पाद ३ - खण्ड ८५

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ७ - मतुवसः रादेशे वनः उपसङ्ख्यानम् ।

२ - ७ - मतुवसः रादेशे वनः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ७ - यः त्वा आयन्तम् वसुना प्रातरित्वः ।

४ - ७ - इभाषा भवद्भगवदघवताम् ओत् च अवस्य । छन्दसि भाषायाम् च भवत् भगवत् अघवत् इति एतेषाम् विभाषा रुः वक्तव्यः ओत् च अवस्य वक्तव्यः ।

५ - ७ - भोः , भवन् ।

६ - ७ - भगोः , भगवन् ।

७ - ७ - अघोः , अघवन् इति

१ - ८ - सम्बुद्धौ इति उच्यते तत्र इदम् न सिध्यति ।

२ - ८ - भोः ब्राह्मणाः इति ।

३ - ८ - तथा विभक्तौ लिङ्गविशिष्टग्रहणम् न इति इह न प्राप्नोति ।

४ - ८ - भोः ब्राह्मणि ।

५ - ८ - न एषः दोषः ।

६ - ८ - अव्ययम् एषः भोःशब्दः न एषा भवतः प्रवृत्तिः ।

७ - ८ - कथम् अव्ययत्वम् ।

८ - ८ - विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा निपातः अव्ययम् इति अव्ययसञ्ज्ञा

१ - २१ - सम्पुङ्कानाम् सत्वम् ।

२ - २१ - सम्पुङ्कानाम् सत्वम् वक्तव्यम् ।

३ - २१ - संस्कर्ता पुंस्कामा कांस् कान् इति ।

४ - २१ - रुविधौ हि अनिष्टप्रसङ्गः । रुविधौ हि सति अनिष्टम् प्रसज्येत ।

५ - २१ - इह तावत् संस्कर्ता इति वा शरि इति प्रसज्येत ।

६ - २१ - पुंस्कामा इति इदुदुपधस्य इति षत्वम् प्रसज्येत ।

७ - २१ - कांस् कान् इति कुप्वोः ह्कः प्रसज्येत ।

८ - २१ - तत् तर्हि वक्तव्यम् ।

९ - २१ - न वक्तव्यम् ।

१० - २१ - क्रियते न्यासे एव ।

११ - २१ - समः सुटि इति द्विसकारकः निर्देशः समः सुटि सकारः भवति ।

१२ - २१ - तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते ।

१३ - २१ - यदि तत् अनुवर्तते नश्छव्यप्रशान् इति अत्र अपि प्राप्नोति ।

१४ - २१ - सम्बन्धम् अनुवर्तिष्यते ।

१५ - २१ - समःसुटि ।

१६ - २१ - पुमः खयि अम्परे सः भवति ।

१७ - २१ - नः छवि अप्रशान् रुः भवति पुमः खयि अम्परे सकारः ।

१८ - २१ - उभयथर्क्षु दीर्घादटिसमानपादे नृ̄न्पे स्वतवान्पायौ रुः भवति पुमः खयि अम्परे सकारः ।

१९ - २१ - कान् आम्रेडिते सकारः ।

२० - २१ - पुमः खयि अम्परे इति निवृत्तम् ।

२१ - २१ - समः वा लोपम् एके इच्छन्ति संस्कर्ता सम्̐स्कर्ता

१ - २२ - ढलोपे अपदान्तग्रहणम् ।

२ - २२ - ढलोपे अपदान्तग्रहणम् कर्तव्यम् ।

३ - २२ - इह मा भूत् ।

४ - २२ - श्वलिट् ढौकते ।

५ - २२ - गुडलिट् ढौकते ।

६ - २२ - तत् तर्हि वक्तव्यम् ।

७ - २२ - न वक्तव्यम् ।

८ - २२ - जश्त्वम् अत्र बाधकम् भविष्यति ।

९ - २२ - जश्भावात् इति चेत् उत्तरत्र ढस्य अभावात् अपवादप्रसङ्गः । जश्भावात् इति चेत् उत्तरत्र ढकारस्य अभावात् असिद्धत्वात् अपवादः अयम् विज्ञायते ।

१० - २२ - कस्य ।

११ - २२ - जश्त्वस्य ।

१२ - २२ - तस्मात् सिद्धवचनम् । तस्मात् सिद्धत्वम् वक्तव्यम् ।

१३ - २२ - कस्य ।

१४ - २२ - ष्टुत्वस्य ।

१५ - २२ - सङ्ग्रहणम् वा । सङ्ग्रहणम् वा कर्तव्यम् ।

१६ - २२ - सङि ढः इति वक्तव्यम् ।

१७ - २२ - तत्तर्हि वक्तव्यम् ।

१८ - २२ - न वक्तव्यम् ।

१९ - २२ - आनन्तर्यम् इह आश्रीयते ढकारस्य ढकारे इति ।

२० - २२ - क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् च न एव सन्निपातकृतम् न अपि शास्त्रकृतम् ।

२१ - २२ - ष्टुत्वे सन्निपातकृतम् आनन्तर्यम् जश्त्वे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् ।

२२ - २२ - यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः

१ - २९ - विसर्जनीयः अनुत्तरपदे ।

२ - २९ - विसर्जनीयः अनुत्तरपदे इति वक्तव्यम् ।

३ - २९ - इह मा भूत् ।

४ - २९ - नार्कुटः नार्पत्यः इति ।

५ - २९ - न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् ।

६ - २९ - किम् कारणम् ।

७ - २९ - बहिरङलक्षणत्वात् ।

८ - २९ - बहिरङ्गः रेफः ।

९ - २९ - अन्तरङ्गः विसर्जनीयः ।

१० - २९ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

११ - २९ - न एषः युक्तः परिहारः ।

१२ - २९ - अन्तरङ्गम् बहिरङ्गम् इति प्रतिद्वन्द्वभाविनौ एतौ पक्षौ ।

१३ - २९ - सति अन्तरङ्गे बहिरङ्गम् सति बहिरङ्गे अन्तर्गम् ।

१४ - २९ - न च अत्र अन्तरङ्गबहिरङ्गयोः युगपत् समवस्थानम् अस्ति ।

१५ - २९ - किम् कारणम् ।

१६ - २९ - असिद्धत्वात् ।

१७ - २९ - न च अनभिनिर्वृत्ते बहिरङ्गे अन्तरङ्गम् प्राप्नोति ।

१८ - २९ - तत्र निमित्तम् एव बहिरङ्गम् अन्तरङ्गस्य ।

१९ - २९ - अनिमित्तम् बहिरङ्गम् अन्तरङ्गस्य ।

२० - २९ - किम् कारणम् ।

२१ - २९ - असिद्धत्वात् ।

२२ - २९ - कथम् असिद्धत्वम् यावता पूर्वत्र असिद्धम् इति असिद्धा परिभाषा ।

२३ - २९ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

२४ - २९ - कथम् ।

२५ - २९ - कार्यकालम् सञ्ज्ञापरिभाषम् इति खरवसानयोर्विसर्जनीयः उपस्थितम् इदम् भवति असिद्धम् बहिरङ्गम् अन्तरङ्गे इति ।

२६ - २९ - एवम् एषा सिद्धा परिभाषा भवति ।

२७ - २९ - कुतः नु खलु एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः पूर्वत्र असिद्धम् इति च असिद्धम् बहिरङ्गम् अन्तरङ्गे इति च पूर्वत्रासिद्धम् इति एताम् उपमृद्य असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एतया व्यवस्था भविष्यति न पुनः असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एताम् उपमृद्य पुर्वत्रासिद्धम् इति एतया व्यवस्था स्यात् ।

२८ - २९ - अतः किम् ।

२९ - २९ - अतः अयुक्तः परिहारः न वा बहिरङ्गलक्षणत्वात् इति

१ - ५ - किमर्थम् इदम् उच्यते न खरवसानयोः विसर्जनीयः इति एव सिद्धम् ।

२ - ५ - नियमार्थः अयम् आरम्भः ।

३ - ५ - रोः एव सुपि न अन्यस्य सुपि ।

४ - ५ - क्व मा भूत् ।

५ - ५ - गीर्षु धूर्षु

१ - २४ - अश्ग्रहणम् अनर्थकम् अन्यत्र अभावात् ।

२ - २४ - अश्ग्रहणम् अनर्थकम् ।

३ - २४ - किम् कारणम् ।

४ - २४ - अन्यत्र अभावात् ।

५ - २४ - न हि अन्यत्र रुः अस्ति अन्यत् अतः अशः ।

६ - २४ - ननु च अयम् अस्ति. छन्दःसु पयःसु इति ।

७ - २४ - किम् पुनः कारणम् सुकारपरः एव उदाह्रियते न पुनः अयम् वृक्षः तत्र प्लक्षः तत्र इति ।

८ - २४ - अस्ति अत्र विशेषः ।

९ - २४ - विसर्जनीये कृते न भविष्यति ।

१० - २४ - इह अपि तर्हि विसर्जनीये कृते न भविष्यति ।

११ - २४ - छन्दःसु पयःस्विति ।

१२ - २४ - स्थानिवद्भावात् प्राप्नोति ।

१३ - २४ - ननु च इह अपि स्थानिवद्भावात् प्राप्नोति ।

१४ - २४ - वृक्षः तत्र प्लक्षः तत्र इति ।

१५ - २४ - अनल्विधौ स्थानिवद्भावः ।

१६ - २४ - अथ अयम् अल्विधिः स्यात् शक्यम् अश्ग्रहणम् अवक्तुम् ।

१७ - २४ - बाढम् शक्यम् ।

१८ - २४ - अल्विधिः तर्हि भविष्यति ।

१९ - २४ - कथम् ।

२० - २४ - इदम् अस्ति रोरि इति ।

२१ - २४ - ततः वक्ष्यामि खरवसानयोः विसर्जनीयः रः ।

२२ - २४ - ततः रोः सुपि विसर्जनीयः रः इति एव ।

२३ - २४ - उत्तरार्थम् तर्हि अश्ग्रहणम् कर्तव्यम् हलिसर्वेषाम् हलि अशि इति यथा स्यात् ।

२४ - २४ - इह मा भूत् वृक्षवयतेः अप्रत्ययः वृक्षव् करोति

१ - ४ - किमर्थम् इदम् उच्यते न लोपः शाकल्यस्य इति एव सिद्धम् ।

२ - ४ - ओकारात् लोपवचनम् नित्यार्थम् ।

३ - ४ - ओकारात् लोपवचनम् क्रियते ।

४ - ४ - नित्यार्थः अयम् आरम्भः

१ - ७ - पदे इति किमर्थम् ।

२ - ७ - तन्त्रे , उतम् , तन्त्रयुतम् , तन्त्र*उतम् ।

३ - ७ - पदे इति शक्यम् अवक्तुम् ।

४ - ७ - कस्मात् न भवति तन्त्रे , उतम् , तन्त्रयुतम् , तन्त्र*उतम् इति ।

५ - ७ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

६ - ७ - उत्तरार्थम् तर्हि पदग्रहणम् कर्तव्यम् ङमोह्रस्वादचिङमुण्नित्यम् इति अपदे मा भूत् ।

७ - ७ - दण्डिना शकटिना

१ - ५ - यवलपरे यवलाः वा ।

२ - ५ - यवलपरे हकारे यवलाः वा इति वक्तव्यम् ।

३ - ५ - किय्ह्यः किम् ह्यः ।

४ - ५ - किव्ह्वलयति किम् ह्वलयति ।

५ - ५ - किल्ह्लादयति किम् ह्लादयति

१ - ३० - इह धुडादिषु केचित् पूर्वान्ताः केचित् परादयः ।

२ - ३० - यदि पुनः सर्वे एव पूर्वान्ताः स्युः सर्वे एव परादयः ।

३ - ३० - कः च अत्र विशेषः ।

४ - ३० - धुगादिषु ष्टुत्वणत्वप्रतिषेधः ।

५ - ३० - धुगादिषु सत्सु ष्टुत्वणत्वयोः प्रतिषेधः वक्तव्यः ।

६ - ३० - ष्टुत्वस्य तावत् ।

७ - ३० - श्वलिट्त्साये ।

८ - ३० - मधुलिट्त्साये ।

९ - ३० - ष्टुनाष्टुः इति ष्टुत्वम् प्राप्नोति ।

१० - ३० - परादौ पुनः सति नपदान्ताट्टोरनाम् इति प्रतिषेधः सिद्धः भवति ।

११ - ३० - णत्वस्य ।

१२ - ३० - कुर्वन्नास्ते ।

१३ - ३० - कृषन्नास्ते ।

१४ - ३० - रषाभ्यान्नोणःसमानपदे इत् णत्वम् प्राप्नोति ।

१५ - ३० - परादौ पुनः सति पदान्तस्य न इति प्रतिषेधः सिद्धः भवति ।

१६ - ३० - सन्तु तर्हि परादयः ।

१७ - ३० - परादौ छत्वषत्वविधिप्रतिषेधः । यदि परादयः छत्वम् विधेयम् षत्वम् च प्रतिषेध्यम् ।

१८ - ३० - छत्वम् विधेयम् ।

१९ - ३० - कुर्वञ्च्छेते ।

२० - ३० - कृषञ्च्छेते ।

२१ - ३० - यत् हि तत् शश्छोऽटि इति झयः पदान्तात् इति एवम् तत् ।

२२ - ३० - किम् पुनः कारणम् झयः पदान्तात् इति एवम् तत् ।

२३ - ३० - इह मा भूत् ।

२४ - ३० - पुरा क्रूरस्य विसृपः विरप्शिन् इति ।

२५ - ३० - षत्वम् च प्रतिषेध्यम् ।

२६ - ३० - प्रत्यङ्क्सिञ्च ।

२७ - ३० - उदङ्क्सिञ्च ।

२८ - ३० - आदेशप्रत्यययोः इति षत्वम् प्राप्नोति ।

२९ - ३० - पूर्वान्ते पुनः सति सात्पदाद्योः इति प्रतिषेधः सिद्धः भवति ।

३० - ३० - तस्मात् सन्तु यथान्यासम् एव केचित् पूर्वान्ताः केचित् परादयः ।

१ - ८ - अयम् तु खलु शि तुक् छत्वार्थम् नियोगतः पूर्वान्तः कर्तव्यः तत्र कुर्वञ्च्छेते कृषञ्च्छेते इति रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति ।

२ - ८ - न एषः दोषः ।

३ - ८ - श्चुत्वे योगविभागः करिष्यते ।

४ - ८ - इदम् अस्ति क्षुभ्नादिषु न णकारः भवति ।

५ - ८ - ततः स्तोः श्चुना ।

६ - ८ - स्तोः श्चुना सन्निपाते न णकारः भवति ।

७ - ८ - ततः श्चुः ।

८ - ८ - श्चुः च भवति स्तोः श्चुना सन्निपाते

१ - २८ - ङमुटि पदादिग्रहणम् ।

२ - २८ - ङमुटि पदादिग्रहणम् कर्तव्यम् ।

३ - २८ - इह मा भूत् ।

४ - २८ - दण्डिना शकटिना इति ।

५ - २८ - तत् तर्हि वक्तव्यम् ।

६ - २८ - न वक्तव्यम् ।

७ - २८ - पदात् इति वर्तते ।

८ - २८ - एवम् अपि परमदण्डिना परमच्छत्त्रिणा इति प्राप्नोति ।

९ - २८ - न एषः दोषः ।

१० - २८ - उक्तम् एतत् उत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति ।

११ - २८ - एवम् अपि पदात् इति वक्तव्यम् ।

१२ - २८ - यत् हि तत् प्रकृतम् प्राक् सुपि कुत्सनात् इति एवम् तत् ।

१३ - २८ - एवम् तर्हि ङमः एव अयम् ङमुट् क्रियते ।

१४ - २८ - कथम् ।

१५ - २८ - पदस्य इति वर्तते ङमः इति च न एषा पञ्चमी ।

१६ - २८ - का तर्हि ।

१७ - २८ - सम्बन्धषष्ठी ।

१८ - २८ - पदान्तस्य ङमः ङमुट् भवति ह्रस्वात् उत्तरस्य अचि इति ।

१९ - २८ - यदि ङमः एव ङमुट् क्रियते कुर्वन्नास्ते कृषन्नास्ते रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति ।

२० - २८ - पदान्तस्य न इति प्रतिषेधः भविष्यति ।

२१ - २८ - पदान्तस्य इति उच्यते न एषः पदान्तः ।

२२ - २८ - पदान्तभक्तः पदान्तग्रहणेन ग्राहिष्यते ।

२३ - २८ - एवम् अपि न सिध्यति ।

२४ - २८ - किम् कारणम् ।

२५ - २८ - उक्तम् एतत् न वा पदाधिकारस्य विशेषणत्वात् इति ।

२६ - २८ - एवम् तर्हि पदे इति वर्तते ।

२७ - २८ - क्व प्रकृतम् ।

२८ - २८ - उञि च पदे इति

१ - ९ - किमर्थम् मयः उत्तरस्य उञः वः वा इति उच्यते न इकः यणचि इति एव सिद्धम् ।

२ - ९ - न सिध्यति ।

३ - ९ - प्रगृह्यः प्रकृत्या इति प्रकृतिभावः प्राप्नोति ।

४ - ९ - यदि पुनः तत्र एव उच्येत इकः यणचि मयः उञः वा इति ।

५ - ९ - न एवम् शक्यम् ।

६ - ९ - इह हि दोषः स्यात् ।

७ - ९ - किम्वावपनम् महत् ।

८ - ९ - मः अनुस्वारः हलि इति अनुस्वारः प्रसज्येत ।

९ - ९ - वत्वे पुनः सति असिद्धत्वात् न भविष्यति

१ - ३१ - इह कस्मात् न भवति वृक्षः , प्लक्षः इति ।

२ - ३१ - संहितायाम् इति वर्तते ।

३ - ३१ - एवम् अपि अत्र प्राप्नोति ।

४ - ३१ - किम् कारणम् ।

५ - ३१ - परः सन्निकर्षः संहिता इति उच्यते ।

६ - ३१ - सः यथा एव परेण परः सन्निकर्षः एवम् पूर्वेण अपि ।

७ - ३१ - एवम् तर्हि अनवकाशा अवसानसञ्ज्ञा संहितासञ्ज्ञाम् बाधिष्यते ।

८ - ३१ - अथ वा संहितासञ्ज्ञायाम् प्रकर्षगतिः विज्ञास्यते साधीयः यः परः सन्निकर्षः इति ।

९ - ३१ - कः च साधीयः ।

१० - ३१ - यः पूर्वपरयोः ।

११ - ३१ - यदि एव अनवकाशा अवसानसञ्ज्ञा संहितासञ्ज्ञाम् बाधते अथ अपि संहितासञ्ज्ञायाम् प्रकर्षगतिः विज्ञायते उभयथा दोषः भवति ।

१२ - ३१ - इष्यन्ते इतः उत्तरम् अवसाने संहिताकार्याणि तानि न सिध्यन्ति ।

१३ - ३१ - अणः अप्रगृह्यस्य अनुनासिकः इति ।

१४ - ३१ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वस्य विसर्जनीयस्य सत्वम् भवति इति यत् अयम् खरवसानयोर्विस्जनीयः इति आह ।

१५ - ३१ - इतरथा खरवसानयोः सः भवति इति एव ब्रूयात् ।

१६ - ३१ - तत् च लघु भवति विसर्जनीयस्य सः इति एतत् च न वक्तव्यं भवति ।

१७ - ३१ - अवश्यम् शर्परेविसर्जनीयः इति अत्र प्रकृतिनिर्देशार्थम् विसर्जनीयग्रहणम् कर्तव्यम् ।

१८ - ३१ - अथ इदानीम् एतत् अपि रसान्निध्यार्थम् पुरस्तात् अपक्रक्ष्यते खरवसानयोः सः इति अत्र एव एवम् अपि कुप्वोः Xक्कXप्पौ च इति एवमादिना अनुक्रमणेन व्यवच्छिन्नम् भोभगोअघोअपूर्वस्ययोऽशि इति अत्र रुग्रहणम् कर्तव्यम् स्यात् ।

१९ - ३१ - एवम् अपि एकम् विसर्जनीयग्रहणम् व्याजः भवति ।

२० - ३१ - सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः न सर्वस्य विसर्जनीयस्य सत्वम् भवति इति ।

२१ - ३१ - एवम् अपि अनैकान्तिकम् ज्ञापकम् ।

२२ - ३१ - एतावत् ज्ञाप्यते न सर्वस्य विजनीयस्य सत्वम् भवति इति तत्र कुतः एतत् इह भविष्यति वृक्षः तत्र प्लक्षः तत्र इति इह न भविष्यति वृक्षः प्लक्षः इति ।

२३ - ३१ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न अस्य विसर्जनीयस्य सत्वम् भवति इति यत् अयम् शर्परे विसर्जनीयः इति आह ।

२४ - ३१ - अथ वा हलि इति वर्तते ।

२५ - ३१ - क्व प्रकृतम् ।

२६ - ३१ - हलि सर्वेषाम् इति ।

२७ - ३१ - यदि तत् अनुवर्तते मयः उञः वः वा हलि च इति हलि अपि वत्वम् प्राप्नोति ।

२८ - ३१ - शमु नः ।

२९ - ३१ - शमु योः अस्तु ।

३० - ३१ - एवम् तर्हि विसर्जनीयस्यसः इति अत्र खरि इति अनुवर्तिष्यते ।

३१ - ३१ - अथ वा सम्बन्धम् अनुवर्तिष्यते

१ - ४ - वाशर्प्रकरणे खर्परे लोपः ।

२ - ४ - वाशर्प्रकरणे खर्परे लोपः वक्तव्यः ।

३ - ४ - वृक्षाः स्थातारः ।

४ - ४ - वृक्षाः स्थातारः

१ - ३२ - सस्य कुप्वोः विसर्जनीयजिह्वामूलीयोपध्मानीयाः ।

२ - ३२ - सस्य कुप्वोः विसर्जनीयजिह्वामूलीयोपध्मानीयाः वक्तव्याः ।

३ - ३२ - विसर्जनीयादेशे हि शर्परयोः एव आदेशप्रसङ्गः । विसर्जनीयादेशे हि सति शर्परयोः एव कुप्वोः ह्क्कह्प्पौ स्याताम् ।

४ - ३२ - अद्भिः प्सातम् ।

५ - ३२ - वासः क्षौमम् ।

६ - ३२ - वचनात् न भविष्यतः ।

७ - ३२ - अस्ति वचने प्रयोजनम् ।

८ - ३२ - किम् ।

९ - ३२ - पुरुषः त्सरुकः ।

१० - ३२ - तत् तर्हि वक्तव्यम् ।

११ - ३२ - न वक्तव्यम् ।

१२ - ३२ - यत् एतत् विसर्जनीयस्य सः इति अत्र विसर्जनीयग्रहणम् एतत् उत्तरत्र अनुवर्तिष्यते तस्मिन् च शर्परे विसर्जनीयः असिद्धः ।

१३ - ३२ - न असिद्धः ।

१४ - ३२ - कथम् ।

१५ - ३२ - अधिकारः नाम त्रिप्रकारः ।

१६ - ३२ - कः चित् एकदेशस्थः सर्वम् शास्त्रम् अभिज्वलयति यथा प्रदीपः सुप्रज्वलितः सर्वम् वेश्म अभिज्वलयति ।

१७ - ३२ - अपरः यथा रज्ज्वा अयसा वा बद्धम् काष्ठम् अनुकृष्यते तद्वत् ।

१८ - ३२ - अपरः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।

१९ - ३२ - तत् यदा एषः पक्षः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति तदा हि यत् एतत् विसर्जनीयस्यसः इति अत्र विसर्जनीयग्रहणम् एतत् उत्तरत्र अनुवृत्तम् सत् अन्यत् सम्पद्यते तस्मिन् च शर्परे विसर्जनीयः सिद्धः ।

२० - ३२ - एवम् च क्र्त्वा शर्परयोः एव कुप्वोः ह्क्कह्प्पौ स्याताम् ।

२१ - ३२ - अद्भिः प्सातम् ।

२२ - ३२ - वासः क्षौमम् इति ।

२३ - ३२ - एवम् तर्हि योगविभागः करिष्यते ।

२४ - ३२ - शर्परे विसर्जनीयः ।

२५ - ३२ - वा शरि ।

२६ - ३२ - ततः कुप्वोः ।

२७ - ३२ - कुप्वोः च शर्परयोः विसर्जनीयस्य विसर्जनीयः भवति इति ।

२८ - ३२ - किमर्थम् इदम् ।

२९ - ३२ - कुप्वोः ह्क्कह्प्पौ वक्ष्यति तद्बाधनार्थम् ।

३० - ३२ - ततः ह्क्कह्प्पौ भवतः कुप्वोः इति एव ।

३१ - ३२ - शर्परयोः इति निवृत्तम् ।

३२ - ३२ - अथ वा शर्परेविसर्जनीयः इति एतत् कुप्वोः ह्क्कह्प्पौ च इति अत्र अनुवर्तिष्यते

१ - ३४ - सः अपदादौ अनव्ययस्य ।

२ - ३४ - सः अपदादौ अनव्ययस्य इति वक्तव्यम् ।

३ - ३४ - इह मा भूत् ।

४ - ३४ - प्रातःकल्पम् पुनःकल्पम् ।

५ - ३४ - रोः काम्ये नियमार्थम् । रोः काम्ये इति वक्तव्यम् ।

६ - ३४ - किम् प्रयोजनम् ।

७ - ३४ - नियमार्थम् ।

८ - ३४ - रोः एव काम्ये न अन्यस्य ।

९ - ३४ - पयस्काम्यति ।

१० - ३४ - क्व मा भूत् ।

११ - ३४ - गीःकाम्यति पूःकाम्यति ।

१२ - ३४ - उपध्मानीयस्य च सत्वम् वक्तव्यम् ।

१३ - ३४ - किम् प्रयोजनम् ।

१४ - ३४ - अयम् उब्जिः उपध्मानीयोपधः पठ्यते तस्य सत्वे कृते जश्भावे च अभ्युद्गः समुद्गः इति एतत् रूपम् यथा स्यात् ।

१५ - ३४ - यदि उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयस्य द्विर्वचनम् प्राप्नोति ।

१६ - ३४ - दकारोपधे पुनः सति नन्द्राःसंयोगादयः इति प्रतिषेधः सिद्धः भवति ।

१७ - ३४ - यदि दकारोपधः पठ्यते का रूपसिद्धिः उब्जिता उब्जितुम् इति ।

१८ - ३४ - असिद्धे भः उद्जेः ।

१९ - ३४ - इदम् अस्ति स्तोःश्चुनाश्चुः ।

२० - ३४ - ततः वक्ष्यामि ।

२१ - ३४ - भः उद्जेः ।

२२ - ३४ - उद्जेः च श्चुना सन्निपाते भः भवति इति ।

२३ - ३४ - तत् तर्हि वक्तव्यम् ।

२४ - ३४ - न वक्तव्यम् ।

२५ - ३४ - निपातनात् एतत् सिद्धम् ।

२६ - ३४ - किम् निपातनम् ।

२७ - ३४ - भुजन्युब्जौपाण्युपतापयोः इति ।

२८ - ३४ - इह अपि प्राप्नोति ।

२९ - ३४ - अभ्युद्गः समुद्गः ।

३० - ३४ - अकुत्वविषये निपातनम् ।

३१ - ३४ - अथ वा न एतत् उब्जेः रूपम् ।

३२ - ३४ - किम् तर्हि गमेः द्व्युपसर्गात् डः विधीयते ।

३३ - ३४ - अभ्युद्गतः अभ्युद्गः ।

३४ - ३४ - समुद्गतः समुद्गः

१ - ४१ - किम् अविशेषेण सत्वम् उक्त्वा ततः इणः उत्तरस्य सकारस्य षत्वम् उच्यते आहोस्वित् इणः उत्तरस्य विसर्जनीयस्य एव षत्वम् विधीयते ।

२ - ४१ - किम् च अतः ।

३ - ४१ - यदि अविशेषेण सत्वम् उक्त्वा इणः उत्तरस्य सकारस्य षत्वम् उच्यते निष्कृतम् , निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति ।

४ - ४१ - अथ इणः उत्तरस्य विसर्जनीयस्य एव षत्वम् विधीयते सत्वम् अपि अनुवर्तते उताहो न ।

५ - ४१ - किम् च अतः ।

६ - ४१ - यदि अनुवर्तते सत्वम् अपि प्राप्नोति ।

७ - ४१ - अथ निवृत्तम् नमस्पुरसोर्गत्योः इति अत्र सकारग्रहणम् कर्तव्यम् ।

८ - ४१ - तस्मिन् च क्रियमाणे षत्वम् अपि अनुवर्तते उताहो न ।

९ - ४१ - किम् च अतः ।

१० - ४१ - यदि अनुवर्तते षत्वम् अपि प्राप्नोति ।

११ - ४१ - अथ निवृत्तम् इदुदुपधस्य च अप्रत्यस्य इति अत्र षकारग्रहणम् कर्तव्यम् ।

१२ - ४१ - तस्मिन् च क्रियमाणे सत्वम् अपि अनुवर्तते उताहो न ।

१३ - ४१ - किम् च अतः ।

१४ - ४१ - यदि अनुवर्तते सत्वम् अपि प्राप्नोति ।

१५ - ४१ - अथ निवृत्तम् तिरसः अन्यतरस्याम् इति अत्र सकारग्रहणम् कर्तव्यम् ।

१६ - ४१ - तस्मिन् च क्रियमाणे षत्वम् अपि अनुवर्तते उताहो न ।

१७ - ४१ - किम् च अतः ।

१८ - ४१ - यदि अनुवर्तते षत्वम् अपि प्राप्नोति ।

१९ - ४१ - अथ निवृत्तम् द्विस्त्रिश्चतुरितिकृत्वोऽर्थे इसुसोः सामर्थ्ये नित्यंसमासे अनुत्तरपदस्थस्य इति षकारग्रहणम् कर्तव्यम् ।

२० - ४१ - तस्मिन् च क्रियमाणे सत्वम् अपि अनुवर्तते उताहो न ।

२१ - ४१ - किम् च अतः ।

२२ - ४१ - यदि अनुवर्तते सत्वम् अपि प्राप्नोति ।

२३ - ४१ - अथ निवृत्तम् अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य इति सकारग्रहणम् कर्तव्यम् ।

२४ - ४१ - यथा इच्छसि तथा अस्तु ।

२५ - ४१ - अस्तु तावत् अविशेषेण सत्वम् उक्त्वा इणः उत्तरस्य सकारस्य षत्वम् उच्यते ।

२६ - ४१ - ननु च उक्तम् निष्कृतम् , निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति इति ।

२७ - ४१ - न एषः दोषः ।

२८ - ४१ - आचार्यप्रवृत्तिः ज्ञापयति न योगे योगः असिद्धः ।

२९ - ४१ - किम् तर्हि प्रकरणे प्रकरणम् असिद्धम् इति यत् अयम् उपसर्गात् असमासे अपि णोपदेशस्य इति असमासेपिग्रहणम् करोति ।

३० - ४१ - अथ वा पुनः अस्तु इणः उत्तरस्य विसर्जनीयस्य षत्वम् विधीयते ।

३१ - ४१ - ननु च उक्तम् सत्वम् अपि अनुवर्तते उताहो न किम् च अतः यदि अनुवर्तते सत्वम् अपि प्राप्नोति इति ।

३२ - ४१ - न एषः दोषः ।

३३ - ४१ - सम्बन्धम् अनुवर्तिष्यते ।

३४ - ४१ - सः अपदादौ ।

३५ - ४१ - इणःषः ।

३६ - ४१ - नमस्पुरसोः गत्योः सकारः इणः उत्तरस्य षकारः ।

३७ - ४१ - इदुदुपधस्य च अप्रत्ययस्य षकारः नमस्पुरसोः गत्योः सकारः ।

३८ - ४१ - तिरसः अन्यतरस्याम् सकारः इदुदुपधस्य च अप्रत्ययस्य षकारः ।

३९ - ४१ - द्विस्त्रिश्चतुरितिकृत्वोऽर्थे इसुसोःसामर्थ्ये नित्यम्समासेऽनुत्तरपदस्थस्य इति षकारः तिरसः अन्यतरस्याम् सकारः ।

४० - ४१ - अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ।

४१ - ४१ - सकारः अनुवर्तते षकारग्रहणम् निवृत्तम्

१ - १२ - इदुदुपधस्य च अप्रत्ययस्य इति चेत् पुम्मुहुसोः प्रतिषेधः ।

२ - १२ - इदुदुपधस्य च अप्रत्ययस्य इति चेत् पुम्मुहुसोः प्रतिषेधः वक्तव्यः ।

३ - १२ - पुंस्कामा मुहुःकामः इति ।

४ - १२ - वृद्धिभूतानाम् षत्वम् वक्तव्यम् ।

५ - १२ - दौष्कुल्यम् नैष्पुरुष्यम् ।

६ - १२ - प्लुतानाम् तादौ च । प्लुतानाम् तादौ च कुप्वोः च इति वक्तव्यम् ।

७ - १२ - सर्पि३ष्टर ।

८ - १२ - बर्ही३ष्टर नि३ष्कुल दु३ष्पुरुष ।

९ - १२ - न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् ।

१० - १२ - किम् कारणम् ।

११ - १२ - बहिरन्गलक्षणत्वात् वृद्धेः ।

१२ - १२ - बहिरङ्गलक्षणा वृद्धिः

१ - ९ - इह कस्मात् न भवति ।

२ - ९ - पितुः करोति ।

३ - ९ - मातुः करोति ।

४ - ९ - अप्रत्ययविसर्जनीयस्य इति षत्वम् प्रसज्येत ।

५ - ९ - अप्रत्ययविसर्जनीयस्य इति उच्यते प्रत्ययविसर्जनीयः च अयम् ।

६ - ९ - लुप्यते अत्र प्रत्ययविसर्जनीयः रात्सस्य इति ।

७ - ९ - एवम् तर्हि ।

८ - ९ - भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य ।

९ - ९ - यत् अयम् कस्कादिषु भ्रातुष्पुत्रशब्दम् पठति तत् ज्ञापयति आचार्यः न एकादेशनिमित्तात् षत्वम् भवति इति

१ - ३९ - द्विस्त्रिश्चतुर्ग्रहणम् किमर्थम् ।

२ - ३९ - इह मा भूत् ।

३ - ३९ - पञ्चकृत्वः करोति ।

४ - ३९ - अथ कृत्वोर्थग्रहणम् किमर्थम् ।

५ - ३९ - इह मा भूत् ।

६ - ३९ - चतुष्कपालः चतुष्कण्टकः इति ।

७ - ३९ - न एतत् अस्ति ।

८ - ३९ - अस्तु एतेन विभाषा पूर्वेण नित्यः विधिः भविष्यति ।

९ - ३९ - न अप्राप्ते पूर्वेण इयम् विभाषा आरभ्यते सा यथा एव इह बाधिका भवति चतुः करोति चतुष्करोति इति एवम् चतुष्कपाले अपि बाधिका स्यात् ।

१० - ३९ - न अत्र पूर्वेण षत्वम् प्राप्नोति ।

११ - ३९ - किम् कारणम् ।

१२ - ३९ - अप्रत्ययविसर्जनीयस्य इति उच्यते प्रत्ययविसर्जनीयः च अयम् ।

१३ - ३९ - लुप्यते प्रत्ययविसर्जनीयः रात्सस्य इति ।

१४ - ३९ - तस्मात् कृत्वोर्थग्रहणम् कर्तव्यम् ।

१५ - ३९ - द्विस्त्रिश्चतुर्ग्रहणम् शक्यमवक्तुम् ।

१६ - ३९ - कस्मात् न भवति पञ्चकृत्वः करोति इति ।

१७ - ३९ - इदुदुपधस्य इति वर्तते ।

१८ - ३९ - न एवम् शक्यम् ।

१९ - ३९ - अक्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे कृत्वोऽर्थग्रहणेन विसर्जनीयः विशेष्येत ।

२० - ३९ - तत्र कः दोषः ।

२१ - ३९ - इह एव स्यात् द्विष्करोति द्विः करोति ।

२२ - ३९ - इह न स्यात् चतुष्करोति चतुः करोति इति ।

२३ - ३९ - द्विस्त्रिश्चतुर्ग्रहणे पुनः क्रियमाणे कृत्वोऽर्थग्रहणे द्विस्त्रिश्चतुरः विशेष्यन्ते ।

२४ - ३९ - द्विस्त्रिश्चतुर्णाम् कृत्रोऽर्थे वर्तमानानाम् यः विसर्जनीयः इति ।

२५ - ३९ - एतत् अपि न अस्ति प्रयोजनम् ।

२६ - ३९ - पदस्य इति वर्तते तत् कृत्वोऽर्थग्रहणेन विशेषयिष्यः ।

२७ - ३९ - पदस्य कृत्वोऽर्थे वर्तमानस्य यः विसर्जनीयः इति ।

२८ - ३९ - कृत्वसुजर्थे षत्वम् ब्रवीति ।

२९ - ३९ - कस्मात् चतुष्कपाले मा ।

३० - ३९ - षत्वम् विभाषया भूत् ।

३१ - ३९ - ननु सिद्धम् तत्र पूर्वेण ।

३२ - ३९ - सिद्धे हि अयम् विधत्ते चतुरः षत्वम् तदा अपि क्र्त्वोऽर्थे ।

३३ - ३९ - लुप्ते कृत्वोऽर्थीये रेफस्य विसर्जनीयः हि ।

३४ - ३९ - एवम् सति तु इदानीम् द्विः त्रिः चतुः इति अनेन किम् कार्यम् ।

३५ - ३९ - अन्यः हि न इदुदुपधः कृत्वोऽर्थे कः चित् अपि अस्ति ।

३६ - ३९ - अक्रियमाणे ग्रहणे विसर्जनीयः तदा विशेष्येत ।

३७ - ३९ - चतुरः न सिध्यति तदा रेफस्य विसर्जनीयः हि ।

३८ - ३९ - तस्मिन् तु गृह्यमाणे युक्तम् चतुरः विशेषणम् भवति ।

३९ - ३९ - प्रकृतम् पदम् तदन्तम् तस्य अपि विशेषणम् न्याय्यम्

१ - २९ - अनुत्तरपदस्थस्य इति किमर्थम् ।

२ - २९ - परमसर्पिःकुण्डिका ।

३ - २९ - अथ इदानीम् अनेन मुक्ते पूर्वेण षत्वम् विभाषा कस्मात् न भवति इसुसोः सामर्थ्ये इति ।

४ - २९ - नानापदार्थयोः वर्तमानयोः ख्यायते यदा योगः ।

५ - २९ - तस्मिन् षत्वम् कार्यम् तत् युक्तम् तत् च मे न इह ।

६ - २९ - व्यपेक्षासामर्थ्ये पूर्वयोगः न च अत्र व्यपेक्षासामर्थ्यम् ।

७ - २९ - किम् पुनः कारणम् व्यपेक्षासामर्थ्यम् आश्रीयते न पुनः एकार्थीभावः यथा अन्यत्र ।

८ - २९ - ऐकार्थ्ये सामर्थ्ये वाक्ये षत्वम् न मे प्रसज्येत । ऐकार्थ्ये सामर्थ्ये सति वाक्ये षत्वम् न स्यात् सर्पिष् करोति ।

९ - २९ - सर्पिः करोति इति ।

१० - २९ - तस्मात् इह व्यपेक्षाम् सामर्थ्यम् साधु मन्यन्ते ।

११ - २९ - अथ चेत् कृदन्तम् एतत् ततः अधिके न एव मे भवेत् प्राप्तिः । यदि कृदन्तम् एतत् ततः अधिकस्य षत्वम् न प्राप्नोति ।

१२ - २९ - किम् कारणम् ।

१३ - २९ - प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।

१४ - २९ - वाक्ये अपि तर्हि न प्राप्नोति ।

१५ - २९ - परमसर्पिष्करोति परमसर्पिः करोति इति ।

१६ - २९ - वाक्ये च मे विभाषा प्रतिषेधः न प्रकल्पेत । यत् अयम् अनुत्तरपदस्थस्य इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति वाक्ये विभाषा इति ।

१७ - २९ - अथ चेत् संविज्ञानम् नित्ये षत्वे ततः विभाषा इयम् । अथ अव्युत्पन्नम् प्रातिपदिकम् ततः नित्ये षत्वे प्राप्ते इयम् विभाषा आरभ्यते ।

१८ - २९ - सिद्धम् च मे समासे ।

१९ - २९ - षत्वम् ।

२० - २९ - किमर्थम् तर्हि इदम् उच्यते ।

२१ - २९ - प्रतिषेधार्थः तु यत्नः अयम् । अनुत्तरपदस्थस्य इति प्रतिषेधम् वक्ष्यामि इति ।

२२ - २९ - नानापदार्थयोः वर्तमानयोः ख्यायते यदा योगः ।

२३ - २९ - तस्मिन् षत्वम् कार्यम् तत् युक्तम् तत् च मे न इह ।

२४ - २९ - ऐकार्थ्ये सामर्थ्ये वाक्ये षत्वम् न मे प्रसज्येत ।

२५ - २९ - तस्मात् इह व्यपेक्षाम् सामर्थ्यम् साधु मन्यन्ते ।

२६ - २९ - अथ चेत् कृदन्तम् एतत् ततः अधिके न एव मे भवेत् प्राप्तिः ।

२७ - २९ - वाक्ये च मे विभाषा प्रतिषेधः न प्रकल्पेत ।

२८ - २९ - अथ चेत् संविज्ञानम् नित्ये षत्वे ततः विभाषा इयम् ।

२९ - २९ - सिद्धम् च मे समासे प्रतिषेधार्थः तु यत्नः अयम् ।

१ - १२ - अथ मूर्धन्यग्रहणम् किमर्थम् न अपदान्तस्य षः भवति इति एव उच्येत ।

२ - १२ - तत्र अयम् अपि अर्थः षकारग्रहणम् न कर्तव्यम् भवति प्रकृतम् अनुवर्तते ।

३ - १२ - क्व प्रकृतम् ।

४ - १२ - इणःषः इति ।

५ - १२ - न एवम् शक्यम् ।

६ - १२ - अवश्यम् मूर्धन्यग्रहणम् कर्तव्यम् इहार्थम् उत्तरार्थम् च ।

७ - १२ - इहार्थम् तावत् ।

८ - १२ - इणःषीध्वंलुङ्लिटाम्धोऽङ्गात् इति अत्र ंऊर्धन्यग्रहणम् न कर्तव्यम् भवति ।

९ - १२ - उत्तरार्थम् च ।

१० - १२ - रषाभ्यान्नोणःसमानपदे इति अत्र णकारग्रहणम् न कर्तव्यम् भवति ।

११ - १२ - तत्र अयम् अपि अर्थः पदान्तस्य न इति प्रतिषेधः न वक्तव्यः भवति ।

१२ - १२ - अपदान्ताभिसम्बद्धम् मूर्धन्यग्रहणम् अनुवर्तते ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP