संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|तत्त्वचिन्तामणी| शब्दाकाङ्क्षावादपूर्वपक्षः तत्त्वचिन्तामणी शब्दाप्रामाण्यवादः शब्दाकाङ्क्षावादपूर्वपक्षः शब्दाकाङ्क्षावादसिद्धान्तः योग्यतावादः योग्यतावादसिद्धान्तः आसत्तिवादपर्वपक्षः आसत्तिवादसिद्धान्तः तात्पर्यवादः शब्दनित्यतावादपूर्वपक्षः शब्दानित्यतावादसिद्धान्तः उच्छन्न-प्रच्छन्नवादः विधिवादपूर्वपक्षः विधिवादसिद्धान्तः तत्त्वचिन्तामणी - शब्दाकाङ्क्षावादपूर्वपक्षः तत्त्वचिन्तामणी शब्दाप्रामाण्यवादावरील एक असामान्य ग्रंथ आहे. Tags : तत्त्वचिन्तामणीसंस्कृत शब्दाकाङ्क्षावादपूर्वपक्षः Translation - भाषांतर अथ केयमाकङ्क्षा, न तावदविनाभावः, नीलं सरोजमित्यादावभावात् ।विमलं जलं नद्याः कच्छे महिष इत्यत्र जलान्वितनद्या अविनाभावात् कच्छे साकाङ्क्षतापत्तेः ।नापि समभिव्याहृतपदस्मारितपदार्थजिज्ञासा, अजिज्ञासोरपि वाक्यर्थबोधात् विश्वजिता यजेत द्वारं इत्यत्रापदार्थयोप्यधिकारिणोऽप्याहृतस्य पिधानस्य चाकाङ्क्षितत्वाच्च, तत्र शब्दकल्पनपक्षेऽपि घटः कर्मत्वमानयनं कृतिरित्यत्र जिज्ञासितस्यानयनादेराकाङ्क्षितत्वापत्तेः ।अथ जिज्ञासायोग्यता, सा जिज्ञासा च विशेषाज्ञाने भवति, योग्यता च श्रोतरि तदुच्चारणजन्यसंसर्गावगमप्रागभावः, विमलं जलं नद्याः कच्छे महिष इत्यत्र तात्पर्यवशात् कदाचित् नद्याः कच्छे संसर्गावगमात् तत्प्रागभावसत्त्वेऽपि श्रोतरि तदुच्चारणेन तात्पर्यवशात् जलान्वितनद्याः कच्छे संसर्गावगमोनेति न तत्प्रगाभावः, घटः कर्मत्वमानयनमित्यत्रापि तथेति चेत् ।न ।निराकाङ्क्षे तदुच्चारणजन्यसंसर्गावगमप्रागभावस्य सिद्ध्यसिद्धिपराहतत्वात् ।किञ्च यत्रैकोविमलं जलमित्यश्रुत्वैव तात्पर्यभ्रमेणा वा नद्याः कच्छान्वयपरत्वमवैति, अपरः समस्तेन श्रुत्वा नद्या जलान्वयपरत्वमवधारयति, तत्रोभयरपि तदुच्चारणजन्यसंसर्गावगमात् नद्या इत्युभयसाकाङ्क्षं स्यात् ।अपि च प्रगाभावाभावस्य कारणान्तराभावव्याप्तत्वात् तत एव कार्याभाव इति किमाकाङ्क्षया ।एवञ्च योग्यतासत्ती अपि न हेतू अयोग्ये अनासन्ने च तदुच्चारणजन्यसंसर्गज्ञानाभावेन तत्प्रागभावाभावात् ।न चैवं बाधाभावस्यानुमित्यादावपि हेतुत्वं, प्रागभावाभावेनैव कार्याभावात् प्रागभावस्य च कार्यमात्रहेतुत्वात् ।शब्दे नासाधारण्यं उत्थितोत्थाप्याकाङ्क्षयोरुत्कर्षापकर्षौ न स्यातां प्रागभावे तदभावात् ।अथ ज्ञाप्य-तदितरान्वयप्रकारकजिज्ञासानुकूलपदार्थोपस्थितिजनकत्वे सत्यजनिततात्पर्यविषयान्वयबोधत्वमाकाङ्क्षा, घटमानयतीत्यत्र घटमित्युक्ते किमानयति पश्यति वा, आनयतीत्युक्ते किं घटं अन्यद्वेति जिज्ञासा भवति ।घटः कर्मत्वमाननयनं कृतिरित्यत्राभेदेन नान्वयोऽयोग्यत्वात्, घटस्यानयनमिति तु नान्वयबोधः घट इतिपदात् सम्बन्धित्वेन घटस्यानुपस्थितेः ।राज्ञ इति पुत्रेण जनितान्वयबोधत्वात् न पुरुषमाकाङ्क्षतीति चेत्, तर्हि नाम-विभक्ति-धात्वाख्यातार्थानां घट-कर्मत्वानयन-कृतीनां स्वरूपेणोपस्थितिर्नान्वयन्वयप्रकारकजिज्ञासानुकूलेति तत्र नाकाङ्क्षा स्यात् ।घटः कर्मत्वमानयनं कृतिरित्यत्र घटमानयतीत्यत्रेवान्वयबोधः स्यात्, न हि तत्र पदार्थस्वरूपाणां एतद्वैलक्षण्येनोपस्थितिः, त्रयाणां तुल्यवत् स्मरणे प्रथमंयतो राज्ञ इति पुरुषेण नान्वेति किन्तु पुत्रेण तत एवाग्र्रेऽपि व्यर्थमजनितान्वयबोधत्वमिति । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP