प्रथम अध्याय - समन्वय
ब्रह्मसूत्र ग्रंथाचे लेखक आहेत, बादरायण. या ग्रंथास वेदान्त सूत्र, उत्तर-मीमांसा सूत्र, शारीरिक सूत्र किंवा भिक्षु सूत्र या नावांनी सुद्धा ओळखतात. या ग्रंथात एकंदर ५५५ सूत्र आहेत.
अथातो ब्रह्मजिज्ञासा ॥१.१॥
जन्माद्यस्य यतः ॥१.२॥
शास्त्रयोनित्वात् ॥१.३॥
तत् तु समन्वयात् ॥१.४॥
ईक्षतेर् नाशब्दम् ॥१.५॥
गौणश् चेन् नात्मशब्दात् ॥१.६॥
तन्निष्ठस्य मोक्षोपदेशात् ॥१.७॥
हेयत्वावचनाच् च ॥१.८॥
प्रतिज्ञाविरोधात् ॥१.९॥
स्वाप्ययात् ॥१.१०॥
गतिसामान्यात् ॥१.११॥
श्रुतत्वाच् च ॥१.१२॥
आनन्दमयोऽभ्यासात् ॥१.१३॥
विकारशब्दान् नेति चेन् न प्राचुर्यात् ॥१.१४॥
तद्धेतुव्यपदेशाच् च ॥१.१५॥
मान्त्रवर्णिकमेव च गीयते ॥१.१६॥
नेतरोऽनुपपत्तेः ॥१.१७॥
भेदव्यपदेशाच् च ॥१.१८॥
कामाच् च नानुमानापेक्षा ॥१.१९॥
अस्मिन्न् अस्य च तद्योगं शास्ति ॥१.२०॥
अन्तस् तद्धर्मोपदेशात् ॥१.२१॥
भेदव्यपदेशाच् चान्यः ॥१.२२॥
आकाशस् तल्लिङ्गात् ॥१.२३॥
अत एव प्राणः ॥१.२४॥
ज्योतिश् चरणाभिधानात् ॥१.२५॥
छन्दोऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् ॥१.२६॥
भूतादिपादव्यपदेशोपपत्तेश् चैवम् ॥१.२७॥
उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् ॥१.२८॥
प्राणस् तथानुगमात् ॥१.२९॥
न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन् ॥१.३०॥
शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥१.३१॥
जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् ॥१.३२॥
सर्वत्र प्रसिद्धोपदेशात् ॥२.१॥
विवक्षितगुणोपपत्तेश् च ॥२.२॥
अनुपपत्तेस् तु न शारीरः ॥२.३॥
कर्मकर्तृव्यपदेशाच् च ॥२.४॥
शब्दविशेषात् ॥२.५॥
स्मृतेश् च ॥२.६॥
अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च ॥२.७॥
संभोगप्राप्तिर् इति चेन् न वैशेष्यात् ॥२.८॥
अत्ता चराचरग्रहणात् ॥२.९॥
प्रकरणाच् च ॥२.१०॥
गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात् ॥२.११॥
विशेषणाच् च ॥२.१२॥
अन्तर उपपत्तेः ॥२.१३॥
स्थानादिव्यपदेशाच् च ॥२.१४॥
सुखविशिष्टाभिधानाद् एव च ॥२.१५॥
अत एव च स ब्रह्म ॥२.१६॥
श्रुतोपनिषत्कगत्यभिधानाच् च ॥२.१७॥
अनवस्थितेर् असंभवाच् च नेतरः ॥२.१८॥
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ॥२.१९॥
न च स्मार्तम् अतद्धर्माभिलापाच् छारीरश् च ॥२.२०॥
उभयेऽपि हि भेदेनैनम् अधीयते ॥२.२१॥
अदृश्यत्वादिगुणको धर्मोक्तेः ॥२.२२॥
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥२.२३॥
रूपोपन्यासाच् च ॥२.२४॥
वैश्वानरः साधारणशब्दविशेषात् ॥२.२५॥
स्मर्यमाणम् अनुमानं स्याद् इति ॥२.२६॥
शब्दादिभ्योऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते ॥२.२७॥
अत एव न देवता भूतं च ॥२.२८॥
साक्षाद् अप्य् अविरोधं जैमिनिः ॥२.२९॥
अभिव्यक्तेर् इत्य् आश्मरथ्यः ॥२.३०॥
अनुस्मृतेर् बादरिः ॥२.३१॥
संपत्तेर् इति जैमिनिस् तथा हि दर्शयति ॥२.३२॥
आमनन्ति चैनम् अस्मिन् ॥२.३३॥
द्युभ्वाद्यायतनं स्वशब्दात् ॥३.१॥
मुक्तोपसृप्यव्यपदेशाच् च ॥३.२॥
नानुमानम् अतच्छब्दात् प्राणभृच् च ॥३.३॥
भेदव्यपदेशात् ॥३.४॥
प्रकरणात् ॥३.५॥
स्थित्यदनाभ्यां च ॥३.६॥
भूमा संप्रसादाद् अध्युपदेशात् ॥३.७॥
धर्मोपपत्तेश् च ॥३.८॥
अक्षरम् अम्बरान्तधृतेः ॥३.९॥
सा च प्रशासनात् ॥३.१०॥
अन्यभावव्यावृत्तेश्च ॥३.११॥
ईक्षतिकर्मव्यपदेशात् सः ॥३.१२॥
दहर उत्तरेभ्यः ॥३.१३॥
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥३.१४॥
धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः ॥३.१५॥
प्रसिद्धेश् च ॥३.१६॥
इतरपरामर्शात् स इति चेन् नासंभवात् ॥३.१७॥
उत्तराच् चेद् आविर्भूतस्वरूपस् तु ॥३.१८॥
अन्यार्थश् च परामर्शः ॥३.१९॥
अल्पश्रुतेर् इति चेत् तद् उक्तम् ॥३.२०॥
अनुकृतेस् तस्य च ॥३.२१॥
अपि च स्मर्यते ॥३.२२॥
शब्दाद् एव प्रमितः ॥३.२३॥
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥३.२४॥
तदुपर्य् अपि बादरायणः संभवात् ॥३.२५॥
विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात् ॥३.२६॥
शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॥३.२७॥
अत एव च नित्यत्वम् ॥३.२८॥
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च ॥३.२९॥
मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः ॥३.३०॥
ज्योतिषि भावाच् च ॥३.३१॥
भावं तु बादरायणोऽस्ति हि ॥३.३२॥
शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि ॥३.३३॥
क्षत्रियत्वगतेश् च ॥३.३४॥
उत्तरत्र चैत्ररथेन लिङ्गात् ॥३.३५॥
संस्कारपरामर्शात् तदभावाभिलापाच् च ॥३.३६॥
तदभावनिर्धारणे च प्रवृत्तेः ॥३.३७॥
श्रवणाध्ययनार्थप्रतिषेधात् ॥३.३८॥
स्मृतेश् च ॥३.३९॥
कम्पनात् ॥३.४०॥
ज्योतिर् दर्शनात् ॥३.४१॥
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥३.४२॥
सुषुप्त्युत्क्रान्त्योर् भेदेन ॥३.४३॥
पत्यादिशब्देभ्यः ॥३.४४॥
आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च ॥४.१॥
सूक्ष्मं तु तदर्हत्वात् ॥४.२॥
तदधीनत्वाद् अर्थवत् ॥४.३॥
ज्ञेयत्वावचनाच् च ॥४.४॥
वदतीति चेन् न प्राज्ञो हि प्रकरणात् ॥४.५॥
त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च ॥४.६॥
महद्वच् च ॥४.७॥
चमसवदविशेषात् ॥४.८॥
ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके ॥४.९॥
कल्पनोपदेशाच् च मध्वादिवदविरोधः ॥४.१०॥
न संख्योपसंग्रहादपि ज्ञानाभावाद् अतिरेकाच् च ॥४.११॥
प्राणादयो वाक्यशेषात् ॥४.१२॥
ज्योतिषैकेषाम् असत्यन्ने ॥४.१३॥
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥४.१४॥
समाकर्षात् ॥४.१५॥
जगद्वाचित्वात् ॥४.१६॥
जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम् ॥४.१७॥
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके ॥४.१८॥
वाक्यान्वयात् ॥४.१९॥
प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः ॥४.२०॥
उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः ॥४.२१॥
अवस्थितेर् इति काशकृत्स्नः ॥४.२२॥
प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात् ॥४.२३॥
अभिध्योपदेशाच् च ॥४.२४॥
साक्षाच् चोभयाम्नानात् ॥४.२५॥
आत्मकृतेः ॥४.२६॥
परिणामात् ॥४.२७॥
योनिश् च हि गीयते ॥४.२८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP