संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|तत्त्वचिन्तामणी| आसत्तिवादपर्वपक्षः तत्त्वचिन्तामणी शब्दाप्रामाण्यवादः शब्दाकाङ्क्षावादपूर्वपक्षः शब्दाकाङ्क्षावादसिद्धान्तः योग्यतावादः योग्यतावादसिद्धान्तः आसत्तिवादपर्वपक्षः आसत्तिवादसिद्धान्तः तात्पर्यवादः शब्दनित्यतावादपूर्वपक्षः शब्दानित्यतावादसिद्धान्तः उच्छन्न-प्रच्छन्नवादः विधिवादपूर्वपक्षः विधिवादसिद्धान्तः तत्त्वचिन्तामणी - आसत्तिवादपर्वपक्षः तत्त्वचिन्तामणी शब्दाप्रामाण्यवादावरील एक असामान्य ग्रंथ आहे. Tags : तत्त्वचिन्तामणीसंस्कृत आसत्तिवादपर्वपक्षः Translation - भाषांतर आसत्तिश्चाव्यवधानेनान्वयप्रतियोग्युपस्थितिः, सा च स्मृतिर्नानुभवोऽतोनान्योन्याश्रयः ।अथ नानाविशेषणक-कर्म-कर्त्तृ-करणाधिकरण-क्रियादिक्रमिकपदज्ञानजन्यक्रमिकपदार्थस्मृतीनां न यौगपद्यं सम्भवति आशुतरविनाशिनां क्रमिकाणां मलकानुपपत्तेरिति कथं तावत्पदार्थान्वयबोधः विशेषणज्ञानसाध्यत्वाद्विशिष्टज्ञानस्येति चेत्, श्रौत्रप्रत्येकपदानुभवजन्यसंस्कारमेलकादेकदैव तावत्पदस्मृतिः तत एकदैव तावत्पदार्थस्मृतौ सत्यां वाक्यार्थानुभवः ।न चान्यविषयकसंस्कारेण नान्यत्र स्मरणमिति वाच्यम् ।वक्यार्थानुपपत्त्या फलबलेन संस्काराणां परस्परसहकारेण तत्रैकस्मरणकल्पनात् ।प्रत्येकवर्णसंस्काराणामिवानन्यगतिकतया पदस्मरणे ।अथ यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते ।तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते&& ।न चैवमन्वयान्तराभिधानं न स्यात् विरम्य व्यापाराभावादिति वाच्यम् ।एवमपि प्रथममनन्वये हेत्वनुपन्यासात् उत्तरस्य हीदं सामग्रीवैकल्यं न पूर्वस्येति चेत्, अस्तु तावदेवं तथापि चरमं तावत्पदार्थघटितवाक्यार्थानुभवे उक्तैव गतिरनन्यगतिकत्वात् ।अत्र वदन्ति, सन्निधिर्न पदजन्यैवान्यवबोधहेतुः द्वारमित्यादौ अध्याहृतेनापि पिधानादिना अन्वयबोधदर्शनात् ।न च पिधेहीति शब्द एवाध्याह्रियते, अनुपयोगात् ।अर्थस्यैवान्वयप्रतियोगित्वेनोपयोगित्वात् आवश्यकत्वाच्च ।अर्थापत्तेरुपपादकविषयत्वात् ।न च शब्दमात्रमुपपादकं, अपि तु तदर्थः, अवश्यकल्प्यार्थसाहचर्येण दैववशसम्पन्नशब्दस्मृतेरन्यथासिद्धेः, अन्यथा पदबोधितस्यैवार्थस्यान्वयबोधकत्वमिति नियमशकिकल्पनापत्तेः ।स्वार्थान्वयपरत्वाच्छब्दानां द्वारमिति न पिधानान्वयबोधकमिति तदन्वयबोधार्थमवश्यं शब्दकल्पनमिति चेत् ।न ।लक्षणानां व्यभिचारात् तवाप्याक्षिप्तेन कर्त्रान्वयबोधाच्च ।अथ द्वारपदसहभावमात्रं पिधेहिशब्दस्य कल्प्यते लाघवात् ।न च पिधानाभिधायकानेकशब्दोपस्थितौ विनिगमकविरहः, संस्कारतारतम्यात् पदविशेषस्मृतेरिति चेत् ।न ।आकाङ्क्षादिमत्प्रतियोग्यन्वितस्वार्थपरत्वस्य क्रृप्तत्वात् लाघवेनार्थाध्याहारात् ।न च श्रुतपदानि लब्धप्रयोजनानीति कथमप्यध्याहृते तेषां तात्पर्यमिति वाच्यम् ।श्रुतार्थान्वयानुपपत्त्या अध्याहृतेतात्पर्यात् ।कथं तर्ह्येदनं पचतीत्यत्र समभिव्याहृतमात्रान्वयः कलायादेरपि स्मृतत्वात् इति चेत् ।न ।तात्पर्यनियमादित्यवेहि यत्परः शब्दः स हि शब्दार्थः, अन्यथा तवापि दैववशस्मृतकलायपदोपस्थापितेनान्वयबोधः स्यात् अयं देवदत्त ओदनमित्यादिवाक्ये क्रियापदाध्याहारभावेन कर्त्तुरनभिधानात् तृतीया स्यात् इति चेत् ।न ।अध्याहृतपचतिपदेनापि कर्त्तुरनभिधानात्, कर्त्तुसंख्याभिहितेति चेत् ।न ।देवदत्तस्य पाक इत्यत्रापि तृतीयापत्तेः, तात्पर्यतस्तच्च व्यवस्थेति चेत्, तुल्यम् ।ननु द्वारं पिधेहीत्यादौ पिधानशब्दानुभवे पिधानोपस्थापकपदत्वेन जनकत्वमिति चेत् ।न ।अन्वयप्रतियोग्युपस्थापकपदत्वेन जनकत्वात् न तु तदुपस्थापकयावतत्पदत्वेन गौरवात् ।एवं पिधानान्वयबोधेऽपि ।अन्यथा गौण-लाक्षणिकयोरन्वयबोधो न स्यात् तयोरननुभावकत्वादिति ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP