संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|काव्य|रामचरितमहाकाव्य| तृतीयः सर्गः रामचरितमहाकाव्य प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः रामचरितमहाकाव्य - तृतीयः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच.या काव्याचे कवी आहेत, अभिनन्द. Tags : epicpoemकाव्यमहाकाव्यसंस्कृत तृतीयः सर्गः Translation - भाषांतर अथ प्रबुद्धः प्रथमं विबुद्धं आसीनं आदाय तदङ्घ्रियुग्मं ।प्रकामनिद्राभिगमाभिरामो रामः सुमित्रासुतं इत्युवाच ॥३.१॥किं इत्थं एव क्षपितो निशीथः कच्चिन्मुहूरार्धं असि प्रसुप्तः ।अस्मिन्प्रसादावसरे धियां च प्रतिष्ठितश्चेतसि कस्तवार्थः ॥३.२॥वनौकसस्तस्य नवेश्वरस्य भावावबोधाय पुनर्विमृश्य ।यत्प्राप्तकालं तदुदाहराशु प्रस्थानकालोऽयं अतिप्रशस्तः ॥३.३॥स्वकार्यलाभस्तिमितः कपिश्चेन्न कश्चिदर्थोऽनुसृतेन तेन ।रिपऊपेतं वरं अर्थिभावाद्विकारसंदेहसहे न मित्रे ॥३.४॥कार्यान्तराशारहितेन तेन व्यक्तं खलेनाद्य वयं निरस्ताः ।दत्तः प्रदीर्घाग्रहणाभिधानो येनायं आरादपि नोऽर्धचन्द्रः ॥३.५॥रुद्धस्तपस्वी स कथं न कैश्चिन्मोहान्धकूपे निपतन्मदान्धः ।किं देशकास्तेऽपि हनूमदाद्याः सद्यः पदं प्राप्य समं विपन्नाः ॥३.६॥रिष्टं न दृष्टं पवमानसूनोर्न चाग्निसूनोर्न च वालिसूनोः ।सर्वेऽपि किंकारणं एकदैव प्रमीतकल्पाः कपिदारकास्ते ॥३.७॥स दुर्निवारो हरिरद्य शेतां आस्वादितैश्वर्यमधुर्मदेन ।कथं पुनर्जागरकाल एव सुप्तास्तदाप्ता इति मे वितर्कः ॥३.८॥देवात्प्रसूतेन हिमेतरांशोरूर्जस्वलैस्तैः सखिभिर्वृतेन ।उदारदेहद्युतिनास्मदर्थे निरन्वयं तेन तमः प्रपन्नं॥ ३.९॥अहो महन्मोहजं अन्धकारं येनाद्य मध्येसभं उद्धुरेण ।उत्सार्य तान्मन्त्रिमणिप्रदीपान्प्लवङ्गराजः प्रसभं गृहीतः ॥३.१०॥लोभस्य मोहस्य मनोभवस्य मदस्य चातिप्रसरो न रुद्धः ।रुद्धः परं पूर्णमनोरथेन तेनाद्य नः प्रत्युपकारवेगः ॥३.११॥सम्राट्पदस्थस्य पदादपेताः सम्प्रीतये सम्प्रति मा स्म भूमः ।दृष्टास्त्रसारा अपि तस्य भीरोः किं भीतये वत्स वयं न भूताः ॥३.१२॥स्थाने निरस्तः सुधियाग्रजेन स तेन मायामसृणो दुरात्मा ।मया मदान्धेन पुनर्वृथैव क्रोष्टा मृगेन्द्रस्य पदेऽभिषिक्तः ॥३.१३॥निर्वेशनिर्यातनशाठ्यनिद्रां नीचेषु दण्डः परुषो निहन्ति ।तथापि दाक्षिण्यविलम्बितव्यं इदं धनुस्तं प्रति मामकीनं॥ ३.१४॥यावन्न विश्राम्यति वेगजन्मा दिक्षु ध्वनिर्वालिभिदः शरस्य ।तावत्पुनस्तङ्क इह त्रिलोक्यां आक्रान्तकिष्किन्धं उपक्रमेत ॥३.१५॥अस्मासु नावेदयति स्म गर्वात्कुर्वीत शेषारिवधं भुजाभ्यां ।विधाय सौराज्यं असऊपेयादित्यर्थिता पश्यति न प्रमाणं॥ ३.१६॥तदेष मे निर्मलसर्गसर्गः षड्वर्गरुद्धो रिपुवत्स हेयः ।नासौ निषिद्धस्तव यानपक्षो मया बत प्रागसमाहितेन ॥३.१७॥असंशयं स प्रतिहारपालीससम्भ्रमावेदितसन्निकर्षं ।त्वां प्रत्यसूयां हृदयेन धास्यत्युपस्थितान्तःपुरविप्रयोगः ॥३.१८॥तद्वक्त्रं आर्केस्तरुणार्कताम्रं त्वत्प्रीतिवाक्यैरकृतप्रमोदं ।भविष्यति प्रत्युपकारभारनिर्वाहचिन्तागमसान्धकारं॥ ३.१९॥स्मरिष्यति त्वां न स बोध्यमानोऽप्यालोकयिष्यत्यथवा न पृष्टः ।प्रत्येषि कान्ताजनमध्यवर्ती स चिन्तयास्मद्गतयाधुनास्ते ॥३.२०॥आवां यदैवाद्रितटे निविष्टौ स कालिकां वीक्ष्य पुरीं प्रविष्टः ।आमृष्टं आसीच्चपलेन तेन सौहार्दं अस्मद्विषयं तदैव ॥३.२१॥अहःस्वमीषु क्षण एव नासीदासीन्न संदेशहरोऽनुरूपः ।इत्यादि स व्यक्तं अलीकं एव त्वत्प्रीत्युपालम्भपदेषु वक्ता ॥३.२२॥कृतावहेलः प्रणयप्रसन्नं निरुत्तरः सत्वरकार्यवादं ।प्रेक्षिष्यते रोषलवानुरक्तं वलीमुखः शुष्कमुखो मुखं ते ॥३.२३॥तस्यागमाद्यः सहसा भविष्यत्यर्थस्य तस्याभवनं ममास्तु ।बाधिष्यते वालिवधातिरिक्तस्तद्वेश्मयात्रानुशयः सदा नौ ॥३.२४॥स प्राक्तनो नूनं अनर्थभाजा नीतस्तलं तेन हितैषिवर्गः ।उत्थापितैर्दूरं असाविदानीं दिवानिशं दीव्यति दुर्विदग्धैः ॥३.२५॥अक्षा मृगाक्ष्यो मृगया मधूनि प्रेक्षाश्च तस्याद्य हरन्ति कालं ।न प्राप्नुवन्ति क्षणं आप्तवाचः सदादृताश्चारणचाटुवादाः ॥३.२६॥वदन्ति भीताः सचिवा न किंचित्किं चिन्तयास्मद्गतया विटानां ।स्वयं न सम्प्रत्यनुसंदधाति पूर्वापरं कामपरः स राजा ॥३.२७॥न सूरयो न स्थविरा न धीराः पुरःस्थिताः प्राश्निकतां प्रयान्ति ।संतिष्ठते संसदि संशयानः पृष्ठोपविष्टासु विलासिनीषु ॥३.२८॥इत्थंगते तत्र गतस्य केन मन्युस्तवोदीर्णरयो निवार्यः ।विचायमाणो न गुणाय नः स्यादसौ कपीनां कदनानुबन्धः ॥३.२९॥प्रपन्नशाठ्यस्य हठोपनामादानेष्यमाणस्य गुणं न वीक्षे ।तथाविधा हि द्विषतां स्तवेन कषन्ति कर्णौ परं अन्तिकस्थाः ॥३.३०॥स्पृष्.ओ न चेद्विक्रियया कयापि नोपस्थितः कार्यवशादिदानीं ।एतु स्वयं न क्रियते वृथैव स त्वद्बलात्कारनिरुद्धशोभः ॥३.३१॥यथावयोस्तातजटायुषोक्तं उक्तं कबन्धेन यथा च तेन ।तथोपयास्यत्यचिरादवश्यं आहूतचक्रो हरिचक्रवर्ती ॥३.३२॥यत्सत्यं आदित्यसमुद्भवत्वादुद्भूतिं एष्यन्ति गुणास्तदीयाः ।तुलाग्रसम्पातविलम्बदोषे तस्मिन्विसंवादं अहं न शङ्के ॥३.३३॥विरोपतप्तस्य विदेशवासादाजग्मुषस्तस्य निजाधिवासं ।इयन्त्यहान्युत्सुकबन्धुवर्गसंवर्गणव्यग्रतयैव यान्ति ॥३.३४॥स नूनं आयास्यति वानरेन्द्रः संदेशकार्पण्यं असंमतं मे ।सर्वस्वभूतं विसृजन्ति वत्स कार्यातिपातेऽपि न धैर्यं आर्याः ॥३.३५॥व्यतीतविघ्नः सुहृदर्थनिघ्नो न शीतलः स्थास्यति किं गतेन ।स त्वर्यमाणस्त्वरमाण एव धैर्यस्य नः पारं अवाप्स्यतीव ॥३.३६॥धिगस्तु मां तं प्रति विप्रतीपं आशङ्कितं तद्बहु येन यद्वा ।स्वकार्यदोलासु जनोऽल्पभाग्यः प्राङ्निश्चिनोति व्यतिरेकं एव ॥३.३७॥इत्थं न मां प्रत्युपपत्तिं एति तत्राद्यपक्षद्वितयेऽपि यात्रा ।वरं विसोढानि कियन्त्यपीह सङ्ख्यातकालाभ्यधिकान्यहानि ॥३.३८॥स्वालोचितं वक्तु भवानिदानीं इत्यनुष्ठेयं असंशयं यथ् ।बाल्यात्प्रभृत्येव तवोत्तरा धीर्न पूर्वपक्षेऽभिनिवेशं एति ॥३.३९॥इति प्रसन्नां गिरं अग्रजस्य श्रुत्वा चिराद्वीतविषादपङ्कः ।मुखश्रियैवोज्ज्वलयाभिनन्दन्निदं सुमित्रातनयो जगाद ॥३.४०॥समर्थितं साधु समस्तं एव कृती कपिः किं बहुनोदितेन ।प्रव्यक्तं अप्येतददोषदृष्ट्या गृहीतं आर्येण न यत्तदागः ॥३.४१॥तस्योर्जितेनातिरवेरवद्यं नैवेक्षतेऽन्तःकरणं ममापि ।अयं पुनस्तेन कुतो न जानाम्यतिक्रमः कालकृतो न दृष्टः ॥३.४२॥विसर्जिता वा पुनरागमाय समापतन्त्यद्य न ते नलाद्याः ।समाहरतिउद्यतवित्तवर्षो वर्षान्तरेभ्यः प्रवरान्हरीन्वा ॥३.४३॥अष्टादशद्वीपकपीन्द्रमौलिर्मौलानसौ वालिवधप्रलीनान् ।नैकाभ्युपायोपहितानिदानीं उत प्रतीच्छत्यतिसत्क्रियाभिः ॥३.४४॥अप्राप्तसंतोषं असंविभक्तसम्भुक्तसर्वस्वं अनुप्लवेषु ।अथादिशत्यर्पितसारकोशः प्रकामपाथेयपरिग्रहाय ॥३.४५॥अथो स भीतातुरबालवृद्धान्वृद्धोपसेवी सनिभं नियुङ्क्ते ।यथायथं सद्मनि पद्मसंख्यासमेतशाखामृगयूथनाथः ॥३.४६॥तदित्थं उत्थानसमाकुलत्वान्न त्वर्यमाणोऽपि स दूषणाय ।आर्येण तत्राप्यसमागतस्य छायाच्युतिः कैव निरूपिता मे ॥३.४७॥ज्ञेयोऽस्ति नः पूर्वं अरेरुदन्तस्ततस्तदन्ताय विधेयं अस्ति ।इत्याकुलत्वान्मम तावदार्य कार्योपतप्तिः क्षमते न धैर्यं॥ ३.४८॥अनर्थिभावादुपचारवादादाकारगुप्तेश्च परीभवन्ति ।यथातथार्थप्रतिपादनेन प्रयान्ति मित्राणि निरन्तरत्वं॥ ३.४९॥मिथः प्रसादस्खलनादुपाधेरुपैति सख्यं खलयोः खिलत्वं ।गृह्णाति सत्पूरुषयोर्न दोषं औदार्यसंवादकृता तु मैत्री ॥३.५०॥निर्यन्त्रणं यत्र न वर्तितव्यं न मोदितव्यं प्रणयातिवादे ।विशङ्कितान्योन्यभयं विदूरान्नमस्क्रियां अर्हति सौहृदं तथ् ॥ ३.५१॥विस्रब्धं आज्ञापय किं कर्ॐइ कथं घटेन प्लवगाधिराजः ।यत्किंचिदादिश्य निभेन किं मां निषेधसि क्लेशं इवेक्षमाणः ॥३.५२॥स्थितोऽस्मि तावद्दिनं एतदेष्यत्यन्येद्युराज्ञां तव न प्रतीक्षे ।आर्योऽनुरोधान्न युनक्ति यत्र तत्राहं अम्बानियमात्स्वतन्त्रः ॥३.५३॥तदेष निष्क्रम्य तथा कर्ॐइ तत्पूर्वसङ्गः प्लवगो यथाशु ।तं वैरिसंहारमहोपकारं आर्याय निर्यातयितुं यतेन ॥३.५४॥धिक्तं धनुष्पाणिं अनुप्लवं मां मुधा मनःपर्युषितावलेपं ।अन्वीक्षते यस्य ममावसादादार्यः सहायान्तरं अन्तरज्ञः ॥३.५५॥धिक्शाततां सन्नतपर्वतां धिग्धिक्पातवेगं च ममाशुगानां ।अलक्षितोद्देशं अपि द्विषन्तं निहत्य नायान्ति हि यत्क्षणेन ॥३.५६॥खरादिरक्षःकदनेषु दीर्घं अमी परिज्ञातरसाः किं अन्यथ् ।असृग्भुजां भोक्तुं असृक्त्वरन्तां भूयोऽपि भूचन्द्र तवार्धचन्द्राः ॥३.५७॥आताटकासंज्ञपनात्प्रपन्नस्त्वयैष वर्णाश्रमरक्षणाय ।समाप्यतां शेषनिबर्हणेन क्षपाचराणां निधनाधिकारः ॥३.५८॥उद्धृत्य घोरायुधवृन्दवृष्टिं अनुष्ठितां ओघशरव्ययेन ।स राक्षसेभ्योऽम्बरगोचरेभ्यस्त्रातस्त्वयैकेन मखो महर्षेः ॥३.५९॥तं कालकल्पं कियता श्रमेण तथावधीर्मार्गरुधं विराधं ।आसन्मुहूर्ताः कति च घ्नतस्ते सैन्यं जनस्थानपतेः स्वरस्य ॥३.६०॥आसीत्क्षुरप्रस्य कियान्विलम्बः क्रूरेषु तेषु त्रिशिरःशिरःसु ।कतीषवो दूषणदेहयात्रानिवारणार्थं च रणे विसृष्टाः ॥३.६१॥कस्यावलम्बादकरोत्परासुं मारीचं उच्चावचमायं आर्यः ।ज्ञाता च दिक्संज्ञपितस्त्वयैव क्षपाचराणां अधिपश्च सोऽपि ॥३.६२॥इत्यप्रपञ्चोदितकारणानि मिथस्तयोस्तथ्यगुणग्रहाणि ।नेदुः स्तुवाना इव सूनृतानि खगाः कुलायेषु कृतैकमत्याः ॥३.६३॥आरोप्य सन्ध्यां दिशि वज्रपाणेः पर्यस्य चन्द्रं ककुभि प्रतीच्यां ।उत्सङ्गितोडुप्रकरा खगानां आदाय निद्रां रजनी जगाम ॥३.६४॥कविश्च जीवश्च सुतश्च भूमेः स दक्षिणाशातिलको मुनिश्च ।आसन्नसूर्यांशुभयद्रुतस्य क्षणं ररक्षुर्भगणस्य पृष्ठं॥ ३.६५॥दिग्दर्शयामास मुखं सरागं न यावदैन्द्री गणिकेव मत्ता ।तावद्द्विजेशोऽङ्कं इयाय सिन्धोः सन्ध्यासुराशीकरसेकशङ्की ॥३.६६॥विसर्जितोडुः क्षणं इन्दुरासीदासीदुपान्तेष्वपि नान्धकारं ।भृशं दिशीन्द्रस्य रराज सन्ध्या सिन्दूरिणीव ग्रहराजमुद्रा ॥३.६७॥उच्चेतुं उच्चैरुडुकुड्मलानि व्याकुर्वती रागं अतिप्रगाढं ।शाखां इवालम्ब्य दिशं मघोनः सन्ध्या वियद्भूरुहं आरुरोह ॥३.६८॥शेषोडुपुष्पस्तबकोच्चयाय संजातरागातिशयेव सन्ध्या ।अप्युच्चकैः पूर्वमहीध्रमूर्ध्नि स्थित्वा वियद्भूरुहं आरुरोह ॥३.६९॥(तदेवेदम्)विसृज्य पाण्डुच्छदनौघतुल्यं तारागणं व्य्ॐअतरुस्तदानीं ।बभार सन्ध्यारुचिमञ्जरीणां जालानि बालाधरक्ॐअलानि ॥३.७०॥उत्सारितेवाभ्रकरेणुकुम्भाज्जम्भारियुग्याधिकृतैर्मरुद्भिः ।ततान सन्ध्येति समुल्लसन्ती नभोङ्गणं रङ्गविकारधूलिः ॥३.७१॥संवित्तयस्तत्त्वविगाहशुभ्राः सांसारिके राग इवाधिरूढे ।शनैः शनैर्म्लानरुचो ममज्जुस्ताराः प्रसर्पत्यरुणे चिरेण ॥३.७२॥कैः शिक्षिता वर्तयितुं तदासीदुन्मीलितं तूलिकयेव चित्रं ।तरङ्गवत्तुङ्गशरद्घनालीविसंस्थुले व्य्ॐअनि बालसन्ध्या ॥३.७३॥प्रत्युप्तमात्रं दिशि देवभर्तुरभ्यक्तखण्डाभ्रतरङ्गमालं ।बभौ विसर्पत्ययसीव तैलं नभस्तले बालपतङ्गतेजः ॥३.७४॥प्रसत्तिनिर्व्यूढसुधामयूखं खं उष्णरश्मावपि रक्तिं ऊहे ।भरं प्रतीच्छन्ति महोदयानां पात्राणि पर्यायवशंवदानि ॥३.७५॥तापिञ्छकल्पः ककुभि प्रतीच्यां आच्छादयामास मृगो मृगाङ्कं ।दूराधिरूढं जनं आपदीव प्रकाशमानोऽतिशयादवर्णः ॥३.७६॥प्रदीप्तसन्ध्याग्नि नदद्द्विजौघं निरंशुकध्वस्तपराङ्मुखेन्दु ।वियद्विलुप्तोडुकुलं तदाभूच्चक्रान्तराक्रान्तपुरोपमेयं॥ ३.७७॥मिथः कृतालोकमहोत्सवानां कृतारवः सारसदम्पतीनां ।न बालभानोः किरणादभैषीन्नदीषु नीहारमयोऽन्धकारः ॥३.७८॥ततार संतीर्य हिमान्धकारं तता रसन्ती सरितः खगाली ।रक्तारविन्दस्य रजोभिरार्द्रैरक्ता रविं वारिणि वीक्षमाणा ॥३.७९॥स्मरव्ययक्लान्तवलत्पुलिन्दीसर्वाङ्गसंवाहकलाविदग्धः ।विलम्ब्य कोशेषु कुशेशयानां ससार कासारतरङ्गवातः ॥३.८०॥अतीत्य शैत्यं तटवालुकानां कोष्णासु सस्नुर्मुनयो नदीषु ।अपां अपूर्यन्त च नैर्झरीणां कुटा गिरिग्रामकुटुम्बिनीभिः ॥३.८१॥जातप्रकाशासु बहिःस्थलीषु प्रकामचारोत्सवजागरूकः ।इभो भुवि प्रस्खलदग्रहस्तः सस्मार शय्योदरकुञ्जशय्यां॥ ३.८२॥समेत्य जृम्भानुपदं स्वयूथ्यैर्मिथः क्षणं लीढतुषारलेपाः ।प्रतस्थिरे दिग्वलयं विलोक्य यथायथं कच्छभुवः कुरङ्गाः ॥३.८३॥अदृश्यतारात्तरलैः स्थलीषु वनेचराणां पृतना कुरङ्गैः ।पपौ रवेः संज्वलितोग्रभासं भुजङ्गं औघः श्रितनाकुरन्ध्रैः ॥३.८४॥स्थलं कुरङ्गीनयनैरनिद्रैरुन्मुक्तमुद्रैर्जलजैर्जलं च ।विलोलतारैस्तरलद्विरेफैरुवाह भेदं न मिथस्तदानीं॥ ३.८५॥जृम्भाभराद्दूरविसंगतानां मुद्राविलम्बेन दलावलीनां ।निर्विश्य निःशेषं अलिः परागं अगादबद्धः कुमुदाकरेभ्यः ॥३.८६॥विवेश गर्तं गतं उत्तमोहिरुच्चैः पदं सन्ततं उत्तमो हि ।आसीन्महः सम्पदि तुङ्गतायां नभो न कैश्चिद्गदितुं गतायां॥ ३.८७॥नैःसङ्ग्यं आलम्ब्यत कैरवेषु यैः शान्तिमद्भिः शनकई रवेषु ।सौजन्यं अम्भोजगृहे समेतैश्चिराद्द्विरेफैर्जगृहे समे तैः ॥३.८८॥रेजेऽरविन्दैररविन्दबन्धोः संदर्शने दर्शितहर्षवेगैः ।विधोर्विषेहे विरहः कथंचिन्निद्रावलम्बात्कुमुदाकरेण ॥३.८९॥ऊहे जलैराहितकोपरागः क्षोभादल्नीनां नलिनीपरागः ।व्यसर्जयद्द्यां विवृतापरागः शशी चिरादध्युषितापरागः ॥३.९०॥यथा विलुप्तोडुकदम्बकायां बालार्कपादैर्दिवि दीप्यते स्म ।तथैव सुप्ताखिलकैरवायां रक्तारविन्दैरभितः सरस्यां ॥ ३.९१॥मुखेन भाति स्म सहस्रपत्रं मित्रोदयालोकविकस्वरेण ।मञ्जुस्वनानां अलिमार्गणानां स्वयंग्रहायैअव्विमुद्रकोशं ॥ ३.९२॥श्लथेन केचिद्विविशुर्मुखेन तलेन केचिद्दलसंहतीनां ।मधूत्सुकानां मधुपव्रजानां अब्जेषु न द्वारविनिश्चयोऽभूथ् ॥३.९३॥लुलोठ धूलीषु पपौ मधूनि पक्ष्माणि लीढानि पुनर्लिलेह ।आगन्तवे स्तोकं अपि द्विरेफः स्थितो ददौ नान्तरं अब्जमध्ये ॥३.९४॥भेजे विनिद्रां नलिनीं न कूलान्न शीलयामास नवार्कभासं ।प्रियां प्रतीयाय तथैव मूढां खगः स्वबोधागमसाभ्यसूयः ॥३.९५॥बहूनसौ पत्ररथस्तपस्वी चकार चाटूनुपकण्ठलीनः ।दृशं प्रमीलापगमात्कषायां उन्मीलयामास चिरेण चक्री ॥३.९६॥पारं तुषारक्षणसान्धकारं अपि स्मरार्तित्वरितः पवित्री ।श्रुतप्रियाह्न्वानरवः प्रतस्थे सीमन्तयन्नब्जवनं विनिद्रं॥ ३.९७॥जगाम भञ्जन्Kअमलानि कोकः कोकीपरिष्वङ्गमनोरथोत्कः ।साप्युत्सुका तत्क्षणं आजगाम विलोकयन्ती वनं उत्पलानां॥ ३.९८॥कुर्वाणयोः सरसि पद्मवनावनद्धे भिन्नाध्वनोर्वितथं एव गतागतानि ।संवादिदिक्पतितयोः पततोः कथंचिद्द्वन्द्वं चिराद्घटितं अर्धपथे बभूव ॥३.९९॥व्यस्मर्यतां ऋतमरीचिकराभितापः प्रातः पतत्रिमिथुनैस्तपनं विलोक्य ।जात्यैव शीतलं अथोष्णं अलं न किंचिच्चित्रा गतिर्जगति जन्तुदशावशेन ॥३.१००॥कर्तव्यनिर्णयविरूढमनःप्रसादशंसिस्मितेन मुखचन्द्रमसा विराजन् ।रामः प्रभातपवनाहितवीचिकम्पां पम्पां इयाय सरसीं सह लक्ष्मणेन ॥३.१०१॥पार्श्वस्थावरजससम्भ्रमोपनीतप्रत्यग्रस्फुटितविलोहितारविन्दः ।सुस्नातः कृतविधिरञ्जसोपतस्थे काकुत्स्थः कनकरसावदातं अर्कं॥ ३.१०२॥तौ दीर्घं विधिवदुपास्य पूर्वसन्ध्यां पूष्णीषत्प्रकटितरश्मिबर्बरीके ।आसातां रहितमहीरुहोपकण्ठऊद्वेल्लस्तिमितजटावनौ वनान्ते ॥३.१०३॥इत्यभिनन्दकविकृतौ रामचरिते महाकाव्ये मन्त्रविनिश्चयपूर्वकप्रातःस्सन्ध्यावर्णनो नाम तृतीयः सर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP