भोजवृत्तिः - साधनापादः

प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.


॥२.१॥ तदेवं प्रथमे पादे समाहितचित्तस्य सोपायं योगमभिधाय व्युत्थितचित्तस्यापि कथमुपायाभ्यासपूर्वको योगः स्वास्थ्यम्

उपयातीति तत्साधनानुष्ठानप्रतिपादनाय क्रियायोगमाह । तपः शास्त्रान्तरोपदिष्टं कृच्छ्रचान्द्रायणादि । स्वाध्यायः प्रणवपूर्वाणां

मन्त्राणां जपः । ईश्वरप्रणिधानं सर्वक्रियाणां तस्मिन्परमगुरौ फलनिरपेक्षतया समर्पणम् । तानि क्रियायोग इत्युच्यते । स किमर्थ

इत्यत आह ॥

॥२.२॥ क्लेशा वक्ष्यमाणस्तेषां तनूकरणं स्वकार्यकारणप्रतिबन्धः । समाधिरुक्तलक्षणस्तस्य भावना चेतसि पुनः पुनर्निवेशनं

सोऽर्थः प्रयोजन यस्य स तथोक्तः । तदुक्तं भवति ॥ ते तपः प्रभृतयोऽभ्यस्यमानाश्चित्तगतानविच्चादीन्क्लेशाञ्छिथिली कुर्वन्तः

समाधेरुपकारकतां भजन्ते । तस्मात्प्रथमतः क्रियायोगवधानपरेण योगिना भवितव्यमित्युपदिष्टम् । क्लेशतनूकरणार्थ इत्युक्तं,

तत्र के क्लेशा इत्यत आह ॥

॥२.३॥ अविद्यादयो वक्ष्यमाणलक्षणाः पञ्च । ते च बाधनालक्षणं परितापमुपजनयन्तः क्लेशशब्दवाच्या भवन्ति । ते हि चेतसि

प्रवर्तमानाः संत्कारलक्षणं गुणपरिणामं दृढ़यन्ति । सत्यपि सर्वेषां तुल्ये क्लेशत्वे मूलभूतत्वादविद्यायाः प्राधान्यं प्रतिपादयितुमाह



॥२.४॥ अविद्या मोहः, अनात्मन्यात्माभिमान् इति यावत् । सो क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां प्रत्येकं प्रसुप्ततन्वादिभेदेन

चतुर्विधानाम् । अतो यत्राविद्या विपर्ययज्ञानरूपा शिथिली भवति तत्र क्लेशानामस्मितादीनां नोद्भवो दृश्यते ।

विपर्ययज्ञानसद्भावे च तेषामुद्भवदर्शनात्स्थितमेव मूलत्वमविद्यायाः । प्रसुप्ततनुविच्छिन्नोदाराणामिति । तत्र ये क्लेशाश्चित्तभूमौ

स्थितः प्रबोधकाभावे स्वकार्यं नाऽऽरभन्ते ते प्रसुप्ता इत्युच्यन्ते । यथा बालावस्थायां, बालस्य हि वासनारूपेण स्थिता अपि

क्लेशाः प्रबोधकसहकार्यभावे नाभिव्यज्यन्ते । ते तनवो ये स्वस्वप्रतिपक्षभावनया शिथिलीकृतकार्यसंपादनशक्तयो वासनावशेषतया

चेतस्यवस्थिताः प्रभूतां सामग्रीमन्तरेण स्वकार्यमारब्धुमक्षमाः । यथाऽभ्यासवतो योगिनः । ते विच्छिन्ना ये केनचिद्बलवता

क्लेशेनाभिभूतशक्तयस्तिष्ठन्ति यथा द्वेषावस्थायां रागः, रागावस्थायां वा द्वेषः, न ह्यनयोः परस्परविरुध्दयोर्युम्पत्संभवोऽस्ति । त

उदारा ये प्राप्तसहकारिसंनिधयः स्वं स्वं कार्यमभिनिर्वर्तयन्ति यथा सदैव योगपरिपन्थिनो व्युत्थानदशायाम् । षां प्रत्येकं

चतुर्विधानामपि मूलभूतत्वेन स्थिताऽप्यविद्याऽन्वयित्वेन प्रतीयते । न हि क्वचिदपि क्लेशानां विपर्ययान्वयनिरपेक्षाणां

स्वरूपमुपलभ्यते । तस्यां च मिथ्यारूपायामविद्यायां सम्यग्ज्ञानेन निवर्तितायां दग्धबीजकल्पानामेषां न क्वचित्प्ररोहोऽस्ति

अतोऽविद्यानिमित्तत्वमविद्यान्वयश्चैतेषां निश्चियते । अतः सर्वेऽपि अविद्याव्यपदेशभाजः । सर्वेषां च क्लेशानां

चित्तविक्षेपकारित्वायोगिना प्रथममेव तदुच्छेदे यत्नः कार्य इति । अविद्याया लक्षणमाह ॥

॥२.५॥ अतस्ंमिस्तदिति प्रतिभासोऽविद्येत्यविद्यायाः सामान्यलक्षणम् । तस्या व भेदप्रतिपादनम् ॥ अनित्येषु घटादिषु

नित्यत्वाभिमानोऽविद्येत्युच्यते । वमशुचिषु कायादिषु शुचित्वाभिमानः, दुःखेषु च विषयेषु सुखत्वाभिमानः, अनात्मनि शरीर

आत्मत्वाभिमानः । तेनापुण्ये पूण्यभ्रमोऽनर्थे चार्थभ्रमो व्याख्यातः । अस्मितां लक्षयितुमाह ॥

॥२.६॥ दृक्शक्तिः पुरुषः, दर्शनशक्ति रजस्तमोभ्यामनभिभूतः सात्त्विः परिणामोऽन्तः करणरूपः, अनयोर्भोग्यभोक्तृत्वेन

जडाजत्वेनात्यन्तभिन्नरूपयोरेकताभिमानोऽस्मितेति उच्यते । यथा प्रकृतिवता कर्तृत्वभोक्तृत्वरहितेनाऽपि कर्त्र्यहं

भोक्त्र्यहमित्यभिमन्यते । सोऽयमस्मिताख्यो विपर्यासः क्लेशः । रागस्य लक्षणमाह ॥

॥२.७॥ सुखमनुशेत इति सुखानुशयी सुखज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गर्धो रागसंज्ञकः क्लेशः । द्वेषस्य

लक्षणमाह ॥

॥२.८॥ दुःखमुक्तलक्षणं, तदभिज्ञस्य तदनुस्मृतिपूर्वकं तत्साधनेषु अनभिलषतो योऽयं निन्दात्मकः क्रोधः स द्वेषलक्षण क्लेशः ।

अभिनिवेशस्य लक्षणमाह ॥

॥२.९॥ पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलाद्भयरूपः समुपजायमानः शरीरविषयादिभिः मम वियोगो मा भूदिति

अन्वहमनुबन्धरूपः सर्वस्यैवाऽऽकृमेर्ब्रह्मपर्यन्तं निमित्तमन्तरेण प्रवर्तमानोऽभिनिवेशाख्यः क्लेशः । तदेवं व्युत्थानस्य

क्लेशात्मकत्वादेकाग्रताभ्यासकामेन प्रथमं क्लेशाः परिहर्तव्याः । न चाज्ञातानां तेषां परिहार कर्तुं शक्य इति तज्ज्ञानाय

तेषामुपदेशं क्षेत्रं विभागं लणणं चाभिधाय स्थूलसूक्ष्मभेदभिन्नानां तेषां प्रहाणोपायविभागमाह ॥

॥२.१०॥ ते सूक्ष्माः क्लेशा ये वासनारूपेणैव स्थिता न वृत्तिरूपं परिणाममारभन्ते, ते प्रतिप्रसवेन प्रतिलोमपरिणामेन

हेयास्त्यक्तव्याः । स्वकारणास्मितायां कृतार्थं सवासनं चित्तं यदा प्रविष्टं भवति तदा कुतस्तेषां निर्मूलानां संभवः । स्थूलानां

हानोपायमाह ॥

॥२.११॥ तेषां क्लेशानामारब्धकार्याणां याः सुखदुःखमोहात्मिका वृत्तयस्ता ध्यानेनैव चित्तैकाग्रतालक्षणेन हेया हातव्या

इत्यर्थः । चित्तपरिकर्माभ्यासमात्रेणैव स्थूलत्त्वात्तासां निवृत्तिर्भवति । यथा वस्त्रादौ स्थूलो मलः प्रक्षालनमात्रेणैव निवर्तते, यस्तु

तत्र सूक्ष्मः स तैस्तैरुपायैरुत्तापनप्रभृतिभिरेव निवर्तयितुं शक्यते । एवं क्लेशानां तत्त्वमभिधाय कर्माशयस्याभिधातुमाह ॥

॥२.१२॥ कर्माशय इत्यनेन तस्य स्वरूपमभिहितम् । यतो वासनारूपाण्येव कर्माणि क्लेशमूल इत्यनेन कारणमभिहितम् । यतः

कर्मणां शुभाशुभानां क्लेशा व निमित्तम् । दृष्टादृष्टजन्मवेदनीय इत्यनेन फलमुक्तम् । अस्मिन्नेव जन्मनि अनुभवनीयो

दृष्टजन्मवेदनीयः । जन्मान्तरानुभवनीयोऽदृष्टजन्मवेदनीयः । तथा हि कानिचित्पुण्यानि कर्माणि देवताराधनादीनि तीव्रसंवेगेन

कृतानीहैव जन्मनि जात्यायुर्भोगलक्षणं फलं प्रयच्छन्ति ॥ यथा नन्दीश्वरस्य भगवन्महेश्वराराधनबलादिहैव जन्मनि जात्यादयो

विशिष्टाः प्रादूर्भूताः । वमन्येषां विश्वामित्रादीनां तपः प्रभावाज्जात्यायुषी । केषांचिज्जातिरेव ॥ यथा तीव्रसंवेगेन दुष्टकर्मकृतां

नहुषादीनां जात्यन्तरादिपरिणामः । उर्वश्याश्च कार्तिकेयवने लतारूपतया । वं व्यस्तसमस्तरूपत्वेन यथायोगं योज्यम् । इदानीं

कर्माशयस्य स्वभेदभिन्नस्य फलमाह ॥

॥२.१३॥ मूलमुक्तलक्षणाः क्लेशाः । तेष्वनभिभूतेषु सत्सु कर्मणां कुशलाकुशलरूपाणां विपाकः फलं जात्यायुर्भोगा भवन्ति ।

जातिर्मनुष्यत्वादिः । आयुश्चिरकालमेकशरीरसम्बन्धः । भोगा विषया इन्द्रियाणि सुखसंविद्दुःखसंविच्च

कर्मकरणभावसाधनव्युत्पत्त्या भोगशब्दस्य । इदमत्र तात्पर्यम् ॥ चित्तभूमावनादिकालसंचिताः कर्मवासना यथा यथा

पाकमुपयान्ति तथा तथा गुणप्रधानभावेन स्थिता जात्यायुर्भोगलक्षणं स्वकार्यमारभन्ते । उक्तानां कर्मफलत्वेन जात्यादीनां

स्वकारणकर्मानुसारिणां कार्यकर्तृत्वमाह ॥

॥२.१४॥ ह्लादः सुखं, परितापो दुःखं ह्लादपरितापौ फलं येषां ते तथोक्ताः । पुण्यं कुशलं कर्म । तद्विपरीतमपुण्यं, ते

पुण्यापुण्ये कारणं येषां ते तेषां भावस्तस्मात् । तदुक्तं भवति ॥ पुण्यकर्मारब्धा जात्यायुर्भोगा ह्लादफला अपुण्यकर्मारब्धास्तु

परितापफलाः । तच्च प्राणिमात्रापेक्षया द्वैविध्यम् । योगिनस्तु सर्वं दुःखमित्याह ॥

॥२.१५॥ विवेकिनः परिज्ञातक्लेशादिविवेकस्य दृश्यमात्रं सकलमेव भोगसाधनं सविषं स्वाद्वन्नमिव दुःखमेव

प्रतिकूलवेदनीयमेवेत्यर्थः । यस्मादत्यान्ताभिजातो योगी दुःखलेशेनाप्युद्विजते । यथाऽक्षिपात्रमूर्णातन्तुस्पर्शमात्रेणैव महतीं

पीड़ामनुभवति नेतरदङ्गं, तथा विवेकी स्वल्पदुःखानुबन्धेनापि उद्विजते । कथमित्याह ॥ परिणामतापसंस्कारदुःखै ।

विषयाणामुपभुज्यमानानां यथायथं गर्धाभिवृध्देस्तदप्राप्तिकृतस्य दुःखस्यापरिहार्यतया दुःखान्तरसाधनात्वाच्चास्त्येव दुःखरूपतेति

परिणामदुःखत्वम् । उपभुज्यमानेषु सुखसाधनेषु तत्प्रतिपन्थिनं प्रति द्वेषस्य सर्वदैवावस्थितत्वात्सुखानुभवकालेऽपि तापदुःखं

दुष्परिहरमिति तापदुःखता । संस्कारदुःखत्वं च स्वाभिमतानभिमतविषयसंनिधाने सुखसंविद्दुःखसंविच्चोपजायमाना तथाविधमेव

स्वक्षेत्रे संस्कारमारभते । संस्काराच्च पुनस्तथाविधसंविदनुभव इत्यपरिमितसंस्कारोत्पत्तिद्वारेण संसारानुच्छेदात्सर्वस्यैव

दुःखत्वम् । गुणवृत्तिविरोधाच्चेति । गुणानां सत्त्वरजस्तमसां या वृत्तयः सुखदुःखमोहरूपाः परस्परमभिभाव्याभिभावकत्वेन विरुध्दा

जायन्ते तासां सर्वत्रैव दुःखान्वेधाद्दुःखत्वम् । तदुक्तं भवति ॥ ेकान्तिकीमात्यन्तिकीं च दुःखनिवृत्तिमिच्छतो विवेकिन

उक्तरूपकारणचतुष्टयं यावत्सर्वे विषया दुखःरूपतया प्रतिभान्ति तस्मात्सर्वकर्मविपाको दुःखरूप वेत्युक्त भवति । तदेवमुक्तस्य

क्लेशकर्माशयविपाकराशेरविद्याप्रभवत्वादविद्यायाश्च मिथ्याज्ञानरूपतया सम्यग्ज्ञानोच्छेद्यत्वात्सम्यग्ज्ञानस्य च

साधनहेयोपादेयावधारणरूपत्वात्तदभिधानायाऽऽह ॥

॥२.१६॥ भूतस्यातिक्रान्तत्वादनुभूयमानस्य च त्यक्तुमशक्यत्वादनागतमेव संसारदुःखं हातव्यमित्युक्तं भवति । हेयहेतुमाह ॥

॥२.१७॥ द्रष्टा चिद्रूपः पुरुषः दृश्यं बुध्दिसत्त्वं, तयोरविवेकख्यातिपूर्वको योऽसौ संयोगो भोग्यभोक्तृत्वेन संनिधानं स हेयस्य

दुःखस्य गुणपरिणामरूपस्य संसारस्य हेतुः कारणं तन्निवृत्त्या संसारनिवृत्तिर्भवतीत्यर्थः । द्रष्टृदृश्ययोः संयोग इत्युक्तं, तत्र

दृश्य स्वरूपं कार्यं प्रयोजनं चाऽऽह ॥

॥२.१८॥ प्रकाशः सत्त्वस्य धर्मः, क्रिया प्रवृत्तिरूपा रजसः, स्थितिर्नियमरूपा तमसः, ताः प्रकाशक्रियास्थितयः शीलं

स्वाभाविकं रूपं यस्य तत्तथाविधमिति स्वरूपमस्य निर्दिष्टम् । भूतेन्द्रियात्मकमिति । भूतानि स्थूलसूक्ष्मभेदेन द्विविधानि

पृथिव्यादीनि गन्धतन्मात्रादीनि च । इन्द्रियाणि बुध्दीन्द्रियकर्मेन्द्रियान्तःकरणभेदेन त्रिविधानि । उभयमेतद्ग्राह्यग्रहणरूपात्मा

स्वरूपाभिन्नाः परिणामो यस्य तत्तथाविधमित्यनेनास्य कार्यमुक्तम् । भोगः कथितलक्षणः, अपवर्गो विवेकख्यातिपूर्विका

संसारनिवृत्तिः, तौ भोगापवर्गावर्थः प्रयोजनं यस्य तत्तथाविधं दृश्यमित्यर्थः । तस्य च दृश्यस्य नानावस्थारूपपरिणामात्मकस्य

हेयत्वेन ज्ञातव्यत्वात्तदवस्थाः कथयितुमाह ॥

॥२.१९॥ गुणानां पर्वाण्यवस्थाविशेषाश्चत्वारो ज्ञातव्या इत्युपदिष्टं भवति । तत्र विशेषा महाभूतेन्द्रियाणि,

अविशेषास्तन्मात्रान्तःकरणानि, लिङ्गमात्रं बुध्दिः, अलिङ्गमव्यक्तमित्युक्तम् । सर्वत्र त्रिगुणरूपस्याव्यक्तस्यान्वयित्वेन

प्रत्यभिज्ञानादवश्यं ज्ञातव्यतेन योगकाले चत्वारि पर्वाणि निर्दिष्टानि । एवं हेयत्वेन दृश्यस्य प्रथमं ज्ञातव्यात्वात्तदवस्थासहितं

व्याख्यायोपादेयं द्रष्टारं व्याकर्तुमाह ॥

॥२.२०॥ द्रष्टा पुरुषो दृशिमात्रश्चेतनामात्रः । मात्रग्रहणं धर्मधर्मिनिरासार्थम् । केचिध्दि चेतनामात्मनो धर्ममिच्छन्ति । स

शुध्दोऽपि परिणामित्वाद्यभावेन स्वप्रतिष्ठोऽपि प्रत्ययानुपश्यः, प्रत्यया विषयोपरक्तानि ज्ञानानि तानि अनु अव्यवधानेन

प्रतिसंक्रमाद्यभावेन पश्यति । तदुक्तं भवति ॥ जातविषयोपरागायामेव बुध्दौ संनिधिमात्रेणैव पुरुषस्य दृष्टृत्वमिति । स व

भोक्तेत्याह ॥

॥२.२१॥ दृश्यस्य प्रागुक्तलक्षणस्याऽऽत्मा यत्स्वरूपं स तदर्थस्तस्य पुरुषस्य भोक्तृत्वसंपादनं नाम स्वार्थपरिहारेण प्रयोजम् ।

न हि प्रधानं प्रवर्तमानमात्मनः किंचित्प्रयोजनमपेक्ष्य प्रवर्तते किंतु पुरुषस्य भोक्तृत्वं संपादयितुमिति । यद्येवं पुरुषस्य

भोगसंपादनमेव प्रयोजनं तदा संपादिते तस्ंमिस्तन्निष्प्रयोजनं विरतव्यापारं स्यात्, तस्ंमिश्च परिणामशून्ये शुध्दत्वात्सर्वे द्रष्टारो

बन्धरहिताः स्युः, ततश्च संसारोच्छेद इत्याशङ्क्याऽऽह ॥

॥२.२२॥ यद्यपि विवेकख्यातिपर्यन्ताद्भोगसंपादनात्मकपि कृतार्थं पुरुषं प्रप्ति तन्नष्टं विरतव्यापारं तथाऽपि

सर्वपुरुषसाधारणत्वादन्यान्प्रत्यनष्टव्यापारमवतिष्ठते । अतःप्रधानस्य सकलभोक्तृसाधारणत्वान्न कृतार्थता, न कदाचिदपि

विनाशः । कस्य मुक्तौ वा न सर्वमुक्तिप्रसङ्ग इत्युक्तं भवति । दृश्यद्रष्टारौ व्याख्याय संयोगं व्याख्यातुमाह ॥

॥२.२३॥ कार्यद्वारेणास्य लक्षणं करोति, स्वशक्तिर्दृश्यस्य स्वभावः, स्वामिशक्तिर्द्रष्टुः स्वरूपं, तयोर्द्वयोरपि संवेद्यसंवेदकत्वेन

व्यवस्थितयोर्या स्वरूपोपलब्धिस्तस्याः कारणं यः स संयोगः । स च सहजभोग्यभोग्क्तृभावस्वरूपान्नान्यः । न हि

तयोर्नित्ययोर्व्यापकयोश्च स्वरूपादतिरिक्तः कश्चित् संयोगः । यदेव भोग्यस्य भोग्यत्वं भोक्तृश्च भोक्तृत्वमनादिसिध्दं स व

संयोगः । तसयापि कारणमाह ॥

॥२.२४॥ या पूर्वं विपर्यासात्मिका मोहरूपाऽविद्या व्याख्याता सा तस्याविवेकख्यातिरूपस्य संयोगस्य कारणम् । हेयं

हानक्रियाकर्मोच्यते, किं पुनस्तध्दानमित्यत आह ॥

॥२.२५॥ तस्या अविद्यायाः स्वरूपविरुध्देन सम्यग्ज्ञानेनोन्मूलिताया योऽयमभावस्तस्मिन्सति तत्कार्यस्य

संयोगस्याप्यभावस्तध्दानमित्युच्यते । अयमर्थः ॥ नैतस्यर् मूत्तद्रव्यवत्परित्यागो युज्यते किंतु जातायां विवेकख्यातावविवेकनिमित्तः

संयोगः स्वयमेव निवर्तत इति तस्य हानम् । यदेव च संयोगस्य हानं तदेव नित्यं केवलस्यापि पुरुषस्य कैवल्यं व्यपदिश्यते ।

तदेवं संयोगस्य स्वरूपं कारणं कार्यं चाभिहितम् । अथ हानोपायकथनद्वारेणोपादेयकारणमाह ॥

॥२.२६॥ अन्ये गुणा अन्यः पुरुष इत्येवंविधस्य विवेकस्य या ख्यातिः प्रख्या साऽस्य हानस्य दृश्यदुःख परित्यागस्योपायः

कारणम् । कीदृशी? अविप्लवा न विद्यते विप्लवो विच्छेदोऽन्तराऽन्तरा व्युत्थानरूपो यस्याः साऽविप्लवा । इदमत्र तात्पर्यम् ॥

प्रतिपक्षभावनाबलादविद्याप्रविलये विनिवृत्तज्ञातृत्वकर्तृत्वाभिमानायाः रजस्तमोमलानभिभृताया बुध्देरन्तर्मुखा या चिच्छायासंक्रान्तिः

सा विवेकख्यातिरुच्यते । तस्यां च संततत्वेन प्रवृत्तायां सत्यां दृश्यस्याधिकारनिवृत्तिर्भवत्येव कैवल्यम् । उत्पन्नविवेकख्यातेः

पुरुथस्य यादृशी प्रज्ञा भवति तां कथयन्विवेकख्यातेरेव स्वरूपमाह ॥

॥२.२७॥ तस्योत्पन्नविवेकज्ञानस्य ज्ञातव्यविवेकरूपा प्रज्ञा प्रान्तभूमौ सकलसालम्बनसमाधिभूमिपर्यन्ते सप्तप्रकारा भवति । तत्र

कार्यविमुक्तिरूपा चतुष्प्रकारा १ ॥ ज्ञातं मया ज्ञेयं न ज्ञातव्यं किंचिदस्ति । २ ॥ क्षीणा मे क्लेशा न किंचित्क्षेतव्यमस्ति । ३ ॥

अधिगतं मया ज्ञानं, ४ ॥ प्राप्त मया विवेकख्यातिरिति । प्रत्ययान्तरपरिहारेण तस्यामवस्थायामीदृश्येव प्रज्ञा जायते । ईदृशी

प्रज्ञा कार्यविषयं निर्मलं ज्ञानं कार्यविमुक्तिरित्युच्यते । चित्तविमुक्तिस्त्रिधा ५ ॥ चरितार्था मे बुध्दिर्गुणा हताधिकारा

गिरिशिखरनिपतिता इव ग्रावाणो न पुनः स्थितिं यास्यन्ति, ६ ॥ स्वकारणे प्रविलयाभिमुखानां गुणानां

मोहभिधानमूलकारणाभावान्निष्प्रयोजनत्वाच्चामीषां कुतः प्ररोहो भवेत्, ७ ॥ सात्मीभूतश्च मे समाधिस्तस्मिन्सति

स्वरूपप्रतिष्ठोऽहमिति । ईदृशी त्रिप्रकारा चित्तविमुक्तिः । तदेवमीदृश्यां सप्तविधप्रान्तभूमिप्रज्ञायामुपजातायां पुरुषः कुशलः

इत्युच्यते । विवेकख्यातिः संयोगाभावहेतुरित्युक्तं, तस्यास्तूत्पत्तौ किं निमित्तमित्यत आह ॥

॥२.२८॥ योगाङ्गानि वक्ष्यमाणानि तेषामनुष्ठानाज्ज्ञानपूर्वकादभ्यासादा विवेकख्यातेरशुध्दिक्षये चित्तसत्त्वस्य

प्रकाशावरणलक्षणक्लेशरूपाशुध्दिश्रये या ज्ञानदीप्तिस्तारतम्येन सत्त्विः परिणामो विवेकख्यातिपर्यन्तः स तेस्याः

ख्यातेर्हेतुरित्यर्थः । योगाङ्गानुष्ठानादशुध्दिक्षय इत्युक्तं, कानि पुनस्तानि योगाङ्गानीति तेषामुपद्देशमाह ॥

॥२.२९॥ इह कानिचित्समाधेः साक्षादुपकारकत्वेनान्तरङ्गाणि, यथा धारणादीनि ।

कानिचित्प्रतिपक्षभूतहिंसादिवितर्कोन्मूलनद्वारेण समाधिमुपकुर्वन्ति । यथा यमनियमादीनि ।

तत्राऽऽसनादिनामुत्तरोत्तरमुपकारकत्वम् । तद्यथा ॥ सत्यासनजये प्राणायामस्थैर्यम् । वमुत्तरत्रापि योज्यम् । क्रमेणैषां

स्वरूपमाह ॥

॥२.३०॥ तत्र प्राणवियोगप्रयोजनव्यापारो हिंसा । सा च सर्वानर्थहेतुः । तदभावोऽहिंसा । हिंसायाः सर्वकालं परिहार्यत्वात्प्रथमं

तदभावरूपाया अहिंसाया निर्देशः । सत्यं वाङ्मनसयोर्यथार्थत्वम् । स्तेयं परस्वापहरणं तदभावोऽस्तेयम् । ब्रह्मचर्यमुपस्थसंयमः ।

अपरिग्रहो भोगसाधनानामनङ्गीकारः । त तेऽहिंसादयः पञ्च यमशब्दवाच्या योगाऽङ्गत्वेन निर्दिष्टाः । एषां विशेषमाह ॥

॥२.३१॥ जातिर्ब्राह्मणत्वादिः । देशस्तीर्थादिः । कालश्चतुर्दश्यादिः । समयो ब्राह्मणप्रयोजनादिः । तैश्चतुर्भिरनवच्छिन्नाः पूर्वोक्ता

अहिंसादयो यमाः सर्वासु क्षिप्तादिषु चित्तभूमिषु भवा महाव्रतमित्युच्यन्ते । तद्यथा ॥ ब्राह्मणं न हनिष्यामि तीर्थे न कंचन

हनिष्यामि चतुर्दश्यां न हनिष्यामि देवब्राह्मणप्रयोजनव्यतिरेकेण कमपि न हनिष्यामीति । वं चतुर्विधावच्छेदव्यतिरेकेण

किंचित्क्वचित्कदाचित्कस्ंमिश्चिदर्थे न हनिष्यामीत्यनवच्छिन्नाः । वं सत्यादिषु यथायोगं योज्यम् । इत्थमनियतीकृताः सामान्येनैव

प्रवृत्ता महाव्रतमित्युच्यते न पुनः परिच्छिन्नावधारणम् । नियमानाह ॥

॥२.३२॥ शौचं द्विविधं ॥ बाह्यमाभ्यन्तरं च । बाह्यं मृज्जलादिभिः कायादिप्रक्षालनम् । आभ्यन्तरं मैत्र्यादिभिश्चित्तमलानां

प्रक्षालनम् । संतोषस्तुष्टिः । शेषाः प्रागेव कृतव्याख्यानाः । ते शौचादयो नियमशब्दवाच्याः । कथमेषां योगाङगत्वमित्यत आह -

॥२.३३॥ वितर्क्यंन्त इति वितर्का योगपरिपन्थिनो हिंसादयस्तेषां प्रतिपक्षभावने सति यदा बाधा भवति तदा योगः सुकरो

भवतीति भवत्येव यमनियमानां योगाङ्गत्वम् । इदानीं वितर्काणां स्वरूपं भेदप्रकारं कारणं फलं न क्रमेणाऽऽह ॥

॥२.३४॥ ते पूर्वोक्ताः वितर्काः हिंसादयः प्रथमं त्रिधा भिद्यन्ते कृतकारितानुमोदिता भेदेन । तत्र स्वयं निष्पादिताः कृताः । कुरु

कुर्विति प्रयोजकव्यापारेण समुत्पादिताः कारिताः । अन्येन क्रियमाणाः साध्वित्यङ्गीकृता अनुमोदिताः । तच्च त्रैविध्यं

परस्परव्यामोहनिवारणायोच्यते । अन्यथा मन्दमतिरेवं मन्येत न मया स्वयं हिंसा कृतेति नास्ति मे दोष इति । तेषां

कारणप्रतिपादनाय लोभक्रोधमोहपूर्वका इति । यद्यपि लोभक्रोधौ प्रथमं निर्दिष्टौ तथाऽपि सर्वक्लेशानां मोहस्यानात्मनि

आत्माभिमानलक्षणस्य निदानत्वात्तस्मिन्सति स्वपरविभागपूर्वकत्वेन लोभक्रोधादीनामुद्भवान्मूलत्वमवसेयम् । मोहपूर्विका सर्वा

दोषजातिरित्यर्थः । लोभस्तृष्णा । क्रोधः कृत्याकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मः । प्रत्येकं कृतादिभेदेन त्रिप्रकारा अपि

हिंसादयो मोहादिकारणत्वेन त्रिधा भिद्यन्ते । षामेव पुनरवस्थाभेदेन त्रैविध्यमाह ॥ मृदुमध्याधिमात्राः । मृदवो मन्दा न तीव्रा

नापि मध्याः । मध्या नापि मन्दा नापि तीव्राः । अधिमात्रास्तीव्राः । पाश्चात्त्या नव भेदाः । इत्थं त्रैविध्ये सति सप्तविंशतिर्भवति ।

मृद्वादीनामपि प्रत्येकं मृदुमध्याधिमात्रभेदात्त्रैविध्यं संभवति । तद्यथायोगं योज्यम् । तद्यथा ॥ मृदुमृदुर्मुदमध्यो मृदुतीव्र इति । षां

फलमाह ॥ दुःखाज्ञानानन्तफलाः । दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः । अज्ञानं मिथ्याज्ञानं संशयविपर्ययरूपं, ते

दुःखाज्ञाने अनन्तमपरिच्छिन्नं फलं येषां ते तथोक्ताः । इत्थं तेषां स्वरूपकारणादिभेदेन ज्ञातानां प्रतिपक्षभावनया योगिना

परिहारः कर्तव्य इत्युपदिष्टं भवति । एषामभ्यासवशात्प्रकर्षमागच्छतामनुनिष्पादिन्यः सिध्दयो यथा भवन्ति तथा क्रमेण

प्रतिपादयितुमाह ॥

॥२.३५॥ तस्याहिंसां भावयतः संनिधौ सहज विरोधिनामप्यहिनकुलादीनां वैरत्यागो निर्मत्सरतयाऽवस्थानं भवति । हिंस्रा अपि

हिंस्रत्वं परित्यजन्तीत्यर्थः । सत्याभ्यासवतः किं भवतीत्याह ॥

॥२.३६॥ क्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयच्छन्ति तस्य तु सत्याभ्यासवतो योगिनस्तथा सत्यं प्रकृष्यते

यथा क्रियायामकृतायामपि योगी फलमाप्नोति । तद्वचनाद्यस्य कस्यचित्क्रियामकुर्वतोऽपि क्रियाफलं भवतीत्यर्थः ।

अस्तेयाभ्यासवतः फलमाह ॥

॥२.३७॥ अस्तेयं यदाऽभ्यस्यति तदाऽस्य तत्प्रकर्षान्निरभिलाषस्यापि सर्वतो दिव्यानि रत्नानि उपतिष्ठन्ते । ब्रह्मचर्याभ्यासस्य

फलमाह ॥

॥२.३८॥ यः किल ब्रह्मचर्यमभ्यस्यति तस्य तत्प्रकर्षान्निरतिशयं वीर्यं सामर्थ्यमाविर्भवति । वीर्यनिरोधो हि ब्रह्मचर्यं तस्य

प्रकर्षाच्छरीरेन्द्रियमनः सु वीर्यं प्रकर्षमागच्छति । अपरिग्रहाभ्यासस्य फलमाह ॥

॥२.३९॥ कथमित्यस्यभावः कथंता जन्मनः कथंता जन्मकथंता तस्याः संबोधः सम्यग्ज्ञानं जन्मान्तरे कोऽहमासं कीदृशः

किंकार्यकारीति जिज्ञासायां सर्वमेव सम्यग्जानातीत्यर्थः । न केवलं भोगसाधनपरिग्रह व परिग्रहो यावदात्मनः शरीरपरिग्रहोऽपि

परिग्रह, भोगसाधनत्वाच्छरीरस्य । तस्मिन्सति रागानुबन्धाद्वहिर्मुखायामेव प्रवृत्तौ न तात्त्विज्ञानप्रादुर्भावः । यदा पुनः

शरीरादिपरिग्रहनैरपेक्ष्येण माध्यस्थ्यमवलम्बते तदा मध्यस्थस्य रागादित्यागात्सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसंबोधः । उक्ता

यमानां सिध्दयः । अथ नियमानामाह ॥

॥२.४०॥ यः शौचं भावयति तस्य स्वाङ्गेष्वपि कारणस्वरूपपर्यालोचनद्वारेण जुगुप्सा घृणा समुपजायतेऽशुचिरयं कायो

नात्राऽऽग्रहः कार्य इति अमुनैव हेतुना परैरन्यैश्च कायवद्भिरसंसर्गः संसर्गाभावः संसर्गपरिवर्जनमित्यर्थः । यः किल स्वमेव

कायं जुगुप्सते तत्तदवद्यदर्शनात्स कथं परकीयैस्तथाभूतैः कायैः संसर्गमनुभवति । शौचस्यैव फलान्तरमाह ॥

॥२.४१॥ भवन्तीति वाक्यशेषः । सत्त्वं प्रकाशसुखाद्यात्मकं तस्य शुध्दी रजस्तमोभ्यामनभिवः सौमनस्यं खेदाननुभवेन मानसी

प्रीतिः । काग्रता नियतेन्द्रियविषये चेतसः स्थैर्यम् । इन्द्रियजयो विषयपराङ्गमुखाणामिन्द्रियाणामात्मनि अवस्थानम् । आत्मदर्शने

विवेकख्यातिरूपे चित्तस्य योग्यत्वंसमर्थत्वम् । शौचाभ्यसवत ते सत्त्वशुद्ध्यादयः क्रमेण प्रादुर्भवन्ति । तथा हि ॥ सत्त्वशुध्देः

सौमनस्यं सौमनस्यादैकायमैकायादिन्द्रियजय इन्द्रियजयादात्मदर्शनयोग्यतेति । संतोषाभ्यासवतः फलमाह ॥

॥२.४२॥ संतोषप्रकर्षेण योगिनस्तथाविधमान्तरं सुखमाविर्भवति । यस्य बाह्यं सुखं लेशेनापि न समम् । तपसः फलमाह ॥

॥२.४३॥ तपः समभ्यस्यमानं चेतसः क्लेशादिलक्षणाशुध्दिक्षयद्वारेण कायेन्द्रियाणां सिध्दिमुत्कर्षमादधाति । अयमर्थः ॥

चान्द्रायणादिना चित्तक्लेशक्षयस्तत्क्षयादिन्द्रियाणां सूक्ष्मव्यवहितविप्रकृष्टदर्शनादिसामर्थ्यमाविर्भवति । कायस्य

यथेच्छमणुत्वमहत्त्वादीनि । स्वाध्यायस्य फलमाह ॥

॥२.४४॥ अभिप्रेतमन्त्रजपादिलक्षणे स्वाध्याये प्रकृष्यमाणे योगिन इष्टयाऽभिप्रेतया देवतया संप्रयोगो भवति । सा देवता

प्रत्यक्षीभवतीत्यर्थः । ईश्वरप्रणिधानस्य फलमाह ॥

॥२.४५॥ ईश्वरे यत्प्रणिधानं भक्तिविशेषस्तस्मात्समाधेरुक्तलक्षणस्याऽऽविर्भावो भवति । यस्मात्स भगवानीश्वरः प्रसन्नः

सन्नान्तरायरूपान्क्लेशान्परिहृत्य समाधिं संबोधयति । यमनियमानुक्त्वाऽऽसनमाह ॥

॥२.४६॥ आस्यतेऽनेनेत्यासनं पद््मासनदण्डासनस्वस्तिकासनादि । तद्यदा स्थिरं निष्कम्पं सुखमनुद्वेजनीयं च भवति तदा

योगाङ्गतां भजते । तस्यैव स्थिरसुखत्वप्राप्त्यर्थमुपायमाह ॥

॥२.४७॥ तदासनं प्रयत्नशैथिल्येनाऽऽनन्त्यसमापत्त्या च स्थिरं सुखं भवतीति संबन्धः । यदा यदाऽऽसनं बध्नामीतीच्छां करोति

प्रयत्नशैथिल्येऽपि अक्लेशेनैव तदा तदाऽऽसनं संपद्यते । यदा चाऽऽकाशादिगत आनन्त्ये चेतसः समापत्तिः क्रियतेऽव्यवधानेन

तादात्म्यमापद्यते तदा देहाहंकाराभावान्नाऽऽसनं दुःखजनकं भवति । अस्ंमिश्चाऽऽसनजये सति समाध्यन्तरायभूता न प्रभवन्ति

अङ्गमेजयत्वादयः । तस्यैवानुनिष्पादितं फलमाह ॥

॥२.४८॥ तस्मिन्नासनजये सति द्वंद्वैः शीतोष्णक्षुत्तृष्णादिभिर्योगी नाभिहन्यत इत्यर्थः । आसनजयानन्तरं प्राणायाममाह ॥

॥२.४९॥ आसनस्थैर्ये सति तन्निमित्तकः प्राणायामलक्षणो योगाङ्गविशेषोऽनुष्ठेयो भवति । कीदृशः?

श्वासप्रश्वासयोर्गतिविच्छेदलक्षणः । श्वासप्रश्वासौ निरुक्तौ । तयोस्त्रिधा रेचनस्तम्भनपूरणद्वारेण बाह्याभ्यन्तरेषु स्थानेषु गतेः

प्रवाहस्य विच्छेदो धारणं प्राणायाम उच्यते । तस्यैव सुखावगमाय विभज्य स्वरूपं कथयति ॥

॥२.५०॥ बाह्यवृत्तिः श्वासो रेचकः । अन्तर्वृत्तिः प्रश्वासः पूरकः । अन्तस्तम्भवृत्तिः कुम्भकः । तस्मिञ्जलमिव कुम्भे निश्चलतया

प्राणा अवस्थाप्यन्त इति कुम्भकः । त्रिविधोऽयं प्राणायामो देशेन कालेन संख्यया चोपलक्षितो दीर्घसूक्ष्मसंज्ञो भवति ।

देशेनोपलक्षितो यथा ॥ नासाप्रदेशान्तादौ । कालेनोपलक्षितो यथा ॥ षट्त्रिंशन्मात्रादिप्रमाणः । संख्ययोपलक्षितो यथा ॥ इयतो

वारान्कृत तावद्भिः श्वासप्रश्वासैः प्रथम उद्धातोभवतीति । तज्ज्ञानाय संख्याग्रहणमुपात्तम् । उद्धातो नाम नाभिमूलात्प्रेरितस्य

वायोः शिरसि अभिहननम् । त्रीन्प्राणायामानभिधाय चतुर्थमभिधातुमाह ॥

॥२.५१॥ प्राणस्य बाह्यो विषयो नासाद्वादशान्तादिः । आभ्यन्तरो विषयो हृदयनाभिचक्रादिः । तौ द्वौ विषयावाक्षिप्य पर्यालोच्य

सः स्तम्भरूपो गतिविच्छेदः स चतुर्थः प्राणायामः । तृतीयस्मात्कुम्भकाख्यादयमस्य विशेषः ॥ स

बाह्याभ्यन्तरविषयावपर्यालोच्यैव सहसा तप्तोपलनिपतितजलन्यायेन युगपत्स्तम्भवृत्त्या निष्पद्यते । अस्य तु विषय द्वयाक्षेपक

निरोधः । अयमपि पूर्ववद्देशकालसंख्याभिरूपलक्षितो द्रष्टव्यः । चतुर्विधस्यास्य फलमाह ॥

॥२.५२॥ ततस्तस्मात्प्राणायामात्प्रकाशस्य चित्तसत्त्वगतस्य यदावरणं क्लेशरूपं तत्क्षीयते विनश्यतीत्यर्थः । फलान्तरमाह ॥

॥२.५३॥ धारणा वक्ष्यमाणलक्षणस्तासु प्राणायामैः क्षीणदोष मनो यत्र यत्र धार्यते तत्र स्थिरी भवति न विक्षेपं भजते ।

प्रत्याहारस्य लक्षणमाह ॥

॥२.५४॥ इन्द्रियाणि विषयेभ्यः प्रतीपमाह्रियन्तेऽस्मिन्निति प्रत्याहारः । स च कथं निष्पद्यत इत्याह ॥ चक्षुरादीनामिन्द्रियाणां

स्वविषयो रूपादिस्तेन संप्रयोगस्तदाभिमुख्येन वर्तनं तदभावस्तदाभिमुख्यं परित्यज्य स्वरूपमात्रेऽवस्थानं, तस्मिन्सति

चित्तस्वरूपमात्रानुकारीणीन्द्रियाणि भवन्ति । यतश्चित्तमनु वर्तमानानि मधुकरराजमिव मधुमक्षिकाः सर्वाणीन्द्रियाणि

प्रतीयन्तेऽतश्चित्तनिरोधे तानि प्रत्याहृतानि भवन्ति । तेषां तत्स्वरूपानुकारः प्रत्याहारः उक्तः । प्रत्याहारफलमाह ॥

॥२.५५॥ अभ्यस्यमाने हि प्रत्याहारे तथा वश्यानि आयत्तानीन्द्रियाणि संपद्यन्ते, यथा बाह्यविषयाभिभमुखतां नीयमानान्यपि न

यान्तीत्यर्थः । तदेवं प्रथमपादोक्त योगस्याङ्गभूतक्लेशतनूकरणफलं क्रियायोगमभिधाय क्लेशानामुद्देशं स्वरूपं कारणं क्षेत्रं फलं

चोक्त्वा कर्मणामपि भेदं कारणं स्वरूपं फलं चाभिधाय विपाकस्य स्वरूपं कारणं चाभिहितम् । ततस्त्याज्यत्वात्क्लेशादीनां

ज्ञानव्यतिरेकेण त्यागस्याशक्यत्वाज्ज्ञानस्य न शास्त्रायत्तत्वाच्छास्त्रस्य च हेयहानकारणोपादेयोपादानकारणबोधकत्वेन

चतुर्व्यूहत्वाध्देयस्य च हानव्यतिरेकेण स्वरूपानिष्पत्तेर्हानसहितं चतर्ुव्यूहं स्वस्वकारणसहितमभिधायोपादेयनकारणभूताया

विवेकख्यातेः कारणभूतानामन्तरङ्गबहिरङ्गभावेन स्थितानां योगाङ्गानां यमादीनां स्वरूपं फलसहितं व्याकृत्याऽऽसनादीनां

धारणापर्यन्तानां परस्परमुपकार्योपकारकभावेनावस्थितानामुद्देशमभिधाय प्रत्येकं लक्षणकरणपूर्वकं फलमभिहितम् । तदयं योगो

यमनियमादिभिः प्राप्तबीजभाव आसनप्राणायामैरङ्कुरितः प्रत्याहारेण पुष्पितो ध्यानधारणासमाधिभिः फलिष्यतीति व्याख्यातः

साधनपादः ।

इति श्रीभोजदेवविरचितायां पातञ्जलयोगशास्त्रसूत्रवृत्तौ द्वितीयः साधनपादः॥२॥

N/A

References : N/A
Last Updated : October 04, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP