विनिर्मितशतशतचन्द्रमामध्यरचितचलहेमगिरीन्द्राः ।भुवि विहितस्थलपङ्कजवलनारेजुर्दिशि दिशि ता व्रजललनाः ॥४३॥नूपुरकाञ्चीवलयघटानांझङ्कृतमुखरितसकलदिशानाम् ।जङ्गमकलकलतायितवपुषांरेजे राजिः सा व्रजसुदृशाम् ॥४४॥युवतिषु या निजपतिसम्भुक्तादैवादन्तर्गृहयातास्ताः ।गोपैर्दृढतरपिहिते द्वारेप्रतिहतगतयः पेतुरगारे ॥४५॥अशुभं पुरुषान्तरसङ्गकृतंकृत्वा हरिविरहार्त्या निहतम् ।परममहामङ्गलसुनिदानंचक्रुर्मधुपतिमधुरध्यानम् ॥४६॥शुद्धमहारसचिद्घनदेहाहरिपरबहिरन्तरसकलेहाः ।सपदि प्राप्ताः प्रेष्ठपदान्तंताश्च तदा रुचिरास्तु नितान्तम् ॥४७॥एवं व्रजवरयुवतीवृन्दैःश्यामकिशोरः प्रेममदान्धैः ।हरिगतिरिन्दिरयापि न दृष्टाप्रापि मदनरसमात्रनिविष्टाः ॥४८॥न लोकवेदव्यवहारमात्रंन गेहदेहद्रविणात्मजादि ।यत्राविदंस्ता न पथोऽपथो वास कोऽपि जीयादिह कृष्णभावः ॥४९॥श्रीवृषभानोर्निष्कुटयातातद्दुहिता त्रिभुवनविख्याता ।राधेत्यनुपमरसमयमहिमाशुद्धमहारतिमधुरिमसीमा ॥५०॥स्वस्वविभवसुचमत्कृततनुभिःपुरुषोत्तमशक्तिभिरमिताभिः ।दूरतरादपि कृतदास्याशासकलपरमसुखकृतपरिहासा ॥५१॥आशैशवमतिमुग्धप्रायाश्यामिकादिकलनाकुलकाया ।सहजमहाद्भुतहर्यनुरागासंव्यवहारमात्रसविरागा ॥५२॥स्वप्नेक्षितरमणात्मसमाधिःप्रलपितसञ्जनितात्युपलब्धिः ।क्षणमतिकम्पा क्षणमतिपुलकाजडवत्क्षणमाश्रितसख्यका ॥५३॥विलसति नवघन आगतमूर्च्छासभयसभयवीक्षितशिखिपुच्छा ।क्षणमत्यार्त्या सुस्वररुदिताक्षणमपि बहुशः क्षितितललुठिता ॥५४॥क्षणमुत्सृजति सकलाभरणंक्षणमति गृह्णत्यालीचरणम् ।क्षणमभिधाय यामि यमुनामितिनिगदति वाच्योऽसौ मम नम इति ॥५५॥क्षणमुल्लसिता सहसोरुहसिताविततभुजोच्छायाश्लेषरता ।क्षणमभिदधती कृतकाकुनतिर्धृष्टोपालि न लज्जय मेति ॥५६॥माधवनामरूपगुणगानैश्चित्रपटादिष्वाकृतिलिखनैः ।प्रतिमुहुरपि चाश्वासवचोभिःकथमपि यापितसमयालीभिः ॥५७॥सा श्रुतिगतहरिमुरलीसुकलाविकला धावदुपेक्षितसकला ।श्याममिलनरससम्भ्रमवलिताप्रतिमुहुरुद्यत्पुलकैर्निचिता ॥५८॥रसगरिमोज्ज्वलगौरवरक्षाकारणविरचितबहुतरशिक्षा ।वारितवत्यपि मन्मथविवशाम्आलिस्तां धृतपाणिः सहसा ॥५९॥तासु सकलगोकुलवनितासुप्रणयमहासम्भ्रममिलितासु ।प्रेक्ष्य न जीवौषधनिजकान्तांप्राप हरिर्विरहातुलचिन्ताम् ॥६०॥श्रुत्वापि वेणुनिनादं स्वसखीजनेनसम्मानरक्षणकृते बहुदत्तशिक्षा ।राधा समागतवती न यदा तदेकप्राणस्तदा हरिरभूदुरुदुःखचिन्तः ॥६१॥दर्शितलोकवेदबहुभीतिःप्रियविनिवर्तितयुवतीविततिः ।समवददत्यनुरागरसान्धाहरिपदकृतदृढजीवनिबद्धा ॥६२॥विषमिव सकलविषयमपहायत्वत्पदमाश्रितमतुलसुखाय ।प्रेष्ण्ठतमाखिलमर्मकृपाशीं मा वद मा वद निष्ठुरवाणीम् ॥६३॥सकलेन्द्रियमनसामनिवृत्तिःप्रिय भवतैव हृताखिलवृत्तिः ।को न्विह लोकः कः परलोकः क्व तदा स्मरणं क्व नु वा करणम् ॥६४॥यद्यनिवृत्तिं प्रविशति लोकःपरमासह्यनरकनिकरौकः ।कोऽपि तदपि किमु तव चरणाशांप्रत्यपि कुरुते हन्त जिहासाम् ॥६५॥त्वच्चरणाम्बुजमकरन्दाशायद्धृदि समभूत्सहजविलासा ।दर्शय परममहाभयलोभान्अहह स्वात्मनि भवति विशोभा ॥६६॥पतिसुतगेहस्वजनधनाद्यंत्यक्तं वान्तवदखिलमवद्यम् ।पुनरपि दुःसहमपि तत्स्मरणंतव यदि न कृपा वरमिह मारणम् ॥६७॥त्वत्पदपङ्कजरजसा धन्येत्यक्त्वा तनुमिह वृन्दारण्ये ।प्राप्स्यामस्त्वां ध्रुवमभिरामंत्यज दुरवग्रह नागर कामम् ॥६८॥प्रेमोत्कण्ठ्यसगद्गदमित्थंव्रजतरुणीमुखचन्द्रसमुत्थम् ।पीत्वा वचनसुधारससारंराधापतिरिदमवददुदारम् ॥६९॥चन्द्रावलीप्रभृतिसर्वविदग्धगोपीवृन्देऽपि संमिलितवत्यतिमन्मथान्धे ।श्रीराधिकाविरहदीन उपेक्ष्य पूर्वंपश्चादनन्यविषया न्ययुनक्प्रियार्थे ॥७०॥अतिनिर्भरतरमद्भाववतीर्नाहमुपेक्षे कथमपि भवतीः ।किन्तु विना मम जीवनराधांकृन्तति किमपि च नान्तरबाधाम् ॥७१॥तद्दयिता रचयत बहुयत्नंसा मम कण्ठविभूषणरत्नम् ।मिलति यथा न चिरेण भवत्यःसाधु तथा विदधत्वतिमत्यः ॥७२॥अथ स विचार्य व्रजवनिताभिःकापि निपुणमतिरतिमुदिताभिः ।प्रहिता द्रुतमुपवनगतराधंसमुपेत्याह वलत्स्मरबाधाम् ॥७३॥श्रीवृषभानुभवनमणिमञ्जरिराधे जननयनामृतलहरि ।क्वापि न लोके क्वापि तुला तेव्रजजनभाग्यात्परमिह जाते ॥७४॥अयि मयि कृपयापाङ्गमुदञ्चयसेश्वरविश्वं मद्वशतां नय ।सेन्हावेशगलज्जलनयनेक्षणमवधानं कुरु मम वचने ॥७५॥परमरसे तव यदपि निमग्नंक्वचिदपि भवति मनो नहि लग्नम् ।तदपि महाकरुणार्द्रप्रकृतेश्रवणं देहि मनाङ्मम गदिते ॥७६॥एकः श्यामलदिव्यकिशोरःश्रीशप्रमुखमनोमणिचोरः ।अस्ति व्रजवृन्दावनसेवीतं लभते कापि न देवी ॥७७॥कमलादिकवरतरुणीवृन्दैःसततविमृग्यः कृतनिरबद्धैः ।स तव पदाम्बुजपरिमललुब्धःषट्पद इव विभ्राम्यति मुग्धः ॥७८॥राधे तस्य तु तत्त्वरहस्यंत्वच्छ्रुतिमूले शंस्यमवश्यम् ।यत्केनापि कदापि मनागपिनादृश्यत पराभवदृशापि ॥७९॥केवलकामरसात्मक एषकेवलमधुरकिशोरकवेषः । केवलगोपयुवतिरतितृष्णःपरमधुरिम्णा नाम्ना कृष्णः ॥८०॥कामपि गोपीमपि कामयतेन खलु रमाद्या रमणीर्मनुते ।गोकुलमखिलमसौ दिनरजनीर्विचिनोति क्व नु का नवरमणी ॥८१॥वलतश्छलतोऽन्यैरपि योगैःसाधितगोपवधूसम्भोगैः ।निरवधि कामाम्बोधेः पारंगच्छन्नस्ति कश्च एवारम् ॥८२॥तत्र तु स्निग्धजनानुग्रहतस्तस्याकारान्तरमपि दधतः ।प्राप्य रहसि नवतरुणीनिकटंतन्निजरूपमुदैक्षि प्रकटम् ॥८३॥किं बहुना बहुनागररीतेस्तस्याप्यैक्षि शिशुत्वानुकृतेः ।गोप्योत्सङ्गेऽधररसलौल्यंकुचकोरकमनु करचाञ्चल्यम् ॥८४॥स हि नवकिशोरीदर्शं व्रजवीथ्यादिष्वकृतविमर्शम् ।लुञ्चितकञ्चुककुचयुगमर्दःश्लिष्यति चुम्बति सहसा मत्तः ॥८५॥सुतया मिलति मिलत्यपि वध्वामिलति भगिन्याप्यथ पथि रुद्धा ।तदपि महामोहनवदनेक्षास्थगितास्तस्थुर्वल्लवमुख्याः ॥८६॥काश्चिद्वशयति कामकलाभिःका अपि नृत्यगीतविद्याभिः ।काश्चन तरलीकुरुते मुरलीवादनखुरलीभिर्वनमाली ॥८७॥काश्चन तत्पतिवेशविनोदैःकाश्चिद्ग्रहभीत्याद्यपनोदैः ।काश्चन दूतिकया बहुमानैःकाश्चिद्वंशीहारणधरणैः ॥८८॥काश्चित्स्वयमनुनयनैर्धन्याद्यूतजितास्तत्पतितस्त्वन्याः ।आकर्षति काश्चन मन्त्राद्यैःकाश्चन चीरहारहरणाद्यैः ॥८९॥ वमभुवि पुष्पावचयनसक्ताःकाश्चन चौर्यारोपाद्भुक्ताः ।अन्याश्चित्रेक्षणकुतुकेनभीषणजन्तुरूपभजनेन ॥९०॥देवनटीरूपचरणेनमोहयतीन्द्रजालरचनेन ।अन्या स नयन्यमुनापारंरतिमेवातरमात्तोदारम् ॥९१॥गोकुलकुलजवधूटिकया सहन कया सङ्गतिरस्य बभूव ह ।उन्मदमदनरसैकप्रकृतेस्तदपि मनोऽस्य न निर्वृतिमयते ॥९२॥स कदाचिन्नववृन्दाविपिनंप्राविशदेकः स्मररससदनम् ।क्वापि कदम्बतले स्मरखिन्नःसुप्तस्तत्प्रशमननिर्विण्णः ॥९३॥स्वप्ने दर्शनमस्य त्वमगालीलाखेलपराद्भुतरसदा ।किमपि च लज्जानतवदनासा गदितवती मधुरं सविलासा ॥९४॥किं कथये त्वां जीवितनाथराधा त्वत्प्रेमैव ननाथ ।त्वं तु व्रजयुवतीभिर्विहरसिमां निजकान्तां नैव स्मरसि ॥९५॥इत्याकर्ण्य परमरससारंत्वद्वचनामृतमसमोदारम् ।यावत्प्ररुदन्पदयोः पततितावज्जागरितो भुवि लुठति ॥९६॥तदवधि परमाविष्टः स युवाव्रजमथ वृन्दावनमन्यद्वा ।राधा राधेत्यविरतजापःप्राटति राधाध्यायुरुतापः ॥९७॥प्रथमोद्देशं तव सुसखीतःश्रुत्वा तद्भावं च प्रतीतः ।अन्योपायैर्मिलनमपश्यन्वेणुरवैस्त्वाह्वयदतिहृष्यन॥९८॥तं तु महामोहनमुरलीध्वनिम्आकर्ण्यैव लोकनिगमाध्वनि ।दृढतरहेयधियो व्रजवनिताआययुरस्यान्तिकमपि न मताः ॥९९॥अपि न कटाक्षनिरीक्षणमासुत्वत्प्रणयी कुरुतेऽनुरतासु ।अनिशम्यैवाद्भुतरसभावंखिन्नस्त्वत्पदनूपुररावम् ॥१००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP