१ - ७४ - अज्ग्रहणम् किमर्थम् ।
२ - ७४ - इकः अचि व्यञ्जने मा भूत् ।
३ - ७४ - इकः अचि इति उच्यते व्यञ्जनादौ मा भूत् ।
४ - ७४ - त्रपुभ्याम् , त्रपुभिः ।
५ - ७४ - अस्तु लोपः ।
६ - ७४ - अस्तु अत्र नुम् ।
७ - ७४ - नलोपः प्रातिपदिकान्तस्य इति नलोपः भविष्यति ।
८ - ७४ - स्वरः कथम् पञ्चत्रपुभ्याम् , पञ्चत्रपुभ्यः ।
९ - ७४ - इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति ।
१० - ७४ - स्वरः वै श्रूयमाणे अपि ।
११ - ७४ - श्रूयमाणे अपि नुमि स्वरः भवति ।
१२ - ७४ - पञ्चत्रपुणा , पञ्चत्रपुणः इति ।
१३ - ७४ - लुप्ते किम् न भविष्यति ।
१४ - ७४ - लुप्ते इदानीम् किम् न भविष्यति ।
१५ - ७४ - किम् पुनः कारणम् श्रूयमाने अपि नुमि स्वरः भवति ।
१६ - ७४ - सङ्घातभक्तः असौ न उत्सहते अवयवस्य इगन्तताम् विहन्तुम् इति कृत्वा ततः श्रूयमाणे अपि नुमि स्वरः भवति ।
१७ - ७४ - इदम् तर्हि ।
१८ - ७४ - अतिराभ्याम् , अतिराभिः ।
१९ - ७४ - नुमि कृते रायः हलि इति आत्वम् न प्राप्नोति ।
२० - ७४ - इदम् इह सम्प्रधार्यम् ।
२१ - ७४ - नुम् क्रियताम् आत्वम् इति किम् अत्र कर्तव्यम् ।
२२ - ७४ - परत्वात् आत्वम् ।
२३ - ७४ - इह तर्हि प्रियतिसृभ्याम् प्रियतिसृभिः नुमि कृते तिसृभावः न प्राप्नोति ।
२४ - ७४ - इदम् इह सम्प्रधार्यम् ।
२५ - ७४ - नुम् क्रियताम् तिसृभावः इति किम् अत्र कर्तव्यम् ।
२६ - ७४ - परत्वात् तिसृभावः ।
२७ - ७४ - अथ इदानीम् तिसृभावे कृते पुनःप्रसङ्गात् नुम् कस्मात् न भवति ।
२८ - ७४ - सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।
२९ - ७४ - अतः उत्तरम् पठति ।
३० - ७४ - इकः अचि विभक्तौ अज्ग्रहणम् नुम्नुटोः विप्रतिषेधार्थम् ।
३१ - ७४ - इकः अचि विभक्तौ अज्ग्रहणम् क्रियते नुमः नुट् विप्रतिषेधेन यथा स्यात् ।
३२ - ७४ - त्रपूणाम् , जतूनाम् ।
३३ - ७४ - अक्रियमाणे हि अज्ग्रहणे नित्यनिमित्तः नुम् ।
३४ - ७४ - कृते अपि नुटि प्राप्नोति अकृते अपि ।
३५ - ७४ - नित्यनिमित्तत्वात् नुमि कृते नुटः अभावः स्यात् ।
३६ - ७४ - एतत् अपि न अस्ति प्रयोजनम् ।
३७ - ७४ - क्रियमाणे अपि वा अज्ग्रहणे अवश्यम् अत्र नुडर्थः यत्नः कर्तव्यः ।
३८ - ७४ - पूर्वविप्रतिषेधः वक्तव्यः ।
३९ - ७४ - इदम् तर्हि प्रयोजनम् नुटि कृते नुम् मा भूत् इति ।
४० - ७४ - किम् च स्यात् ।
४१ - ७४ - त्रपूणाम् , जतूनाम् ।
४२ - ७४ - इतरथा हि नुमः नित्यनिमित्तत्वात् नुडभावः ।
४३ - ७४ - नामि इति दीर्घत्वम् न स्यात् ।
४४ - ७४ - मा भूत् एवम् ।
४५ - ७४ - नोपधायाः इति एवम् भविष्यति ।
४६ - ७४ - इह तर्हि शुचीनाम् इन्हन्पूषार्यम्णाम् शौ सौ च इति अस्मात् नियमात् न प्राप्नोति दीर्घत्वम् ।
४७ - ७४ - अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् न भविष्यति ।
४८ - ७४ - न एषा परिभाषा इह शक्या विज्ञातुम् ।
४९ - ७४ - इह हि दोषः स्यात् ।
५० - ७४ - वाग्मि इति ।
५१ - ७४ - एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।
५२ - ७४ - उत्तरार्थम् च ।
५३ - ७४ - उत्तरार्थम् तर्हि अज्ग्रहणम् कर्तव्यम् ।
५४ - ७४ - अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः अजादौ यथा स्यात् ।
५५ - ७४ - इह मा भूत् ।
५६ - ७४ - अस्थिभ्याम् , अस्थिभिः इति ।
५७ - ७४ - यदि उत्तरार्थम् स्यात् तत्र एव अयम् अज्ग्रहणम् कुर्वीत ।
५८ - ७४ - इह क्रियमाणे यदि किम् चित् प्रयोजनम् अस्ति तत् उच्यताम् ।
५९ - ७४ - इह अपि क्रियमाणे प्रयोजनम् अस्ति ।
६० - ७४ - किम् ।
६१ - ७४ - अजादौ यथा स्यात् ।
६२ - ७४ - इह मा भूत् ।
६३ - ७४ - त्रपु , जतु ।
६४ - ७४ - एतत् अपि न अस्ति प्रयोजनम् ।
६५ - ७४ - विभक्तौ इति उच्यते न च अत्र विभक्तिम् पश्यामः ।
६६ - ७४ - प्रत्ययलक्षणेन ।
६७ - ७४ - न लुमता अङ्गस्य इति प्रत्ययलक्षणस्य प्रतिषेधः ।
६८ - ७४ - एवम् तर्हि सिद्धे सति यत् अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति इह कः चित् अन्यः अपि प्रकारः प्रत्ययलक्षणम् नाम इति ।
६९ - ७४ - किम् एतस्य ज्ञापने प्रयोजनम् ।
७० - ७४ - हे त्रपु , हे त्रपो ।
७१ - ७४ - अत्र गुणः सिद्धः भवति इति ।
७२ - ७४ - इकः अचि व्यञ्जने मा भूत् अस्तु लोपः स्वरः कथम् ।
७३ - ७४ - स्वरः वै श्रूयमाणे अपि लुप्ते किम् न भविष्यति ।
७४ - ७४ - रायात्वम् तिसृभावः च व्यवधानात् नुमा अपि नुट् वाच्यः उत्तरार्थम् तु इह किम् चित् त्रपः इति
१ - ४९ - किम् इह पुंवद्भावेन अतिदिश्यते ।
२ - ४९ - नुम्प्रतिषेधः ।
३ - ४९ - कथम् पुनः पुंवत् इति अनेन नुम्प्रतिषेधः शक्यः विज्ञातुम् ।
४ - ४९ - वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् ।
५ - ४९ - तत् यथा उशीनरवत् मद्रेषु यवाः ।
६ - ४९ - सन्ति न सन्ति इति ।
७ - ४९ - मातृवत् अस्याः कलाः ।
८ - ४९ - सन्ति न सन्ति इति ।
९ - ४९ - एवम् इह अपि पुंवत् भवति पुंवत् न भवति इति वाक्यशेषम् समर्थयिष्यामहे ।
१० - ४९ - यथा पुंसः न नुम् भवति एवम् तृतीयादिषु भाषितपुंस्कस्य अपि न भवति इति ।
११ - ४९ - किम् उच्यते नुम्प्रतिषेधः इति न पुनः अन्यत् अपि पुंसः प्रतिपदम् कार्यम् उच्यते यत् तृतीयादिषु विभक्तिषु अजादिषु भाषितपुंस्कस्य अतिदिश्येत ।
१२ - ४९ - अनारम्भात् पुंसि ।
१३ - ४९ - न हि किम् चित् पुंसः प्रतिपदम् कार्यम् उच्यते यत् तृतीयादिषु अजादिषु भाषितपुंस्कस्य अतिदिश्येत ।
१४ - ४९ - नुम् प्रकृतः तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः नुम्प्रतिषेधात् ।
१५ - ४९ - पुंवत् इति नुम्प्रतिषेधः चेत् गुणनाभावनुडौत्त्वप्रतिषेधः ।
१६ - ४९ - पुंवत् इति न्जुम्प्रतिषेधः चेत् गुणनाभावनुडौत्त्वानाम् प्रतिषेधः वक्तव्यः ।
१७ - ४९ - गुण ।
१८ - ४९ - ग्रामण्ये ब्राह्मणकुलाय ।
१९ - ४९ - गुण ।
२० - ४९ - नाभाव ।
२१ - ४९ - ग्रामण्या ब्राह्मणकुलेन ।
२२ - ४९ - नाभाव ।
२३ - ४९ - नुट् ।
२४ - ४९ - ग्रामण्याम् ब्राह्मणकुलानाम् ।
२५ - ४९ - नुट् ।
२६ - ४९ - औत्त्वम् ।
२७ - ४९ - ग्रामण्याम् ब्राह्मणकुले ।
२८ - ४९ - ह्रस्वत्वम् अप्रतिषिद्धम् ह्रस्वाश्रयाः च एते विधयः प्राप्नुवन्ति ।
२९ - ४९ - ह्रस्वाभावार्थम् च ।
३० - ४९ - किम् च ।
३१ - ४९ - नुम्प्रतिषेधार्थम् च ।
३२ - ४९ - कथम् पुनः अत्र अप्रकृतस्य असंशब्दितस्य ह्रस्वत्वस्य प्रतिषेधः शक्यः विज्ञातुम् ।
३३ - ४९ - अर्थातिदेशात् सिद्धम् ।
३४ - ४९ - न एवम् विज्ञायते भाष्यते पुमान् अनेन शब्देन सः अयम् भाषितपुंस्कः भाषितपुंस्कस्य शब्दस्य पुंशब्दः भवति इति ।
३५ - ४९ - कथम् तर्हि ।
३६ - ४९ - भाष्यते पुमान् अस्मिन् अर्थे सः अयम् भाषितपुंस्कः भाषितपुंस्कस्य अर्थस्य पुंवदर्थः भवति इति ।
३७ - ४९ - तद्धितलुक्प्रतिषेधः च ।
३८ - ४९ - तद्धितलुकः च प्रतिषेधः वक्तव्यः ।
३९ - ४९ - पीलुः वृक्षः , पीलु फलम् ।
४० - ४९ - पीलुना , पिलुनः इति ।
४१ - ४९ - न वा समानायाम् आकृतौ भाषितपुंस्कविज्ञानात् ।
४२ - ४९ - न वा वक्तव्यम् ।
४३ - ४९ - किम् कारणम् ।
४४ - ४९ - समानायाम् आकृतौ भाषितपुंस्कविज्ञानात् ।
४५ - ४९ - समानायाम् आकृतौ यत् भाषितपुंस्कम् आकृत्यन्तरे च एतत् भाषितपुंस्कम् ।
४६ - ४९ - किम् वक्तव्यम् एतत् ।
४७ - ४९ - न हि ।
४८ - ४९ - कथम् अनुच्यमानम् गंस्यते ।
४९ - ४९ - एतत् अपि अर्थनिर्देशात् सिद्धम्
१ - २१ - किम् उदाहरणम् ।
२ - २१ - अक्षी ते इन्द्र पिङ्गले ।
३ - २१ - न एतत् अस्ति ।
४ - २१ - पूर्वसवर्णेन अपि एतत् सिद्धम् ।
५ - २१ - इदम् तर्हि ।
६ - २१ - अक्षीभ्याम् ते नासिकाभ्याम् ।
७ - २१ - इदम् च अपि उदाहरणम् ।
८ - २१ - अक्षी ते इन्द्र पिङ्गले ।
९ - २१ - ननु च उक्तम् पूर्वसवर्णेन अपि एतत् सिद्धम् इति ।
१० - २१ - न सिध्यति ।
११ - २१ - नुमा व्यवहितत्वात् पूर्वसवर्णः न प्राप्नोति ।
१२ - २१ - छन्दसि नपुंसकस्य पुंवद्भावः वक्तव्यः मधोः गृभ्णामि , मधोः तृप्ताः इव असतः इति एवमर्थम् ।
१३ - २१ - पुंवद्भावेन नुमः निवृत्तिः नुमि निवृत्ते पूर्वसवर्णेन एव सिद्धम् ।
१४ - २१ - स्वरार्थः तर्हि ईकारः वक्तव्यः ।
१५ - २१ - उदात्तस्वरः यथा स्यात् नपुंसकस्वरः मा भूत् इति ।
१६ - २१ - ननु च पुंवद्भावातिदेशात् एव स्वरः भविष्यति ।
१७ - २१ - अशक्यः पुंवद्भावातिदेशः स्वरे तन्त्रम् आश्रयितुम् ।
१८ - २१ - इह हि दोषः स्यात् मधु अस्मिन् अस्ति मधुः मासः इति ।
१९ - २१ - सः तर्हि पुंवद्भावः वक्तव्यः ।
२० - २१ - न वक्तव्यः ।
२१ - २१ - प्रकृतम् पुंवत् इति वर्तते
१ - ११ - कस्य अयम् प्रतिषेधः ।
२ - ११ - नुमः इति आह ।
३ - ११ - तत् नुमः ग्रहणम् कर्तव्यम् ।
४ - ११ - न कर्तव्यम् ।
५ - ११ - प्रकृतम् अनुवर्तते ।
६ - ११ - क्व प्रकृतम् ।
७ - ११ - इदितः नुम् धातोः इति तत् वा अनेकग्रहणेन व्यवच्छिन्नम् अशक्यम् अनुवर्तयितुम् ।
८ - ११ - एवम् तर्हि सर्वनामस्थाने इति वरते सर्वनामस्थाने यत् प्राप्नोति तस्य प्रतिषेधः ।
९ - ११ - तत् वै बहुतरकेण ग्रहणेन व्यवच्छिन्नम् अशक्यम् अनुवर्तयितुम् ।
१० - ११ - अथ इदानीम् व्यवहितम् अपि शक्यते अनुवर्तयितुम् नुम् एव अनुवर्त्य इह इहार्थम् उत्तरार्थम् च ।
११ - ११ - इह च एव प्रतिषेधः सिद्धः भवति इह च आत् शीनद्योः नुम् इति नुम्ग्रहणम् न कर्तव्यम् भवति
१ - १२ - इह कस्मात् न भवति ।
२ - १२ - अदती , घ्नती , लुनती , पुनती ।
३ - १२ - लोपे कृते अवर्णाभावात् ।
४ - १२ - किम् तर्हि अस्मिन् योगे उदाहरणम् ।
५ - १२ - याती , यान्ती ।
६ - १२ - अत्र अपि एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति ।
७ - १२ - अन्तादिवद्भावेन व्यपवर्गः ।
८ - १२ - उभयतः आश्रये न अन्तादिवत् ।
९ - १२ - न उभयतः आश्रयः करिष्यते ।
१० - १२ - न एवम् विज्ञायते अवर्णान्तात् शतुः नुम् भवति इति ।
११ - १२ - कथम् तर्हि ।
१२ - १२ - अवर्णात् नुम् भवति तत् चेत् अवर्णम् शतुः अनन्तरम् इति
१ - ३१ - अनडुहः सौ आम्प्रतिषेधः नुमः अनवकाशत्वात् ।
२ - ३१ - अनडुहः सौ आम्प्रतिषेधः प्राप्नोति ।
३ - ३१ - किम् कारणम् ।
४ - ३१ - नुमः अनवकाशत्वात् ।
५ - ३१ - अनवकाशः नुम् आमम् बाधते ।
६ - ३१ - न वा अवर्णोपधस्य नुम्वचनात् ।
७ - ३१ - न वा एषः दोषः ।
८ - ३१ - किम् कारणम् ।
९ - ३१ - अवर्णोपधस्य नुम्वचनात् ।
१० - ३१ - अवर्णोपधस्य नुमम् वक्ष्यामि ।
११ - ३१ - तदर्थग्रहणम् कर्तव्यम् ।
१२ - ३१ - न कर्तव्यम् ।
१३ - ३१ - प्रकृतम् अनुवर्तते ।
१४ - ३१ - क्व प्रकृतम् ।
१५ - ३१ - आत् शीनद्योः नुम् इति ।
१६ - ३१ - यदि तत् अनुवर्तते अनडुहि यावन्ति अवर्णानि सर्वेभ्यः परः नुम् प्राप्नोति ।
१७ - ३१ - न एषः दोषः ।
१८ - ३१ - मित् अचः अन्त्यात् परः इति अनेन यत् सर्वान्त्यम् अवर्णम् तस्मात् परः भविष्यति ।
१९ - ३१ - पुनःप्रसङ्गविज्ञानात् वा सिद्धम् ।
२० - ३१ - अथ वा पुनःप्र्सङ्गात् नुमि कृते आम् भविष्यति ।
२१ - ३१ - यथात्त्वादिषु द्विर्वचनम् ।
२२ - ३१ - तत् यथा जग्ले , मम्ले , ईजतुः , ईजुः इति आत्त्वादिषु कृतेषु पुनःप्रसङ्गात् द्विर्वचनम् भवति एवम् अत्र अपि नुमि कृते आम् भविष्यति ।
२३ - ३१ - न एषः युक्तः परिहारः ।
२४ - ३१ - विप्रतिषेधे पुनःप्रसङ्गः विप्रतिषेधः च द्वयोः सावकाशयोः भवति ।
२५ - ३१ - इह पुनः अनवकाशः नुम् आमम् बाधते ।
२६ - ३१ - एवम् तर्हि वृत्तान्तात् एषः परिहारः प्रस्थितः ।
२७ - ३१ - कस्मात् वृत्तान्तात् ।
२८ - ३१ - इदम् अयम् चोद्यः भवति अनडुहः सौ आम्प्रतिषेधः नुमः अनवकाशत्वात् इति ।
२९ - ३१ - तस्य परिहारः न वा अवर्णोपधस्य नुम्वचनात् इति ।
३० - ३१ - ततः अयम् चोद्यः भवति यत्र तर्हि अवर्णप्रकरणम् न अस्ति तत्र तः आमा नुमः बाधनम् प्राप्नोति बह्वन्ड्वांहि ब्राह्मणकुलानि इति ।
३१ - ३१ - ततः उत्तरकालम् इदम् पठितम् पुनःप्रसङ्गविज्ञानात् वा सिद्धम् इति
१ - १५ - दिवः औत्त्वे धातुप्रतिषेधः ।
२ - १५ - दिवः औत्त्वे धातोः प्रतिषेधः वक्तव्यः ।
३ - १५ - अक्षद्यूः इति ।
४ - १५ - अधात्वधिकारात् सिद्धम् ।
५ - १५ - अधातोः इति वर्तते ।
६ - १५ - क्व प्रकृतम् ।
७ - १५ - उगिदचाम् सर्वनामस्थाने अधातोः इति ।
८ - १५ - अधात्वधिकारात् सिद्धम् इति चेत् नपुंसके दोषः ।
९ - १५ - अधात्वधिकारात् सिद्धम् इति चेत् नपुंसके दोषः भवति ।
१० - १५ - काष्ठतङ्क्षि , कूटतङ्क्षि ।
११ - १५ - नपुंसकस्य झल् अचः अधातोः इति प्रतिषेधः प्राप्नोति ।
१२ - १५ - उक्तम् वा ।
१३ - १५ - किम् उक्तम् ।
१४ - १५ - अननुबन्धकग्रहणे हि न सानुबन्धकस्य इति ।
१५ - १५ - अथ वा सम्बन्धम् अनुवर्तिष्यते
१ - ८ - इतः अद्वचनम् अनर्थकम् आकारप्रकरणात् ।
२ - ८ - इतः अद्वचनम् अनर्थकम् ।
३ - ८ - किम् कारणम् ।
४ - ८ - आकारप्रकरणात् ।
५ - ८ - आत् इति वर्तते ।
६ - ८ - षपूर्वार्थम् तु ।
७ - ८ - षपूर्वार्थम् तर्हि अत् वक्तव्यः ।
८ - ८ - ऋभुक्षाणम् इन्द्रम् , ऋभुक्षणम् इन्द्रम्
१ - २१ - असुङि उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् बहिरङ्गलक्षणत्वात् ।
२ - २१ - असुङि उपदेशिवद्भावः वक्तव्यः ।
३ - २१ - उपदेशावस्थायाम् एव असुङ् भवति इति वक्तव्यम् ।
४ - २१ - किम् प्रयोजनम् ।
५ - २१ - स्वरसिद्ध्यर्थम् ।
६ - २१ - उपदेशावस्थायाम् असुङि कृते इष्टः स्वरः यथा स्यात् ।
७ - २१ - परमपुमान् इति ।
८ - २१ - अक्रियमाणे हि उपदेशिवद्भावे समासान्तोदात्तत्वे असुङ् आन्तर्यतः अस्वरकस्य अस्वरकः स्यात् ।
९ - २१ - किम् पुनः कारणम् समासान्तोदात्तत्वम् तावत् भवति न पुनः असुङ् ।
१० - २१ - न परत्वात् असुङा भवितव्यम् ।
११ - २१ - बहिर्ङ्गलक्षणत्वात् ।
१२ - २१ - बहिरङ्गलक्षणः असुङ् ।
१३ - २१ - अन्तरङ्गः स्वरः ।
१४ - २१ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।
१५ - २१ - सः तर्हि उपदेशिवद्भावः वक्तव्यः ।
१६ - २१ - न वक्तव्यः ।
१७ - २१ - आद्युदात्तनिपातनम् करिष्यते सः निपातनस्वरः समासस्वरस्य बाधकः भविष्यति ।
१८ - २१ - एवम् अपि उपदेशिवद्भावः वक्तव्यः ।
१९ - २१ - सः यथा एव हि निपातनस्वरः समासस्वरम् बाधते एवम् प्रकृतिस्वरम् अपि बाधेत ।
२० - २१ - पुमान् ।
२१ - २१ - तस्मात् सुष्ठु उच्यते असुङि उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् बहिरङ्गलक्षणत्वात् इति
१ - ३९ - किम् इदम् गोतः परस्य सर्वनामस्थानस्य ङित्त्वम् उच्यते आहोस्वित् सर्वनामस्थाने परतः ङित्कार्यम् अतिदिश्यते ।
२ - ३९ - कः च अत्र विशेषः ।
३ - ३९ - गोतः सर्वनामस्थाने ङित्कार्यातिदेशः ।
४ - ३९ - गोतः सर्वनामस्थाने ङित्कार्यम् अतिदिश्यते ।
५ - ३९ - सर्वनामस्थाने णित्त्ववचने हि असम्प्रत्ययः षष्ठ्यनिर्देशात् ।
६ - ३९ - सर्वनामस्थानस्य णिद्वचने हि असम्प्रत्ययः स्यात् ।
७ - ३९ - किम् कारणम् ।
८ - ३९ - षष्ठ्यभावात् ।
९ - ३९ - षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः ।
१० - ३९ - एवम् तर्हि वतिनिर्देशः अयम् गोतः ङिद्वत् भवति इति ।
११ - ३९ - सः तर्हि वतिनिर्देशः कर्तव्यः न हि अन्तरेण वतिम् अतिदेशः गम्यते ।
१२ - ३९ - अन्तरेण अपि वतिम् अतिदेशः गम्यते ।
१३ - ३९ - तत् यथा एषः ब्रह्मदत्तः ।
१४ - ३९ - अब्रह्मदत्तम् ब्रह्मदत्तः इति आह ।
१५ - ३९ - ते मन्यामहे ब्रह्मदत्तवत् अयम् भवति इति ।
१६ - ३९ - एवम् इह अपि अणितम् णित् इति आह णिद्वत् इति गम्यते ।
१७ - ३९ - अथ वा पुनः अस्तु गोतः परस्य सर्वनामस्थानस्य णित्त्वम् ।
१८ - ३९ - ननु च उक्तम् सर्वनामस्थाने णित्त्ववचने हि असम्प्रत्ययः षष्ठ्यनिर्देशात् इति ।
१९ - ३९ - न एषः दोषः ।
२० - ३९ - गोतः इति एषा पञ्चमी सर्वनामस्थाने इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।
२१ - ३९ - अथ तपरकरणम् किमर्थम् ।
२२ - ३९ - इह मा भूत् ।
२३ - ३९ - चित्रगुः शबलगुः इति ।
२४ - ३९ - न एतत् अस्ति ।
२५ - ३९ - ह्रस्वत्वे कृते न भविष्यति ।
२६ - ३९ - स्थानिवद्भावात् प्राप्नोति ।
२७ - ३९ - अतः उत्तरम् पठति ।
२८ - ३९ - तपरकरणम् अनर्थकम् स्थानिवत्प्रतिषेधात् ।
२९ - ३९ - तपरकर्णम् अनर्थकम् ।
३० - ३९ - किम् कारणम् ।
३१ - ३९ - स्थानिवत्प्रतिषेधात् ।
३२ - ३९ - प्रतिषिध्यते अत्र स्थानिवद्भावः गोः पूर्वणित्त्वात्वस्वरेषु स्थानिवद्भावः न भवति इति ।
३३ - ३९ - सः च अवश्यम् प्रतिषेधः आश्रयितव्यः ।
३४ - ३९ - इतरथा हि सम्बुद्धिजसोः प्रतिषेधः ।
३५ - ३९ - यः हि मन्यते तपरकरणसामर्थ्यात् अत्र न भविष्यति इति सम्बुद्धिजसोः तेन प्रतिषेधः वक्तव्यः स्यात् हे चित्रगो चित्रगवः इति ।
३६ - ३९ - अथ इदानीम् सति अपि स्थानिवद्भावप्रतिषेध गुणे कृते कस्मात् एव अत्र न भवति ।
३७ - ३९ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।
३८ - ३९ - ननु च इदानीम् असति अपि स्थानिवद्भावप्रतिषेधे एतया परिभाषया शक्यम् उपस्थातुम् ।
३९ - ३९ - न इति आह न हि इदानीम् क्व चित् अपि स्थानिवत् स्यात्
१ - ३२ - अथ अत्र विभक्तौ इति अनुवर्तते उताहो न ।
२ - ३२ - किम् च अतः ।
३ - ३२ - तृज्वत् स्त्रियाम् विभक्तौ चेत् क्रोष्ट्रीभक्तिः न सिध्यति ।
४ - ३२ - तृज्वत् स्त्रियाम् विभक्तौ चेत् क्रोष्ट्रीभक्तिः इति न सिध्यति ।
५ - ३२ - एवम् तर्हि ईकारे तृज्वद्भावम् वक्ष्यामि ।
६ - ३२ - तत् ईकारग्रहणम् कर्तव्यम् ।
७ - ३२ - न कर्तव्यम् ।
८ - ३२ - क्रियते न्यासे एव ।
९ - ३२ - प्रश्लिष्टनिर्देशः अयम् ।
१० - ३२ - स्त्री , ई स्त्री स्त्रियाम् इति ।
११ - ३२ - ईकारे तन्निमित्तः सः ।
१२ - ३२ - ईकारे चेत् तत् न ।
१३ - ३२ - किम् कारणम् ।
१४ - ३२ - तन्निमित्तः सः ।
१५ - ३२ - तृज्वद्भावनिमित्तः सः ईकारः ।
१६ - ३२ - न अकृते तृज्वद्भावे ईकारः प्राप्नोति ।
१७ - ३२ - किम् कारणम् ।
१८ - ३२ - ऋन्नेभ्यः ङीप् इति उच्यते ईकारे च तृज्वद्भावः ।
१९ - ३२ - तत् इदम् इतरेतराश्रयम् भवति ।
२० - ३२ - इतरेतराश्रयाणि च न प्रकल्पन्ते ।
२१ - ३२ - एवम् तर्हि गौरादिषु पाठात् ईकारः भविष्यति ।
२२ - ३२ - गौरादिषु न पठ्यते ।
२३ - ३२ - न हि किम् चित् तुनन्तम् गौरादिषु पठ्यते ।
२४ - ३२ - एवम् तर्हि एतत् ज्ञापयति आचार्यः भवति अत्र ईकारः इति यत् अयम् ईकारे तृज्वद्भावम् शास्ति ।
२५ - ३२ - तेन एव भावनम् चेत् स्यात् अनिष्टः अपि प्रसज्यते ।
२६ - ३२ - यदि अपि न अस्ति विशेषः ङीपः वा ङीषः वा ङीन् अपि तु प्राप्नोति ।
२७ - ३२ - इह च न प्राप्नोति ।
२८ - ३२ - पञ्चभिः क्रोष्ट्रीभिः क्रीतैः रथैः पञ्चक्रोष्टृभिः रथैः इति ।
२९ - ३२ - एवम् तर्हि न च अपरम् निमित्तम् सञ्ज्ञा च प्रत्ययलक्षणेन ।
३० - ३२ - न च अपरम् निमित्तम् आश्रीयते अस्मिन् परतः क्रोष्टुः तृज्वत् भवति इति ।
३१ - ३२ - किम् तर्हि अङ्गस्य क्रोष्टुः तृज्वत् भवति ।
३२ - ३२ - अङ्गसञ्ज्ञा च भवति प्रत्ययलक्षणेन
१ - ८२ - किम् पुनः अयम् शास्त्रातिदेशः तृचः यत् शास्त्रम् तत् अतिदिश्यते ।
२ - ८२ - आहोस्वित् रूपातिदेशः तृचः यत् रूपम् तत् अतिदिश्यते इति ।
३ - ८२ - कः च अत्र विशेषः ।
४ - ८२ - तृज्वत् इति शास्त्रातिदेशः चेत् यथा चिणि तद्वत् ।
५ - ८२ - तृज्वत् इति शास्त्रातिदेशः चेत् यथा चिणि तद्वत् प्राप्नोति ।
६ - ८२ - कथम् च चिणि ।
७ - ८२ - उक्तम् अङ्गस्य इति तु प्रकरणात् आण्गशास्त्रातिदेशात् सिद्धम् इति ।
८ - ८२ - आङ्गम् यत् कार्यम् तत् अतिदिश्यते ।
९ - ८२ - एवम् इह अपि अनङ्गुणदीर्घत्वानि अतिदिष्टानि रपरत्वम् अनतिदिष्टम् ।
१० - ८२ - तत्र कः दोषः ।
११ - ८२ - तत्र रपरवचनम् ।
१२ - ८२ - तत्र रपरत्वम् न सिध्यति तत् वक्तव्यम् ।
१३ - ८२ - न एषः दोषः ।
१४ - ८२ - गुणे अतिदिष्टे रपरत्वम् अपि अतिदिष्टम् भवति ।
१५ - ८२ - कथम् ।
१६ - ८२ - कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् ।
१७ - ८२ - ऋतः ङिसर्वनामस्थानयोः गुङः भवति ।
१८ - ८२ - उपस्थितम् इदम् भवति उः अण् रपरः इति ।
१९ - ८२ - एवम् तर्हि अयम् अन्यः दोषः जायते ।
२० - ८२ - आहत्य तृचः यत् शास्त्रम् तत् अतिदिश्येत अनाहत्य वा इति ।
२१ - ८२ - किम् च अतः ।
२२ - ८२ - यदि आहत्य दीर्घत्वम् अतिदिष्टम् अनङ्गुणरपरत्वानि अनतिदिष्टानि ।
२३ - ८२ - अथ अनाहत्य अनङ्गुणरपरत्वानि अतिदिष्टानि दीर्घत्वम् अनतिदिष्टम् ।
२४ - ८२ - अस्तु आहत्य ।
२५ - ८२ - ननु च उक्तम् दीर्घत्वम् अतिदिष्टम् अनङ्गुणरपरत्वानि अनतिदिष्टानि इति ।
२६ - ८२ - न एषः दोषः ।
२७ - ८२ - दीर्घत्वे अतिदिष्टे अनङ्गुणरपरत्वानि अपि अतिदिष्टानि भवन्ति ।
२८ - ८२ - कथम् ।
२९ - ८२ - उपधायाः इति वर्तते न च अकृतेषु एतेषु दीर्घभाविनि उपधा भवति ।
३० - ८२ - कुतः नु खलु एतत् एतेषु विधिषु कृतेषु या उपधा तस्याः दीर्घत्वम् भविष्यति न पुनः क्रोष्टोः यः अन्तरतमः गुणः तस्मिन् कृते अवादेशे च या उपधा तस्याः दीर्घत्वम् भविष्यति ।
३१ - ८२ - न एकम् उदाहरणम् योगारम्भम् प्रयोजयति इति ।
३२ - ८२ - तत्र तृज्वद्वचनसामर्थ्यात् एतेषु विधिषु कृतेषु या उपधा तस्याः दीर्घत्वम् भविष्यति ।
३३ - ८२ - अथ वा किम् नः एतेन आहत्य अनाहत्य वा इति ।
३४ - ८२ - आहत्य अनाहत्य च तृचः यत् शास्त्रम् तत् अतिदिश्यते ।
३५ - ८२ - अथ वा पुनः अस्तु रूपातिदेशः ।
३६ - ८२ - अथ एतस्मिन् रूपातिदेशे सति किम् प्राक् आदेशेभ्यः यत् रूपम् तत् अतिदिश्यते आहोस्वित् कृतेषु आदेशेषु ।
३७ - ८२ - किम् च अतः ।
३८ - ८२ - यदि प्राक् आदेशेभ्यः यत् रूपम् तत् अतिदिश्यते ऋकारः एकः अतिदिष्टः अनङ्गुणरपरत्वदीर्घत्वानि अनतिदिष्टानि ।
३९ - ८२ - अथ कृतेषु आदेशेषु ऋकारः अनतिदिष्टः अनङ्गुणरपरत्वदीर्घत्वानि अतिदिष्टानि ।
४० - ८२ - उभयथा च स्वरः अनतिदिष्टः न हि स्वरः रूपवान् ।
४१ - ८२ - अस्तु प्राक् आदेशेभ्यः यत् रूपम् तत् अतिदिश्यते ।
४२ - ८२ - ननु च उक्तम् ऋकारः अतिदिष्टः अनङ्गुणरपरत्वदीर्घत्वानि अनतिदिष्टानि इति ।
४३ - ८२ - न एषः दोषः ।
४४ - ८२ - ऋकारे अतिदिष्टे स्वाश्रयाः अत्र एते विधयः भविष्यन्ति ।
४५ - ८२ - यत् अपि उच्यते उभयथा च स्वरः अनतिदिष्टः न हि स्वरः रूपवान् इति सचकारग्रहणसामर्थ्यात् स्वरः भविष्यति ।
४६ - ८२ - रूपातिदेशः इति चेत् सर्वादेशप्रसङ्गः ।
४७ - ८२ - रूपातिदेशः इति चेत् सर्वादेशः प्राप्नोति ।
४८ - ८२ - सर्वस्य तुनन्तस्य तृशब्दः आदेशः प्राप्नोति ।
४९ - ८२ - सिद्धम् तु रूपातिदेशात् ।
५० - ८२ - सिद्धम् एतत् ।
५१ - ८२ - कथम् ।
५२ - ८२ - रूपातिदेशात् ।
५३ - ८२ - रूपातिदेशः अयम् ।
५४ - ८२ - ननु च एवम् एव कृत्वा चोद्यते रूपातिदेशः इति चेत् सर्वादेशप्रसङ्गः इति ।
५५ - ८२ - सिद्धम् तु प्रत्ययग्रहणे यस्मात् सः तदादितदन्तविज्ञानात् ।
५६ - ८२ - सिद्धम् एतत् ।
५७ - ८२ - कथम् ।
५८ - ८२ - प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एवम् तुनन्तस्य तृजन्तः आदेशः भविष्यति ।
५९ - ८२ - एवम् अपि किम् चित् एव तृजन्तम् प्राप्नोति ।
६० - ८२ - इदम् अपि प्राप्नोति पक्ता इति ।
६१ - ८२ - आन्तरतम्यात् च सिद्धम् ।
६२ - ८२ - क्रोष्टोः यत् अन्तरतमम् तत् भविष्यति ।
६३ - ८२ - किम् पुनः तत् ।
६४ - ८२ - क्रुशेः यः तृच् विहितः तदन्तम् ।
६५ - ८२ - तृज्वद्वचनम् अनर्थकम् तृज्विषये तृचः मृगवाचित्वात् ।
६६ - ८२ - तृज्विषये एतत् तृजन्तम् मृगवाचि ।
६७ - ८२ - तुनः निवृत्त्यर्थम् तर्हि इदम् वक्तव्यम् ।
६८ - ८२ - तुनः सर्वनामस्थाने निवृत्तिः यथा स्यात् ।
६९ - ८२ - तुनः निवृत्त्यर्थम् इति चेत् सिद्धम् यथा अन्यत्र अपि ।
७० - ८२ - तुनः निवृत्त्यर्थम् इति चेत् तत् अन्तरेण वचनम् सिद्धम् यथा अन्यत्र अपि अविशेषविहिताः शब्दाः नियतविषयाः दृश्यन्ते ।
७१ - ८२ - क्व अन्यत्र ।
७२ - ८२ - तत् यथा ।
७३ - ८२ - घरतिः अस्मै अविशेषेण उपदिष्टः सः घृतम् , घृणा , घर्मः इति एवंविषयः ।
७४ - ८२ - रशिः अस्मै अविशेषेण उपदिष्टः सः राशिः , रश्मिः , रशना इति एवंविषयः ।
७५ - ८२ - लुशिः अस्मै अविशेषेण उपदिष्टः सः लोष्टः इति एवंविषयः ।
७६ - ८२ - इदम् तर्हि प्रयोजनम् विभाषा वक्ष्यामि इति ।
७७ - ८२ - विभाषा तृतीयादिषु अचि इति ।
७८ - ८२ - वावचनानर्थक्यम् च स्वभावसिद्धत्वात् ।
७९ - ८२ - वावचनम् च अनर्थकम् ।
८० - ८२ - किम् कारणम् ।
८१ - ८२ - स्वभावसिद्धत्वात् ।
८२ - ८२ - स्वभावतः एव तृतीयादिषु अजादिषु विभक्तिषु तृजन्तम् च तुनन्तम् च मृगवाचि इति
१ - ६२ - गुणवृद्ध्यौत्त्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् ।
२ - ६२ - गुणवृद्ध्यौत्त्वतृज्वद्भावेभ्यः नुम् भवति पूर्वविप्रतिषेधेन ।
३ - ६२ - तत्र गुणस्य अवकाशः ।
४ - ६२ - अग्नये , वायवे ।
५ - ६२ - नुमः अवकाशः ।
६ - ६२ - त्रपुणी , जतुनी ।
७ - ६२ - इह उभयम् प्राप्नोति ।
८ - ६२ - त्रपुणे , जतुने ।
९ - ६२ - वृद्धेः अवकाशः ।
१० - ६२ - सखायै ।
११ - ६२ - सखायः ।
१२ - ६२ - नुमः सः एव ।
१३ - ६२ - इह उभयम् प्राप्नोति ।
१४ - ६२ - अतिसखीनि ब्राह्मणकुलानि इति ।
१५ - ६२ - औत्त्वस्य अवकाशः ।
१६ - ६२ - अग्नौ , वायौ ।
१७ - ६२ - नुमः सः एव ।
१८ - ६२ - इह उभयम् प्राप्नोति ।
१९ - ६२ - त्रपुणि , जतुनि इति ।
२० - ६२ - तृज्वद्भावस्य अवकाशः ।
२१ - ६२ - क्रोष्टुना ।
२२ - ६२ - नुमः सः एव ।
२३ - ६२ - इह उभयम् प्राप्नोति ।
२४ - ६२ - कृशकृओष्टुने अर्ण्याय ।
२५ - ६२ - हितक्रोष्टुने वृषलकुलाय ।
२६ - ६२ - नुम् भवति पूर्वविप्रतिषेधेन ।
२७ - ६२ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।
२८ - ६२ - न वक्तव्यः ।
२९ - ६२ - इष्टवाची परशब्दः ।
३० - ६२ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।
३१ - ६२ - नुमचिरतृज्वद्भावेभ्यः नुट् ।
३२ - ६२ - नुमचिरतृज्वद्भावेभ्यः नुट् पूर्वविप्रतिषेधेन वक्तव्यः ।
३३ - ६२ - नुमः अवकाशः ।
३४ - ६२ - त्रपूणि , जतूनि ।
३५ - ६२ - नुटः अवकाशः ।
३६ - ६२ - अग्नीनाम् , वायूनाम् ।
३७ - ६२ - इह उभयम् प्राप्नोति ।
३८ - ६२ - त्रपूणाम् , जतूनाम् ।
३९ - ६२ - अचि रादेशस्य अवकाशः ।
४० - ६२ - तिस्रः तिष्ठन्ति चतस्रः तिष्ठन्ति ।
४१ - ६२ - नुटः सः एव ।
४२ - ६२ - इह उभयम् प्राप्नोति ।
४३ - ६२ - तिसृणाम् , चतसृणाम् ।
४४ - ६२ - तृज्वद्भावस्य अवकाशः ।
४५ - ६२ - क्रोष्ट्रा , क्रोष्टुना ।
४६ - ६२ - नुटः सः एव ।
४७ - ६२ - इह उभयम् प्राप्नोति ।
४८ - ६२ - क्रोष्टूनाम् ।
४९ - ६२ - नुट् भवति पूर्वविप्रतिषेधेन ।
५० - ६२ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।
५१ - ६२ - न वा नुड्विषये रप्रतिषेधात् ।
५२ - ६२ - न वा एतत् विप्रतिषेधेन अपि सिध्यति तिसृणाम् , चतसृणाम् इति ।
५३ - ६२ - कथम् तर्हि सिध्यति ।
५४ - ६२ - नुड्विषये रप्रतिषेधात् ।
५५ - ६२ - नुड्विषये रप्रतिषेधः वक्तव्यः ।
५६ - ६२ - इतरथा हि सर्वापवादः ।
५७ - ६२ - इतरथा हि सर्वापवादः रादेशः ।
५८ - ६२ - सः यथा एव गुणपूर्वसवर्णौ बाधते एव नुटम् अपि बाधेत ।
५९ - ६२ - तस्मात् नुड्विषये रप्रतिषेधः ।
६० - ६२ - तस्मात् नुड्विषये रादेशस्य प्रतिषेधः वक्तव्यः ।
६१ - ६२ - न वक्तव्यः ।
६२ - ६२ - आचार्यप्रवृत्तिः ज्ञापयति न रादेशः नुटम् बाधते इति यत् अयम् न तिसृचतसृ , इति प्रतिषेधम् शास्ति नामि दीर्घत्वस्य
१ - ३ - आम् अनडुहः स्त्रियाम् वा ।
२ - ३ - आम् अनडुहः स्त्रियाम् वा इति वक्तव्यम् ।
३ - ३ - अनडुही , अनड्वाही
१ - ११ - इत्त्वोत्त्वाभ्याम् गुणवृद्धी भवतः विप्रतिषेधेन ।
२ - ११ - इत्त्वोत्त्वयोः अवकाशः ।
३ - ११ - आस्तीर्णम् , निपूर्ताः पिण्डाः ।
४ - ११ - गुणवृद्ध्योः अवकाशः ।
५ - ११ - चयनम् , चायकः , लवनम् , लावकः ।
६ - ११ - इह उभयम् प्राप्नोति ।
७ - ११ - आस्तरणम् , आस्तारकः , निपरणम् , निपारकः ।
८ - ११ - गुणवृद्धी भवतः विप्रतिषेधेन ।
९ - ११ - अयुक्तः अयम् विप्रतिषेधः यः अयम् गुणस्य इत्त्वोत्तयोः च ।
१० - ११ - कथम् ।
११ - ११ - नित्यः गुणः