संस्कृत सूची|शास्त्रः|योग शास्त्रः|हठयोगप्रदीपिका| तृतीयोपदेशः हठयोगप्रदीपिका प्रथमोपदेशः द्वितीयोपदेशः तृतीयोपदेशः हठयोगप्रदीपिका - तृतीयोपदेशः प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे. Tags : yogयोगशास्त्रहठयोगप्रदीपिका तृतीयोपदेशः Translation - भाषांतर स-शैल-वन-धात्रीणां यथाधारोऽहि-नायकः।सर्वेषां योग-तन्त्राणां तथाधारो हि कुण्डली ॥१॥सुप्ता गुरु-प्रसादेन यदा जागर्ति कुण्डली।तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च ॥२॥प्राणस्य शून्य-पदवी तदा राजपथायते।तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम् ॥३॥सुषुम्णा शून्य-पदवी ब्रह्म-रन्ध्रः महापथः।श्मशानं शाम्भवी मध्य-मार्गश् चेत्य् एक-वाचकाः ॥४॥तस्मात् सर्व-प्रयत्नेन प्रबोधयितुम् ईश्वरीम्।ब्रह्म-द्वार-मुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥५॥महामुद्रा महाबन्धो महावेधश् च खेचरी।उड्डीयानं मूलबन्धश् च बन्धो जालन्धराभिधः ॥६॥करणी विपरीताख्या वज्रोली शक्ति-चालनम्।इदं हि मुद्रा-दशकं जरा-मरण-नाशनम् ॥७॥आदिनाथोदितं दिव्यम् अष्टैश्वर्य-प्रदायकम्।वल्लभं सर्व-सिद्धानां दुर्लभं मरुताम् अपि ॥८॥गोपनीयं प्रयत्नेन यथा रत्न-करण्डकम्।कस्यचिन् नैव वक्तव्यं कुल-स्त्री-सुरतं यथा ॥९॥अथ महा-मुद्रा- पाद-मूलेन वामेन योनिं सम्पीड्य दक्षिणाम्।प्रसारितं पदं कृत्वा कराभ्यां धारयेद् दृढम् ॥१०॥कण्ठे बन्धं समारोप्य धारयेद् वायुम् ऊर्ध्वतः।यथा दण्ड-हतः सर्पो दण्डाकारः प्रजायते ॥११॥ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत्।तदा सा मरणावस्था जायते द्विपुटाश्रया ॥१२॥ततः शनैः शनैर् एव रेचयेन् नैव वेगतः।महा-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥१३॥इयं खलु महामुद्रा महा-सिद्धैः प्रदर्शिता।महा-क्लेशादयो दोषाः क्षीयन्ते मरणादयः।महा-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥१४॥चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनर् अभ्यसेत्।यावत्-तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत् ॥१५॥न हि पथ्यम् अपथ्यं वा रसाः सर्वेऽपि नीरसाः।अपि भुक्तं विषं घोरं पीयूषम् अपि जीर्यति ॥१६॥क्षय-कुष्ठ-गुदावर्त-गुल्माजीर्ण-पुरोगमाः।तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥१७॥कथितेयं महामुद्रा महा-सिद्धि-करा नॄणाम्।गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥१८॥अथ महा-बन्धः- पार्ष्णिं वामस्य पादस्य योनि-स्थाने नियोजयेत्।वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा ॥१९॥पूरयित्वा ततो वायुं हृदये चुबुकं दृढम्।निष्पीड्यं वायुम् आकुञ्च्य मनो-मध्ये नियोजयेत् ॥२०॥धारयित्वा यथा-शक्ति रेचयेद् अनिलं शनैः।सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनर् अभ्यसेत् ॥२१॥मतम् अत्र तु केषांचित् कण्ठ-बन्धं विवर्जयेत्।राज-दन्त-स्थ-जिह्वाया बन्धः शस्तो भवेद् इति ॥२२॥अयं तु सर्व-नाडीनाम् ऊर्ध्वं गति-निरोधकः।अयं खलु महा-बन्धो महा-सिद्धि-प्रदायकः ॥२३॥काल-पाश-महा-बन्ध-विमोचन-विचक्षणः।त्रिवेणी-सङ्गमं धत्ते केदारं प्रापयेन् मनः ॥२४॥रूप-लावण्य-सम्पन्ना यथा स्त्री पुरुषं विना।महा-मुद्रा-महा-बन्धौ निष्फलौ वेध-वर्जितौ ॥२५॥अथ महा-वेधः- महा-बन्ध-स्थितो योगी कृत्वा पूरकम् एक-धीः।वायूनां गतिम् आवृत्य निभृतं कण्ठ-मुद्रया ॥२६॥सम-हस्त-युगो भूमौ स्फिचौ सनाडयेच् छनैः।पुट-द्वयम् अतिक्रम्य वायुः स्फुरति मध्यगः ॥२७॥सोम-सूर्याग्नि-सम्बन्धो जायते चामृताय वै।मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् ॥२८॥महा-वेधोऽयम् अभ्यासान् महा-सिद्धि-प्रदायकः।वली-पलित-वेप-घ्नः सेव्यते साधकोत्तमैः ॥२९॥एतत् त्रयं महा-गुह्यं जरा-मृत्यु-विनाशनम्।वह्नि-वृद्धि-करं चैव ह्य् अणिमादि-गुण-प्रदम् ॥३०॥अष्टधा क्रियते चैव यामे यामे दिने दिने।पुण्य-संभार-सन्धाय पापौघ-भिदुरं सदा।सम्यक्-शिक्षावताम् एवं स्वल्पं प्रथम-साधनम् ॥३१॥अथ खेचरी- कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा।भ्रुवोर् अन्तर्गता दृष्टिर् मुद्रा भवति खेचरी ॥३२॥छेदन-चालन-दोहैः कलां क्रमेणाथ वर्धयेत् तावत्।सा यावद् भ्रू-मध्यं स्पृशति तदा खेचरी-सिद्धिः ॥३३॥स्नुही-पत्र-निभं शस्त्रं सुतीक्ष्णं स्निग्ध-निर्मलम्।समादाय ततस् तेन रोम-मात्रं समुच्छिनेत् ॥३४॥ततः सैन्धव-पथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत्।पुनः सप्त-दिने प्राप्ते रोम-मात्रं समुच्छिनेत् ॥३५॥एवं क्रमेण षण्-मासं नित्यं युक्तः समाचरेत्।षण्मासाद् रसना-मूल-शिरा-बन्धः प्रणश्यति ॥३६॥कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत्।सा भवेत् खेचरी मुद्रा व्योम-चक्रं तद् उच्यते ॥३७॥रसनाम् ऊर्ध्वगां कृत्वा क्षणार्धम् अपि तिष्ठति।विषैर् विमुच्यते योगी व्याधि-मृत्यु-जरादिभिः ॥३८॥न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा।न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम् ॥३९॥पीड्यते न स रोगेण लिप्यते न च कर्मणा।बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥४०॥चित्तं चरति खे यस्माज् जिह्वा चरति खे गता।तेनैषा खेचरी नाम मुद्रा सिद्धैर् निरूपिता ॥४१॥खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः।न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च ॥४२॥चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनि-मण्डलम्।व्रजत्य् ऊर्ध्वं हृतः शक्त्या निबद्धो योनि-मुद्रया ॥४३॥ऊर्ध्व-जिह्वः स्थिरो भूत्वा सोमपानं करोति यः।मासार्धेन न सन्देहो मृत्युं जयति योगवित् ॥४४॥नित्यं सोम-कला-पूर्णं शरीरं यस्य योगिनः।तक्षकेणापि दष्टस्य विषं तस्य न सर्पति ॥४५॥इन्धनानि यथा वह्निस् तैल-वर्ति च दीपकः।तथा सोम-कला-पूर्णं देही देहं न मुञ्चति ॥४६॥गोमांसं भक्षयेन् नित्यं पिबेद् अमर-वारुणीम्।कुलीनं तम् अहं मन्ये चेतरे कुल-घातकाः ॥४७॥गो-शब्देनोदिता जिह्वा तत् प्रवेशो हि तालुनि।गो-मांस-भक्षणं तत् तु महा-पातक-नाशनम् ॥४८॥जिह्वा-प्रवेश-सम्भूत-वह्निनोत्पादितः खलु।चन्द्रात् स्रवति यः सारः सा स्याद् अमर-वारुणी ॥४९॥चुम्बन्ती यदि लम्बिकाग्रम् अनिशं जिह्वा-रस-स्यन्दिनी स-क्षारा कटुकाम्ल-दुग्ध-सदृशी मध्वाज्य-तुल्या तथा।व्याधीनां हरणं जरान्त-करणं शस्त्रागमोदीरणं तस्य स्याद् अमरत्वम् अष्ट-गुणितं सिद्धाङ्गनाकर्षणम् ॥५०॥मूर्ध्नः षोडश-पत्र-पद्म-गलितं प्राणाद् अवाप्तं हठाद् ऊर्द्व्हास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयन्।उत्कल्लोल-कला-जलं च विमलं धारामयं यः पिबेन् निर्व्याधिः स मृणाल-कोमल-वपुर् योगी चिरं जीवति ॥५१॥यत् प्रालेयं प्रहित-सुषिरं मेरु-मूर्धान्तर-स्थं तस्मिंस् तत्त्वं प्रवदति सुधीस् तन्-मुखं निम्नगानाम्।चन्द्रात् सारः स्रवति वपुषस् तेन मृत्युर् नराणां तद् बध्नीयात् सुकरणम् अधो नान्यथा काय-सिद्धिः ॥५२॥सुषिरं ज्ञान-जनकं पञ्च-स्रोतः-समन्वितम्।तिष्ठते खेचरी मुद्रा तस्मिन् शून्ये निरञ्जने ॥५३॥एकं सृष्टिमयं बीजम् एका मुद्रा च खेचरी।एको देवो निरालम्ब एकावस्था मनोन्मनी ॥५४॥अथ उड्डीयान-बन्धः- बद्धो येन सुषुम्णायां प्राणस् तूड्डीयते यतः।तस्माद् उड्डीयनाख्योऽयं योगिभिः समुदाहृतः ॥५५॥उड्डीनं कुरुते यस्माद् अविश्रान्तं महा-खगः।उड्डीयानं तद् एव स्यात् तव बन्धोऽभिधीयते ॥५६॥उदरे पश्चिमं तानं नाभेर् ऊर्ध्वं च कारयेत्।उड्डीयानो ह्य् असौ बन्धो मृत्यु-मातङ्ग-केसरी ॥५७॥उड्डीयानं तु सहजं गुरुणा कथितं सदा।अभ्यसेत् सततं यस् तु वृद्धोऽपि तरुणायते ॥५८॥नाभेर् ऊर्ध्वम् अधश् चापि तानं कुर्यात् प्रयत्नतः।षण्मासम् अभ्यसेन् मृत्युं जयत्य् एव न संशयः ॥५९॥सर्वेषाम् एव बन्धानां उत्तमो ह्य् उड्डीयानकः।उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत् ॥६०॥अथ मूल-बन्धः- पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम्।अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धोऽभिधीयते ॥६१॥अधो-गतिम् अपानं वा ऊर्ध्वगं कुरुते बलात्।आकुञ्चनेन तं प्राहुर् मूल-बन्धं हि योगिनः ॥६२॥गुदं पार्ष्ण्या तु सम्पीड्य वायुम् आकुञ्चयेद् बलात्।वारं वारं यथा चोर्ध्वं समायाति समीरणः ॥६३॥प्राणापानौ नाद-बिन्दू मूल-बन्धेन चैकताम्।गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ॥६४॥अपान-प्राणयोर् ऐक्यं क्षयो मूत्र-पुरीषयोः।युवा भवति वृद्धोऽपि सततं मूल-बन्धनात् ॥६५॥अपान ऊर्ध्वगे जाते प्रयाते वह्नि-मण्डलम्।तदानल-शिखा दीर्घा जायते वायुनाहता ॥६६॥ततो यातो वह्न्य्-अपानौ प्राणम् उष्ण-स्वरूपकम्।तेनात्यन्त-प्रदीप्तस् तु ज्वलनो देहजस् तथा ॥६७॥तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते।दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत् ॥६८॥बिलं प्रविष्टेव ततो ब्रह्म-नाड्यं तरं व्रजेत्।तस्मान् नित्यं मूल-बन्धः कर्तव्यो योगिभिः सदा ॥६९॥अथ जलन्धर-बन्धः- कण्ठम् आकुञ्च्य हृदये स्थापयेच् चिबुकं दृढम्।बन्धो जालन्धराख्योऽयं जरा-मृत्यु-विनाशकः ॥७०॥बध्नाति हि सिराजालम् अधो-गामि नभो-जलम्।ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः ॥७१॥जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे।न पीयूषं पतत्य् अग्नौ न च वायुः प्रकुप्यति ॥७२॥कण्ठ-संकोचनेनैव द्वे नाड्यौ स्तम्भयेद् दृढम्।मध्य-चक्रम् इदं ज्ञेयं षोडशाधार-बन्धनम् ॥७३॥मूल-स्थानं समाकुञ्च्य उड्डियानं तु कारयेत्।इडां च पिङ्गलां बद्ध्वा वाहयेत् पश्चिमे पथि ॥७४॥अनेनैव विधानेन प्रयाति पवनो लयम्।ततो न जायते मृत्युर् जरा-रोगादिकं तथा ॥७५॥बन्ध-त्रयम् इदं श्रेष्ठं महा-सिद्धैश् च सेवितम्।सर्वेषां हठ-तन्त्राणां साधनं योगिनो विदुः ॥७६॥यत् किंचित् स्रवते चन्द्राद् अमृतं दिव्य-रूपिणः।तत् सर्वं ग्रसते सूर्यस् तेन पिण्डो जरायुतः ॥७७॥अथ विपरीत-करणी मुद्रा- तत्रास्ति करणं दिव्यं सूर्यस्य मुख-वञ्चनम्।गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थ-कोटिभिः ॥७८॥ऊर्ध्व-नाभेर् अधस् तालोर् ऊर्ध्वं भानुर् अधः शशी।करणी विपरीताखा गुरु-वाक्येन लभ्यते ॥७९॥नित्यम् अभ्यास-युक्तस्य जठराग्नि-विवर्धनी।आहारो बहुलस् तस्य सम्पाद्यः साधकस्य च ॥८०॥अल्पाहारो यदि भवेद् अग्निर् दहति तत्-क्षणात्।अधः-शिराश् चोर्ध्व-पादः क्षणं स्यात् प्रथमे दिने ॥८१॥क्षणाच् च किंचिद् अधिकम् अभ्यसेच् च दिने दिने।वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते।याम-मात्रं तु यो नित्यम् अभ्यसेत् स तु कालजित् ॥८२॥अथ वज्रोली- स्वेच्छया वर्तमानोऽपि योगोक्तैर् नियमैर् विना।वज्रोलीं यो विजानाति स योगी सिद्धि-भाजनम् ॥८३॥तत्र वस्तु-द्वयं वक्ष्ये दुर्लभं यस्य कस्यचित्।क्षीरं चैकं द्वितीयं तु नारी च वश-वर्तिनी ॥८४॥मेहनेन शनैः सम्यग् ऊर्ध्वाकुञ्चनम् अभ्यसेत्।पुरुषोऽप्य् अथवा नारी वज्रोली-सिद्धिम् आप्नुयात् ॥८५॥यत्नतः शस्त-नालेन फूत्कारं वज्र-कन्दरे।शनैः शनैः प्रकुर्वीत वायु-संचार-कारणात् ॥८६॥नारी-भगे पदद्-बिन्दुम् अभ्यासेनोर्ध्वम् आहरेत्।चलितं च निजं बिन्दुम् ऊर्ध्वम् आकृष्य रक्षयेत् ॥८७॥एवं संरक्षयेद् बिन्दुं जयति योगवित्।मरणं बिन्दु-पातेन जीवनं बिन्दु-धारणात् ॥८८॥सुगन्धो योगिनो देहे जायते बिन्दु-धारणात्।यावद् बिन्दुः स्थिरो देहे तावत् काल-भयं कुतः ॥८९॥चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम्।तस्माच् छुक्रं मनश् चैव रक्षणीयं प्रयत्नतः ॥९०॥ऋतुमत्या रजोऽप्य् एवं निजं बिन्दुं च रक्षयेत्।मेढ्रेणाकर्षयेद् ऊर्ध्वं सम्यग् अभ्यास-योग-वित् ॥९१॥अथ सहजोलिः- सहजोलिश् चामरोलिर् वज्रोल्या भेद एकतः।जले सुभस्म निक्षिप्य दग्ध-गोमय-सम्भवम् ॥९२॥वज्रोली-मैथुनाद् ऊर्ध्वं स्त्री-पुंसोः स्वाङ्ग-लेपनम्।आसीनयोः सुखेनैव मुक्त-व्यापारयोः क्षणात् ॥९३॥सहजोलिर् इयं प्रोक्ता श्रद्धेया योगिभिः सदा।अयं शुभ-करो योगो भोग-युक्तोऽपि मुक्तिदः ॥९४॥अयं योगः पुण्यवतां धीराणां तत्त्व-दर्शिनाम्।निर्मत्सराणां वै सिध्येन् न तु मत्सर-शालिनाम् ॥९५॥अथ अमरोली- पित्तोल्बणत्वात् प्रथमाम्बु-धारां विहाय निःसारतयान्त्य् अधाराम्।निषेव्यते शीतल-मध्य-धारा कापालिके खण्डमतेऽमरोली ॥९६॥अमरीं य: पिबेन् नित्यं नस्यं कुर्वन् दिने दिने।वज्रोलीम् अभ्यसेत् सम्यक् सामरोलीति कथ्यते ॥९७॥अभ्यासान् निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत्।धारयेद् उत्तमाङ्गेषु दिव्य-दृष्टिः प्रजायते ॥९८॥पुंसो बिन्दुं समाकुञ्च्य सम्यग् अभ्यास-पाटवात्।यदि नारी रजो रक्षेद् वज्रोल्या सापि योगिनी ॥९९॥तस्याः किंचिद् रजो नाशं न गच्छति न संशयः।तस्याः शरीरे नादश् च बिन्दुताम् एव गच्छति ॥१००॥स बिन्दुस् तद् रजश् चैव एकीभूय स्वदेहगौ।वज्रोल्य्-अभ्यास-योगेन सर्व-सिद्धिं प्रयच्छतः ॥१०१॥रक्षेद् आकुञ्चनाद् ऊर्ध्वं या रजः सा हि योगिनी।अतीतानागतं वेत्ति खेचरी च भवेद् ध्रुवम् ॥१०२॥देह-सिद्धिं च लभते वज्रोल्य्-अभ्यास-योगतः।अयं पुण्य-करो योगो भोगे भुक्तेऽपि मुक्तिदः ॥१०३॥अथ शक्ति-चालनम्- कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिर् ईश्वरी।कुण्डल्य् अरुन्धती चैते शब्दाः पर्याय-वाचकाः ॥१०४॥उद्घाटयेत् कपाटं तु यथा कुंचिकया हठात्।कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् ॥१०५॥येन मार्गेण गन्तव्यं ब्रह्म-स्थानं निरामयम्।मुखेनाच्छाद्य तद् वारं प्रसुप्ता परमेश्वरी ॥१०६॥कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम्।बन्धनाय च मूढानां यस् तां वेत्ति स योगवित् ॥१०७॥कुण्डली कुटिलाकारा सर्पवत् परिकीर्तिता।सा शक्तिश् चालिता येन स मुक्तो नात्र संशयः ॥१०८॥गङ्गा-यमुनयोर् मध्ये बाल-रण्डां तपस्विनीम्।बलात्कारेण गृह्णीयात् तद् विष्णोः परमं पदम् ॥१०९॥इडा भगवती गङ्गा पिङ्गला यमुना नदी।इडा-पिङ्गलयोर् मध्ये बालरण्डा च कुण्डली ॥११०॥पुच्छे प्रगृह्य भुजङ्गीं सुप्ताम् उद्बोधयेच् च ताम्।निद्रां विहाय सा शक्तिर् ऊर्ध्वम् उत्तिष्ठते हठात् ॥१११॥अवस्थिता चैव फणावती सा प्रातश् च सायं प्रहरार्ध-मात्रम्।प्रपूर्य सूर्यात् परिधान-युक्त्या प्रगृह्य नित्यं परिचालनीया ॥११२॥ऊर्ध्वं वितस्ति-मात्रं तु विस्तारं चतुरङ्गुलम्।मृदुलं धवलं प्रोक्तं वेष्टिताम्बर-लक्षणम् ॥११३॥सति वज्रासने पादौ कराभ्यां धारयेद् दृढम्।गुल्फ-देश-समीपे च कन्दं तत्र प्रपीडयेत् ॥११४॥वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम्।कुर्याद् अनन्तरं भस्त्रां कुण्डलीम् आशु बोधयेत् ॥११५॥भानोर् आकुञ्चनं कुर्यात् कुण्डलीं चालयेत् ततः।मृत्यु-वक्त्र-गतस्यापि तस्य मृत्यु-भयं कुतः ॥११६॥मुहूर्त-द्वय-पर्यन्तं निर्भयं चालनाद् असौ।ऊर्ध्वम् आकृष्यते किंचित् सुषुम्णायां समुद्गता ॥११७॥तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम्।जहाति तस्मात् प्राणोऽयं सुषुम्णां व्रजति स्वतः ॥११८॥तस्मात् संचालयेन् नित्यं सुख-सुप्ताम् अरुन्धतीम्।तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते ॥११९॥येन संचालिता शक्तिः स योगी सिद्धि-भाजनम्।किम् अत्र बहुनोक्तेन कालं जयति लीलया ॥१२०॥ब्रह्मचर्य-रतस्यैव नित्यं हित-मिताशिनः।मण्डलाद् दृश्यते सिद्धिः कुण्डल्य्-अभ्यास-योगिनः ॥१२१॥कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद् विशेषतः।एवम् अभ्यस्यतो नित्यं यमिनो यम-भीः कुतः ॥१२२॥द्वा-सप्तति-सहस्राणां नाडीनां मल-शोधने।कुतः प्रक्षालनोपायः कुण्डल्य्-अभ्यसनाद् ऋते ॥१२३॥इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम्।आसन-प्राण-संयाम-मुद्राभिः सरला भवेत् ॥१२४॥अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना।रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति ॥१२५॥राज-योगं विना पृथ्वी राज-योगं विना निशा।राज-योगं विना मुद्रा विचित्रापि न शोभते ॥१२६॥मारुतस्य विधिं सर्वं मनो-युक्तं समभ्यसेत्।इतरत्र न कर्तव्या मनो-वृत्तिर् मनीषिणा ॥१२७॥इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना।एकैका तासु यमिनां महा-सिद्धि-प्रदायिनी ॥१२८॥उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम्।स एव श्री-गुरुः स्वामी साक्षाद् ईश्वर एव सः ॥१२९॥तस्य वाक्य-परो भूत्वा मुद्राभ्यासे समाहितः।अणिमादि-गुणैः सार्धं लभते काल-वञ्चनम् ॥१३०॥इति हठ-प्रदीपिकायां तृतीयोपदेशः N/A References : N/A Last Updated : October 04, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP