संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|रामचरितमहाकाव्य| द्वितीयः सर्गः रामचरितमहाकाव्य प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः रामचरितमहाकाव्य - द्वितीयः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच.या काव्याचे कवी आहेत, अभिनन्द. Tags : epicpoemकाव्यमहाकाव्यसंस्कृत द्वितीयः सर्गः Translation - भाषांतर तां अनीक्षितचरीं अधीरतां आत्मनोऽथ विनियम्य लक्ष्मणः ।सान्त्वनार्थं इति वाचं अब्रवीत्तीव्रमन्युरयमूढं अग्रजं॥ २.१॥कार्यं आर्य परिशिष्टं उच्यतां मुच्यतां इदं अयोगजं तमः ।राजतूद्यमदिवाकरोदयस्मेरं आशु मुखपङ्कजं तव ॥२.२॥आसितुं समय एष नावयोर्मोहं इत्थं अवलम्बितुं न च ।उत्सहस्व ननु हृष्यतां चिरादिष्वधीनं अधुनाभिकाङ्क्षितं॥ २.३॥केवलं फलभुजो न तस्य नस्तस्करस्य निलयेऽस्ति निश्चयः ।अभ्युपैतु रविनन्दनः क्षणादन्धकारं इदं अप्यपैष्यति ॥२.४॥औरसानपि सुतानरीनिव घ्नन्ति कारणवशान्महीभुजः ।निग्रहादनुजविद्विषः कपेः किं पृथग्जन इवानुतप्यसे ॥२.५॥क्रीडतां मृगवनेषु धन्विनां जीवकोटिकदनेऽपि का क्षतिः ।खिद्यसे किं अनिशं प्रयोजनादेकवानरवधः कुतः कृतः ॥२.६॥तस्य च प्रवयसो जटायुषः स्वर्गिणः किं अधुनानुशोच्यते ।येन जर्जरकलेवरव्ययात्क्रीतं इन्दुकिरणोज्ज्वलं यशः ॥२.७॥एतदेकं अतिवाह्यतां अहः श्वो न स प्लवगराट्प्रतीक्ष्यते ।तत्प्रसीद परितो विचीयतात्मनैव सनगार्णवावनिः ॥२.८॥तत्कबन्धशबरीहनूमतां आवयोरजनि सङ्गतं यथा ।इष्टशंसि वनशैलपान्थयोः किं तथान्यदपि नापतेत्पुनः ॥२.९॥यत्र यत्र तव सिद्धिरग्रतः कः करिष्यति न ते समीहितं ।उज्ज्वले कृतविदां न केवलं तेन वर्त्मनि दुरात्मना स्थितं॥ २.१०॥सम्भवत्यभिमरः पुरेऽथवा तस्य तीव्रं अयशः किं उच्यते ।दुःखं उत्खनति कण्टकावलीरङ्गसन्धिषु नवः किलेश्वरः ॥२.११॥सम्प्रति प्रथमं आर्य गृह्यतां तत्प्रवृत्तिं उपलब्धुं उद्यमः ।मर्षणीयपरिलम्बदूषणः सोऽधुनाप्यकपटो घटते चेथ् ॥ २.१२॥मुञ्च मोहं अवतीर्यतां इतः सेव्यतां इयं अनाविला नदी ।एष गच्छति जवाज्जपारुणो वारुणीं अरुणसारथिर्दिशं॥ २.१३॥उन्मिमील रघुनन्दनश्चिरात्तन्निशम्य वचनं चमत्कृतः ।अप्ययोगविधुरा न शेरते संमुखीनविधयस्तथाविधाः ॥२.१४॥मुक्तमोहं अवलोक्य लक्ष्मणस्तं मृगाङ्कं इव मेघनिर्गतं ।आददेऽथ शशिकान्तभूधरस्यन्दबिन्दुशिशिरां सरस्वतीं॥ २.१५॥एष पश्य पतितो नभस्तलादस्तशैलगहनेषु नश्यति ।सन्ध्यया चरमदिक्प्रगल्भया भग्नसान्द्रकरपञ्जरः खगः ॥२.१६॥शक्यं अर्चितुं अनुच्चपाणिभिः पाशपाणिनगरीनिवासिभिः ।सानुरोध इव दूरबन्धुरो बन्धुजीवकुसुमारुणो रविः ॥२.१७॥एष मुक्तकरपाटवो रविर्नाटयत्यनुगुणत्वं अप्पतौ ।आपदि प्रकृतिरुज्झिता वरं नाश्रयस्य विसदृग्विचेष्टितं॥ २.१८॥बिम्बमूलरुचिरा रवेरमी रेचयन्ति गगनं गभस्तयः ।पूरयन्ति च महीं महीरुहां आयताः प्रतिशरीरयष्टयः ॥२.१९॥अग्रतः शिखरशाखिसंहतेश्छाययोपचितयापसारितः ।पृष्ठतोऽतिनिभृतं महीभृतां आतपः कटकं आशु नोज्झति ॥२.२०॥स्वीकरोति शनकैरनोकहच्छायं अद्रिशिखरस्थलीरपि ।हीयते निजवपुष्यपि क्रमादातपस्य ममता तपस्विनः ॥२.२१॥अप्पतेर्दिशि विचेष्टते रविर्व्याकुलाः शकुनयः स्वनन्त्यमी ।ध्वान्तदृष्टिविषदर्शनाद्दिने दुर्निवारनिधने निमीलति ॥२.२२॥कीर्यते कृतरवैः खगव्रजैरेष तल्लतटचैत्यपादपः ।सायं अध्वनिकटे निरर्गलः सज्जनालय इव प्रवासिभिः ॥२.२३॥यान्ति खिन्नजनसेव्यतां अमी स्ॐय सोर्मिशुचिवालुकाचयाः ।प्रान्तसुप्तकलहंसपङ्क्तयः स्वैरनीरमरुतो नदीतटाः ॥२.२४॥धिक्तटान्तवसतीन्सितच्छदान्पश्यतः कमलषण्डवैशसं ।स्त्ॐइ तं दिवसं आर्य केवलं योऽस्तं एति समं अब्जबन्धुना ॥२.२५॥दन्तमूलनिहितैकसल्लकीपल्लवोऽलसविलोकितानुगः ।एष मुक्तगिरिकन्दरः शनैर्वारि वारणपतिः प्रतिष्ठते ॥२.२६॥शीलयन्ति करिणः स्ववासितावारि सैरिभसमूहरेचितं ।मालतीवनविकासवासिता वान्ति पल्वलतटान्तवायवः ॥२.२७॥संत्यजन्ति मसृणं सरःसरित्तल्लमूलसलिलानि सैरिभाः ।सम्भजन्ति सहसा भयद्रुतैरीक्षिताः कुररसारसैरिभाः ॥२.२८॥संमुखीनघनपत्रबन्धनात्पश्य पङ्कजवनादनारतं ।पीतकोशमकरन्दसंचयाः संचरन्ति मधुपाः कुमुद्वतीं॥ २.२९॥नोपनीतमुखमुद्रं अम्बुजं मुक्तमुद्रं अथ नैव कैरवं ।एतदीक्षितपरस्परं पुनः पत्रियुग्मं अपनिद्रवैशसं॥ २.३०॥रोधसः पुलिनं अब्जिनीं ततस्तां अतीत्य भजते कुमुद्वतीं ।तत्र तप्त इव गाहते पयः सायं आर्द्रविरहो विहङ्गमः ॥२.३१॥स्वीकृतं न नलिनैर्निमीलितं न स्फुटं कुमुदकुड्मलस्मितं ।एतदीक्षितपरस्परं परं मूढं अम्भसि विहङ्गमद्वयं॥ २.३२॥जर्जरं त्यजति वासरप्लवं न प्रसारयति मन्थरान्करान् ।एत्यदृष्टं अवलम्ब्य केवलं व्य्ॐअवारिनिधिशेषं अंशुमान्॥ २.३३॥श्रावितागमं इव द्विजारवैर्ध्वान्तं ॐ इति जगत्प्रतीच्छति ।त्रातुं ऊष्मरहितः क्षमोऽधुना न स्वमण्डलं अपि प्रभाकरः ॥२.३४॥दृश्यतां उदयति स्म यादृशस्तादृशस्तरणिरस्तं ईयते ।उत्सवव्यसनयोः प्रभुर्विधिर्विक्रियासु महतां अनीश्वरः ॥२.३५॥स्फीतं अब्जकुलं ईक्ष्यतां इतस्तल्लं उल्लसितहंससारसं ।निश्चलाच्छपरिमण्डलोदकप्रान्तमन्थरमृणालकण्टकं॥ २.३६॥शीलयन्त्यचलमेखलास्वमी शीतलासु रुरवो निरुद्यमाः ।पूर्वशष्पकबलानुवर्तिनः स्तोकचञ्चलमुखाः सुखासिकां॥ २.३७॥दीधितीः परिचिताः परित्यजत्यब्जिनीरपि च नानुरुध्यते ।सन्ध्यया वरुणदिग्वधूं अनुप्रापितः कं अपि रागं अंशुमान्॥ २.३८॥द्यऊ रवीन्दुरहितापि निर्मला भूरवृक्षसलिलापि शीतला ।अन्तरालं अवलम्ब्य शोभते वासरक्षणदयोः क्षणं जगथ् ॥ २.३९॥निर्झरोऽयं इयं आपगा सरः पल्वलं च विमलं विभात्यदः ।यत्र चित्तं इह पर्युपास्यतां तत्र तत्रभवती पितृप्रसूः ॥२.४०॥इत्युभौ व्यवहितान्तरव्यथौ तौ समाप्य समयोचितं विधिं ।सत्कृतिं दधतुरानने मिथः प्रार्थनां किं अपि रामलक्ष्मणौ ॥२.४१॥यत्र वाति न कुमुद्वतीमरुत्क्ॐउदी बत न यत्र वीक्ष्यते ।तं निरूपितसमन्तं अञ्जसा भेजतुः परिसरं रघूद्वहौ ॥२.४२॥दृष्टिपाणितलप्पातशोधितां उद्धृतस्थगितकण्टकावटां ।अस्तृणान्नवतृणेन मेदिनां रामभद्रशयनाय लक्ष्मणः ॥२.४३॥निर्णिनेज सहसा सुषुप्सतः पादपद्मयुगं अग्रजन्मनः ।स्वांशुकोद्धृतजलं कराब्जयोः कौशलाच्च समवाहयत्पुनः ॥२.४४॥अध्वजर्जरितराजलक्षणं लक्ष्मणश्चरणं अग्रजन्मनः ।आममर्श चिरं अश्रु वर्तयन्केवलोपकरणेन पाणिना ॥२.४५॥स्वैरं अग्रकरजैर्विवृत्य च व्याकुलां समनयज्जटाटवीं ।अङ्गदेशं अनयद्विधूय च स्रस्तरातिसृतं अञ्चलं त्वचः ॥२.४६॥पार्श्वयोरुपदधे महेषुधी आददे शिरसि पूजितं धनुः ।उन्ममार्ज धुतसंहृतेन च स्वाञ्चलेन पुनरुक्तं आस्तरं॥ २.४७॥इत्यजस्रं अनुजातसेवया जीयमानवनवासयातनः ।स्वप्तुकाम इव सालसेन्द्रियः संविवेश रघुनन्दनः क्षणं॥ २.४८॥मीलितोन्मिषितलोचनः शनैर्जागरूकं अवलोक्य सोऽनुजं ।उच्चवामकरपङ्कजोदरन्यस्तमौलिरवदन्मितं वचः ॥२.४९॥गच्छ वत्स शयनीयं आत्मनः क्लिश्यसे कृशतरः कियच्चिरं ।निद्रया विशदतां व्रज क्षणं न क्षमः प्रतिनिशीथजागरः ॥२.५०॥प्रातरस्ति बहु कृत्यं आवयोर्भ्रातरात्मनि किं अस्यतत्परः ।चिन्त्यतां उषसि तस्य संगतिः शीतलस्य कपिचक्रवर्तिनः ॥२.५१॥आस्पदाधिगमगर्वितोऽस्तु वाप्यस्तु वानुदितभूतिविक्रियः ।आवयोः समयबद्धयोः पुनो निश्चयार्थं अधिगम्य एव सः ॥२.५२॥तद्विभातु रजनी सुखेन ते यास्यतः प्लवगराजमन्दिरं ।पक्षयोर्यदनुरूपमुक्तयोस्तत्तदैव च समर्थयिष्यते ॥२.५३॥ऊचिवानिति बभूव निर्वचाः कुड्मलीकृतविलोचनोत्पलः ।अध्यशेत चरणाम्बुजान्तिकं तस्य जोषं अनघो जघन्यजः ॥२.५४॥तत्र तत्र च शयानयोश्चिराद्वीरयोर्विगतसाध्वसा इव ।उद्धतैर्ददुरुलूकहुंकृतैरन्धकारजयघोषणां द्रुमाः ॥२.५५॥व्याततोडुदशनापि मुच्यसे न त्वं अर्कचिरसंस्तुताधुना ।इत्यरिष्टरिपुकूजितैस्तमो द्यां ब्रुवाणं इव दूरं उद्ययौ ॥२.५६॥केवलं शकुनयो न नीडगाः शाखिनोऽपि शयिताः समन्ततः ।जज्ञिरे तिमिरतस्करावलीलुप्यमानविभवाश्च भूभृतः ॥२.५७॥न स्थली न पुलिनं न सिन्धवो नाचला न तरवश्चकाशिरे ।दूषितद्वितयवादं उद्बभावेकं एव तिमिरं विभूतिमथ् ॥ २.५८॥तत्र मुग्धपृषतस्तमोघने पार्श्वगां अपि मृगीं अहारयथ् ।प्राप कोकयुवतिर्यदृच्छया पत्युराधितरलस्य संगमं॥ २.५९॥वृद्धं अङ्कं अनयच्छिशुभ्रमाच्चुम्बति स्म दयितेति यूथपं ।स्वीयं अप्युदितसंशयः शनैरङ्गं अङ्गं अमृशद्वलीमुखः ॥२.६०॥सर्वतः परिगतेव पर्वतैराचितेव तरुभिर्निरन्तरं ।आप्लुतेव सलिलैरितस्ततः शक्यते स्म चिरसंस्तुतापि भूः ॥२.६१॥दिक्षु दक्षं अवनावनाकुलं खेऽतिखेलं अटवीषु भीषणं ।मत्तं अद्रिषु दरीषु दुर्जयं प्रादुरास विषमे समं तमः ॥२.६२॥भेजुरैक्यं इव तुल्यवैशसाः सायं एव मलिनैर्मुखैर्दिशः ।गृह्यमाणशिखरा तमश्चयैर्द्यौः पपात वसुधासखीतले ॥२.६३॥प्रत्यभान्न पुरतो न पृष्ठतः पार्श्वयोश्च विशदं न किंचन ।व्यानशे भुवनं अञ्जनाचलप्रस्थपङ्क्तिनिबिडं निशातमः ॥२.६४॥न द्वितीयं अनुभूयते स्म वस्त्वन्तिकादपि तमस्तिरस्कृतं ।केवलात्मविषयं तदाभवज्ज्ञानं उल्बपरिवासिनां इव ॥२.६५॥दूरमिश्रितपरस्पराङ्गकैरप्ययोगजनितज्वरैरिव ।दुर्लभाननविलोकनामृतैर्दूयते स्म मिथुनैर्मिथो भृशं॥ २.६६॥सोऽतिशीतहिमशीकरो मरुन्नूनं उल्मुकचयानवाकिरथ् ।यच्चुकूज भृशं आर्तिकाहलं चक्रवाकयुवतिस्तपस्विनी ॥२.६७॥उच्चचार न वनस्थलीष्वसौ मर्मरः पतितपत्रनिस्वनः ।नाविरास करिकृष्टसल्लकीभङ्गयोनिरसकृच्चटत्कृतिः ॥२.६८॥तस्थुरास्थितमनुष्यमूर्तयो यामिका इव विदूरतोऽद्रयः ।प्रह्वबालविटपाग्रपाणयस्तौ परीत्य तरवः सिषेविरे ॥२.६९॥द्राङ्निदाघं अनुदद्रजोऽधुनाद्विश्लथां बृहतिकां असारयथ् ।प्रत्यपद्यत वनानिलस्तयोरेकसन्निहितयामिकव्रतं॥ २.७०॥सानुजस्य तमसि प्रमीलतस्तस्य भाविममताहृता इव ।उज्ज्वलायतविषाणसूचिताश्चक्रिरे परिकरं मतङ्गजाः ॥२.७१॥दीपकृत्यं अकरोदुपान्तिके निष्प्रकम्परुचिरोषधीगणः ।तेनुरद्रिवनमध्यसुप्तयोर्मङ्गलानि वनदेवतास्तयोः ॥२.७२॥एहि जानकि भुजान्तरं खरः प्रस्तरोऽयं असि किं पराङ्मुखी ।मत्कपोलं उपधाय सुप्यतां अप्रसक्तिरियती कदा नु ते ॥२.७३॥क्षिप्तं अंशुकं इदं मयोरसि प्रीयतां तव निरानन्दः स्तनः ।नीविनोदिनि करे कुरु क्षमां आयताक्षि नुदसीव किं पुनः ॥२.७४॥सुप्तवाक्यं इति मैथिलीपतेर्मैथिलीविरहदूयमानया ।दिक्सखीनिवहवारितास्रया शुश्रुवे वसुधयोपसन्नया ॥२.७५॥मद्बिभेति विरही रघूद्वहो मद्विना च न जगत्प्रमोदते ।तत्कर्ॐइ किं इतीव चिन्तयन्नोज्जगाम सहसा निशाकरः ॥२.७६॥न स्म भाति किं अपि स्फुटं पुरः किंचिदीरितकरेण केवलं ।दृश्यते स्म दिवि दूरवर्तिना तर्ज्यमानं इव केनचित्तमः ॥२.७७॥जायते स्म घनमालतीगुणश्रेणिगर्भकबरीमनोहरं ।मेघवाहनदिगङ्गनामुखे मुग्धचन्द्रकरकर्बुरं तमः ॥२.७८॥सानुरागं उपगूढं अग्रिमैरंशुभिः शशभृतो दवीयसः ।उन्ननाम नमुचिद्विषो दिशि स्रस्तस्तंतमसभारं अम्बरं॥ २.७९॥उज्ज्वलाग्रकिरणप्रवेशकप्रोक्तसत्वरसमागमोऽपि सन् ।प्रेक्ष्यते स्म जनितोत्सुकश्चिराद्व्य्ॐअरङ्गमुखसंमुखः शशी ॥२.८०॥औदयेन शशिनो गभस्तिना भिन्नशेषतिमिरं व्यराजत ।मृज्यमानं इव शक्रदिङ्मुखं कुङ्कुमेन मृगनाभोयोगिन्॥ २.८१॥तं बभार न विधुर्नवोदयं किं तु कुङ्कुमविलेपनारुणं ।एकं उत्सुकवशात्पयोधरं व्याचकार हरिदिग्विलासिनी ॥२.८२॥आत्तजैत्रनिजपुष्पधन्वनो मन्मथस्य भुवनानि जेष्यतः ।उन्ननाम पुरतः शशिच्छलात्पूर्णरुक्मकलशः पयोनिधेः ॥२.८३॥दिक्सरागमुखसन्निधापितस्फीतचन्द्रचषका शतक्रतोः ।क्षीबभावं इव बिभ्रती बभौ विश्लथाच्छतिमिरांशुकोच्चया ॥२.८४॥नन्दयन्भुवनं उन्मुखं चिरान्मन्दयन्स्मरविरुद्धं उद्यमं ।क्रन्दयन्विरहिणो विहङ्गमान्सान्द्रयन्प्रमदं इन्दुरुद्ययौ ॥२.८५॥लोचनालिनिवहैकपङ्कजं चित्तहंसशयनीयसैकतं ।उज्जगाम रतिकेलिमन्दिरं यामिनीयुवतिजीवितं शशी ॥२.८६॥आलिलिङ्ग रजनीं अहासयद्बिद्यमानमुकुलां कुमुद्वतीं ।अग्रहीदुडुवधूकरान्करैर्द्यां प्रसादं अनयत्समं शस्शी ॥२.८७॥आददे वियदलाञ्छनव्रतं लाञ्छनं निजं अगूहदंशुभिः ।प्राहिणोदपसृतासु क्ॐउदीं दिक्षु दक्षतनयापरिग्रही ॥२.८८॥व्याप्य दूरं अथ निर्मलं वियद्वीतपङ्कं इव पङ्कजाकरं ।रेजुरग्रकिरणाः क्षपापतेः पूतकोकनदकन्दक्ॐअलाः ॥२.८९॥खे ककुप्सु भुवि च क्षपापतेः पेतुरूढनिचया मरीचयः ।यत्र तत्र कुहराणि कानिचित्कम्पमानं अविशन्निशातमः ॥२.९०॥क्षिप्तं इन्दुरुचिभिर्व्यलम्बत त्र्यम्बकस्य शिखिनश्च दिङ्मुखे ।तत्र नुन्नं अनुबन्धनिःसहं कान्दिशीकं इव निष्ठितं तमः ॥२.९१॥कन्दराणि च महामहीभृतां कोटराणि च जरन्महीरुहां ।अध्युवास कमलोदराणि च ध्वान्तं अध्वगवधूमुखानि च ॥२.९२॥स्वीचकार करकोटिलालनालम्बितोडुततिमेखलां दिवं ।रागभङ्गं अतिसंस्तवाद्गतां देवराजदिशं इन्दुरत्यजथ् ॥ २.९३॥आततान गगनाङ्गणाधिकैर्मेदिनीं अमृतवर्षिभिर्विधुः ।विप्रयुक्तजनधूमकेतुभिः केतकाग्रशुचिभिर्मरीचिभिः ॥२.९४॥संकुचद्भिरभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतं ।उद्यता जयिनि कामिनीमुखे तेन साहसं अनुष्ठितं पुनः ॥२.९५॥उच्चखान रुषं उच्चमण्डलः खण्डनां अगमयद्विषह्यतां ।मानपङ्कं अपनीय कामिनीः कान्तहस्तं अनयन्निशापतिः ॥२.९६॥व्यक्तवर्त्मबिलवाहिनीवनग्रामगुल्मगहनाद्रिभेदया ।स्ॐयताधिकविशेषयाजनि ज्योत्स्नया दिवसनिःस्पृहो जनः ॥२.९७॥पीयते स्म कुमुदं न लोचनैश्चन्द्रिका तपति रोहितच्छदं ।प्रादुरास परं उत्पिबन्नलिः सौरभं निरवलम्बं अम्बुनि ॥२.९८॥एकिकेव निजवृन्दमध्यगाप्युच्चुकूज सभया सितच्छदी ।दन्तमूलं असकृच्च संशयादाममर्श करिणः करेणुका ॥२.९९॥केतकीषु कदलीषु वालुकास्वश्मसु स्फुटितकैरवेऽम्भसि ।लम्भितेव लहरीपरम्परां उल्ललास शशिकान्तिवाहिनी ॥२.१००॥प्राप्तसूक्ष्मघनपल्लवान्तरैश्चित्रिताः शशिकरैरितस्ततः ।बिभ्रति स्म तरुमूलशायिनः शम्बराः पृषतयूथविभ्रमं॥ २.१०१॥कृच्छ्रलब्धनगशृङ्गसन्धयो दत्तमन्मथजयाभिसन्धयः ।मैथिलीतरवधूदुरासदं राघवाङ्कं अविशच्छशित्विषः ॥२.१०२॥जागर्षि काश्मरि निषीदसि कोविदार कुत्रासि वत्स कृतमाल तमाल पश्य ।किं वर्तते रघुपतेरिति सत्वराभिरुक्तं द्रुमौघं अवलोक्य वनस्थलीभिः ॥२.१०३॥अन्योन्यदूरपरिषक्तविशालसान्द्रशाखाशतैस्तरुभिरन्तरयांबभूवे ।उद्भूतघोरविरहज्वरलङ्घितस्य चन्द्रातपः स खलु दाशरथेरपथ्यः ॥२.१०४॥कुमुदवनं अहेतु त्यक्तनिद्रं तदासीद्गगनं उडुवितानैर्धिग्वृथैव प्रफुल्लं ।अजनि जगदधीशस्यागृहीतेस्तदानीं विधुरपि विधवस्त्रीयौवनोद्भेदशोच्यः ॥२.१०५॥श्वसिति जनकपुत्री सत्वरो भानुपुत्रः कपिपतिरुपसन्नं सुप्रभातं तवेति ।जगुरिव रघुनाथायार्धबुद्धाः स्वनन्तो मधुरं अपररात्रे पत्रिणः केऽपि केऽपि ॥२.१०६॥इत्यभिनन्दकृतौ रामचरिते महाकाव्ये सन्ध्यातमश्चन्द्रोदयवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥कवीनां किं दत्तैर्नृपपशुभिरन्यैरवसरे परं पृथ्वीपालः क्षणं अपि स कर्णो वितरतु ।अनात्तं तत्त्वज्ञैरपि सुविपुलार्थव्ययभिया प्रतिष्ठां येनोच्चैर्जगति गमितं रामचरितं॥पालान्वयाम्बुजवनैकविरोचनाय तस्मै नमोऽस्तु युवराजनरेश्वराय ।कोटिप्रदानघटितोज्ज्वलकीर्तिमूर्तिर्येनामरत्वपदवीं गमितोऽभिनन्दः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP