१ - ८ - इह कस्मात् न भवति ।
२ - ८ - आशिषा तरति आशिषिकः , उषा तरति औषिकः ।
३ - ८ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।
४ - ८ - अथ इह कथम् भवितव्यम् ।
५ - ८ - दोर्भ्याम् तरति ।
६ - ८ - दौष्कः इति भवितव्यम् ।
७ - ८ - कथम् ।
८ - ८ - यदि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते
१ - ५२ - किम् इदम् ञ्णिन्नकारग्रहणम् हन्तिविशेषणम् ञ्णिन्नकारपरस्य हन्तेः यः हकारः इति ।
२ - ५२ - आहोस्वित् हकारविशेषणम् ञ्णिन्नकारपरस्य हकारस्य सः चेत् हन्तेः इति ।
३ - ५२ - कः च अत्र विशेषः ।
४ - ५२ - हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः ।
५ - ५२ - हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः ।
६ - ५२ - घ्नन्ति , घ्नन्तु , अघ्नन् ।
७ - ५२ - अस्तु तर्हि हकारविशेषणम् ।
८ - ५२ - हकारस्य इति चेत् ञ्णिति अप्राप्तिः ।
९ - ५२ - हकारस्य इति चेत् ञ्णिति अप्राप्तिः ।
१० - ५२ - घातयति घातकः ।
११ - ५२ - किम् कारणम् ।
१२ - ५२ - नकारेण व्यवहितत्वात् न प्राप्नोति ।
१३ - ५२ - वचनात् भविष्यति ।
१४ - ५२ - इह अपि वचनात् प्राप्नोति ।
१५ - ५२ - हननम् इच्छति हननीयते हननीयतेः ण्वुल् हननीयकः इति ।
१६ - ५२ - स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः ।
१७ - ५२ - स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः ।
१८ - ५२ - घ्नन्ति , घ्नन्तु ।
१९ - ५२ - वचनात् भविष्यति ।
२० - ५२ - वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः ।
२१ - ५२ - वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः वक्तव्यः ।
२२ - ५२ - हन्ता , हन्तुम् ।
२३ - ५२ - नकारग्रहणसामर्थ्यात् अलोपे न भविष्यति ।
२४ - ५२ - अस्ति अन्यत् नकारग्रहणस्य प्रयोजनम् ।
२५ - ५२ - किम् ।
२६ - ५२ - श्रूयमाणविशेषणम् ।
२७ - ५२ - यत्र नकारः श्रूयते तत्र यथा स्यात् ।
२८ - ५२ - इह मा भूत् ।
२९ - ५२ - हतः हथः इति ।
३० - ५२ - सिद्धम् तु उपधालोपे इति वचनात् ।
३१ - ५२ - सिद्धम् एतत् ।
३२ - ५२ - कथम् ।
३३ - ५२ - उपधालोपे च इति वक्तव्यम् ।
३४ - ५२ - सिध्यति ।
३५ - ५२ - सूत्रम् तर्हि भिद्यते ।
३६ - ५२ - यथान्यासम् एव अस्तु ।
३७ - ५२ - ननु च उक्तम् हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः इति ।
३८ - ५२ - वचनात् भविष्यति ।
३९ - ५२ - अथ वा पुनः अस्तु हकारविशेषणम् ।
४० - ५२ - ननु च उक्तम् हकारस्य इति चेत् ञ्णिति अप्राप्तिः इति ।
४१ - ५२ - वचनात् भविष्यति ।
४२ - ५२ - ननु च उक्तम् इह अपि वचनात् प्राप्नोति हननीयकः इति ।
४३ - ५२ - न एषः दोषः ।
४४ - ५२ - येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् ।
४५ - ५२ - न च क्व चित् धात्ववयवेन अव्यवधानम् एतेन पुनः सङ्घातेन व्यवधानम् भवति न च भवति ।
४६ - ५२ - यत् अपि उच्यते स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः इति वचनात् भविष्यति ।
४७ - ५२ - ननु च उक्तम् वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः इति ।
४८ - ५२ - न एषः दोषः ।
४९ - ५२ - आनन्तर्यम् इह आश्रीयते हकारस्य नकारः इति ।
५० - ५२ - क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् च न सन्निपातकृतम् न अपि शास्त्रकृतम् ।
५१ - ५२ - लोपे सन्निपातकृतम् आनन्तर्यम् अलोपे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् ।
५२ - ५२ - यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः
१ - १६ - अभ्यासात् कुत्वम् असुपः ।
२ - १६ - अभ्यासात् कुत्वम् असुपः इति वक्तव्यम् ।
३ - १६ - इह मा भूत् ।
४ - १६ - हननम् इच्छति हननीयति हननीयतेः सन् जिहननीयिषति इति ।
५ - १६ - तत् तर्हि वक्तव्यम् ।
६ - १६ - न वक्तव्यम् ।
७ - १६ - हन्तेः अभ्यासात् इति उच्यते न च एषः हन्तेः अभ्यासः ।
८ - १६ - हन्तेः एषः अभ्यासः ।
९ - १६ - कथम् ।
१० - १६ - एकाचः द्वे प्रथमस्य इति ।
११ - १६ - एवम् तर्हि हन्तेः अङ्गस्य यः अभ्यासः तस्मात् इति उच्यते न च एषः हन्तेः अङ्गस्य अभ्यासः ।
१२ - १६ - हन्तेः अङ्गस्य एषः अभ्यासः ।
१३ - १६ - कथम् ।
१४ - १६ - एकाचः द्वे प्रथमस्य इति ।
१५ - १६ - एवम् तर्हि यस्मिन् हन्तिः अङ्गम् तस्मिन् यः अभ्यासः तस्मात् इति उच्यते ।
१६ - १६ - यस्मिन् च अत्र हन्तिः अङ्गम् न तस्मिन् अभ्यासः यस्मिन् च अभ्यासः न तस्मिन् हन्तिः अङ्गम् भवति
१ - १३ - अचङि इति किमर्थम् ।
२ - १३ - प्राजीहयत् दूतम् ।
३ - १३ - हेः चङि प्रतिषेधानर्थक्यम् अङ्गान्यत्वात् ।
४ - १३ - हेः चङि प्रतिषेधः अनर्थकः ।
५ - १३ - किम् कारणम् ।
६ - १३ - अङ्गान्यत्वात् ।
७ - १३ - ण्यन्तम् एतत् अङ्गम् अन्यत् भवति ।
८ - १३ - लोपे कृते न अङ्गान्यत्वम् ।
९ - १३ - स्थानिवद्भावात् अङ्गान्यत्वम् एव ।
१० - १३ - ज्ञापकम् तु अन्य्त्र ण्यधिकस्य कुत्वविज्ञानार्थम् ।
११ - १३ - एवम् तर्हि ज्ञापयति आचार्यः अन्यत्र ण्यधिकस्य कुत्वम् भवति इति ।
१२ - १३ - किम् एतस्य ज्ञापने प्रयोजनम् ।
१३ - १३ - प्रजिघाययिषति इति अत्र कुत्वम् सिद्धम् भवति
१ - ८ - जिग्रहणे ज्यः प्रतिषेधः ।
२ - ८ - जिग्रहणे ज्यः प्रतिषेधः वक्तव्यः ।
३ - ८ - जिज्यतुः , जिज्युः इति ।
४ - ८ - सः तर्हि प्रतिषेधः वक्तव्यः ।
५ - ८ - न वक्तव्यः ।
६ - ८ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् एतस्य न भविष्यति ।
७ - ८ - सा तर्हि एषा परिभषा कर्तव्या ।
८ - ८ - अवश्यम् कर्तव्या अध्याप्य गतः इति एवमर्थम्
१ - १३ - क्वाद्यजिव्रजियाचिरुचीनाम् अप्रतिषेधः निष्ठायाम् अनिटः कुत्ववचनात् ।
२ - १३ - क्वाद्यजिव्रजियाचिरुचीनाम् अप्रतिषेधः ।
३ - १३ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।
४ - १३ - कुत्वम् कस्मात् न भवति ।
५ - १३ - निष्ठायाम् अनिटः कुत्ववचनात् ।
६ - १३ - निष्ठायाम् अनिटः कुत्वम् वक्ष्यामि सेटः च एते निष्ठायाम् ।
७ - १३ - यदि निष्ठायाम् अनिटः कुत्वम् उच्यते कथम् शोकः समुद्रः इति ।
८ - १३ - शुच्युब्ज्योः घञि कुत्वम् ।
९ - १३ - शुच्युब्ज्योः घञि कुत्वम् वक्तव्यम् ।
१० - १३ - कथम् अर्कः ।
११ - १३ - अर्चेः कविधानात् सिद्धम् ।
१२ - १३ - न एतत् घञन्तम् ।
१३ - १३ - औणादिकः एषः कशब्दः तस्मिन् आष्टमिकम् कुत्वम्
१ - १४ - भुजः पाणौ ।
२ - १४ - भुजः पाणौ इति वक्तव्यम् ।
३ - १४ - कथम् न्युब्जः उपतापे इति ।
४ - १४ - न्युब्जेः कर्तृत्वात् अप्रतिषेधः ।
५ - १४ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।
६ - १४ - कुत्वम् कस्मत् न भवति ।
७ - १४ - कर्तृत्वात् ।
८ - १४ - न एतत् घञन्तम् ।
९ - १४ - कर्तृप्रत्ययः एषः ।
१० - १४ - न्युब्जति इति न्युब्जः ।
११ - १४ - अधिकरणसाधनः वै लक्ष्यते घञ् ।
१२ - १४ - न्युब्जिताः शेरते अस्मिन् न्युब्जः उपतापे इति ।
१३ - १४ - एषः अपि हि कर्तृसाधनः एव ।
१४ - १४ - न्युब्जयति इति न्युब्जः
१ - १७ - प्रवचिग्रहणम् अनर्थकम् वचः अशब्दसञ्ज्ञाभावात् ।
२ - १७ - प्रवचिग्रहणम् अनर्थकम् ।
३ - १७ - किम् कारणम् ।
४ - १७ - वचोऽशब्दसञ्ज्ञाभावात् ।
५ - १७ - वचोऽशब्दसञ्ज्ञायाम् प्रतिषेधः उच्यते प्रपूर्वः च वचिः अशब्दसञ्ज्ञायाम् वर्तते ।
६ - १७ - उपसर्गनियमार्थम् तर्हि इदम् वक्तव्यम् ।
७ - १७ - प्रपूर्वस्य एव वचेः अशब्दसञ्ज्ञायाम् प्रतिषेधः यथा स्यात् ।
८ - १७ - इह मा भूत् ।
९ - १७ - अविवाक्यम् इति ।
१० - १७ - उपसर्गपूर्वनियमार्थम् इति चेत् अविवाक्यस्य विशेषवचनत् सिद्धम् ।
११ - १७ - विशेषे एतत् वक्तव्यम् ।
१२ - १७ - अविवाक्यम् अहः इति ।
१३ - १७ - क्व मा भूत् ।
१४ - १७ - अविवाच्यम् एव अन्यत् इति ।
१५ - १७ - ण्यप्रतिषेधे त्यजेः उपसङ्ख्यानम् ।
१६ - १७ - ण्यप्रतिषेधे त्यजेः उपसङ्ख्यानम् कर्तव्यम् ।
१७ - १७ - त्याज्यम्
१ - १० - [भोज्यम् अभ्यवहार्ह्ये] ।
२ - १० - भोज्यम् अभ्यवहार्ये इति वक्तव्यम् ।
३ - १० - इह अपि यथा स्यात् ।
४ - १० - भोज्यः सूपः , भोज्या यवागूः इति ।
५ - १० - किम् पुनः कारणम् न सिध्यति ।
६ - १० - भक्षिः अयम् खरविशदे वर्तते तेन द्रवे न प्राप्नोति ।
७ - १० - न अवश्यम् भक्षिः खरविशदे एव वर्तते ।
८ - १० - किम् तर्हि अन्यत्र अपि वर्तते ।
९ - १० - तत् यथा ।
१० - १० - अब्भक्षः , वायुभक्षः इति
१ - ५ - वा इति शक्यम् अवक्तुम् ।
२ - ५ - कस्मात् न भवति ।
३ - ५ - तत् अग्निः अग्नये ददात् ।
४ - ५ - अस्तु अत्र लोपः आटः श्रवणम् भविष्यति तेन उभयम् सिध्यति ।
५ - ५ - दधत् रत्नानि दाशुषे , ददात् रत्नानि दाशुषे
१ - १५ - [ओतः शिति] ।
२ - १५ - ओतः शिति इति वक्तव्यम् ।
३ - १५ - किम् प्रयोजनम् ।
४ - १५ - उत्तरत्र शिद्ग्रहणाभावाय ।
५ - १५ - तत्र अयम् अपि अर्थः ष्ठिवुक्लम्वाचमाम् शिति इति शिद्ग्रहणम् न कर्तव्यम् भवति ।
६ - १५ - ननु च भोः श्यन्ग्रहणम् अपि तर्हि उत्तरार्थम् कर्तव्यम् ।
७ - १५ - शमाम् अष्टानाम् दीर्घः श्यनि इति श्यन्ग्रहणम् न कर्तव्यम् भवति ।
८ - १५ - अत्र अपि अस्तु शिति इति एव ।
९ - १५ - यदि शिति इति उच्यते अनु त्वा इन्द्रः भ्रमतु मदतु अत्र अपि प्राप्नोति ।
१० - १५ - शमादिभिः अत्र शितम् विशेषयिष्यामः ।
११ - १५ - शमादीनाम् यः शित् इति ।
१२ - १५ - कः च शमादीनाम् शित् ।
१३ - १५ - शमादिभ्यः यः विहितः ।
१४ - १५ - एवम् अपि तस्यति , यस्यति अत्र प्राप्नोति ।
१५ - १५ - अष्टानाम् इति वचनात् न भविष्यति
१ - ५ - दीर्घत्वम् आङि चमः ।
२ - ५ - दीर्घत्वम् आङि चमः इति वक्तव्यम् ।
३ - ५ - आचामति ।
४ - ५ - इह मा भूत् ।
५ - ५ - उच्चमति , विचमति इति
१ - १८ - इषेः छत्वम् अहलि ।
२ - १८ - इषेः छत्वम् अहलि इति वक्तव्यम् ।
३ - १८ - इह मा भूत् ।
४ - १८ - इष्णाति , इष्यति ।
५ - १८ - तत् तर्हि वक्तव्यम् ।
६ - १८ - न वक्तव्यम् ।
७ - १८ - अचि इति वर्तते ।
८ - १८ - एवम् अपि इषाण इति अत्र प्राप्नोति ।
९ - १८ - अथ अहलि इति उच्यमाने कस्मात् एव अत्र छत्वम् न भवति ।
१० - १८ - न एवम् विज्ञायते न हल् अहल् अहलि इति ।
११ - १८ - कथम् तर्हि ।
१२ - १८ - अविद्यमानः हल् अस्मिन् सः अयम् अहल् अहलि इति ।
१३ - १८ - यदि एवम् अचि इति अपि वर्तमाने न दोषः ।
१४ - १८ - न हि अचा शित् विशेष्यते ।
१५ - १८ - शिति भवति कतर्स्मिन् अचि इति ।
१६ - १८ - कथम् तर्हि ।
१७ - १८ - शिता अच् विशेष्यते ।
१८ - १८ - अचि भवति कतर्स्मिन् शिति इति
१ - १२ - पिबेः गुणप्रतिषेधः ।
२ - १२ - पिबेः गुणप्रतिषेधः वक्तव्यः ।
३ - १२ - पिबति ।
४ - १२ - लघूपधगुणः प्राप्नोति ।
५ - १२ - सः तर्हि प्रतिषेधः वक्तव्यः ।
६ - १२ - न वक्तव्यः ।
७ - १२ - गुणः कस्मात् न भवति ।
८ - १२ - पिबिः अदन्तः ।
९ - १२ - अदन्ते इति चेत् उक्तम् ।
१० - १२ - किम् उक्तम् ।
११ - १२ - धातोः अन्ते इति चेत् अनुदात्तेचबग्रहणम् इति ।
१२ - १२ - अथ वा अङ्गवृत्ते पुनर्वृत्तौ अविधिः निष्ठितस्य इति एवम् न भविष्यति
१ - ६ - दीर्घोच्चारणम् किमर्थम् न ज्ञाजनोः जः इति एव उच्येत ।
२ - ६ - का रूपसिद्धिः जानाति , जायते ।
३ - ६ - अतः दीर्घः यञि इति दीर्घत्वम् भविष्यति ।
४ - ६ - एवम् तर्हि सिद्धे सति यत् दीर्घोच्चारणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनर्वृत्तौ अविधिः इति ।
५ - ६ - किम् एतस्य ज्ञापने प्रयोजनम् ।
६ - ६ - पिबेः गुणप्रतिषेधः चोदितः सः न वक्तव्यः भवति
१ - २५ - जुसि गुणे यासुट्प्रतिषेधः ।
२ - २५ - जुसि गुणे यासुडादौ प्रतिषेधः वक्तव्यः ।
३ - २५ - चिनुयुः , सुनुयुः इति ।
४ - २५ - न वक्तव्यः ।
५ - २५ - न एवम् विज्ञायते मिदेः गुणः जुसि च इति ।
६ - २५ - कथम् तर्हि ।
७ - २५ - मिदेः गुणः अजुसि च इति ।
८ - २५ - किम् इदम् अजुसि इति ।
९ - २५ - अजादौ उसि अजुसि इति ।
१० - २५ - इह अपि तर्हि प्राप्नोति ।
११ - २५ - चक्रुः , जह्रुः इति ।
१२ - २५ - एवम् तर्हि शिति इति वर्तते ।
१३ - २५ - एवम् अपि अजुहवुः , अबिभयुः इति अत्र न प्राप्नोति ।
१४ - २५ - भूतपूर्वगत्या भविष्यति ।
१५ - २५ - न सिध्यति न हि उस् शिद्भूतपूर्वः ।
१६ - २५ - उस् शिद्भूतपूर्वः न अस्ति इति कृत्वा उसि यः शिद्भूतपूर्वः तस्मिन् भविष्यति ।
१७ - २५ - अथ वा क्रियते न्यासे एव ।
१८ - २५ - अविभक्तिकः निर्देशः ।
१९ - २५ - न एवम् विज्ञायते मिदेः गुणः जुसि च इति ।
२० - २५ - कथम् तर्हि ।
२१ - २५ - मिदेः गुणः उ जुसि इति ।
२२ - २५ - किम् इदम् उ जुसि इति ।
२३ - २५ - उकारादौ जुसि ।
२४ - २५ - अथ वा अचि इति वर्तते तेन जुसम् विशेषयिष्यामः ।
२५ - २५ - अजादौ जुसि इति
१ - ४७ - इह जागरयति , जागरकः इति गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः प्राप्नोति तस्याः प्रतिषेधः वक्तव्यः ।
२ - ४७ - चिण्णलोः प्रतिषेधसामर्थ्यात् अन्यत्र गुणभूतस्य वृद्धिप्रतिषेधः ।
३ - ४७ - यत् अयम् अचिण्णलोः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः न गुणाभिनिर्वृत्तस्य वृद्धिः भवति इति ।
४ - ४७ - किम् पुनः अयम् पर्युदासः यत् अन्यत् विचिण्णल्ङिद्भ्यः इति ।
५ - ४७ - आहोस्वित् प्रसज्य अयम् प्रतिषेधः विचिण्णल्ङित्सु न इति ।
६ - ४७ - कः च अत्र विशेषः ।
७ - ४७ - प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधप्रसङ्गः ।
८ - ४७ - प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधः प्राप्नोति ।
९ - ४७ - अजागरुः ।
१० - ४७ - उत्तमे च णलि ।
११ - ४७ - प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधः प्राप्नोति ।
१२ - ४७ - अजागरुः ।
१३ - ४७ - न वा अनन्तरस्य प्रतिषेधात् ।
१४ - ४७ - न वा एषः दोषः ।
१५ - ४७ - किम् कारणम् ।
१६ - ४७ - अनन्तरस्य प्रतिषेधात् ।
१७ - ४७ - अनन्तरम् यत् गुणविधानम् तस्य प्रतिषेधः ।
१८ - ४७ - जुसि पूर्वेण गुणविधानम् ।
१९ - ४७ - जुसि पूर्वेण गुणः विधीयते जुसि च इति ।
२० - ४७ - णलि च ।
२१ - ४७ - किम् ।
२२ - ४७ - न वा अनन्तरस्य प्रतिषेधात् इति एव ।
२३ - ४७ - णलि च पूर्वेण गुणः विधीयते सार्वधातुकार्धधातुकयोः इति ।
२४ - ४७ - अथ वा पुनः अस्तु पर्युदासः ।
२५ - ४७ - अतः अन्यत्र विधाने वौ अगुणत्वम् ।
२६ - ४७ - अतः अन्यत्र विधाने वौ अगुणत्वम् ।
२७ - ४७ - न वा पर्युदाससामर्थ्यात् ।
२८ - ४७ - न वा वक्तव्यम् ।
२९ - ४७ - किम् कारणम् ।
३० - ४७ - पर्युदाससामर्थ्यात् अत्र गुणः न भविष्यति ।
३१ - ४७ - अस्ति अन्यत् पर्युदासे प्रयोजनम् ।
३२ - ४७ - किम् ।
३३ - ४७ - क्विबर्थम् पर्युदासः स्यात् ।
३४ - ४७ - शुद्धपरस्य विशब्दस्य प्रतिषेधे ग्रहणम् अनुनासिकपरः च क्वौ विशब्दः ।
३५ - ४७ - वस्वर्थम् तर्हि पर्युदासः स्यात् ।
३६ - ४७ - जागृवांसः अनु ग्मन् ।
३७ - ४७ - कथम् पुनः वेः पर्युदासः उच्यमानः वस्वर्थः शक्यः विज्ञातुम् ।
३८ - ४७ - सामर्थ्यात् वस्वर्थम् इति विज्ञास्यते ।
३९ - ४७ - वस्वर्थम् इति चेत् न सार्वधातुकत्वात् सिद्धम् ।
४० - ४७ - वस्वर्थम् इति चेत् न ।
४१ - ४७ - किम् कारणम् ।
४२ - ४७ - सार्वधातुकत्वात् सिद्धम् ।
४३ - ४७ - कथम् सार्वधातुकसञ्ज्ञा ।
४४ - ४७ - छान्दसः क्वसुः ।
४५ - ४७ - लिट् च छन्दसि सार्वधातुकम् अपि भवति ।
४६ - ४७ - तत्र सार्वधातुकम् अपिन् ङित् इति ङित्त्वात् पर्युदासः भविष्यति ।
४७ - ४७ - अथ वा वकारस्य एव इदम् अशक्तिजेन इकारेण ग्रहणम्
१ - २८ - संयोगे गुरुसञ्ज्ञायाम् गुणः भेत्तुः न सिध्यति ।
२ - २८ - संयोगे गुरुसञ्ज्ञायाम् भेत्ता , भेत्तुम् इति गुणः न प्राप्नोति ।
३ - २८ - विध्यपेक्षम् लघोः च असौ ।
४ - २८ - विध्यपेक्षम् लघुग्रहणम् कृतम् लघोः च असौ विहितः ।
५ - २८ - कथम् कुण्डिः न दुष्यति ।
६ - २८ - कुण्डिता , हुण्डिता अत्र कस्मात् न भवति ।
७ - २८ - धातोः नुमः ।
८ - २८ - धातोः नुम्विधौ उक्तम् तत्र धातुग्रहणस्य प्रयोजनम् धातूपदेशावस्थायाम् एव नुम् भवति इति ।
९ - २८ - कथम् रञ्जेः ।
१० - २८ - कथम् रञ्जेः उपधालक्षणा वृद्धिः ।
११ - २८ - आश्चर्यः रागः , विचित्रः रागः ।
१२ - २८ - स्यन्दिश्रन्थ्योः निपातनात् ।
१३ - २८ - यत् अयम् स्यन्दिश्रन्थ्योः अवृद्ध्यर्थम् निपातनम् करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् वृद्धिः इति ।
१४ - २८ - अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः ।
१५ - २८ - अनङ्लोपः ।
१६ - २८ - दध्ना , सक्थ्ना ।
१७ - २८ - शिदीर्घत्वम् ।
१८ - २८ - कुण्डानि , वनानि ।
१९ - २८ - एवम् तर्हि अभ्यस्तस्य यत् आह अचि ।
२० - २८ - यत् अयम् न अभ्यस्तस्य अचि पिति सार्वधातुके इति अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् गुणः इति ।
२१ - २८ - लङर्थम् तत् कृतम् भवेत् ।
२२ - २८ - लङर्थम् एतत् स्यात् ।
२३ - २८ - अनेन इक् ।
२४ - २८ - क्नुसुनोः यत् कृतम् कित्त्वम् ज्ञापकम् स्यात् लघोः गुणे ।
२५ - २८ - यत् अयम् त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल् हलन्तात् च इति क्नुसनौ कितौ करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् गुणः इति ।
२६ - २८ - संयोगे गुरुसञ्ज्ञायाम् गुणः भेत्तुः न सिध्यति , विध्यपेक्षम् लघोः च असौ कथम् कुण्डिः न दुष्यति ।
२७ - २८ - धातोः नुमः कथम् रञ्जेः स्यन्दिश्रन्थ्योः निपातनात् , अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः ।
२८ - २८ - अभ्यस्तस्य यत् आह अचि लङर्थम् तत् कृतम् भवेत् , क्नुसुनोः यत् कृतम् कित्त्वम् ज्ञापकम् स्यात् लघोः गुणे
१ - १८ - अभ्यस्तानाम् उपधाह्रस्वत्वम् अचि पस्पशाते , चाकशीमि , वावशतीः इति दर्शनात् ।
२ - १८ - अभ्यस्तानाम् उपधाह्रस्वत्वम् अचि वक्तव्यम् ।
३ - १८ - किम् प्रयोजनम् ।
४ - १८ - पस्पशाते , चाकशीमि ।
५ - १८ - वावशतीः इति प्रयोगः दृश्यते ।
६ - १८ - कपोतः शरदम् पस्पशाते ।
७ - १८ - अहम् भुवनम् चाकशीमि ।
८ - १८ - वावशतीः उत् आजत् इति ।
९ - १८ - बहुलम् छन्दसि आनुषक् जुजोषत् इति दर्शनात् ।
१० - १८ - बहुलम् छन्दसि वक्तव्यम् उपधाह्रस्वत्वम् ।
११ - १८ - किम् प्रयोजनम् ।
१२ - १८ - आनुषक् जुजोषत् इति दर्शनात् ।
१३ - १८ - यः ते आतित्यम् आनुषक् जुजोषत् ।
१४ - १८ - यदि उपधाह्रस्वत्वम् उच्यते , प्रियाम् मयूरः प्रतिनर्नृतीति यद्वत् त्वम् नरवर नर्नृतीषि हृष्टः , अत्र गुणः प्राप्नोति ।
१५ - १८ - तस्मात् न अर्थः उपधाह्रस्वत्वेन ।
१६ - १८ - कस्मात् न भवति ।
१७ - १८ - पस्पशाते , चाकशीमि , वावशतीः इति ।
१८ - १८ - स्पशिकशिवशयः प्रकृत्यन्तराणि
१ - १६ - भूसुवोः प्रतिषेधे एकाज्ग्रहणम् बोभवीत्यर्थम् ।
२ - १६ - भूसुवोः प्रतिषेधे एकाज्ग्रहणम् कर्तव्यम् ।
३ - १६ - किम् प्रयोजनम् ।
४ - १६ - बोभवीत्यर्थम् ।
५ - १६ - इह मा भूत् ।
६ - १६ - बोभवीति ।
७ - १६ - यदि एकाज्ग्रहणम् क्रियते अभूत् अत्र न प्राप्नोति ।
८ - १६ - क्व तर्हि स्यात् ।
९ - १६ - मा भूत् ।
१० - १६ - तस्मात् न अर्थः एकाज्ग्रहणेन ।
११ - १६ - कस्मात् न भवति ।
१२ - १६ - बोभवीति इति ।
१३ - १६ - बोभूतु इति एतत् नियमार्थम् भविष्यति ।
१४ - १६ - अत्र एव यङ्लुगन्तस्य गुणः न भवति न अन्यत्र इति ।
१५ - १६ - क्व मा भूत् ।
१६ - १६ - बोभवीति इति
१ - १५ - किमर्थम् तृहिरागतश्नम्कः न तृहेः इम् भवति इति एव उच्येत ।
२ - १५ - तृणहिग्रहणम् श्नमिमोः व्यवस्थार्थम् ।
३ - १५ - तृणहिग्रहणम् श्नमि कृते इम् यथा स्यात् ।
४ - १५ - तृहिग्रहणे हि इम्विषये श्नमभावः अनवकाशत्वात् ।
५ - १५ - तृहिग्रहणे हि सति इम्विषये श्नमः अभावः स्यात् ।
६ - १५ - किम् कारणम् ।
७ - १५ - अनवकाशत्वात् ।
८ - १५ - अनवकाशः इम् श्नमम् बाधेत ।
९ - १५ - इदम् अयुक्तम् वर्तते ।
१० - १५ - किम् अत्र अयुक्तम् ।
११ - १५ - तृणहिग्रहणम् श्नमिमोः व्यवस्थार्थम् इति उक्त्वा ततः उच्यते तृहिग्रहणे हि इम्विषये श्नमभावः अनवकाशत्वात् इति ।
१२ - १५ - तत्र वक्तव्यम् तृणहिग्रहणम् श्नमिमोः भावाय तृहिग्रहणे हि इम्विषेये श्नमभावः अनवकाशत्वात् इति ।
१३ - १५ - तत् तर्हि वक्तव्यम् ।
१४ - १५ - न वक्तव्यम् ।
१५ - १५ - व्यवस्थार्थम् इति एव सिद्धम् न हि असतः व्यवस्था इति
१ - ४ - सार्वधातुके इति वर्तमाने पुनः सार्वधातुकग्रहणम् किमर्थम् ।
२ - ४ - पुनः सार्वधातुकग्रहणम् अपिदर्थम् ।
३ - ४ - अपिदर्थः अयम् आरम्भः ।
४ - ४ - अध्रिगो शमीध्वम् सुशमि शमीध्व शमीध्वम् अध्रिगो
१ - ९ - अतः दीर्घात् बहुवचने एत्त्वम् विप्रतिषेधेन ।
२ - ९ - अतः दीर्घात् बहुवचने एत्त्वम् भवति विप्रतिषेधेन ।
३ - ९ - अतः दीर्घः यञि सुपि च इति अस्य अवकाशः ।
४ - ९ - वृक्षाभ्याम् , प्लक्षाभ्याम् ।
५ - ९ - बहुवचने झलि एत् इति अस्य अवकाशः ।
६ - ९ - वृक्षेषु , प्लक्षेषु ।
७ - ९ - इह उभयम् प्राप्नोति ।
८ - ९ - वृक्षेभ्यः , प्लक्षेभ्यः ।
९ - ९ - एत्त्वम् भवति विप्रतिषेधेन
१ - १६ - डलकवतीनाम् प्रतिषेधः वक्तव्यः ।
२ - १६ - अम्बाडे , अम्बाले , अम्बिके ।
३ - १६ - तल्ह्रस्वत्वम् वा ङिसम्बुद्ध्योः ।
४ - १६ - तल्ह्रस्वत्वम् वा ङिसम्बुद्ध्योः इति वक्तव्यम् ।
५ - १६ - देवत , देवते ।
६ - १६ - देवतायाम् , देवते ।
७ - १६ - सः तर्हि प्रतिषेधः वक्तव्यः ।
८ - १६ - न वक्तव्यः ।
९ - १६ - सः कथम् न वक्तव्यः भवति ।
१० - १६ - अम्बार्थम् द्व्यक्षरम् यदि ।
११ - १६ - यदि अम्बार्थम् द्व्यक्षरम् गृह्यते ।
१२ - १६ - तत् तर्हि ह्रस्वत्वम् वक्तव्यम् ।
१३ - १६ - अवश्यम् छन्दसि ह्रस्वत्वम् वक्तव्यम् उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति एवम् अर्थम् ।
१४ - १६ - मातृ̄णाम् मातच् पुत्रार्थम् अर्हते ।
१५ - १६ - मातृ̄णाम् मातजादेशः वक्तव्यः पुत्रार्थम् अर्हते ।
१६ - १६ - गार्गीमात , वात्सीमात
१ - १८ - इह कस्मात् न भवति ।
२ - १८ - नदि, कुमारि , किशोरि , ब्राह्मणि , ब्रह्मबन्धु ।
३ - १८ - ह्रस्ववचनसामर्थ्यात् ।
४ - १८ - अस्ति अन्यत् ह्रस्ववचने प्रयोजनम् पृथग्विभक्तिम् मा उच्चीचरम् इति ।
५ - १८ - शक्यम् पृथग्विभक्तिः अनुच्चारयितुम् ।
६ - १८ - कथम् ।
७ - १८ - एवम् अयम् ब्रूयात् ।
८ - १८ - अम्बार्थानाम् ह्रस्वः नदीह्रस्वयोः गुणः इति ।
९ - १८ - यदि एवम् उच्यते जसि च इति अत्र नद्याः अपि गुणः प्राप्नोति ।
१० - १८ - एवम् तर्हि योगविभागः करिष्यते ।
११ - १८ - अम्बार्थनद्योः ह्रस्वः ।
१२ - १८ - ततः ह्रस्वस्य ।
१३ - १८ - ह्रस्वस्य च ह्रस्वः भवति ।
१४ - १८ - किमर्थम् इदम् ।
१५ - १८ - गुणम् वक्ष्यति तद्बाधनार्थम् ।
१६ - १८ - ततः गुणः ।
१७ - १८ - गुणः च भवति ह्रस्वस्य इति ।
१८ - १८ - अथ वा ह्रस्वस्य गुणः इति अत्र अम्बार्थनद्योः ह्रस्वः इति एतत् अनुवर्तिष्यते
१ - ८ - जसादिषु छन्दसि वावचनम् प्राक् णौ चङि उपधायाः ।
२ - ८ - जसादिषु छन्दसि वा इति वक्तव्यम् ।
३ - ८ - किम् अविशेषेण ।
४ - ८ - न इति आह ।
५ - ८ - प्राक् णौ चङ्युपधायाः ।
६ - ८ - किम् प्रयोजनम् ।
७ - ८ - अम्बे, दर्वि , शतक्रत्वः , पश्वे नृभ्यः , किकिदीव्या ।
८ - ८ - अम्बे , अम्ब , दर्वि , दर्वे , शतक्रवः शतक्रतवः , पश्वे , पशवे , किकिदीव्या , किकिदीविना
१ - ७ - घेः ङिति गुणविधाने ङीसार्वधातुके प्रतिषेधः ।
२ - ७ - घेः ङिति गुणविधाने ङीसार्वधातुके प्रतिषेधः वक्तव्यः ।
३ - ७ - पट्वी , मृद्वी , कुरुतः इति ।
४ - ७ - सुबधिकारात् सिद्धम् ।
५ - ७ - सुप् इति वर्तते ।
६ - ७ - क्व प्रकृतम् ।
७ - ७ - सुपि च बहुवचने झलि एत् इति
१ - १४ - इह अतिखट्वाय , अतिमालाय इति ह्रस्वत्वे कृते स्थानिवद्भावात् याट् प्राप्नोति तस्य प्रतिषेधः वक्तव्यः ।
२ - १४ - न वक्तव्यः ।
३ - १४ - याड्विधाने अतिखट्वाय इति अप्रतिषेधः ह्रस्वादेशत्वात् ।
४ - १४ - याड्विधाने अतिखट्वाय , अतिमालाय इति अप्रतिषेधः ।
५ - १४ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।
६ - १४ - याट् कस्मात् न भवति ।
७ - १४ - ह्रस्वादेशत्वात् ।
८ - १४ - ह्रस्वादेशः अयम् ।
९ - १४ - उक्तम् एतत् ङ्याब्ग्रहणे अदीर्घः इति ।
१० - १४ - अथ इदानीम् असति अपि स्थानिवद्भावे दीर्घत्वे कृते आप् च असौ भूतपूर्वः इति कृत्वा याट् कस्मात् न भवति ।
११ - १४ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।
१२ - १४ - ननु च इदानीम् सति अपि स्थानिवद्भावे एतया परिभाषया शक्यम् उपस्थातुम् ।
१३ - १४ - न इति आह ।
१४ - १४ - न च तदानीम् क्वचित् अपि स्थानिवद्भावः स्यात्
१ - १३ - इदुद्भ्याम् आम्विधानम् औत्त्वस्य परत्वात् ।
२ - १३ - इदुद्भ्याम् आम् विधेयः ।
३ - १३ - शकट्याम् , पद्धत्याम् , धेन्वाम् इति ।
४ - १३ - किम् पुनः कारणम् न सिध्यति ।
५ - १३ - औत्त्वस्य परत्वात् ।
६ - १३ - परत्वात् औत्त्वम् प्राप्नोति ।
७ - १३ - योगविभागात् सिद्धम् ।
८ - १३ - योगविभागः करिष्यते ।
९ - १३ - ङेः आम् नद्याम्नीभ्यः ।
१० - १३ - ततः इदुद्भ्याम् ।
११ - १३ - इदुद्भ्याम् उत्तरस्य ङेः आम् भवति इति ।
१२ - १३ - शकट्याम् , पद्धत्याम् , धेन्वाम् इति ।
१३ - १३ - ततः औत् अत् च घेः
१ - ३४ - औत्त्वे योगविभागः ।
२ - ३४ - औत्त्वे योगविभागः कर्तव्यः ।
३ - ३४ - औत् ।
४ - ३४ - औत् भवति इदुद्भ्याम् ।
५ - ३४ - ततः अत् च घेः ।
६ - ३४ - अकारः च भवति घेः इति ।
७ - ३४ - किमर्थः योगविभागः ।
८ - ३४ - सखिपतिभ्याम् औत्त्वार्थः ।
९ - ३४ - सखिपतिभ्याम् औत्त्वम् यथा स्यात् ।
१० - ३४ - सख्यौ , पत्यौ ।
११ - ३४ - एकयोगे हि अप्राप्तिः अत्त्वसन्नियोगात् ।
१२ - ३४ - एकयोगे हि सति औत्त्वस्य अप्राप्तिः ।
१३ - ३४ - किम् कारणम् ।
१४ - ३४ - अत्त्वसन्नियोगात् ।
१५ - ३४ - अत्त्वसन्नियोगेन औत्त्वम् उच्यते तेन यत्र एव औत्त्वम् स्यात् ।
१६ - ३४ - न वा अकारस्य अन्वाचयवचनात् यथा क्यङि सलोपः ।
१७ - ३४ - न वा अर्थ औत्त्वे योगविभागेन ।
१८ - ३४ - किम् कारणम् ।
१९ - ३४ - अकारस्य अन्वाचयवचनात् ।
२० - ३४ - प्रधानशिष्टम् औत्त्वम् अन्वाचयशिष्टम् अत्त्वम् यथा क्यङि सलोपः ।
२१ - ३४ - तत् यथा ।
२२ - ३४ - प्रधानशिष्टः क्यङ् प्रातिपदिकमात्रात् भवति यत्र च स्कारः तत्र लोपः ।
२३ - ३४ - अत्त्वे टाप्प्रतिषेधः ।
२४ - ३४ - अत्त्वे टापः प्रतिषेधः वक्तव्यः ।
२५ - ३४ - शकटौ , पद्धतौ , धेनौ ।
२६ - ३४ - अत्त्वे कृते टाप् प्राप्नोति ।
२७ - ३४ - न वा सन्निपातलक्षणस्य अनिमित्तत्वात् ।
२८ - ३४ - न वा वक्तव्यः ।
२९ - ३४ - किम् कारणम् ।
३० - ३४ - सन्निपातलक्षणस्य अनिमित्तत्वात् ।
३१ - ३४ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति टाप् न भविष्यति ।
३२ - ३४ - डित्करणात् वा ।
३३ - ३४ - अथ वा डित् आउकारः करिष्यते ।
३४ - ३४ - औ डित् च घेः
१ - ८ - किमर्थम् अस्त्रियाम् इति उच्यते न आङः ना पुंसि इति एव उच्येत ।
२ - ८ - का रूपसिद्धिः त्रपुणा , जतुना ।
३ - ८ - नुमा सिद्धम् ।
४ - ८ - न एवम् शक्यम् ।
५ - ८ - इह हि अमुना ब्राह्मणकुलेन इति मुभावस्य असिद्धत्वात् नुम् न स्यात् ।
६ - ८ - अस्त्रियाम् इति पुनः उच्यमाने न दोषः भवति ।
७ - ८ - कथम् ।
८ - ८ - वक्ष्यति एतत् न मु टादेशे