संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ८|पाद ३| खण्ड ८६ पाद ३ खण्ड ८५ खण्ड ८६ पाद ३ - खण्ड ८६ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ८६ Translation - भाषांतर १ - २७ - सग्रहणम् किमर्थम् न सहेः साडः मूर्धन्यः भवति इति एव उच्येत ।२ - २७ - सहेः साडः मूर्धन्यः भवति इति उच्यमाने अन्त्यस्य प्रसज्येत ।३ - २७ - ननु च अन्त्यस्य मूर्धन्यवचने प्रयोजनम् न अस्ति इति कृत्वा सकारस्य भविष्यति ।४ - २७ - कुतः नु खलु एतत् अनन्त्यार्थे आरम्भे सकारस्य भविष्यति ।५ - २७ - न पुनः आकारस्य स्यात् ।६ - २७ - स्थने अन्तरतमः भवति इति सकारस्य भविष्यति ।७ - २७ - भवेत् प्रकृतितः अन्तरतमनिर्वृत्तौ सत्याम् सिद्धम् स्यात् ।८ - २७ - आदेशतः तु अन्तरतमनिर्वृत्तौ सत्याम् आकारस्य प्रसज्येत ।९ - २७ - तस्मात् सकारग्रहणम् कर्तव्यम् ।१० - २७ - उत्तरार्थम् च सकारग्रहणम् क्रियते ।११ - २७ - आदेशप्रत्यययोः सकारस्य यथा स्यात् ।१२ - २७ - इह मा भूत् ।१३ - २७ - चितम् , स्तुतम् ।१४ - २७ - अथ सहिग्रहणम् किमर्थम् न साडः सः भवति इति एव उच्येत ।१५ - २७ - सहेः एव साड्रूपम् भवति न अन्यस्य ।१६ - २७ - यदि एवं ।१७ - २७ - साडः षत्वे समानशब्दप्रतिषेधः ।१८ - २७ - साडः षत्वे समानशब्दानाम् प्रतिषेधः वक्तव्यः ।१९ - २७ - साडः दण्डः. साडः वृश्चिकः इति ।२० - २७ - अर्थवद्ग्रहणात् सिद्धम् ।२१ - २७ - अर्थवतः साड्शब्दस्य ग्रहणम् न च एषः अर्थवान् ।२२ - २७ - अर्थवद्ग्रहणात् सिद्धम् इति चेत् तद्धितलोपे अर्थवत्त्वात् प्रतिषेधः । अर्थवद्ग्रहणात् सिद्धम् इति चेत् तद्धितलोपे अर्थवत्त्वात् प्रतिषेधः वक्तव्यः ।२३ - २७ - सह अडेन साडः साडस्य अपत्यम् साडिः अत्र प्राप्नोति ।२४ - २७ - न वक्तव्यः ।२५ - २७ - षत्वतुकोः एकादेशस्य असिद्धत्वात् न एषः साड्शब्दः ।२६ - २७ - एवम् अपि सह डेन सडः सडस्य अपत्रम् साडिः अत्र प्राप्नोति ।२७ - २७ - तस्मात् सहिग्रहणम् कर्तव्यम्१ - २४ - नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेधः ।२ - २४ - नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेदः वक्तव्यः ।३ - २४ - निंस्से निंस्स्व इति ।४ - २४ - तत् तर्हि वक्तव्यम् ।५ - २४ - न वक्तव्यम् ।६ - २४ - नुमा एव व्यवाये विसर्जनीयेन एव व्यवाये शरा एव व्यवाये इति ।७ - २४ - किम् वक्तव्यम् एतत् ।८ - २४ - न हि ।९ - २४ - कथम् अनुच्यमानम् गंस्यते ।१० - २४ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति ।११ - २४ - तत् यथा ।१२ - २४ - गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः ।१३ - २४ - ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः ।१४ - २४ - तत् यथा ।१५ - २४ - गर्गाः शतम् दण्ड्यन्ताम् ।१६ - २४ - अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।१७ - २४ - एवम् तर्हि ।१८ - २४ - योगविभागात् सिद्धम् । योगविभागः करिष्यते ।१९ - २४ - नुम्व्यवाये ।२० - २४ - ततः विसर्जनीयव्यवाये ।२१ - २४ - ततः शर्व्यवाये ।२२ - २४ - सः तर्हि योगविभागः कर्तव्यः ।२३ - २४ - न कर्तव्यः ।२४ - २४ - प्रत्येकम् व्यवायशब्दः परिसमाप्यते१ - ११ - आदेशप्रत्यययोः षत्वे सरकः प्रतिषेधः । आदेशप्रत्यययोः षत्वे सरकः प्रतिषेदः वक्तव्यः कृसरः , धूसरः ।२ - ११ - अत्यल्पम् इदम् उच्यते सरकः इति ।३ - ११ - सरगादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् वर्सम् तर्सम् इति ।४ - ११ - तत् तर्हि वक्तव्यम् ।५ - ११ - न वक्तव्यम् ।६ - ११ - उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।७ - ११ - न वै एतत् षत्वे शक्यम् विज्ञातुम् उणदयः अव्युत्पन्नानि प्रातिपदिकानि इति ।८ - ११ - इह हि न स्यात् ।९ - ११ - सर्पिषः यजुषः इति ।१० - ११ - एवम् तर्हि ।११ - ११ - बहुलवचनात् सिद्धम् । बहुलम् प्रत्ययसञ्ज्ञा भवति१ - ४७ - किम् पुनः इयम् अवयवषष्ठी आदेशस्य यः सकारः प्रत्ययस्य यः सकारः इति ।२ - ४७ - आहोस्वित् समानाधिकरणा आदेशः यः सकारः प्रत्ययः यः सकारः इति ।३ - ४७ - कः च अत्र विशेषः ।४ - ४७ - आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः ।५ - ४७ - आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः वक्तव्यः ।६ - ४७ - बिसम् बिसम् ।७ - ४७ - मुसलम् मुसलम् ।८ - ४७ - समानाधिकरणानाम् च अप्राप्तिः । समानाधिकरणानाम् च षत्वस्य अप्राप्तिः ।९ - ४७ - एषः , अकार्षीत् ।१० - ४७ - अस्तु तर्हि समानाधिकरणा ।११ - ४७ - यदि समानाधिकरणा सिषेच सुष्वाप , अत्र न प्राप्नोति ।१२ - ४७ - न धातुद्विर्वचने स्थाने द्विर्वचनम् शक्यम् आस्थातुम् ।१३ - ४७ - इह अपि हि प्रसज्येत सरीसृप्यते इति ।१४ - ४७ - तस्मात् तत्र द्विःप्रयोगः द्विर्वचनम् ।१५ - ४७ - इह तर्हि करिष्यति हरिष्यति प्रत्ययः यः सकारः इति षत्वम् न प्राप्नोति ।१६ - ४७ - अस्तु तर्हि आदेशः यः सकारः प्रत्ययस्य यः सकारः इति ।१७ - ४७ - इह तर्हि अकार्षीत् प्रत्ययस्य यः सकारः इति षत्वम् न प्राप्नोति ।१८ - ४७ - मा भूत् एवम् आदेशः यः सकारः इति एवम् भविष्यति ।१९ - ४७ - इह तर्हि जोषिषत् , मन्दिषत् इति प्रत्ययस्य यः सकारः इति षत्वम् न प्राप्नोति ।२० - ४७ - एषः अपि इटि कृते प्रत्ययस्य सकारः ।२१ - ४७ - इह तर्हि इन्द्रः मा वक्षत् सः , सः देवन् यक्षत् ।२२ - ४७ - नानाविभक्तीनाम् च समासानुपपत्तिः । नानाविभक्तीनाम् च समासः न उपपद्यते आदेशप्रत्यययोः इति ।२३ - ४७ - योगविभागात् सिद्धम् । योगविभागः करिष्यते ।२४ - ४७ - आदेशस्य षः भवति इति ।२५ - ४७ - ततः प्रत्ययसकारस्य षः भवति इति ।२६ - ४७ - स तर्हि योगविभागः कर्तव्यः ।२७ - ४७ - न कर्तव्यः ।२८ - ४७ - कथम् ।२९ - ४७ - अस्तु तावत् अवयवषष्ठी ।३० - ४७ - ननु च उक्तम् आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः इति ।३१ - ४७ - न एषः दोषः ।३२ - ४७ - द्विःप्रयोगः द्विर्वचनम् ।३३ - ४७ - यत् अपि उच्यते समानाधिकरणानाम् च अप्राप्तिः इति व्यपदेशिवद्भावेन भविष्यति ।३४ - ४७ - अथ वा पुनः अस्तु समानाधिकरणा ।३५ - ४७ - कथम् करिष्यति हरिष्यति ।३६ - ४७ - आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् षत्वम् इति यत् अयम् सात्पदाद्योः इति सात्प्रतिषेधम् शास्ति ।३७ - ४७ - अथ वा पुनः अस्तु आदेशः यः सकारः प्रत्ययस्य यः सकारः इति ।३८ - ४७ - कथम् इन्द्रः मा , वक्षत् सः देवान् यक्षत् ।३९ - ४७ - व्यपदेशिवद्भावेन भविष्यति ।४० - ४७ - सः तर्हि व्यपदेशिवद्भावः वक्तव्यः ।४१ - ४७ - न वक्तव्यः ।४२ - ४७ - उक्तम् वा । किम् उक्तम् ।४३ - ४७ - तत्र व्यपदेशिवद्वचनम् एकाचः द्वे प्रथमार्थम् षत्वे च आदेशसम्प्रत्ययार्थम् अवचनात् लोकविज्ञनात् सिद्धम् इति ।४४ - ४७ - यत् अपि नानाविभक्तीनाम् च समासानुपपत्तिः इति आचार्यप्रवृत्तिः ज्ञापयति नानाविभक्त्योः एषः समासः इति यत् अयम् शासिवसिघसीनाञ्च इति घसिग्रहणम् करोति ।४५ - ४७ - कथम् कृत्वा ज्ञापकम् ।४६ - ४७ - यदि हि आदेशस्य यः सकारः इति एवम् स्यात् घसिग्रहणम् अनर्थकम् स्यात् ।४७ - ४७ - पश्यति तु आचार्यः आदेशः यः सकारः तस्य षत्वम् इति ततः घसिग्रहणम् करोति ।१ - ३५ - स्तौतिणिग्रहणम् किमर्थम् ।२ - ३५ - अस्तौतिण्यन्तानाम् मा भूत् ।३ - ३५ - सिसिक्षति ।४ - ३५ - अथ एवकारः किमर्थः ।५ - ३५ - नियमार्थः ।६ - ३५ - स्थौतिण्यन्तानाम् एव न अन्येषाम् इति ।७ - ३५ - न एतत् अस्ति प्रयोजनम् ।८ - ३५ - सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारकरणम् नियमार्थः भविष्यति ।९ - ३५ - इष्टतः अवधारणार्थः तर्हि ।१० - ३५ - यथा एवम् विज्ञायेत स्तौतिण्योः एव षणि इति ।११ - ३५ - मा एवम् विज्ञायि स्तौतिण्योः षणि एव इति ।१२ - ३५ - इह न स्यात् तुष्टाव ।१३ - ३५ - अथ षणि इति किमर्थम् ।१४ - ३५ - सेषीव्यते ।१५ - ३५ - कः विनते अनुरोधः ।१६ - ३५ - अविनते नियमः मा भूत् ।१७ - ३५ - सुषुप्सति इति ।१८ - ३५ - कः सानुबन्धे अनुरोधः ।१९ - ३५ - षशब्दमात्रे नियमः मा भूत् ।२० - ३५ - सुषुपिषे इन्द्रम् ।२१ - ३५ - सुषुपिषे इह इति ।२२ - ३५ - अभ्यासात् इति किमर्थम् ।२३ - ३५ - अभ्यासात् या प्राप्तिः तस्याः नियमः यथा स्यात् उपसर्गात् या प्राप्तिः तस्याः नियमः मा भूत् ।२४ - ३५ - अभिषिषिक्षति ।२५ - ३५ - न एतत् अस्ति ।२६ - ३५ - असिद्धम् उपसर्गात् षत्वम् तस्य असिद्धत्वात् नियमः न भविष्यति ।२७ - ३५ - इदम् तर्हि प्रयोजनम् ।२८ - ३५ - सनि यः अभ्यासः तस्मात् या प्राप्तिः तस्याः नियमः यथा स्यात् यङि यः अभ्यासः तस्मात् या प्राप्तिः तत्र नियमः मा भूत् इति ।२९ - ३५ - सोषुप्यतेः सन् सोषुपिषते ।३० - ३५ - अथ वा अभ्यासात् या प्राप्तिः तस्याः नियमः यथा स्यात् धातोः या प्राप्तिः तस्याः नियमः मा भूत् ।३१ - ३५ - अधीषिषति ।३२ - ३५ - ननु च षणि इति उच्यते ।३३ - ३५ - षणि इति न एषा परसप्तमी शक्या विज्ञातुम् सन्यङन्तम् हि द्विरुच्यते ।३४ - ३५ - तस्मात् एषा सत्सप्तमी षणि सति इति ।३५ - ३५ - सत्सप्तमी चेत् प्राप्नोति१ - १३ - किमर्थम् इदम् उच्यते ।२ - १३ - स्थादिषु अभ्यासवचनम् नियमार्थम् ।३ - १३ - नियमार्थः अयम् आरम्भः ।४ - १३ - स्थादिषु एव अभ्यासस्य यथा स्यात् ।५ - १३ - इह मा भूत् ।६ - १३ - अभिसुसूषति ।७ - १३ - अथ किमर्थम् अभ्यासेन च इति उच्यते ।८ - १३ - तद्व्यवाये च अषोपदेशार्थम् । तद्व्यवाये अभ्यासव्यवाये च अषोपदेशस्य अपि यथा स्यात् ।९ - १३ - अभिषिषेणयिषति ।१० - १३ - अवर्णार्थम् षणि प्रतिषेधार्थम् च । अवणार्थम् तवत् ।११ - १३ - अभितष्ठौ ।१२ - १३ - षणि प्रतिषेधार्थम् ।१३ - १३ - अभिषिषिक्षति१ - २३ - उपसर्गात् षत्वे निसः उपसङ्ख्यानम् अनिणन्तत्वात् ।२ - २३ - उपसर्गात् षत्वे निसः उपसङ्ख्यानम् कर्तव्यम् ।३ - २३ - निःषुणोति निःषिञ्चति ।४ - २३ - किम् पुनः कारणम् न सिध्यति ।५ - २३ - अनिणन्तत्वात् ।६ - २३ - इणन्तात् उपसर्गात् षत्वम् उच्यते न च निस्* इणन्तः ।७ - २३ - न वा वर्णाश्रयत्वात् षत्वस्य तद्विशेषकः उपसर्गः धातुः च ।८ - २३ - न वा वक्तव्यम् ।९ - २३ - किम् कारणम् ।१० - २३ - वर्णाश्रयत्वात् षत्वस्य ।११ - २३ - वर्णाश्रयम् षत्वम् ।१२ - २३ - तद्विशेषकः उपसर्गः धातुः च ।१३ - २३ - न एवम् विज्ञायते इणन्तात् उपसर्गात् इति ।१४ - २३ - कथम् तर्हि ।१५ - २३ - इणः उत्तरस्य सकारस्य सः चेत् इण् उपसर्गस्य सः चेत् सकारः सुनोत्यादीनाम् इति ।१६ - २३ - तत्र शर्व्यवाये इति एव सिद्धम् ।१७ - २३ - यदि एवम् धातूपसर्गयोः अभिसम्बन्धः अकृतः भवति ।१८ - २३ - तत्र कः दोषः ।१९ - २३ - इह अपि प्राप्नोति ।२० - २३ - विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः ।२१ - २३ - धातूपसर्गयोः च अभिसम्बन्धः कृतः ।२२ - २३ - कथम् ।२३ - २३ - सुनोत्यादिभिः अत्र उपसर्गम् विशेषयिष्यामः सुनोत्यादीनाम् यः उपसर्गः तस्य यः इण् इति१ - १० - सुनोत्यादीनाम् षत्वे ण्यन्तस्य उपसङ्ख्यानम् अधिकत्वात् ।२ - १० - सुनोत्यादीनाम् षत्वे ण्यन्तस्य उपसङ्ख्यानम् कर्तव्यम् ।३ - १० - अभिषावयति ।४ - १० - किम् कारणम् ।५ - १० - अधिकत्वात् ।६ - १० - व्यतिरिक्तः सुनोत्यादिः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति ।७ - १० - न वा अवयवस्य अनन्यत्वात् । न वा वक्तव्यम् ।८ - १० - किम् कारणम् ।९ - १० - अवयवस्य अनन्यत्वात् ।१० - १० - अवयवः अत्र अनन्यः१ - १६ - नामधातोः तु प्रतिषेधः ।२ - १६ - नामधातोः तु प्रतिषेधः वक्तव्यः ।३ - १६ - सावकम् इच्छति अभिसावकीयति परिसावकीयति ।४ - १६ - न वा अनुपसर्गत्वात् । न वा वक्तव्यः ।५ - १६ - किम् कारणम् ।६ - १६ - अनुपसर्गत्वात् ।७ - १६ - यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च अत्र सुनोतिम् प्रति क्रियायोगः ।८ - १६ - किम् तर्हि सावकीयतिम् प्रति ।९ - १६ - इह अपि तर्हि न प्राप्नोति अभिषावयति ।१० - १६ - अत्र अपि न सुनोतिम् प्रति क्रियायोगः ।११ - १६ - किम् तर्हि सावयतिम् प्रति ।१२ - १६ - सुनोतिम् प्रति अत्र क्रियायोगः ।१३ - १६ - कथम् ।१४ - १६ - न असौ एवम् प्रेष्यते सुनु अभि इति ।१५ - १६ - किम् तर्हि ।१६ - १६ - उपसर्गविशिष्टाम् असौ क्रियाम् प्रेष्यते अभिषुणु इति१ - १२ - अप्रतेः इति वर्तते उताहो निवृत्तम् ।२ - १२ - निवृत्तम् इति आह ।३ - १२ - कथम् ज्ञायते ।४ - १२ - योगविभागकरणसामर्थ्यात् ।५ - १२ - इतरथा हि सदिस्तम्भ्योः अप्रतेः इति एव ब्रूयात् ।६ - १२ - अस्ति अन्यत् योगविभागकरणे प्रयोजनम् ।७ - १२ - किम् ।८ - १२ - अवाच्चालम्बनाविदूर्वयोः इति वक्ष्यति तत् स्तम्भेः एव यथा स्यात् सदेः मा भूत् इति ।९ - १२ - न एतत् अस्ति प्रयोजनम् ।१० - १२ - एकयोगे अपि सति यस्य आलम्बनाविदूर्ये स्तः तस्य भविष्यति ।११ - १२ - कस्य च आलम्बनाविदूर्ये स्तः ।१२ - १२ - स्तम्भेः एव१ - ७ - अथ यः प्राणी अप्राणी च कथम् तत्र भवितव्यम् ।२ - ७ - अनुष्यन्देते मत्स्योदके इति ।३ - ७ - आहोस्वित् अनुस्यन्देते मत्स्योदके इति ।४ - ७ - यदि तावत् अप्राणी विधिना आश्रीयते अस्ति अत्र अप्राणी इति कृत्वा भवितव्यम् षत्वेन ।५ - ७ - अथ प्राणी प्रतिषेधेन आश्रीयते अस्ति अत्र प्राणी इति कृत्वा भवितव्यम् प्रतिषेएधेन ।६ - ७ - किम् पुनः अत्र अर्थसतत्त्वम् ।७ - ७ - देवाः ज्ञातुम् अर्हन्ति१ - ५ - अनिष्ठायाम् इति वर्तते उताहो निवृत्तम् ।२ - ५ - निवृत्तम् इति आह ।३ - ५ - कथम् ज्ञायते ।४ - ५ - योगविभागकरणसामर्थ्यात् ।५ - ५ - इतरथा हि विपरिभ्याम् च स्कन्देः अनिष्ठायाम् इति एव ब्रूयात्१ - ४ - इण्ग्रहणम् किमर्थम् ।२ - ४ - इण्ग्रहणम् ढत्वे कवर्गनिवृत्त्यर्थम् ।३ - ४ - इण्घ्रहणम् क्रियते कवर्गात् ढत्वम् मा भूत् इति ।४ - ४ - पक्षीध्वम् यक्षीध्वम्१ - ४५ - किम् पुनः इदम् इण्ग्रहणम् प्रत्ययविशेषणम् इणः उत्तरेषाम् षीध्वंलुङ्लिटाम् यः धकारः इति ।२ - ४५ - आहोस्वित् धकारविशेषणम् इणः उत्तरस्य धकारस्य सः चेत् षीध्वंलुङ्लिटाम् धकारः इति ।३ - ४५ - कः च अत्र विशेषः ।४ - ४५ - तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् परादित्वात् । तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् न प्राप्नोति ।५ - ४५ - लुलुविढ्वे लुलुविध्वे इति ।६ - ४५ - किम् कारणम् ।७ - ४५ - परादित्वात् ।८ - ४५ - इट् परादिः ।९ - ४५ - वचनात् भविष्यति ।१० - ४५ - अस्ति वचने प्रयोजनम् ।११ - ४५ - किम् ।१२ - ४५ - अलविढ्वम् अलविध्वम् ।१३ - ४५ - अस्तु तर्हि धकारविशेषणम् ।१४ - ४५ - धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषाभावः ।१५ - ४५ - धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषा न प्राप्नोति ।१६ - ४५ - लविषीढ्वम् लविषीध्वम् इति ।१७ - ४५ - वचनात् भविष्यति ।१८ - ४५ - अस्ति वचने प्रयोजनम् ।१९ - ४५ - किम् ।२० - ४५ - लुलुविढ्वे लुलुविध्वे इति ।२१ - ४५ - इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः । इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वम् प्राप्नोति पक्षीध्वम् , यक्षीध्वम् इति ।२२ - ४५ - न एषः दोषः ।२३ - ४५ - अङ्गात् इति वक्ष्यामि ।२४ - ४५ - अङ्गग्रहणात् च दोषः ।२५ - ४५ - इह न प्राप्नोति उपदिदीयिध्वे , उपदिदीयिढ्वे ।२६ - ४५ - यः हि अत्र अङ्गान्त्यः इण् न तस्मात् उत्तरः इट् यस्मात् च उत्तरः इट् न असौ अङ्गान्त्यः इण् इति ।२७ - ४५ - यथा इच्छसि तथा अस्तु ।२८ - ४५ - अस्तु तावत् प्रत्ययविशेषणम् ।२९ - ४५ - ननु च उक्तम् तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् परादित्वात् लुलुविढ्वे लुलुविध्वे इति ।३० - ४५ - वचनात् भविष्यति ।३१ - ४५ - ननु च उक्तम् अस्ति वचने प्रयोजनम् ।३२ - ४५ - किम् ।३३ - ४५ - अलविढ्वम् अलविध्वम् इति ।३४ - ४५ - यत् एतस्मिन् योगे लिड्ग्रहणम् तदनवकाशम् तस्य अनवकाशत्वात् वचनात् भविष्यति ।३५ - ४५ - अथ वा पुनः अस्तु धकारविशेषणम् इति ।३६ - ४५ - ननु च उक्तम् धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषाभावः लविषीढ्वम् लविषीध्वम् इति ।३७ - ४५ - वचनात् भविष्यति ।३८ - ४५ - ननु च उक्तम् अस्ति वचने प्रयोजनम् ।३९ - ४५ - किम् ।४० - ४५ - लुलुविढ्वे लुलुविध्वे इति ।४१ - ४५ - यत् एतस्मिन् योगे षीध्वङ्ग्रहणम् तत् अनवकाशम् तस्य अनवकाशत्वात् वचनात् भविष्यति ।४२ - ४५ - यत् अपि उच्यते इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः इति अङ्गात् इति वक्ष्यामि ।४३ - ४५ - ननु च उक्तम् अङ्गग्रहणात् च दोषः इति ।४४ - ४५ - पूर्वस्मिन् योगे यत् अङ्गग्रहणम् तत् उत्तरत्र निवृत्तम् ।४५ - ४५ - अथ वा पूर्वस्मिन् योगे इण्ग्रहणम् प्रत्ययविशेषणम् उत्तरत्र धकारविशेषणम्१ - १६ - अग्नेः दीर्घात् सोमस्य ।२ - १६ - अग्नेः दीर्घात् सोमस्य इति वक्तव्यम् ।३ - १६ - अग्नीषोमौ ।४ - १६ - इतरथा हि अनिष्टप्रसङ्गः । इतरथा हि अनिष्टम् प्रसज्येत ।५ - १६ - अग्निसोमौ माणवकौ इति ।६ - १६ - तत् तर्हि वक्तव्यम् ।७ - १६ - न वक्तव्यम् ।८ - १६ - गौणमुख्ययोः मुख्ये सम्प्रतिप्रत्तिः ।९ - १६ - तत् यथा ।१० - १६ - गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते ।११ - १६ - कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः ।१२ - १६ - गौः तिष्ठति ।१३ - १६ - गाम् आनय इति ।१४ - १६ - अर्थाश्रये एतत् एवम् भवति ।१५ - १६ - यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति ।१६ - १६ - शब्दाश्रये च वृद्ध्यात्वे१ - ९ - सान्ताभ्याम् च इति वक्तव्यम् ।२ - ९ - इह अपि यथा स्यात् ।३ - ९ - मातुःष्वसा मातुःस्वसा ।४ - ९ - पितुःष्वसा पितुःस्वसेति ।५ - ९ - मातुः पितुः इति सान्तग्रहणानर्थक्यम् एकदेशविकृतस्य अनन्यत्वात् ।६ - ९ - मातुः पितुः इति सान्तग्रहणम् अनर्थकम् ।७ - ९ - किम् कारणम् ।८ - ९ - एकदेशविकृतस्य अनन्यत्वात् ।९ - ९ - एकदेशविकृतम् अनन्यवत् भवति इति सान्तस्य अपि भविष्यति१ - २० - अस्तिग्रहणम् किमर्थम् ।२ - २० - इह मा भूत् ।३ - २० - अनुसृतम् , विसृतम् इति ।४ - २० - न एतत् अस्ति प्रयोजनम् ।५ - २० - यद्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतम् सकारम् प्रति क्रियायोगः ।६ - २० - इह अपि तर्हि न प्राप्नोति अभिषन्ति विषन्ति इति न हि अस्तिः क्रियावचनः ।७ - २० - कः पुनः आह न अस्तिः क्रियावचनः इति ।८ - २० - क्रियावचनः अस्तिः ।९ - २० - आतः च क्रियावचनः व्यत्यनुषते कर्तरिकर्मव्यतिहारे इति अनेन आत्मनेपदम् भवति ।१० - २० - कर्मव्यतिहारः च कः ।११ - २० - क्रियाव्यतिहारः ।१२ - २० - प्रादुःशब्दात् तर्हि मा भूत् ।१३ - २० - प्रादुःशब्दः च नियतविषयः कृभ्वस्तियोगे एव वर्तते ।१४ - २० - उपसर्गात् तर्हि स्यतेः मा भूत् इति ।१५ - २० - इष्यते उपसर्गात् स्यतेः षत्वम् ।१६ - २० - आतश् च इष्यते ।१७ - २० - एवम् हि आह उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वङ्जाम् इति ।१८ - २० - प्रादुःशब्दात् तर्हि स्यतेः मा भूत् इति ।१९ - २० - प्रादुःशब्दः च नियतविषयः कृभ्वस्तियोगे एव वर्तते ।२० - २० - इदम् तर्हि प्रयोजनम् इह मा भूत् अनुसूतेः अप्रत्ययः अनुसूः अनुस्वः अपत्यम् आनुसेयः१ - २५ - किमर्थम् स्वपेः सुपिभूतस्य ग्रहणम् क्रियते ।२ - २५ - सुपेः षत्वम् स्वपेः मा भूत् ।३ - २५ - सुपेः षत्वम् उच्यते तत् स्वपेः मा भूत् इति ।४ - २५ - सुस्वप्नः विस्वप्नक् इति ।५ - २५ - विसुष्वाप इति केन न । विसुष्वाप इति अत्र कस्मात् न भवति ।६ - २५ - हलादिशेषात् न सुपिः । हलादिशेषे कृते न एषः सुपिः भवति ।७ - २५ - इदम् इह सम्प्रधार्यम् ।८ - २५ - हलादिशेषः क्रियताम् सम्प्रसारणम् इति किम् अत्र कर्तव्यम् ।९ - २५ - परत्वात् हलादिशेषः ।१० - २५ - इष्टम् पूर्वम् प्रसारणम् । इष्यते हलादिशेषात् पूर्वम् सम्प्रसारणम् ।११ - २५ - आतः च इष्यते ।१२ - २५ - एवम् हि आह अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति ।१३ - २५ - एवम् तर्हि स्थादिषु अभ्यासस्य इति एतस्मात् नियमात् न भविष्यति ।१४ - २५ - स्थादीनाम् नियमः न अत्र प्राक् सितात् उत्तरः सुपिः । प्राक् सितसंशब्दनात् सः नियमः उत्तरः च सुपिः पठ्यते ।१५ - २५ - एवम् तर्हि अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति ।१६ - २५ - अनर्थके विषुषुपुः । यदि अर्थवतः ग्रहणम् विषुषुपुः इति न सिध्यति ।१७ - २५ - न एषः दोषः ।१८ - २५ - कथम् ।१९ - २५ - सुपिभूतः द्विः उच्यते । सुपिभुतस्य द्विर्वचनम् ।२० - २५ - सुपेः षत्वम् स्वपेः मा भूत् ।२१ - २५ - विसुष्वाप इति केन न ।२२ - २५ - हलादिशेषात् न सुपिः ।२३ - २५ - इष्टम् पूर्वम् प्रसारणम् ।२४ - २५ - स्थादीनाम् नियमः न अत्र प्राक् सितात् उत्तरः सुपिः ।२५ - २५ - अनर्थके विषुषुपुः सुपिभूतः द्विः उच्यते ।१ - ११ - कपिष्ठलः गोत्रप्रकृतौ ।२ - ११ - कपिष्ठलः गोत्रप्रकृतौ इति वक्तव्यम् ।३ - ११ - गोत्रे इति उच्यमाने इह एव स्यात् ।४ - ११ - कापिष्ठलिः ।५ - ११ - इह न स्यात् ।६ - ११ - कपिष्ठलः कापिष्ठलायनः ।७ - ११ - तत् तर्हि वक्तव्यम् ।८ - ११ - न वक्तव्यम् ।९ - ११ - न एवम् विज्ञायते कपिष्ठलः इति गोत्रे निपात्यते इति ।१० - ११ - कथम् तर्हि ।११ - ११ - गोत्रे यः कपिष्ठलशब्दः तस्य षत्वम् निपात्यते यत्र वा तत्र वा इति१ - ११ - स्थः इति किम् इदम् धातुग्रहणम् आहोस्वित् रूपग्रहणम् ।२ - ११ - किम् च अतः ।३ - ११ - यदि धातुग्रहणम् गोस्थानम् इति अत्र प्राप्नोति ।४ - ११ - अथ रूपग्रहणम् सव्येष्ठाः , परमेष्ठी , सव्येष्ठा सारथिः इति अत्र न प्राप्नोति ।५ - ११ - यथा इच्छसि तथा अस्तु ।६ - ११ - अस्तु तावत् धातुग्रहणम् ।७ - ११ - कथम् गोस्थानम् इति ।८ - ११ - सवनादिषु पाठः करिष्यते ।९ - ११ - अथ वा पुनः अस्तु रूपग्रहणम् ।१० - ११ - कथम् सव्येष्ठाः , पर्मेष्ठी , सव्येष्ठा सारथिः इति ।११ - ११ - स्थः स्थास्थिन्स्थृ̄णाम् इति वक्तव्यम्१ - १ - अविहितलक्षणः मूर्धन्यः सुषामादिषु द्रष्टव्यः१ - ३ - ह्रस्वात् तादौ तिङि प्रतिषेधः ।२ - ३ - ह्रस्वात् तादौ तिङि प्रतिषेधः वक्तव्यः ।३ - ३ - भिन्द्युस्तराम् छिन्द्युस्तराम् इति१ - ५ - स्तुतस्तोमयोः छन्दसि अनर्थकम् वचनम् पूर्वपदात् इति सिद्धत्वात् ।२ - ५ - स्तुतस्तोमयोः छन्दसि वचनम् अनर्थकम् ।३ - ५ - किम् कारणम् ।४ - ५ - पूर्वपदात् इति सिद्धत्वात् ।५ - ५ - पूर्वपदात् इति एव सिद्धम्१ - २० - सनोतेः अनः इति च ।२ - २० - किम् ।३ - २० - वचनम् अनर्थकम् इति एव ।४ - २० - किम् कारणम् ।५ - २० - पूर्वपदात् इति सिद्धत्वात् ।६ - २० - नियमार्थम् तर्हि इदम् वक्तव्यम् ।७ - २० - सनोतेः अनकारस्य एव यथा स्यात् ।८ - २० - इह मा भूत् ।९ - २० - गोसनिम् इति ।१० - २० - सनोतेः अनः इति नियमार्थम् इति चेत् सवनादिकृतत्वात् सिद्धम् । सनोतेः अनः इति नियमार्थम् इति चेत् सवनादिषु पाठः करिष्यते ।११ - २० - सनर्थम् तु । सनर्थम् तु इदम् वक्तव्यम् ।१२ - २० - सिसनिषति ।१३ - २० - एतत् अपि न अस्ति प्रयोजनम् ।१४ - २० - स्तौतिण्योरेवषण्यभ्यासात् इति एतस्मात् नियमात् न भविष्यति ।१५ - २० - ण्यर्थम् तर्हि इदम् वक्तव्यम् ।१६ - २० - सिसानयिषति ।१७ - २० - कथम् पुनः अण्यन्तस्य प्रतिषेधे ण्यन्तः शक्यः विज्ञातुम् ।१८ - २० - सामर्थ्यात् ।१९ - २० - अण्यन्तस्य प्रतिषेधवचने प्रयोजनम् न अस्ति इति कृत्वा ण्यन्ते विज्ञास्यते ।२० - २० - अथ वा अयम् अस्ति अण्यन्तः सिसनिषतेः अप्रत्ययः सिसनीः१ - ११ - किमर्थम् सवादिषु अश्वसनिशब्दः पठ्यते ।२ - ११ - पूर्वपदात् इति षत्वम् प्राप्नोति ।३ - ११ - तद्बाधनार्थम् ।४ - ११ - न एतत् अस्ति प्रयोजनम् ।५ - ११ - इणन्तात् इति तत्र अनुवर्तते अनिणन्तः च अयम् ।६ - ११ - न एव प्राप्नोति न अर्थः प्रतिषेधेन ।७ - ११ - एवम् तर्हि सिद्धे सति यत् सवनादिषु अश्वसनिशब्दम् पठति तत् ज्ञापयति आचार्यः अनिणन्तात् अपि षत्वम् भवति इति ।८ - ११ - किम् एतस्य ज्ञापने प्रयोजनम् ।९ - ११ - जलाषाहम् माषः इति एतत् सिद्धम् भवति ।१० - ११ - अथ वा एकदेशविकृतार्थः अयम् आरम्भः ।११ - ११ - अश्वषाः इति१ - ९ - उपसर्गात् इति या प्राप्तिः भवितव्यम् तस्याः प्रतिषेधेन उताहो न ।२ - ९ - न भवितव्यम् ।३ - ९ - किम् कारणम् ।४ - ९ - उपसर्गात् षत्वम् प्रतिषेधविषये आरभ्यते तत् यथा एव पदादिलक्षणम् प्रतिषेधम् बाधते एवम् सिचः यङि इति एतम् अपि बाधते ।५ - ९ - न बाधते ।६ - ९ - किम् कारणम् ।७ - ९ - येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते पदादिलक्षणे प्रतिषेधे उपसर्गात् षत्वम् आरभ्यते सिचः यङि इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च ।८ - ९ - अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् उपसर्गात् षत्वम् पदादिलक्षणम् प्रतिषेधम् बाधिष्यते सिचः यङि इति एतम् न बाधिष्यते ।९ - ९ - तस्मात् अभिसेसिच्यते इति भवितव्यम्१ - ४ - किमर्थम् सहिः सोढभूतः गृह्यते ।२ - ४ - यत्र अस्य एतत् रूपम् तत्र यथा स्यात् ।३ - ४ - इह मा भूत् ।४ - ४ - परिषहते इति१ - ६ - स्तम्भुसिवुसहाम् चङि उपसर्गात् ।२ - ६ - स्तम्भुसिवुसहाम् चङि उपसर्गात् इति वक्तव्यम् ।३ - ६ - किम् प्रयोजनम् ।४ - ६ - उपसर्गात् या प्राप्तिः तस्याः प्रतिषेधः यथा स्यात् ।५ - ६ - अभ्यासात् या प्राप्तिः तस्याः प्रतिषेधः मा भूत् इति ।६ - ६ - पर्यसीषहत्१ - ९ - सनि किम् उदाहरणम् ।२ - ९ - सुसूषति ।३ - ९ - न एतत् अस्ति प्रयोजनम् ।४ - ९ - स्तौतिण्योः एव षणि इति एतस्मात् नियमात् न भविष्यति ।५ - ९ - इदम् तर्हि ।६ - ९ - अभिसुसूषति ।७ - ९ - एतत् अपि न अस्ति प्रयोजनम् ।८ - ९ - स्थादिष्वभ्यासेनचाभ्यासस्य इति एतस्मात् नियमात् न भविष्यति ।९ - ९ - इदम् तर्हि प्रयोजनम् अभिसुसूषतेः अप्रत्ययः अभिसुसूः१ - ३ - सदः लिटि प्रतिषेधे स्वञ्जेः उपसङ्ख्यनम् ।२ - ३ - सदः लिटि प्रतिषेधे स्वञ्जेः उपसङ्ख्यानम् कर्तव्यम् ।३ - ३ - परिषस्वजे N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP