पाद ३ - खण्ड ७९

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ४९ - देविकादिषु तदादिग्रहणम् ।

२ - ४९ - देविकादिषु तदादिग्रहणम् कर्तव्यम् ।

३ - ४९ - देविकाद्यादीनाम् इति वक्तव्यम् ।

४ - ४९ - इह अपि यथा स्यात् ।

५ - ४९ - दाविकाकुलाः शालयः , शांशपास्थलाः देवाः ।

६ - ४९ - किम् पुनः कारणम् न सिध्यति ।

७ - ४९ - अन्यत्र तद्ग्रहणात् तदन्तग्रहणात् वा ।

८ - ४९ - अन्यत्र हि तस्य वा ग्रहणम् भवति तदन्तस्य वा न च इदम् तत् न अपि तदन्तम् ।

९ - ४९ - आद्यज्विशेषणत्वात् सिद्धम् ।

१० - ४९ - आद्यज्विशेषणम् देविकादयः ।

११ - ४९ - न एवम् विज्ञायते देविकादीनाम् अङ्गानाम् अचाम् आदेः आकारः भवति इति ।

१२ - ४९ - कथम् तर्हि ।

१३ - ४९ - ञ्णिति अङ्गस्य अचाम् आदेः आकारः भवति सः चेत् देविकादीनाम् आद्ज्यच् भवति इति ।

१४ - ४९ - आन्तरतम्यनिवर्तकत्वात् वा ।

१५ - ४९ - अथ वा न अनेन अनन्तरतमा वृद्धिः निर्वर्त्यते ।

१६ - ४९ - किम् तर्हि अन्तरतमा अनेन निवर्त्यते ।

१७ - ४९ - सिद्धा अत्र वृद्धिः तद्धितेषु अचाम् आदेः इति एव तत्र अनेन अन्तरतमा वृद्धिः निवर्त्यते ।

१८ - ४९ - परिहारान्तरम् एव इदम् मत्वा पठितम् कथम् च इदम् परिहारान्तरम् स्यात् ।

१९ - ४९ - यदि न आद्यज्विशेषणम् देविकादयः ।

२० - ४९ - अवश्यम् च एतत् एवम् विज्ञेयम् अद्यज्विशेषणम् देविकादयः इति ।

२१ - ४९ - यदि न आद्यज्विशेषणम् देविकादयः स्युः इह अपि प्राप्नोति सुदेविकायाम् भवः सौदेविकः इति ।

२२ - ४९ - अथ अत्र अपि आद्यज्विशेषणत्वात् इति एव सिद्धम् परिहारान्तरम् न भवति ।

२३ - ४९ - न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यम् इति ।

२४ - ४९ - किम् तर्हि ।

२५ - ४९ - यत्र क्रियमाणे न दोषः तत्र कर्तव्यम् ।

२६ - ४९ - क्व च क्रियमाणे न दोषः ।

२७ - ४९ - सञ्ज्ञाविधौ ।

२८ - ४९ - वृद्धिः आत् ऐच् देविकादीनाम् आकारः इति ।

२९ - ४९ - इध्यति ।

३० - ४९ - सूत्रम् तर्हि भिद्यते ।

३१ - ४९ - यथान्यासम् एव अस्तु ।

३२ - ४९ - ननु च उक्तम् देविकादिषु तदादिग्रहणम् अन्यत्र तद्ग्रहणात् तदन्तग्रहणात् वा इति ।

३३ - ४९ - परिहृतम् एतत् आद्यज्विशेषणत्वात् सिद्धम् इति ।

३४ - ४९ - न्यग्रोधे च केवलग्रहणात् ।

३५ - ४९ - न्यग्रोधे च केवलग्रहणात् मन्यामहे आद्यज्विशेषणम् देविकादयः इति ।

३६ - ४९ - तस्य हि केवलग्रहणस्य एतत् प्रयोजनम् इह मा भूत् न्याग्रोधमूलाः शालयः इति ।

३७ - ४९ - यदि च आद्यज्विशेषणम् देविकादयः ततः केवलग्रहणम् अर्थवत् भवति ।

३८ - ४९ - तत् एतत् कथम् कृत्वा ज्ञापकम् भवति ।

३९ - ४९ - यदि न्यग्रोधशब्दः अव्युत्पन्नम् प्रातिपदिकम् भवति ।

४० - ४९ - अथ हि न्यग्रोहति इति न्यग्रोधः ततः नियमार्थम् पदान्तः इति कृत्वा न ज्ञापकम् भवति ।

४१ - ४९ - वहीनरस्य इद्वचनम् ।

४२ - ४९ - वहीनरस्य इत्त्वम् वक्तव्यम् ।

४३ - ४९ - वहीनरस्य अपत्यम् वैहीनरिः ।

४४ - ४९ - कुणरवाडवः तु आह ।

४५ - ४९ - न एषः वहीनरः ।

४६ - ४९ - कः तर्हि ।

४७ - ४९ - विहीनरः एषः ।

४८ - ४९ - विहीनः नरः कामभोगाभ्याम् विहीनरः ।

४९ - ४९ - विहीनरस्य अपत्यम् वैहीनरिः

१ - ४५ - य्वाभ्याम् परस्य अवृद्धित्वम् ।

२ - ४५ - य्वाभ्याम् परस्य अवृद्धित्वम् सिद्धम् ।

३ - ४५ - कुतः ।

४ - ४५ - अपवादौ वृद्धेः हि तौ ।

५ - ४५ - अपवादौ हि वृद्धेः तौ ऐचौ उच्येते ।

६ - ४५ - नित्यौ ऐचौ तयोः वृद्धिः ।

७ - ४५ - अथ वा नित्यौ ऐचौ ।

८ - ४५ - कृतायाम् अपि वृद्धौ प्राप्नुतः अकृतायाम् अपि ।

९ - ४५ - नित्यत्वात् ऐचोः कृतयोः यदि अपि वृद्धिः तयोः एव ।

१० - ४५ - किमर्थम् न इति शिष्यते ।

११ - ४५ - अथ किमर्थम् प्रतिषेधः उच्यते ।

१२ - ४५ - एचोः विषयार्थम् प्रतिषेधसन्नियुक्तवचनम् ।

१३ - ४५ - एचोः विषयार्थम् प्रतिषेधसन्नियोगेन ऐचौ उच्येते ।

१४ - ४५ - यत्र य्वाभ्याम् परावृद्धिः तत्र अध्यश्वेः यथा न तौ ।

१५ - ४५ - यत्र य्वाभ्याम् परस्य अवृद्धित्वम् उच्यते तत्र ऐचौ यथा स्याताम् ।

१६ - ४५ - इह मा भूताम् ।

१७ - ४५ - आध्यश्विः , दाध्यश्विः , माध्वश्विः इति ।

१८ - ४५ - न एतत् अस्ति प्रयोजनम् ।

१९ - ४५ - अचाम् आदेः य्वाभ्याम् हि तौ ।

२० - ४५ - अचाम् आदिना अत्र य्वौ विशेषयिष्यामः ।

२१ - ४५ - अचाम् आदेः यौ य्वौ इति ।

२२ - ४५ - कथम् द्व्याशीतिके न तौ ।

२३ - ४५ - द्व्याशीतिकः इति अत्र कस्मात् न तौ भवतः ।

२४ - ४५ - यत्र वृद्धिः अचाम् आदेः तत्र ऐचौ अत्र घोः हि सा ।

२५ - ४५ - तत्र अचाम् आदेः इति एवम् वृद्धिः तत्र ऐचौ उच्येते ।

२६ - ४५ - अत्र घोः इति एवम् वृद्धिः ।

२७ - ४५ - किम् इदम् घोः इति ।

२८ - ४५ - उत्तरपदस्य इति ।

२९ - ४५ - उत्तरपदाधिकारे अपि अवश्यम् ऐजागमः अनुवर्त्यः पूर्वत्र्यलिन्दे भवः पूर्वत्रयलिन्दः इति एवमर्थम् ।

३० - ४५ - न एषः दोषः ।

३१ - ४५ - उत्तरपदेन अत्र अचाम् आदि विशेषयिष्यामः अचाम् आदिना य्वौ ।

३२ - ४५ - उत्तरपदस्य अचाम् आदेः यौ य्वौ इति ।

३३ - ४५ - अथ कस्मात् पदान्ताभ्याम् ।

३४ - ४५ - अथ किमर्थम् पदान्ताभ्याम् इति उच्यते ।

३५ - ४५ - यथा इणः न भवेत् यणः ।

३६ - ४५ - इणः यणादेशे मा भूत्. यतः छात्रा , याता इति ।

३७ - ४५ - इह वैयाकरणः , सौवश्वः इति शाकलम् प्राप्नोति य्वोः च स्थानिवद्भावात् आयावौ प्राप्नुतः ।

३८ - ४५ - शकलायावादेशेषु च उक्तम् ।

३९ - ४५ - किम् उक्तम् ।

४० - ४५ - शाकले तावत् उक्तम् सिन्नित्यसमासयोः शाकलप्रतिषेधः इति ।

४१ - ४५ - आयावोः किम् उक्तम् ।

४२ - ४५ - अचः पूर्वविज्ञानात् ऐचोः सिद्धम् इति ।

४३ - ४५ - य्वाभ्याम् परस्य अवृद्धित्वम् अपवादौ वृद्धेः हि तौ , नित्यौ ऐचौ तयोः वृद्धिः किमर्थम् न इति शिष्यते ।

४४ - ४५ - यत्र य्वाभ्याम् परावृद्धिः तत्र अध्यश्वेः यथा न तौ , अचाम् आदेः य्वाभ्याम् हि तौ कथम् द्व्याशीतिके न तौ ।

४५ - ४५ - यत्र वृद्धिः अचाम् आदेः तत्र ऐचौ अत्र घोः हि सा , अथ कस्मात् पदान्ताभ्याम् यथा इणः न भवेत् यणः

१ - २० - अथ परस्य अवृद्धिः इति अनुवर्तते उताहो न ।

२ - २० - किम् च अतः ।

३ - २० - यदि अनुवर्तते शौवम् मांसम् टिलोपे कृते ऐजागमः न प्राप्नोति ।

४ - २० - अथ निवृत्तम् स्वाध्यायशब्दः द्वारादिषु पठ्यते तत्र यावन्तः यणः सर्वेभ्यः पूर्वः ऐजागमः प्राप्नोति ।

५ - २० - यथ इच्छसि तथा अस्तु ।

६ - २० - अस्तु तावत् अनुवर्तते ।

७ - २० - कथ शौवम् मांसम् ।

८ - २० - आनुपूर्व्या सिद्धम् एतत् ।

९ - २० - न अत्र अकृते ऐजागमे टिलोपः प्राप्नोति ।

१० - २० - किम् कारणम् ।

११ - २० - प्रकृत्या एकाच् इति प्रकृतिभावेन भवितव्यम् ।

१२ - २० - तत् एतत् आनुपूर्व्या सिद्धम् भवति ।

१३ - २० - अथ वा पुनः अस्तु निवृत्तम् ।

१४ - २० - ननु च उक्तम् स्वाध्यायशब्दः द्वारादिषु पठ्यते तत्र यावन्तः यणः सर्वेभ्यः पूर्वः ऐजागमः प्राप्नोति इति ।

१५ - २० - कः पुनः अर्हति स्वाध्यायशब्दम् द्वारादिषु पठितुम् ।

१६ - २० - एवम् किल् पठ्येत स्वम् अध्ययनम् स्वाध्यायः इति ।

१७ - २० - तत् च न ।

१८ - २० - सुष्ठु वा अध्ययनम् स्वाध्यायः शोभनम् वा अध्ययनम् स्वाध्यायः ।

१९ - २० - अथ अपि स्वम् अध्ययनम् स्वाध्यायः एवम् अपि न दोषः ।

२० - २० - अचाम् आदेः इति वर्तते ।

१ - २१ - अयम् श्वन्शब्दः द्वारादिषु पठ्यते तत्र कः प्रसङ्गः यत् तदादेः स्यात् ।

२ - २१ - न एव प्राप्नोति न अर्थः प्रतिषेधेन ।

३ - २१ - तदादिविधिना प्राप्नोति ।

४ - २१ - न एव तदादिविधिः अस्ति ।

५ - २१ - अतः उत्तरम् पठति ।

६ - २१ - प्रतिषेधे श्वादिग्रहणम् ज्ञापकम् अन्यत्र श्वन्ग्रहणे तदादिग्रहणस्य शौवहानाद्यर्थम् ।

७ - २१ - प्रतिषेधे श्वादिग्रहणम् क्रियते ज्ञापकार्थम् ।

८ - २१ - किम् ज्ञाप्यम् ।

९ - २१ - एतत् ज्ञापयति आचार्यः अन्यत्र श्वन्ग्रहणे तदादिविधिः भवति इति ।

१० - २१ - किम् एतस्य ज्ञापने प्रयोजनम् ।

११ - २१ - शौवहानाद्यर्थम् ।

१२ - २१ - शौवहानम् नाम नगरम् ।

१३ - २१ - शौवादंष्ट्रः मणिः इति ।

१४ - २१ - इकारादिग्रहणम् च श्वागणिकाद्यर्थम् ।

१५ - २१ - इकारादिग्रहणम् च कर्तव्यम् ।

१६ - २१ - किम् प्रयोजनम् ।

१७ - २१ - श्वागणिकाद्यर्थम् ।

१८ - २१ - श्वगणेन चरति श्वागणिकः ।

१९ - २१ - तदन्तस्य च अन्यत्र प्रतिषेधः ।

२० - २१ - तदन्तस्य च अन्यत्र प्रतिषेधः वक्तव्यः ।

२१ - २१ - श्वाभस्त्रेः स्वम् श्वाभस्त्रम्

१ - ३२ - किमर्थम् इदम् उच्यते ।

२ - ३२ - अवयवात् ऋतोः इति वक्ष्यति तदुत्तरपदस्य यथा स्यात् अचाम् आदेः मा भूत् ।

३ - ३२ - न एतत् अस्ति प्रयोजनम् ।

४ - ३२ - अवयवात् इति पञ्चमी तत्र अन्तरेण अपि उत्तरपदग्रहणम् उत्तरपदस्य एव भविष्यति ।

५ - ३२ - उत्तरार्थम् तर्हि सुसर्वार्धात् जनपदस्य इति ।

६ - ३२ - सुसर्वार्धात् इति पञ्चमी ।

७ - ३२ - दिशः अमद्राणाम् ।

८ - ३२ - दिशः इति पञ्चमी ।

९ - ३२ - प्राचाम् ग्रामनगराणाम् ।

१० - ३२ - दिशः इति एव ।

११ - ३२ - सङ्ख्यायाः संवत्सरसङ्ख्यस्य च ।

१२ - ३२ - सङ्ख्यायाः इति पञ्चमी ।

१३ - ३२ - वर्षस्य अभविष्यति ।

१४ - ३२ - सङ्ख्यायाः इति एव ।

१५ - ३२ - परिमाणान्तस्य असञ्ज्ञाशाणयोः इति ।

१६ - ३२ - सङ्ख्यायाः इति एव ।

१७ - ३२ - इदम् तर्हि प्रयोजनम् जे प्रोष्ठपदानाम् उत्तरपदस्य यथा स्यात् पूर्वपदस्य मा भूत् ।

१८ - ३२ - प्रोष्ठपदासु जातः प्रोष्ठपादः ब्राह्मणः ।

१९ - ३२ - तद्धितेषु अचाम् आदिवृद्धेः उत्तरपदवृद्धिः विप्रतिषेधेन द्व्याशीतिकाद्यर्थम् ।

२० - ३२ - तद्धितेषु अचाम् आदिवृद्धेः उत्तरपदवृद्धिः भवति विप्रतिषेधेन ।

२१ - ३२ - किम् प्रयोजनम् ।

२२ - ३२ - द्व्याशीतिकाद्यर्थम् ।

२३ - ३२ - अचाम् आदिवृद्धेः अवकाशः ।

२४ - ३२ - ऐतिकायनः , औपगवः ।

२५ - ३२ - उत्तरपदवृद्धेः अनवकाशः ।

२६ - ३२ - द्विषाष्टिकः , त्रिषाष्टिकः ।

२७ - ३२ - इह उभयम् प्राप्नोति ।

२८ - ३२ - द्व्याशीतिकः , त्र्याशीतिकः ।

२९ - ३२ - उत्तरपदवृद्धिः भवति विप्रतिषेधेन ।

३० - ३२ - कः पुनः अत्र विशेषः अचाम् आदिवृद्धौ वा सत्याम् उत्तरपदवृद्धौ वा ।

३१ - ३२ - अयम् अस्ति विशेषः ।

३२ - ३२ - यदि अत्र अचाम् आदिवृद्धिः स्यात् ऐजागमः प्रसज्येत

१ - २८ - नगरग्रहणम् किमर्थम् न प्राचाम् ग्रामाणाम् इति एव सिद्धम् ।

२ - २८ - न सिध्यति ।

३ - २८ - अन्यः ग्रामः अन्यत् नगरम् ।

४ - २८ - कथम् ज्ञायते ।

५ - २८ - एवम् हि कः चित् कम् चित् पृच्छति ।

६ - २८ - कुतः भवान् आगच्छति ग्रामात् ।

७ - २८ - सः हि आह ।

८ - २८ - न ग्रामात् नगरात् इति ।

९ - २८ - ननु च भो यः एव ग्रामः तत् नगरम् ।

१० - २८ - कथम् ज्ञायते ।

११ - २८ - लोकतः ।

१२ - २८ - ये हि ग्रामे विधयः न इष्यन्ते साधीयः ते नगरे न क्रियन्ते ।

१३ - २८ - तत् यथा ।

१४ - २८ - अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उक्ते सुतराम् नागरः अपि न भक्ष्यते ।

१५ - २८ - तथा ग्रामे न अध्येयम् इति साधीयः नगरे न अधीयते ।

१६ - २८ - तस्मात् यः एव ग्रामः तत् नगरम् ।

१७ - २८ - कथम् यत् उक्तम् एवम् हि कः चित् कम् चित् पृच्छति कुतः भवान् आगच्छति ग्रामात् सः आह न ग्रामात् नगरात् इति ।

१८ - २८ - संस्त्यायविशेषम् असौ आचष्टे ।

१९ - २८ - संस्त्यायविशेषाः हि एते ग्रामः घोषः नगरम् संवाहः इति ।

२० - २८ - एवम् तर्हि सिद्धे सति यत् ग्रामग्रहणे नगरग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र ग्रामग्रहणे नगरग्रहणम् न भवति इति ।

२१ - २८ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२२ - २८ - विशिष्टलिङ्गः नदीदेशः अग्रामाः इति अत्र नगरप्रतिषेधः चोदितः सः न वक्तव्यः भवति ।

२३ - २८ - यदि एतत् ज्ञाप्यते उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् इति अत्र नगरग्रहणम् कर्तव्यम् ।

२४ - २८ - बाहीकग्रामेभ्यः च नगरग्रहणम् कर्तव्यम् ।

२५ - २८ - दिक्शब्दाः ग्रामजनपदाख्यानचानराटेषु नगरग्रहणम् कर्तव्यम् ।

२६ - २८ - इदम् चतुर्थम् ज्ञापकार्थम् ।

२७ - २८ - तत्र अतिनिर्बन्धः न लाभः ।

२८ - २८ - तस्मात् यस्मिन् एव ग्रामग्रहणे नगरग्रहणम् न इष्यते तस्य प्रतिषेधः वक्तव्यः

१ - २२ - संवत्सरग्रहणम् अनर्थकम् परिमाणान्तस्य इति कृतत्वात् ।

२ - २२ - संवत्सरग्रहणम् अनर्थकम् ।

३ - २२ - किम् कारणम् ।

४ - २२ - परिमाणान्तस्य इति कृतत्वात् ।

५ - २२ - परिमाणान्तस्य असञ्ज्ञाशाणयोः इति एव सिद्धम् ।

६ - २२ - ज्ञापकम् तु कालपरिमाणानाम् वृद्धिप्रतिषेधस्य ।

७ - २२ - एवम् तर्हि ज्ञापयति आचार्यः कालपरिमाणानाम् वृद्धिः न भवति इति ।

८ - २२ - किम् एतस्य ज्ञापने प्रयोजनम् ।

९ - २२ - द्वैरात्रिकः , त्रैरात्रिकः , अत्र वृद्धिः न भवति ।

१० - २२ - न एतत् अस्ति प्रयोजनम् ।

११ - २२ - न अस्ति अत्र विशेषः सत्याम् वा उत्तरपदवृद्धौ असत्याम् वा ।

१२ - २२ - इदम् तर्हि ।

१३ - २२ - द्वसमिकः , त्रैसमिकः ।

१४ - २२ - इदम् च अपि प्रयोजनम् द्वैरात्रिकः , त्रैरात्रिकः ।

१५ - २२ - ननु च उक्तम् न अस्ति अत्र विशेषः सत्याम् वा उत्तरपदवृद्धौ असत्याम् वा इति ।

१६ - २२ - अयम् अस्ति विशेषः ।

१७ - २२ - यदि अत्र उत्तरपदवृद्धिः स्यात् अचाम् आदेः वृद्धिः न स्यात् ।

१८ - २२ - अपरः आह ज्ञापकम् तु कालपरिमाणानाम् परिमाणाग्रहणस्य ।

१९ - २२ - एवम् तर्हि ज्ञापयति आचार्यः कालपरिमाणानाम् परिमाणग्रहणेन ग्रहणम् न भवति इति ।

२० - २२ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२१ - २२ - अपरिमाणबिस्ताचितकम्बल्येभ्यः न तद्धितलुकि द्विवर्षा , त्रिवर्षा ।

२२ - २२ - परिमाणपर्युदासेन पर्युदासः न भवति

१ - १० - परस्य वृद्धिः न इति अनुवर्तते उताहो न ।

२ - १० - किम् च अतः ।

३ - १० - यदि अनुवर्तते प्रवाहणेयी भार्या अस्य इति प्रवाहणेयीभार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः न प्राप्नोति ।

४ - १० - अथ निवृत्तम् न दोषः भवति ।

५ - १० - यथा न दोषः तथा अस्तु ।

६ - १० - अथ वा पुनः अस्तु अनुवर्तते ।

७ - १० - ननु च उक्तम् प्रवाहणेयी भार्या अस्य प्रवाहणेयीभार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः न प्राप्नोति इति ।

८ - १० - न एषः दोषः ।

९ - १० - मा भूत् एवम् ।

१० - १० - जातेः इति एवम् भविष्यति

१ - ८ - अयम् योगः शक्यः अवक्तुम् ।

२ - ८ - कथम् अयाथातथ्यम् , आयथातथ्यम् , अयाथापुर्यम् , आयथापुर्यम् ।

३ - ८ - यदा तावत् पूर्वपदस्य वृद्धिः तदा एवम् विग्रहः करिष्यते ।

४ - ८ - न यथातथा , अयथातथा ।

५ - ८ - अयथातथाभावः आयथातथ्यम् ।

६ - ८ - यदा उत्तरपदस्य वृद्धिः तदा एवम् विग्रहः करिष्यते ।

७ - ८ - यथातथाभावः याथातथ्यम् ।

८ - ८ - न याथातथ्यम् अयाथातथ्यम्

१ - ६ - हन्तेः तकारे तद्धिते प्रतिषेधः ।

२ - ६ - हन्तेः तकारे तद्धिते प्रतिषेधः वक्तव्यः ।

३ - ६ - वार्त्रघ्नम् , भ्रौणघ्नम् ।

४ - ६ - उक्तम् वा ।

५ - ६ - किम् उक्तम् ।

६ - ६ - धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् इति

१ - १७ - कृद्ग्रहणम् किमर्थम् ।

२ - १७ - इह मा भूत् ।

३ - १७ - ददौ , दधौ ।

४ - १७ - न एतत् अस्ति प्रयोजनम् ।

५ - १७ - अचिण्णलोः इति वर्तते ।

६ - १७ - यदि अचिण्णलोः इति वर्तते अदायि , अधायि इति अत्र न प्राप्नोति ।

७ - १७ - वचनात् चिणि भविष्यति ।

८ - १७ - अचिण्णलोः इति वर्तते ।

९ - १७ - एवम् अपि चौडिः , बालाकिः इति अत्र प्राप्नोति ।

१० - १७ - लोपः अत्र बाधकः भविष्यति ।

११ - १७ - इदम् इह सम्प्रधार्यम् ।

१२ - १७ - लोपः क्रियताम् युक् इति किम् अत्र कर्तव्यम् ।

१३ - १७ - परत्वात् युक् ।

१४ - १७ - एवम् तर्हि अचाम् आदेः इति वर्तते ।

१५ - १७ - यत्र अचाम् आदिः आकारः तत्र युक् इति ।

१६ - १७ - एवम् अपि ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीपाकः , अत्र प्राप्नोति ।

१७ - १७ - तस्मात् कृद्ग्रहणम् कर्तव्यम्

१ - २ - अत्यल्पम् इदम् उच्यते अनाचमेः इति ।

२ - २ - अवमिकमिचमीनाम् इति वक्तव्यम् वामः , कामः , आचामः

१ - ५ - णिच्प्रकरणे धूञ्प्रीञोः नुग्वचनम् ।

२ - ५ - णिच्प्रकरणे धूञ्प्रीञोः नुक् वक्तव्यः ।

३ - ५ - धूनयति , प्रीणयति ।

४ - ५ - पातेः लुग्वचनम् ।

५ - ५ - पालयति

१ - ११ - स्थग्रहणम् किमर्थम् ।

२ - ११ - इदम् विचारयिष्यते इत्त्वे कग्रहणम् सङ्घातग्रहणम् वा स्यात् वर्णग्रहणम् वा इति ।

३ - ११ - तत् यदा सङ्घतग्रहणम् तदा स्थग्रहणम् कर्तव्यम् इह अपि यथा स्यात् कारिका , हारिका ।

४ - ११ - यदा हि वर्णग्रहणम् तदा केवलः ककारः प्रत्ययः न अस्ति इति कृत्वा वचनात् भविष्यति ।

५ - ११ - अथ असुपः इति कथम् इदम् विज्ञायते ।

६ - ११ - असुब्वतः अङ्गस्य इति ।

७ - ११ - आहोस्वित् न चेत् सुपः परः आप् इति ।

८ - ११ - किम् च अतः ।

९ - ११ - यदि विज्ञायते असुब्वतः अङ्गस्य इति बहुचर्मिका अत्र न प्राप्नोति ।

१० - ११ - अथ विज्ञायते न चेत् सुपः परः आप् इति न दोषः भवति ।

११ - ११ - यथा न दोषः तथा अस्तु

१ - ३५ - इदम् विचार्यते इत्त्वे कग्रहणम् सङ्घातग्रहणम् वा स्यात् वर्णग्रहणम् वा इति ।

२ - ३५ - कः च अत्र विशेषः ।

३ - ३५ - इत्त्वे कग्रहणम् सङ्घातग्रहणम् चेत् एतिकासु अप्राप्तिः ।

४ - ३५ - इत्त्वे कग्रहणम् सङ्घातग्रहणम् चेत् एतिकास्वु अप्राप्तिः ।

५ - ३५ - एतिकाः चरन्ति ।

६ - ३५ - वचनात् भविष्यति ।

७ - ३५ - अस्ति वचने प्रयोजनम् ।

८ - ३५ - किम् ।

९ - ३५ - कारिका , हारिका ।

१० - ३५ - अस्तु तर्हि वर्णग्रहणम् ।

११ - ३५ - वर्णग्रहणम् चेत् व्यवहितत्वात् अप्रसिद्धिः ।

१२ - ३५ - वर्णग्रहणम् चेत् व्यवहितत्वात् न प्राप्नोति ।

१३ - ३५ - कारिका , हारिका ।

१४ - ३५ - अकारेण व्यवहितत्वात् न प्राप्नोति ।

१५ - ३५ - एकादेशे कृते न अस्ति व्यवधानम् ।

१६ - ३५ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

१७ - ३५ - एवम् तर्हि आह अयम् प्रत्ययस्थात् कात् पूर्वस्य इति न क्व चित् अव्यवधानम् तत्र वचनात् भविष्यति ।

१८ - ३५ - वचनप्रामाण्यात् इति चेत् रथकट्यादिषु अतिप्रसङ्गः ।

१९ - ३५ - वचनप्रामाण्यात् इति चेत् रथकट्यादिषु दोषः भवति ।

२० - ३५ - रथकट्या , गर्गकाम्या ।

२१ - ३५ - न एषः दोषः ।

२२ - ३५ - येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् ।

२३ - ३५ - केन च न अव्यवधानम् वर्णेन एकेन ।

२४ - ३५ - सङ्घातेन पुनः व्यवधानम् भवति न भवति च ।

२५ - ३५ - अथ वा पुनः अस्तु सङ्घातग्रहणम् ।

२६ - ३५ - ननु च उक्तम् इत्त्वे कग्रहणम् सङ्घातग्रहणम् चेत् एतिकासु अप्राप्तिः इति ।

२७ - ३५ - परिहृतम् एतत् वचनात् भविष्यति इति ।

२८ - ३५ - ननु च उक्तम् अस्ति वचने प्रयोजनम् ।

२९ - ३५ - किम् ।

३० - ३५ - कारिका , हारिका इति ।

३१ - ३५ - अत्र अपि एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति ।

३२ - ३५ - अन्तादिवद्भावेन व्यपवर्गः ।

३३ - ३५ - उभयतः आश्रये न अन्तादिवत् ।

३४ - ३५ - एवम् तर्हि एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः ।

३५ - ३५ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् अपि इत्त्वम् इति यत् अयम् न यासयोः इति प्रतिषेधम् शास्ति

१ - ११ - ममक(ऋमामक)नरकयोः उपसङ्ख्यानम् अप्रत्ययस्थत्वात् ।

२ - ११ - ममक(ऋमामक)नरकयोः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ११ - मामिका , नरिका ।

४ - ११ - किम् पुनः कारणम् न सिध्यति ।

५ - ११ - अप्रत्ययस्थत्वात् ।

६ - ११ - त्यक्त्यपोः च प्रतिषिद्धत्वात् ।

७ - ११ - त्यक्त्यपोः च उपसङ्ख्यानम् कर्तव्यम् ।

८ - ११ - दाक्षिणात्यिका , अमात्यिका ।

९ - ११ - किम् पुनः कारणम् न सिध्यति ।

१० - ११ - प्रतिषिद्धत्वात् ।

११ - ११ - उदीचाम् आतः स्थाने यकपूर्वायाः इति प्रतिषिद्धत्वात्

१ - ४८ - न यत्तदोः इति वक्तव्यम् ।

२ - ४८ - इह अपि यथा स्यात् ।

३ - ४८ - यकाम् यकाम् अधीते , तकाम् तकाम् पचामहे इति ।

४ - ४८ - प्रतिषेधे त्यकनः उपसङ्ख्यानम् ।

५ - ४८ - प्रतिषेधे त्यकनः उपसङ्ख्यानम् कर्तव्यम् ।

६ - ४८ - उपत्यका , अधित्यका ।

७ - ४८ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

८ - ४८ - न कर्तव्यम् ।

९ - ४८ - आचार्यप्रवृत्तिः ज्ञापयति न एवञ्जातीयकानाम् इत्त्वम् भवति इति यत् अयम् मृदः तिकन् इति इत्त्वभूतम् निर्देशम् करोति ।

१० - ४८ - पावकादीनाम् छन्दसि उपसङ्ख्यानम् ।

११ - ४८ - पावकादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

१२ - ४८ - हिरण्यवर्णाः श्रुचयः पावकाः , ऋक्षकाः , अलोमकाः ।

१३ - ४८ - छन्दसि इति किमर्थम् ।

१४ - ४८ - पाविका , अलोमिका ।

१५ - ४८ - आशिषि च ।

१६ - ४८ - आशिषि च उपसङ्ख्यानम् कर्तव्यम् ।

१७ - ४८ - जीवतात् जीवका , नन्दतात् नन्दका , भवतात् भवका ।

१८ - ४८ - उत्तरपदलोपे च ।

१९ - ४८ - उत्तरपदलोपे च उपसङ्ख्यानम् कर्तव्यम् ।

२० - ४८ - देवदत्तिका , देवका , यज्ञदत्तिका , यज्ञका ।

२१ - ४८ - क्षिपकादीनाम् च ।

२२ - ४८ - क्षिपकादीनाम् च उपसङ्ख्यानम् कर्तव्यम् ।

२३ - ४८ - क्षिपका , ध्रुवका , धुवका ।

२४ - ४८ - तारका ज्योतिषि ।

२५ - ४८ - तारका ज्योतिषि उपसङ्ख्यानम् कर्तव्यम् ।

२६ - ४८ - तारका ।

२७ - ४८ - ज्योतिषि इति किमर्थम् ।

२८ - ४८ - तारिका दासी ।

२९ - ४८ - वर्णका तानवे ।

३० - ४८ - वर्णका तान्तवे उपसङ्ख्यानम् कर्तव्यम् ।

३१ - ४८ - वर्णका ।

३२ - ४८ - तान्तवे इति किमर्थम् ।

३३ - ४८ - वर्णिका भागुरी लोकायतस्य ।

३४ - ४८ - वर्तका शकुनौ प्राचाम् ।

३५ - ४८ - वर्तका शकुनौ प्राचाम् उपसङ्ख्यानम् कर्तव्यम् ।

३६ - ४८ - वर्तका शकुनिः ।

३७ - ४८ - शकुनौ इति किमर्थम् ।

३८ - ४८ - वर्तिका भागुरी लोकायतस्य ।

३९ - ४८ - प्राचाम् इति किमर्थम् ।

४० - ४८ - वर्तिका ।

४१ - ४८ - अष्टका पितृदेवत्ये ।

४२ - ४८ - अष्टका पितृदेवत्ये उपसङ्ख्यानम् कर्तव्यम् ।

४३ - ४८ - अष्टका ।

४४ - ४८ - पितृदेवत्ये इति किमर्थम् ।

४५ - ४८ - अष्टिका खारी ।

४६ - ४८ - वा सूतकापुत्रकावृन्दारकाणाम् ।

४७ - ४८ - वा सूतकापुत्रकावृन्दारकाणाम् उपसङ्ख्यानम् कर्तव्यम् ।

४८ - ४८ - सूतका , सूतिका , पुत्रका , पुत्रिका , वृन्दारका , वृन्दारिका

१ - ८ - किमर्थम् स्त्रीलिङ्गनिर्देशः क्रियते न यकपूर्वस्य इति एव उच्येत ।

२ - ८ - स्त्रीविषयः यः आकारः तस्य स्थाने यः अकारः तस्य प्रतिषेधः यथा स्यात् ।

३ - ८ - इह मा भूत् ।

४ - ८ - शुभम् याति इति शुभंयाः शुभंयिका , भद्रंयिका ।

५ - ८ - यकपूर्वे धात्वन्तप्रतिषेधः ।

६ - ८ - यकपूर्वे धात्वन्तप्रतिषेधः वक्तव्यः ।

७ - ८ - किम् प्रयोजनम् ।

८ - ८ - सुनयिका , अशोकिका , अपाकिका

१ - ११ - एषाद्वे नञ्पूर्वे अनुदाहरणे असुपः इति प्रतिषेधात् ।

२ - ११ - अथ भस्त्राग्रहणम् किमर्थम् न अभाषितपुंस्कात् इति एव सिद्धम् ।

३ - ११ - भस्त्राग्रहणम् उपसर्जनार्थम् ।

४ - ११ - उपसर्जनार्थः अयम् आरम्भः ।

५ - ११ - अभस्त्रिका , अभस्त्रका ।

६ - ११ - नञ्पूर्वग्रहणानर्थक्यम् च उत्तरपदमात्रस्य इद्वचनात् ।

७ - ११ - नञ्पूर्वग्रहणम् च अनर्थकम् ।

८ - ११ - किम् कारणम् ।

९ - ११ - उत्तरपदमात्रस्य इद्वचनात् ।

१० - ११ - उत्तरपदमात्रस्य इत्त्वम् वक्तव्यम् ।

११ - ११ - निर्भस्त्रका , निर्भस्त्रिका , बहुभस्त्रका , बहुभस्त्रिका

१ - ५७ - किम् इदम् ठादेशे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् ।

२ - ५७ - कः च अत्र विशेषः ।

३ - ५७ - ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः ।

४ - ५७ - ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः वक्तव्यः ।

५ - ५७ - पठिता , पठितुम् ।

६ - ५७ - अस्तु तर्हि सङ्घातग्रहणम् ।

७ - ५७ - सङ्घातग्रहणम् चेत् अणादिमाथितिकादीनाम् प्रतिषेधः ।

८ - ५७ - सङ्घातग्रहणम् चेत् उणादिमाथितिकादीनाम् प्रतिषेधः वक्तव्यः ।

९ - ५७ - उणादीनाम् तावत् ।

१० - ५७ - कण्ठः , वण्ठः , शण्ठः ।

११ - ५७ - इह च मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः प्राप्नोति ।

१२ - ५७ - वर्ङग्रहणे पुनः सति अल्विधिः अयम् भवति ।

१३ - ५७ - तस्मात् विशिष्टग्रहणम् ।

१४ - ५७ - तस्मात् विशिष्टस्य ठकारस्य ग्रहणम् कर्तव्यम् ।

१५ - ५७ - न कर्तव्यम् ।

१६ - ५७ - अस्तु तावत् वर्णग्रहणम् ।

१७ - ५७ - ननु च उक्तम् ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः इति ।

१८ - ५७ - न एषः दोषः ।

१९ - ५७ - अङ्गात् इति वर्तते ।

२० - ५७ - न वा अङ्गात् इति पञ्चमी अस्ति ।

२१ - ५७ - एवम् तर्हि प्रत्ययस्थस्य इति वर्तते ।

२२ - ५७ - क्व प्रकृतम् ।

२३ - ५७ - प्रत्ययस्थात् कात् पूर्वस्य अतः इत् आपि असुपः इति ।

२४ - ५७ - तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

२५ - ५७ - अर्थात् विभक्तिविपरिणामः भविष्यति ।

२६ - ५७ - तत् यथा ।

२७ - ५७ - उच्चानि देवदत्तस्य गृहाणि ।

२८ - ५७ - आमन्त्रयस्व एनम् ।

२९ - ५७ - देवदत्तम् इति गम्यते ।

३० - ५७ - देवदत्तस्य गावः अश्वाः हिरण्यम् ।

३१ - ५७ - आढ्यः वैधवेयः ।

३२ - ५७ - देवदत्तः इति गम्यते ।

३३ - ५७ - पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् प्रथमानिर्दिष्टम् द्वितीयानिर्दिष्टम् च भवति ।

३४ - ५७ - एवम् इह अपि पुरस्तात् पञ्चमीनिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति ।

३५ - ५७ - एवम् अपि उणादीनाम् प्रतिषेधः वक्तव्यः ।

३६ - ५७ - न वक्तव्यः ।

३७ - ५७ - उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।

३८ - ५७ - एवम् अपि कर्मठः इति अत्र प्राप्नोति ।

३९ - ५७ - एवम् तर्हि अङ्गस्य इति सम्बन्धषष्ठी विज्ञास्यते ।

४० - ५७ - अङ्गस्य यः ठकारः ।

४१ - ५७ - किम् च अङ्गस्य ठकारः ।

४२ - ५७ - निमित्तम् ।

४३ - ५७ - यस्मिन् अङ्गम् इति एतत् भवति ।

४४ - ५७ - कस्मिन् च एतत् भवति ।

४५ - ५७ - प्रत्यये ।

४६ - ५७ - अथ वा पुनः अस्तु सङ्घातग्रहणम् ।

४७ - ५७ - ननु च उक्तम् सङ्घातग्रहणम् चेत् उणादिमाथितिकादीनाम् प्रतिषेधः इति उणादीनाम् तावत् प्रतिषेधः न वक्तव्यः ।

४८ - ५७ - परिहृतम् एतत् उणादयः अव्युत्पन्नानि प्रातिपदिकानि इति ।

४९ - ५७ - यत् अपि उच्यते इह च मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः प्राप्नोति इति ।

५० - ५७ - न एषः दोषः ।

५१ - ५७ - अकारलोपस्य स्थानिवद्भावात् न भविष्यति ।

५२ - ५७ - न सिध्यति ।

५३ - ५७ - पूर्वविधौ स्थानिवद्भावः न च अयम् पूर्वविधिः ।

५४ - ५७ - अयम् अपि पूर्वविधिः ।

५५ - ५७ - पूर्वस्मात् अपि विधिः पूर्वविधिः इति ।

५६ - ५७ - अथ अपि उणादयः व्युत्पाद्यन्ते एवम् अपि न दोषः ।

५७ - ५७ - क्रियते न्यासे एव विशिष्टग्रहणम् ठस्य इति

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP