संस्कृत सूची|शास्त्रः|योग शास्त्रः|हठयोगप्रदीपिका| प्रथमोपदेशः हठयोगप्रदीपिका प्रथमोपदेशः द्वितीयोपदेशः तृतीयोपदेशः हठयोगप्रदीपिका - प्रथमोपदेशः प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे. Tags : yogयोगशास्त्रहठयोगप्रदीपिका प्रथमोपदेशः Translation - भाषांतर श्री-आदि-नाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठ-योग-विद्या।विभ्राजते प्रोन्नत-राज-योगम् आरोढुम् इच्छोर् अधिरोहिणीव ॥१॥प्रणम्य श्री-गुरुं नाथं स्वात्मारामेण योगिना।केवलं राज-योगाय हठ-विद्योपदिश्यते ॥२॥भ्रान्त्या बहुमत-ध्वान्ते राज-योगम् अजानताम्।हठ-प्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥३॥हठ-विद्यां हि मत्स्येन्द्र-गोरक्षाद्या विजानते।स्वात्मारामोऽथवा योगी जानीते तत्-प्रसादतः ॥४॥श्री-आदिनाथ-मत्स्येन्द्र-शावरानन्द-भैरवाः।चौरङ्गी-मीन-गोरक्ष-विरूपाक्ष-बिलेशयाः ॥५॥मन्थानो भैरवो योगी सिद्धिर् बुद्धश् च कन्थडिः।कोरंटकः सुरानन्दः सिद्धपादश् च चर्पटिः ॥६॥कानेरी पूज्यपादश् च नित्य-नाथो निरञ्जनः।कपाली बिन्दुनाथश् च काकचण्डीश्वराह्वयः ॥७॥अल्लामः प्रभुदेवश् च घोडा चोली च टिंटिणिः।भानुकी नारदेवश् च खण्डः कापालिकस् तथा ॥८॥इत्य् आदयो महासिद्धा हठ-योग-प्रभावतः।खण्डयित्वा काल-दण्डं ब्रह्माण्डे विचरन्ति ते ॥९॥अशेष-ताप-तप्तानां समाश्रय-मठो हठः।अशेष-योग-युक्तानाम् आधार-कमठो हठः ॥१०॥हठ-विद्या परं गोप्या योगिना सिद्धिम् इच्छता।भवेद् वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥११॥सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे।धनुः प्रमाण-पर्यन्तं शिलाग्नि-जल-वर्जिते।एकान्ते मठिका-मध्ये स्थातव्यं हठ-योगिना ॥१२॥अल्प-द्वारम् अरन्ध्र-गर्त-विवरं नात्युच्च-नीचायतं सम्यग्-गोमय-सान्द्र-लिप्तम् अमलं निःशेस-जन्तूज्झितम्।बाह्ये मण्डप-वेदि-कूप-रुचिरं प्राकार-संवेष्टितं प्रोक्तं योग-मठस्य लक्षणम् इदं सिद्धैर् हठाभ्यासिभिः ॥१३॥एवं विधे मठे स्थित्वा सर्व-चिन्ता-विवर्जितः।गुरूपदिष्ट-मार्गेण योगम् एव समभ्यसेत् ॥१४॥अत्याहारः प्रयासश् च प्रजल्पो नियमाग्रहः।जन-सङ्गश् च लौल्यं च षड्भिर् योगो विनश्यति ॥१५॥उत्साहात् साहसाद् धैर्यात् तत्त्व-ज्ञानाश् च निश्चयात्।जन-सङ्ग-परित्यागात् षड्भिर् योगः प्रसिद्ध्यति ॥१६॥अथ यम-नियमाःअहिंसा सत्यम् अस्तेयं ब्रह्मचर्यं क्षमा धृतिः।दयार्जवं मिताहारः शौचं चैव यमा दश ॥१७॥तपः सन्तोष आस्तिक्यं दानम् ईश्वर-पूजनम्।सिद्धान्त-वाक्य-श्रवणं ह्रीमती च तपो हुतम्।नियमा दश सम्प्रोक्ता योग-शास्त्र-विशारदैः ॥१८॥अथ आसनम्हठस्य प्रथमाङ्गत्वाद् आसनं पूर्वम् उच्यते।कुर्यात् तद् आसनं स्थैर्यम् आरोग्यं चाङ्ग-लाघवम् ॥१९॥वशिष्ठाद्यैश् च मुनिभिर् मत्स्येन्द्राद्यैश् च योगिभिः।अङ्गीकृतान्य् आसनानि कथ्यन्ते कानिचिन् मया ॥२०॥जानूर्वोर् अन्तरे सम्यक् कृत्वा पाद-तले उभे।ऋजु-कायः समासीनः स्वस्तिकं तत् प्रचक्षते ॥२१॥सव्ये दक्षिण-गुल्फं तु पृष्ठ-पार्श्वे नियोजयेत्।दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः ॥२२॥एकं पादं तथैकस्मिन् विन्यसेद् उरुणि स्थिरम्।इतरस्मिंस् तथा चोरुं वीरासनम् इतीरितम् ॥२३॥गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः।कूर्मासनं भवेद् एतद् इति योग-विदो विदुः ॥२४॥पद्मासनं तु संस्थाप्य जानूर्वोर् अन्तरे करौ।निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥२५॥कुक्कुटासन-बन्ध-स्थो दोर्भ्यां सम्बद्य कन्धराम्।भवेद् कूर्मवद् उत्तान एतद् उत्तान-कूर्मकम् ॥२६॥पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि।धनुर् आकर्षणं कुर्याद् धनुर्-आसनम् उच्यते ॥२७॥वामोरु-मूलार्पित-दक्ष-पादं जानोर् बहिर् वेष्टित-वाम-पादम्।प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः श्री-मत्य्सनाथोदितम् आसनं स्यात् ॥२८॥मत्स्येन्द्र-पीठं जठर-प्रदीप्तिं प्रचण्ड-रुग् मण्डल-खण्डनास्त्रम्।अभ्यासतः कुण्डलिनी-प्रबोधं चन्द्र-स्थिरत्वं च ददाति पुंसाम् ॥२९॥प्रसार्य पादौ भुवि दण्ड-रूपौ दोर्भ्यां पदाग्र-द्वितयं गृहीत्वा।जानूपरिन्यस्त-ललाट-देशो वसेद् इदं पश्चिमतानम् आहुः ॥३०॥इति पश्चिमतानम् आसनाग्र्यं पवनं पश्चिम-वाहिनं करोति।उदयं जठरानलस्य कुर्याद् उदरे कार्श्यम् अरोगतां च पुंसाम् ॥३१॥धराम् अवष्टभ्य कर-द्वयेन तत्-कूर्पर-स्थापित-नाभि-पार्श्वः।उच्चासनो दण्डवद् उत्थितः खे मायूरम् एतत् प्रवदन्ति पीठम् ॥३२॥हरति सकल-रोगान् आशु गुल्मोदरादीन् अभिभवति च दोषान् आसनं श्री-मयूरम्।बहु कदशन-भुक्तं भस्म कुर्याद् अशेषं जनयति जठराग्निं जारयेत् काल-कूटम् ॥३३॥उत्तानं शबवद् भूमौ शयनं तच् छवासनम्।शवासनं श्रान्ति-हरं चित्त-विश्रान्ति-कारकम् ॥३४॥चतुरशीत्य् आसनानि शिवेन कथितानि च।तेभ्यश् चतुष्कम् आदाय सारभूतं ब्रवीम्य् अहम् ॥३५॥सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम्।श्रेष्ठं तत्रापि च सुखे तिष्ठेत् सिद्धासने सदा ॥३६॥अथ सिद्धासनम्- योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेत् मेण्ढ्रे पादम् अथैकम् एव हृदये कृत्वा हनुं सुस्थिरम्।स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्येद् भ्रुवोर् अन्तरं ह्य् एतन् मोक्ष-कपाट-भेद-जनकं सिद्धासनं प्रोच्यते ॥३७॥मेण्ढ्राद् उपरि विन्यस्य सव्यं गुल्फं तथोपरि।गुल्फान्तरं च निक्षिप्य सिद्धासनम् इदं भवेत् ॥३८॥एतत् सिद्धासनं प्राहुर् अन्ये वज्रासनं विदुः।मुक्तासनं वदन्त्य् एके प्राहुर् गुप्तासनं परे ॥३९॥यमेष्व् इव मिताहारम् अहिंसा नियमेष्व् इव।मुख्यं सर्वासनेष्व् एकं सिद्धाः सिद्धासनं विदुः ॥४०॥चतुरशीति-पीठेषु सिद्धम् एव सदाभ्यसेत्।द्वासप्तति-सहस्राणां नाडीनां मल-शोधनम् ॥४१॥आत्म-ध्यायी मिताहारी यावद् द्वादश-वत्सरम्।सदा सिद्धासनाभ्यासाद् योगी निष्पत्तिम् आप्नुयात् ॥४२॥किम् अन्यैर् बहुभिः पीठैः सिद्धे सिद्धासने सति।प्राणानिले सावधाने बद्धे केवल-कुम्भके।उत्पद्यते निरायासात् स्वयम् एवोन्मनी कला ॥४३॥तथैकास्मिन्न् एव दृढे सिद्धे सिद्धासने सति।बन्ध-त्रयम् अनायासात् स्वयम् एवोपजायते ॥४४॥नासनं सिद्ध-सदृशं न कुम्भः केवलोपमः।न खेचरी-समा मुद्रा न नाद-सदृशो लयः ॥४५॥अथ पद्मासनम्- वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्।अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेत् एतद् व्याधि-विनाश-कारि यमिनां पद्मासनं प्रोच्यते ॥४६॥उत्तानौ चरणौ कृत्वा ऊरु-संस्थौ प्रयत्नतः।ऊरु-मध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥४७॥नासाग्रे विन्यसेद् राजद्-अन्त-मूले तु जिह्वया।उत्तम्भ्य चिबुकं वक्षस्य् उत्थाप्य् पवनं शनैः ॥४८॥इदं पद्मासनं प्रोक्तं सर्व-व्याधि-विनाशनम्।दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥४९॥कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश् च तच् चेतसि।वारं वारम् अपानम् ऊर्ध्वम् अनिलं प्रोत्सारयन् पूरितं न्यञ्चन् प्राणम् उपैति बोधम् अतुलं शक्ति-प्रभावान् नरः ॥५०॥पद्मासने स्थितो योगी नाडी-द्वारेण पूरितम्।मारुतं धारयेद् यस् तु स मुक्तो नात्र संशयः ॥५१॥अथ सिंहासनम्- गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत्।दक्षिणे सव्य-गुल्फं तु दक्ष-गुल्फं तु सव्यके ॥५२॥हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च।व्यात्त-वक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥५३॥सिंहासनं भवेद् एतत् पूजितं योगि-पुङ्गवैः।बन्ध-त्रितय-सन्धानं कुरुते चासनोत्तमम् ॥५४॥अथ भद्रासनम्- गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिप्ते।सव्य-गुल्फं तथा सव्ये दक्ष-गुल्फं तु दक्षिणे ॥५५॥पार्श्व-पादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम्।भद्रासनं भवेद् एतत् सर्व-व्याधि-विनाशनम्।गोरक्षासनम् इत्य् आहुर् इदं वै सिद्ध-योगिनः ॥५६॥एवम् आसन-बन्धेषु योगीन्द्रो विगत-श्रमः।अभ्यसेन् नाडिका-शुद्धिं मुद्रादि-पवनी-क्रियाम् ॥५७॥आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा।अथ नादानुसन्धानम् अभ्यासानुक्रमो हठे ॥५८॥ब्रह्मचारी मिताहारी त्यागी योग-परायणः।अब्दाद् ऊर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा ॥५९॥सुस्निग्ध-मधुराहारश् चतुर्थांश-विवर्जितः।भुज्यते शिव-सम्प्रीत्यै मिताहारः स उच्यते ॥६०॥कट्वाम्ल-तीक्ष्ण-लवणोष्ण-हरीत-शाक- सौवीर-तैल-तिल-सर्षप-मद्य-मत्स्यान्।आजादि-मांस-दधि-तक्र-कुलत्थकोल- पिण्याक-हिङ्गु-लशुनाद्यम् अपथ्यम् आहुः ॥६१॥भोजनम् अहितं विद्यात् पुनर् अस्योष्णी-कृतं रूक्षम्।अतिलवणम् अम्ल-युक्तं कदशन-शाकोत्कं वर्ज्यम् ॥६२॥वह्नि-स्त्री-पथि-सेवानाम् आदौ वर्जनम् आचरेत् ॥६३॥तथा हि गोरक्ष-वचनम्- वर्जयेद् दुर्जन-प्रान्तं वह्नि-स्त्री-पथि-सेवनम्।प्रातः-स्नानोपवासादि काय-क्लेश-विधिं तथा ॥६४॥गोधूम-शालि-यव-षाष्टिक-शोभनान्नं क्षीराज्य-खण्ड-नवनीत-सिद्धा-मधूनि।शुण्ठी-पटोल-कफलादिक-पञ्च-शाकं मुद्गादि-दिव्यम् उदकं च यमीन्द्र-पथ्यम् ॥६५॥पुष्टं सुमधुरं स्निग्धं गव्यं धातु-प्रपोषणम्।मनोभिलषितं योग्यं योगी भोजनम् आचरेत् ॥६६॥युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा।अभ्यासात् सिद्धिम् आप्नोति सर्व-योगेष्व् अतन्द्रितः ॥६७॥क्रिया-युक्तस्य सिद्धिः स्याद् अक्रियस्य कथं भवेत्।न शास्त्र-पाठ-मात्रेण योग-सिद्धिः प्रजायते ॥६८॥न वेष-धारणं सिद्धेः कारणं न च तत्-कथा।क्रियैव कारणं सिद्धेः सत्यम् एतन् न संशयः ॥६९॥पीठानि कुम्भकाश् चित्रा दिव्यानि करणानि च।सर्वाण्य् अपि हठाभ्यासे राज-योग-फलावधि ॥७०॥इति हठ-प्रदीपिकायां प्रथमोपदेशः N/A References : N/A Last Updated : October 04, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP