पाद १ - खण्ड ७४
व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.
१ - ३१ - युवोः अनाकौ इति उच्यते कयोः युवोः अनाकौ भवतः ।
२ - ३१ - प्रत्यययोः ।
३ - ३१ - कथम् पुनः अङ्गस्य इति अनुवर्तमाने प्रत्यययोः स्याताम् ।
४ - ३१ - युशब्दवुशब्दान्तम् एतत् विभक्तौ अङ्गम् भवति ।
५ - ३१ - यदि युशब्दवुशब्दान्तस्य अङ्गस्य अनाकौ भवतः सर्वादेशौ प्राप्नुतः ।
६ - ३१ - निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यतः ।
७ - ३१ - यत्र तर्हि विभक्तिः न अस्ति ।
८ - ३१ - नन्दना कारिका इति ।
९ - ३१ - अत्र अपि प्रत्ययलक्षणेन विभक्तिः ।
१० - ३१ - यत्र तर्हि प्रत्ययलक्षणम् न अस्ति ।
११ - ३१ - नन्दनप्रियः कारकप्रियः इति ।
१२ - ३१ - मा भूताम् या असौ सामासिकी विभक्तिः तस्याम् या असौ समासात् विभक्तिः तस्याम् भविष्यतः ।
१३ - ३१ - न वै तस्याम् युशब्दवुशब्दान्तम् अङ्गम् भवति ।
१४ - ३१ - भवेत् यः युशब्दवुशब्दाभ्याम् अङ्गम् विशेषयेत् तस्य आनन्त्ययोः न स्याताम् ।
१५ - ३१ - वयम् खलु अङ्गेन युशब्दवुशब्दौ विशेषयिष्यामः ।
१६ - ३१ - अङ्गस्य युवोः अनाकौ भवतः यत्रतत्रस्थयोः इति ।
१७ - ३१ - यत्र तर्हि समासात् विभक्तिः न अस्ति ।
१८ - ३१ - नन्दनदधि कारकदधि ।
१९ - ३१ - एवम् तर्हि न च अपरम् निमित्तम् सञ्ज्ञा च प्रत्ययलक्षणेन ।
२० - ३१ - न च इह परम् निमित्तम् आश्रीयते अस्मिन् परतः युवोः अनाकौ भवतः इति ।
२१ - ३१ - किम् तर्हि अङ्गस्य युवोः अनाकौ भवतः इति ।
२२ - ३१ - अङ्गसञ्ज्ञा च भवति प्रत्ययलक्षणेन ।
२३ - ३१ - अथ वा तयोः एव यत् अङ्गम् तन्निमित्तत्वेन आश्रयिष्यामः ।
२४ - ३१ - कथम् ।
२५ - ३१ - अङ्गस्य इति सम्बन्धसामान्ये षष्ठी विज्ञास्यते ।
२६ - ३१ - अङ्गस्य यौ युवू ।
२७ - ३१ - किम् च अङ्गस्य युवू ।
२८ - ३१ - निमित्तम् ।
२९ - ३१ - ययोः युवोः अङ्गम् इति एतत् भवति ।
३० - ३१ - कयोः च एतत् भवति ।
३१ - ३१ - प्रत्यययोः
१ - ५७ - युवोः अनाकौ इति चेत् धातुप्रतिषेधः ।
२ - ५७ - युवोः अनाकौ इति चेत् धातुप्रतिषेधः वक्तव्यः ।
३ - ५७ - युत्वा युतः युतवान् युतिः ।
४ - ५७ - भुज्य्वादीनाम् च । भुज्य्वादीनाम् च प्रतिषेधः वक्तव्यः ।
५ - ५७ - भुज्युः कंयुः शंयुः इति । अनुनासिकपरत्वात् सिद्धम् । अनुनासिकपरयोः युवोः ग्रहणम् न च एतौ अनुनासिकपरौ ।
६ - ५७ - यदि अनुनासिकपरयोः ग्रहणम् नन्दनः कारकः अत्र न प्राप्नुतः न हि एताभ्याम् युशब्दवुशब्दाभ्याम् अनुनासिकम् परम् पश्यामः ।
७ - ५७ - अनुनासिकपरत्वात् इति न एवम् विज्ञायते अनुनासिकः परः आभ्याम् तौ इमौ अनुनासिकपरौ अनुनासिकपरत्वात् इति ।
८ - ५७ - कथम् तर्हि ।
९ - ५७ - अनुनासिकः परः अनयोः तौ इमौ अनुनासिकपरौ अनुनासिकपरत्वात् इति ।
१० - ५७ - यदि अनुनासिकपरयोः ग्रहणम् इत्सञ्ज्ञा प्राप्नोति ।
११ - ५७ - तत्र कः दोषः ।
१२ - ५७ - तत्र ङीब्नुमोः प्रतिषेधः । ङीब्नुमः प्रतिषेधः वक्तव्यः ।
१३ - ५७ - नन्दनः कारकः ।
१४ - ५७ - नन्दना कारिका ।
१५ - ५७ - उगिल्लक्षणौ ङीब्नुमौ प्राप्नुतः । धात्वन्तस्य च । धात्वन्तस्य च प्रतिषेधः वक्तव्यः ।
१६ - ५७ - दिवु सिवु ।
१७ - ५७ - षिट्टित्करणम् तु ज्ञापकम् उगित्कार्याभावस्य । यत् अयम् युशब्दवुशब्दौ षिट्टितौ करोति शिल्पिनि ष्वुन् ट्युट्युलौ तुट् च इति तत् ज्ञापयति आचार्यः न युवोः उगित्कार्यम् भवति इति ।
१८ - ५७ - कथम् कृत्वा ज्ञापकम् षिट्टित्करणे एतत् प्रयोजनम् षिट्टितः इति इकारः यथा स्यात् ।
१९ - ५७ - यदि च अत्र उगित्कार्यम् स्यात् षिट्टित्करणम् अनर्थकम् स्यात् ।
२० - ५७ - पश्यति तु आचार्यः न युवोः उगित्कार्यम् भवति इति ततः युशब्दवुशब्दौ षिट्टितौ करोति ।
२१ - ५७ - न वा षित्करणम् ङीष्विधानार्थम् । न एतत् अस्ति ज्ञापकम् ।
२२ - ५७ - अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।
२३ - ५७ - किम् ।
२४ - ५७ - षित्करणम् क्रियते ङीष्विधानार्थम् ।
२५ - ५७ - षितः इति ङीष् यथा स्यात् ।
२६ - ५७ - टित्करणम् अनुपसर्जनार्थम् ।
२७ - ५७ - टित्करणे अपि अन्यत् प्रयोजनम् अस्ति ।
२८ - ५७ - किम् ।
२९ - ५७ - अनुपसर्जनात् टितः इति ईकारः यथा स्यात् ।
३० - ५७ - टितः अनुपसर्जनात् भवति उगितः उपसर्जनात् च अनुपसर्जनात् च ।
३१ - ५७ - एवम् तर्हि विप्रतिषेधात् तु टापः बलीयस्त्वम् ।
३२ - ५७ - विप्रतिषेधात् तु टापः बलीयस्त्वम् भविष्यति ।
३३ - ५७ - टापः अवकाशः खट्वा माला ।
३४ - ५७ - ङीपः अवकाशः गोमती यवमती ।
३५ - ५७ - इह उभयम् प्राप्नोति नन्दना कारिका ।
३६ - ५७ - टाप् भवति विप्रतिषेधेन ।
३७ - ५७ - न एषः युक्तः विप्रतिषेधः ।
३८ - ५७ - विप्रतिषेधे परम् इति उच्यते पूर्वः च टाप् परः ङीप् ।
३९ - ५७ - ङीपः परः टाप् करिष्यते ।
४० - ५७ - सूत्रविपर्यासः कृतः भवति ।
४१ - ५७ - एवम् तर्हि उगितः ङीप् भवति इति अत्र अपि अतः टाप् इति अनुवर्तिष्यते ।
४२ - ५७ - एवम् अपि अकारान्तात् उगितः इह एव स्यात् नन्दना कारिका ।
४३ - ५७ - गोमती यवमती इति अत्र न स्यात् ।
४४ - ५७ - एवम् तर्हि सम्बन्धानुवृत्तिः करिष्यते ।
४५ - ५७ - अजाद्यतः टाप् ऋन्नेभ्यः ङीप् अतः टाप् ।
४६ - ५७ - उगितः च ङीप् भवति अतः टाप् ।
४७ - ५७ - वनः र च वनः ङीप् भवति उगितः अतः टाप् ।
४८ - ५७ - पादः अन्यतरस्याम् ङीप् भवति उगितः अतः टाप् ।
४९ - ५७ - ततः ऋचि ।
५० - ५७ - ऋचि च टाप् भवति ।
५१ - ५७ - प्रकृतम् अनुवर्तते ।
५२ - ५७ - सिध्यति एवम् यदि वार्त्तिककारः पठति विप्रतिषेधात् तु टापः बलीयस्त्वम् इति एतत् असङ्गृहीतम् भवति ।
५३ - ५७ - एतत् च सङ्गृहीतम् भवति ।
५४ - ५७ - कथम् ।
५५ - ५७ - इष्टवाची परशब्दः ।
५६ - ५७ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति । धात्वन्तस्य च अर्थवद्ग्रहणात् ।
५७ - ५७ - अर्थवतोः युवोः ग्रहणम् न च धात्वन्तः अर्थवान्
१ - ३३ - नुम्विधौ झल्ग्रहणम् ।
२ - ३३ - नुम्विधौ झल्ग्रहणम् कर्तव्यम् ।
३ - ३३ - झलन्तस्य उगितः इष्यते उगिदचाम् सर्वनामस्थाने अधातोः झलः इति ।
४ - ३३ - तत् च अवश्यम् कर्तव्यम् । लिङ्गविशिष्टप्रतिषेधार्थम् । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति यथा इह भवति गोमान् यवमान् एवम् गोमती यवमती इति अत्र अपि स्यात् । न वा विभक्तौ लिङ्गविशिष्टाग्रहणात् ।
५ - ३३ - न वा वक्तव्यम् ।
६ - ३३ - किम् कारणम् ।
७ - ३३ - विभक्तौ लिङ्गविशिष्टग्रहणम् न इति एषा परिभाषा कर्तव्या ।
८ - ३३ - कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत झल्ग्रहणम् वा इति ।
९ - ३३ - अवश्यम् एषा परिभाषा कर्तव्या ।
१० - ३३ - बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।
११ - ३३ - कानि । प्रयोजनम् शुनः स्वरे । यथा इह भवति शुना शुनः एवम् शुन्या शुन्याः इति अत्र अपि स्यात् । यूनः सम्प्रसारणे ।
१२ - ३३ - यूनः सम्प्रसारणे प्रयोजनम् ।
१३ - ३३ - यथा इह भवति यूनः पश्य इति एवम् युवतीः पश्य इति अत्र अपि स्यात् । उगिदचाम् नुम्विधौ । उगिदचाम् नुम्विधौ प्रयोजनम् ।
१४ - ३३ - यथा इह भवति गोमान् यवमान् एवम् गोमती यवमती इति अत्र अपि स्यात् । अनडुहः च आम्विधौ ।
१५ - ३३ - अनडुहः च आम्विधौ प्रयोजनम् ।
१६ - ३३ - यथा इह भवति अनड्वान् इति एवम् अनडुही इति अत्र अपि स्यात् ।
१७ - ३३ - न वा भवति अनड्वाही इति ।
१८ - ३३ - भवति अन्येन यत्नेन ।
१९ - ३३ - आम् अनडुहः स्त्रियाम् वा इति ।
२० - ३३ - लिङ्गविशिष्टग्रहणात् ईकारान्तस्य प्राप्नोति । पथिमथोः आत्त्वे । पथिमथोः आत्त्वे प्रयोजनम् ।
२१ - ३३ - यथा इह भवति पन्थाः मन्थाः एवम् पथी मथी इति अत्र अपि प्राप्नोति ।
२२ - ३३ - न केवलः पथिशब्दः स्त्रियाम् वर्तते ।
२३ - ३३ - उपसमस्तः तर्हि वर्तते ।
२४ - ३३ - सुपथी इति । पुंसः असुङ्विधौ ।
२५ - ३३ - पुंसः असुङ्विधौ प्रयोजनम् ।
२६ - ३३ - यथा इह भवति पुमान् एवम् पुंसी इति अत्र अपि स्यात् ।
२७ - ३३ - न केवलः पुंशब्दः स्त्रियाम् वर्तते ।
२८ - ३३ - उपसमस्तः तर्हि वर्तते ।
२९ - ३३ - सुपुंसी इति । सख्युः णित्त्वानङौ । सख्युः णित्त्वानङौ प्रयोजनम् ।
३० - ३३ - यथा इह भवति सखा सखायौ सखायः एवम् सखी सख्यौ सख्यः इति अत्र अपि प्राप्नोति । भवद्भगवदघवताम् ओद्भावे । भवद्भगवदघवताम् ओद्भावे प्रयोजनम् ।
३१ - ३३ - यथा इह भवति भोः भगोः अघोः इति एवम् भवति भगवति अघवति इति अत्र अपि स्यात् ।
३२ - ३३ - एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या ।
३३ - ३३ - एतस्याम् च सत्याम् न अर्थः झल्ग्रहणेन
१ - २८ - तत् एतत् अनन्यार्थम् झल्ग्रहणम् कर्तव्यम् नुम्प्रतिषेधः वा वक्तव्यः ।
२ - २८ - उभयम् न वक्तव्यम् ।
३ - २८ - उपरिष्टात् झल्ग्रहणम् क्रियते तत् पुरस्तात् अपक्रक्ष्यते ।
४ - २८ - एवम् अपि सूत्रविपर्यासः कृतः भवति ।
५ - २८ - एवम् तर्हि योगविभागः करिष्यते ।
६ - २८ - उगिदचाम् सर्वनामस्थाने अधातोः ।
७ - २८ - युजेः असमासे ।
८ - २८ - ततः नपुंसकस्य ।
९ - २८ - नपुंसकस्य नुम् भवति ।
१० - २८ - झलः इति उभयोः शेषः ।
११ - २८ - ततः अचः ।
१२ - २८ - अजन्तस्य च नपुंसकलिङ्गस्य नुम् भवति ।
१३ - २८ - यदि अपि तावत् एतत् उगित्कार्यम् परिहृतम् इदम् अपरम् प्राप्नोति शातनितरा पातनितरा ।
१४ - २८ - उगितः नद्याः घादिषु ह्रस्वः भवति इति अन्यतरस्याम् ह्रस्वत्वम् प्रसज्येत नित्यम् च इष्यते ।
१५ - २८ - उगितः या नदी एवम् एतत् विज्ञायते ।
१६ - २८ - उगितः एषा नदी ।
१७ - २८ - उगितः या परा ।
१८ - २८ - अत्र च एव दोषः भवति उगितः हि एषा परा नदी ऐषुमतितरायाम् च प्राप्नोति ।
१९ - २८ - उगितः परा या विहिता ।
२० - २८ - उगितः एषा विहिता ।
२१ - २८ - उगितः इति एवम् या विहिता ।
२२ - २८ - एवम् अपि भोगवतितरायाम् दोषः भवति ।
२३ - २८ - भोगवतितरा भोगवतीतरा ।
२४ - २८ - तस्मात् उगितः या नदी उगितः या विहिता इति एवम् एतत् विज्ञास्यते ।
२५ - २८ - एवम् विज्ञायमाने शातनितरायाम् दोषः एव । सिद्धम् तु युवोः अनुनासिकत्वात् सिद्धम् एतत् ।
२६ - २८ - कथम् ।
२७ - २८ - यकारवकारयोः एव इदम् अनुनासिकयोः ग्रहणम् ।
२८ - २८ - सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च ।
१ - ३२ - आयनादिषु उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् । आयनादिषु उपदेशिवद्भावः वक्तव्यः ।
२ - ३२ - उपदेशावस्थायाम् आयनादयः भवन्ति इति वक्तव्यम् ।
३ - ३२ - किम् प्रयोजनम् ।
४ - ३२ - स्वरसिद्ध्यर्थम् ।
५ - ३२ - उपदेशावस्थायाम् आयनादिषु इष्टः स्वरः यथा स्यात् इति ।
६ - ३२ - शिलेयम् तैत्तिरीयः ।
७ - ३२ - अक्रियमाणे हि उपदेशिवद्भावे प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते आन्तर्यतः आदेशाः अस्वरकाणाम् अस्वरकाः स्युः ।
८ - ३२ - न वा क्व चित् चित्करणात् उपदेशिवद्वचनानर्थक्यम् न वा वक्तव्यम् ।
९ - ३२ - किम् कारणम् ।
१० - ३२ - क्व चित् चित्करणात् ।
११ - ३२ - यत् अयम् क्व चित् घादीन् चितः करोति अग्रात् यत् घच्छौ च तत् ज्ञापयति आचार्यः उपदेशावस्थायाम् आयनादयः भवन्ति इति ।
१२ - ३२ - कथम् कृत्वा ज्ञापकम् ।
१३ - ३२ - चित्करणे एतत् प्रयोजनम् चितः इति अन्तोदात्तत्वम् यथा स्यात् इति ।
१४ - ३२ - यदि च उपदेशावस्थायाम् आयनादयः भवन्ति ततः चित्करणम् अर्थवत् भवति । तत्र उणादिप्रतिषेधः । तत्र उणादीनाम् प्रतिषेधः वक्तव्यः ।
१५ - ३२ - शङ्खः शाण्ढः इति । धातोः वा ईयङ्वचनात् । अथ वा यत् अयम् ऋतेः ईयङ् इति धातोः ईयङ् शास्ति तत् ज्ञापयति आचार्यः न धातुप्रत्ययानाम् आयनादयः भवन्ति इति ।
१६ - ३२ - यदि हि स्युः ऋतेः छङ् इति एव ब्रूयात् ।
१७ - ३२ - सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च ऋतेः छङा सिध्यति ।
१८ - ३२ - छङि सति वलादिलक्षणः इट् प्रसज्येत ।
१९ - ३२ - इटि कृते अनादित्वात् आदेशः न स्यात् ।
२० - ३२ - इदम् इह सम्प्रधार्यम् ।
२१ - ३२ - इट् क्रियताम् आदेशः इति किम् अत्र कर्तव्यम् ।
२२ - ३२ - परत्वात् इडागमः ।
२३ - ३२ - नित्यः आदेशः ।
२४ - ३२ - कृते अपि इटि प्राप्नोति अकृते अपि ।
२५ - ३२ - अनित्यः आदेशः न हि कृते इटि प्राप्नोति ।
२६ - ३२ - किम् कारणम् ।
२७ - ३२ - अनादित्वात् ।
२८ - ३२ - अन्तरङ्गः तर्हि आदेशः ।
२९ - ३२ - का अन्तरङ्गता ।
३० - ३२ - इदानीम् एव हि उक्तम् आयनादिषु उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् इति ।
३१ - ३२ - तत् एतत् ऋतेः ईयङ्वचनम् ज्ञापकम् एव न धातुप्रत्ययानाम् आयनादयः भवन्ति इति । प्रातिपदिकविज्ञानात् च पाणिनेः सिद्धम् प्रातिपदिकविज्ञानात् च भगवतः पाणिनेः आचार्यस्य सिद्धम् ।
३२ - ३२ - उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।
१ - ४९ - झादेशे धात्वन्तप्रतिषेधः झादेशे धात्वन्तस्य प्रतिषेधः वक्तव्यः ।
२ - ४९ - उज्झिता उज्झितुम् इति ।
३ - ४९ - प्रत्ययाधिकारात् सिद्धम् ।
४ - ४९ - प्रत्ययग्रहणम् प्रकृतम् अनुवर्तते ।
५ - ४९ - क्व प्रकृतम् ।
६ - ४९ - आयनेयीनीयियः फडखछघाम् प्रत्ययादीनाम् इति ।
७ - ४९ - प्रत्ययाधिकारात् सिद्धम् इति चेत् अनादेः आदेशवचनम् । प्रत्ययाधिकारात् सिद्धम् इति चेत् अनादेः आदेशः वक्तव्यः ।
८ - ४९ - अपि नः श्वः विजनिष्यमाणाः पतिभिः सह शयान्तै ।
९ - ४९ - एवम् तर्हि प्रत्ययग्रहणम् अनुवर्तते आदिग्रहणम् निवृत्तम् ।
१० - ४९ - कथम् पुनः समासनिर्दिष्टानाम् एकदेशः अनुवर्तते एकदेशः वा निवर्तते ।
११ - ४९ - असमासनिर्देशात् सिद्धम् । असमासनिर्देशः करिष्यते ।
१२ - ४९ - प्रत्ययस्य आदीनाम् इति ।
१३ - ४९ - सः तर्हि असमासनिर्देशः कर्तव्यः ।
१४ - ४९ - न कर्तव्यः ।
१५ - ४९ - क्रियते न्यासे एव ।
१६ - ४९ - कथम् ।
१७ - ४९ - अविभक्तिकः निर्देशः ।
१८ - ४९ - प्रत्यय आदीनाम् इति ।
१९ - ४९ - तत्र शयान्तै इति अनकारान्तत्वात् अङ्गस्य आद्भावप्रतिषेधः । तत्र एतस्मिन् प्रत्ययग्रहणे अनुवर्तमाने आदिग्रहणे निवृत्ते शयान्तै इति अनकारान्तत्वात् अङ्गस्य आद्भावः प्राप्नोति तस्य प्रतिषेधः वक्तव्यः ।
२० - ४९ - सिद्धम् अनानन्तर्यात् अनकारान्तेन अद्भावनिवृत्तिः । सिद्धम् एतत् ।
२१ - ४९ - कथम् ।
२२ - ४९ - अनानन्तर्यात् अनकारान्तेन अद्भावः न भविष्यति ।
२३ - ४९ - कथम् कृत्वा चोदितम् कथम् कृत्वा परिहारः ।
२४ - ४९ - अनकारान्तग्रहणम् प्रत्ययविशेषणम् इति कृत्वा चोदितम् झकारविशेषणम् इति कृत्वा परिहारः ।
२५ - ४९ - यदि अनकारान्तग्रहणम् झकारविशेषणम् शेरते अत्र न प्राप्नोति ।
२६ - ४९ - तत्र रुटि सन्नियोगवचनात् सिद्धम् । तत्र रुटि सन्नियोगः करिष्यते ।
२७ - ४९ - कः एषः यत्नः चोद्यते सन्नियोगः नाम ।
२८ - ४९ - चकारः कर्तव्यः ।
२९ - ४९ - रुट् च ।
३० - ४९ - किम् च ।
३१ - ४९ - यत् च अन्यत् प्राप्नोति ।
३२ - ४९ - किम् च अन्यत् प्राप्नोति ।
३३ - ४९ - अद्भावः ।
३४ - ४९ - सः तर्हि चकारः कर्तव्यः ।
३५ - ४९ - न कर्तव्यः ।
३६ - ४९ - योगविभागः करिष्यते ।
३७ - ४९ - शीङः ।
३८ - ४९ - शीङः उत्तरस्य झस्य अत् भवति ।
३९ - ४९ - ततः रुट् ।
४० - ४९ - रुट् च भवति शीङः इति ।
४१ - ४९ - एवम् अपि पर्यायः प्रसज्येत ।
४२ - ४९ - एवम् तर्हि अच्शब्दस्य रुटम् वक्ष्यामि ।
४३ - ४९ - तत् अच्शब्दग्रहणम् कर्तव्यम् ।
४४ - ४९ - न कर्तव्यम् ।
४५ - ४९ - प्रकृतम् अनुवर्तते ।
४६ - ४९ - क्व प्रकृतम् ।
४७ - ४९ - अत् अभ्यस्तात् इति ।
४८ - ४९ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।
४९ - ४९ - शीङः इति एषा पञ्चमी अत् इति प्रथमायाः षष्ठी प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।
१ - ४२ - रुटि दृशिगुणप्रतिषेधः ।
२ - ४२ - रुटि दृशिगुणः प्राप्नोति ।
३ - ४२ - अदृश्रन् अस्य केतवः इति ।
४ - ४२ - तस्य प्रतिषेधः वक्तव्यः ।
५ - ४२ - परस्मिन् इति क्ङिति च इति प्रतिषेधः भविष्यति ।
६ - ४२ - एवम् अपि अदृश्रम् अस्य केतवः इति अत्र प्राप्नोति ।
७ - ४२ - एवम् तर्हि पूर्वान्तः करिष्यते ।
८ - ४२ - पूर्वान्ते शीङः गुणविधिः पूर्वान्ते शीङः गुणः विधेयः शेरते ।
९ - ४२ - सूत्रम् च भिद्यते ।
१० - ४२ - यथान्यासम् एव अस्तु ।
११ - ४२ - ननु च उक्तम् रुटि दृशिगुणप्रतिषेधः इति ।
१२ - ४२ - पूर्वान्ते अपि एषः दोषः ।
१३ - ४२ - कथम् ।
१४ - ४२ - अयम् दृशिगुणः प्रतिषेधविषये आरभ्यते सः यथा एव क्ङिति च इति एतम् प्रतिषेधम् बाधते एवम् अनुपधायाः अपि प्रसज्येत ।
१५ - ४२ - तस्मात् उभाभ्याम् दृशेः अक्प्रत्ययान्तरम् वक्तव्यम् पितरम् च दृशेयम् मातरम् च दृशेयम् इति एवम् अर्थम् ।
१६ - ४२ - झादेशात् आट् लेटि झादेशात् आट् लेटि भवति विप्रतिषेधेन ।
१७ - ४२ - झादेशस्य अवकाशः ।
१८ - ४२ - लुनते लुनताम् अलुनत ।
१९ - ४२ - आटः अवकाशः ।
२० - ४२ - पताति दिद्युत् ।
२१ - ४२ - उदधिम् च्यावयाति ।
२२ - ४२ - इह उभयम् प्राप्नोति ।
२३ - ४२ - अपि नः श्वः विजनिष्यमाणाः पतिभिः सह शयान्तै ।
२४ - ४२ - आट् लेटि भवति विप्रतिषेधेन ।
२५ - ४२ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।
२६ - ४२ - न वा नित्यत्वात् आटः ।
२७ - ४२ - न वा वक्तव्यः ।
२८ - ४२ - किम् कारणम् ।
२९ - ४२ - नित्यत्वात् आटः ।
३० - ४२ - नितः आडागमः ।
३१ - ४२ - सः कथम् नित्यः ।
३२ - ४२ - यदि अनकारान्तग्रहणम् झकारविशेषणम् ।
३३ - ४२ - अथ हि प्रत्ययविशेषणम् झादेशः अपि नित्यः ।
३४ - ४२ - अन्तरङ्गलक्षणत्वात् च ।
३५ - ४२ - अन्तरङ्गः खलु अपि आडागमः ।
३६ - ४२ - कथम् अन्तरङ्गः ।
३७ - ४२ - यदि प्राक् लादेशात् धात्वधिकारः ।
३८ - ४२ - अथ हि लादेशे धात्वधिकारः अनुवर्तते उभयम् समानाश्रयम् ।
३९ - ४२ - यदि एव अनकारान्तग्रहणम् प्रत्ययविशेषणम् अथ अपि लादेशे धात्वधिकारः अनुवर्तते उभयथा अपि पूर्वविप्रतिषेधेन न अर्थः ।
४० - ४२ - कथम् ।
४१ - ४२ - बहुलम् छन्दसि इति एवम् अत्र शपः लुक् न भविष्यति ।
४२ - ४२ - तत्र अनतः इति प्रतिषेधः भविष्यति ।
१ - १५ - इदम् बहुलम् छन्दसि इति द्विः क्रियते ।
२ - १५ - एकम् शक्यम् अकर्तुम् ।
३ - १५ - कथम् ।
४ - १५ - यदि तावत् पूर्वम् क्रियते परम् न करिष्यते ।
५ - १५ - अतः भिसः ऐस् इति अत्र बहुलम् छन्दसि इति एतत् अनुवर्तिष्यते ।
६ - १५ - अथ परम् क्रियते पूर्वम् न करिष्यते ।
७ - १५ - बहुलम् छन्दसि इति अत्र रुट् अपि अनुवर्तिष्यते ।
८ - १५ - अपरः आह उभे बहुलग्रहणे एकम् छन्दोग्रहणम् शक्यम् अकर्तुम् ।
९ - १५ - कथम् ।
१० - १५ - इदम् अस्ति ।
११ - १५ - वेत्तेः विभाषा ।
१२ - १५ - ततः छन्दसि ।
१३ - १५ - छन्दसि च विभाषा ।
१४ - १५ - ततः अतः भिसः ऐस् भवति ।
१५ - १५ - छन्दसि विभाषा इति ।
१ - ९ - इह वृक्षैः प्लक्षैः इति परत्वात् एत्त्वम् प्राप्नोति ।
२ - ९ - ऐस्भावः इदानीम् क्व भविष्यति ।
३ - ९ - कृते एत्त्वे भौतपूर्व्यात् ।
४ - ९ - कृते एत्त्वे भूतपूर्वमकारान्तम् इति ऐस् भविष्यति ।
५ - ९ - ऐस् तु नित्यः तथा सति ।
६ - ९ - एवम् सति नित्यः ऐस्भावः कृते अपि एत्त्वे प्राप्नोति अकृते अपि प्राप्नोति ।
७ - ९ - नित्यत्वात् ऐस्त्वे कृते विहतनिमित्तत्वात् एत्त्वम् न भविष्यति ।
८ - ९ - एत्त्वम् भिसि परत्वात् चेत् अतः ऐस् क्व भविष्यति ।
९ - ९ - कृते एत्त्वे भौतपूर्व्यात् ऐस् तु नित्यः तथा सति ।
१ - ७ - इमौ द्वौ प्रतिषेधौ उच्येते ।
२ - ७ - उभौ शक्यौ अवक्तुम् ।
३ - ७ - कथम् ।
४ - ७ - एवम् वक्ष्यामि ।
५ - ७ - इदमदसोः कात् इति ।
६ - ७ - तन्नियमार्थम् भविष्यति ।
७ - ७ - इदमदसोः कात् एव न अन्यतः इति ।
१ - ३८ - किमर्थम् इनादेशः उच्यते न नादेशः एव उच्येत ।
२ - ३८ - का रूपसिद्धिः वृक्षेण प्लक्षेण ।
३ - ३८ - एत्त्वे योगविभागः करिष्यते ।
४ - ३८ - कथम् ।
५ - ३८ - इदम् अस्ति ।
६ - ३८ - बहुवचने झलि एत् ओसि च ।
७ - ३८ - ततः आङि च ।
८ - ३८ - आङि च परतः अतः एत्त्वम् भवति ।
९ - ३८ - वृक्षेण प्लक्षेण ।
१० - ३८ - ततः आपः सम्बुद्धौ च ।
११ - ३८ - आपः आङि च ओसि च इति ।
१२ - ३८ - न एवम् शक्यम् ।
१३ - ३८ - इह हि अनेन इति इद्रूपलोपः प्रसज्येत ।
१४ - ३८ - झलि लोपः करिष्यते ।
१५ - ३८ - न शक्यः झलि लोपः कर्तुम् ।
१६ - ३८ - इह हि दोषः स्यात् ।
१७ - ३८ - अया विष्टा इति ।
१८ - ३८ - एवम् तर्हि अन्लोपापवादः विज्ञास्यते ।
१९ - ३८ - कथम् ।
२० - ३८ - एवम् वक्ष्यामि ।
२१ - ३८ - अन् ने च अपि च इति ।
२२ - ३८ - तत् नकारग्रहणम् कर्तव्यम् ।
२३ - ३८ - न कर्तव्यम् ।
२४ - ३८ - क्रियते न्यासे एव ।
२५ - ३८ - लुपनिर्दिष्टः नकारः ।
२६ - ३८ - यदि एवम् न उपधायाः इति दीर्घत्वम् प्राप्नोति ।
२७ - ३८ - सौत्रः निर्देशः ।
२८ - ३८ - अथ वा नपुंसकनिर्देशः करिष्यते ।
२९ - ३८ - अथ किमर्थम् आत् उच्यते न अत् एव उच्येत ।
३० - ३८ - का रूपसिद्धिः वृक्षात् प्लक्षात् ।
३१ - ३८ - सवर्णदीर्घत्वेन सिद्धम् ।
३२ - ३८ - न सिध्यति ।
३३ - ३८ - अतः गुणे पररूपम् इति पररूपत्वम् प्राप्नोति ।
३४ - ३८ - अकारोच्चारणसामर्थ्यात् न भविष्यति ।
३५ - ३८ - यदि प्राप्नुवन् विधिः उच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति ।
३६ - ३८ - न एषः दोषः ।
३७ - ३८ - यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते यस्य तु विधेः निमित्तम् एव न असौ बाध्यते ।
३८ - ३८ - पररूपम् प्रति अकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य पुनः निमित्तम् एव ।
१ - ९ - किम् इदम् चतुर्थ्येकवचनस्य ग्रहणम् आहोस्वित् सप्तम्येकवचनस्य ग्रहणम् ।
२ - ९ - कुतः सन्देहः ।
३ - ९ - समानः निर्देशः ।
४ - ९ - चतुर्थ्येकवचनस्य ग्रहणम् ।
५ - ९ - कथम् ज्ञायते ।
६ - ९ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।
७ - ९ - इह अपि तर्हि चतुर्थ्येकवचनस्य ग्रहणम् स्यात् ।
८ - ९ - ङेः आम् नद्याम्नीभ्यः ।
९ - ९ - एवम् तर्हि व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति इह चतुर्थ्येकवचनय्स् अग्रहणम् व्याख्यास्यामः तत्र सप्तम्येकवचनस्य इति ।
१ - २९ - अशः एकादिष्टात् स्मायादीनाम् उपसङ्ख्यानम् अशः एकादिष्टात् स्मायादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।
२ - २९ - अथ उ अत्र अस्मै ।
३ - २९ - अथ उ अत्र अस्मात् ।
४ - २९ - अथ उ अत्र अस्मिन् इति ।
५ - २९ - एकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति ।
६ - २९ - किम् पुनः कारणम् एकादेशः तावत् भवति न पुनः स्मायादयः ।
७ - २९ - न परत्वात् स्मायादिभिः भवितव्यम् ।
८ - २९ - न भवितव्यम् ।
९ - २९ - किम् कारणम् ।
१० - २९ - नित्यत्वात् एकादेशः ।
११ - २९ - नित्यः एकादेशः ।
१२ - २९ - कृतेषु अपि स्मायादिषु प्राप्नोति अकृतेषु अपि ।
१३ - २९ - नित्यत्वात् एकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति ।
१४ - २९ - किम् उच्यते अशः इति न इह अपि कर्तव्यम् ।
१५ - २९ - अत्र अस्मै ।
१६ - २९ - अत्र अस्मात् ।
१७ - २९ - अत्र अस्मिन् इति ।
१८ - २९ - एकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति ।
१९ - २९ - आनुपूर्व्या सिद्धम् एतत् ।
२० - २९ - न अत्र अकृतेषु स्मायादिषु हलादिः विभक्तिः अस्ति हलादौ चेत् रूपलोपः न च अकृतए इद्रूपलोपे एकादेशः प्राप्नोति ।
२१ - २९ - तत् आनुपूर्या सिद्धम् ।
२२ - २९ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।
२३ - २९ - न वा बहिरङ्गलक्षणत्वात् ।
२४ - २९ - न वा कर्तव्यम् ।
२५ - २९ - किम् कारणम् ।
२६ - २९ - बहिरङ्गलक्षणत्वात् ।
२७ - २९ - बहिरङ्गलक्षणः एकादेशः ।
२८ - २९ - अन्तरङ्गाः स्मायादयः ।
२९ - २९ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।
१ - ९ - किमर्थम् शीभावः शिभावः च उच्यते न शिभावः एव उच्येत ।
२ - ९ - का रूपसिद्धिः ते ये के ।
३ - ९ - आद्गुणेन सिद्धम् ।
४ - ९ - न एवम् शक्यम् ।
५ - ९ - इह हि त्रपुणी जतुनी दीर्घश्रवणम् न स्यात् ।
६ - ९ - एवम् तर्हि शीभवः एव उच्यताम् ।
७ - ९ - न एवम् शक्यम् ।
८ - ९ - इह हि कुण्डानि वनानि इति ह्रस्वस्य श्रवणम् न स्यात् ।
९ - ९ - तस्मात् शीभावः शिभावः च वक्तव्यः ।
१ - २१ - किमर्थः ङकारः ।
२ - २१ - सामान्यग्रहणार्थः ।
३ - २१ - औ , इति उच्यमाने प्रथमाद्विवचनस्य एव स्यात् ।
४ - २१ - अथ अपि औट् इति उच्यते एवम् अपि द्वितीयाद्विवचनस्य एव स्यात् ।
५ - २१ - अस्ति प्रयोजनम् एतत् ।
६ - २१ - किम् तर्हि इति ।
७ - २१ - ङित्कार्यम् तु प्राप्नोति ।
८ - २१ - खट्वे माले ।
९ - २१ - याट् आपः इति याट् प्राप्नोति ।
१० - २१ - न एषः दोषः ।
११ - २१ - न एवम् विज्ञायते ङकारः इत् अस्य सः अयम् ङित् ङिति इति ।
१२ - २१ - कथम् तर्हि ।
१३ - २१ - ङः एव इत् ङित् ङिति इति ।
१४ - २१ - एवम् सति वर्णग्रहणम् इदम् भवति वर्णग्रहणेषु च एतत् भवति यस्मिन् विधिः तदादौ अल्ग्रहणे इति ।
१५ - २१ - न दोषः भवति ।
१६ - २१ - अथ वा वर्णग्रहणम् इदम् भवति न च एतत् वर्णग्रहणेषु भवति अननुबन्धकग्रहणे न सानुबन्धकस्य इति ।
१७ - २१ - अथ वा पूर्वसूत्रनिर्देशः अयम् पूर्वसूत्रेषु च ये अनुबन्धाः न तैः इह इत्कार्याणि क्रियन्ते ।
१८ - २१ - औकारः अयम् शीविधौ ङित् गृहीतः ङित् च अस्माकम् न अस्ति कः अयम् प्रकारः ।
१९ - २१ - सामान्यार्थः तस्य च आसञ्जने अस्मिन् ङित्कार्यम् ते श्याम् प्रसक्तम् सः दोषः ।
२० - २१ - ङित्त्वे विद्यात् वर्णनिर्देशमात्रम् वर्णे यत् स्यात् तत् च विद्यात् तदादौ ।
२१ - २१ - वर्णः च अयम् तेन ङित्त्वे अपि अदोषः निर्देशः अयम् पूर्वसूत्रेण वा स्यात् ।
१ - ३४ - औशघौ । औशघौ इति वक्तव्यम् ।
२ - ३४ - किम् इदम् अघौ इति ।
३ - ३४ - अनुत्तरपदे इति ।
४ - ३४ - किम् प्रयोजनम् ।
५ - ३४ - इह मा भूत् ।
६ - ३४ - अष्टपुत्रः अष्टभार्यः इति ।
७ - ३४ - अस्तु लुक् तत्र ।
८ - ३४ - अस्तु अत्र औश्त्वम् लुक् भविष्यति ।
९ - ३४ - षड्भ्यः अपि एवम् प्रसज्यते ।
१० - ३४ - इह अपि तर्हि प्राप्नोति ।
११ - ३४ - अष्टौ तिष्ठन्ति ।
१२ - ३४ - अष्टौ पश्य इति । अपवादः ।
१३ - ३४ - अपवादत्वात् अत्र औश्त्वम् लुकम् बाधिष्यते ।
१४ - ३४ - इह अपि तर्हि बाधेत ।
१५ - ३४ - अष्टपुत्रः अष्टभार्यः ।
१६ - ३४ - यस्य विषये ।
१७ - ३४ - यस्य लुकः विषये औश्त्वम् तस्य अपवादः ।
१८ - ३४ - यः वा तस्मात् अनन्तरः ।
१९ - ३४ - अथ वा अनन्तरस्य लुकः बाधकम् भविष्यति ।
२० - ३४ - कुतः एतत् ।
२१ - ३४ - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।
२२ - ३४ - अथ इह कस्मात् न भवति औश्त्वम् ।
२३ - ३४ - अष्ट तिष्ठन्ति ।
२४ - ३४ - अष्ट पश्य इति ।
२५ - ३४ - आत्वम् यत्र तु तत्र औश्त्वम् ।
२६ - ३४ - यत्र एव आत्वम् तत्र एव औश्त्वेन भवितव्यम् ।
२७ - ३४ - कुतः एतत् ।
२८ - ३४ - तथा हि अस्य ग्रहः कृतः ।
२९ - ३४ - तथा हि अस्य आत्वभूतस्य ग्रहणम् क्रियते ।
३० - ३४ - अष्टाभ्यः इति ।
३१ - ३४ - ननु च नित्यम् आत्वम् ।
३२ - ३४ - एतत् एव ज्ञापयति आचार्यः विभाषात्वम् इति यत् अयम् आत्वभूतस्य ग्रहणम् करोति ।
३३ - ३४ - अष्टाभ्यः इति ।
३४ - ३४ - इतरथा हि अष्टनः इति एव ब्रूयात्
१ - ३७ - स्वमोः लुक् त्यदादिभ्यः च स्वमोः लुक् त्यदादिभ्यः च इति वक्तव्यम् ।
२ - ३७ - इह अपि यथा स्यात् ।
३ - ३७ - तत् ब्राह्मणकुलम् इति ।
४ - ३७ - कृते हि अत्वे न लुक् भवेत् ।
५ - ३७ - अत्वे कृते लुक् न प्राप्नोति ।
६ - ३७ - इदम् इह सम्प्रधार्यम् अत्वम् क्रियताम् लुक् इति किम् अत्र कर्तव्यम् ।
७ - ३७ - परत्वात् अत्वम् ।
८ - ३७ - नित्यः लुक् ।
९ - ३७ - कृते अपि अत्वे प्राप्नोति अकृते अपि ।
१० - ३७ - अनित्यः लुक् न हि कृते अत्वे प्राप्नोति ।
११ - ३७ - अतः अम् इति अम्भावेन भवितव्यम् ।
१२ - ३७ - तस्मात् त्यदादिभ्यः च इति वक्तव्यम् ।
१३ - ३७ - इदम् विचार्यते शिशीलुग्नुम्विधिषु नपुंसकग्रहणम् शब्दग्रहणम् वा स्यात् अर्थग्रहणम् वा इति ।
१४ - ३७ - कः च अत्र विशेषः ।
१५ - ३७ - शिशीलुग्नुम्विधिषु नपुंसकग्रहणम् शब्दग्रहणम् चेत् अन्यपदार्थे प्रतिषेधः ।
१६ - ३७ - शिशीलुग्नुम्विधिषु नपुंसकग्रहणम् शब्दग्रहणम् चेत् अन्यपदार्थे प्रतिषेधः वक्तव्यः ।
१७ - ३७ - बहुत्रपुः बहुत्रपू बहुत्रपवः इति ।
१८ - ३७ - अस्तु तर्हि अर्थग्रहणम् ।
१९ - ३७ - यदि अर्थग्रहणम् प्रियसक्थ्ना ब्राह्मणेन इति अनङ् न प्राप्नोति ।
२० - ३७ - अस्तु तर्हि शब्दग्रहणम् एव ।
२१ - ३७ - ननु च उक्तम् शिशीलुग्नुम्बिधिषु नपुंसकग्रहणम् चेत् अन्यपदार्थे प्रतिषेधः इति ।
२२ - ३७ - सिद्धम् तु प्रकृतार्थविशेषणत्वात् ।
२३ - ३७ - सिद्धम् एतत् ।
२४ - ३७ - कथम् ।
२५ - ३७ - प्रकृतस्य अर्थः विशेष्यते ।
२६ - ३७ - किम् च प्रकृतम् ।
२७ - ३७ - अङ्गम् ।
२८ - ३७ - अङ्गस्य शिशीलुग्नुमः भवन्ति नपुंसके वर्तमानस्य ।
२९ - ३७ - कथम् प्रियसक्थ्ना ब्राह्मणेन ।
३० - ३७ - अस्थ्यादिषु शब्दग्रहणम् ।
३१ - ३७ - अस्थ्यादिषु नपुंसकग्रहणम् शब्दग्रहणम् द्रष्टव्यम् ।
३२ - ३७ - युक्तम् पुनः इदम् विचारयितुम् ।
३३ - ३७ - ननु अनेन असन्दिग्धेन अर्थग्रहणेन भवितव्यम् न हि नपुंसकम् नाम शब्दः अस्ति ।
३४ - ३७ - किम् तर्हि उच्यते अस्थ्यादिषु शब्दग्रहणम् इति ।
३५ - ३७ - अत्र अपि अर्थग्रहणम् एव ।
३६ - ३७ - अत्र एतावान् सन्देहः क्व प्रकृतस्य अर्थः विशेष्यते क्व गृह्यमाणस्य इति ।
३७ - ३७ - शिशीलुग्नुम्विधिषु प्रकृतस्य अर्थः विशेष्यते अस्थ्यादिषु गृह्यमाणस्य ।
१ - १६ - अद्भावे पूर्वसवर्णप्रतिषेधः ।
२ - १६ - अद्भावे पूर्वसवर्णस्य प्रतिषेधः वक्तव्यः ।
३ - १६ - कतरत् तिष्ठति , कतरत् पश्य ।
४ - १६ - सिद्धम् अनुनासिकोपधत्वात् ।
५ - १६ - सिद्धम् एतत् ।
६ - १६ - कथम् ।
७ - १६ - अनुनासिकोपधः अच्शब्दः करिष्यते ।
८ - १६ - दुक्करणात् वा ।
९ - १६ - अथ वा दुग्डतरादीनाम् इति वक्ष्यति ।
१० - १६ - डित्करणात् वा ।
११ - १६ - अथ वा डिद् अच्छब्दः करिष्यते ।
१२ - १६ - सः तर्हि डकारः कर्तव्यः ।
१३ - १६ - न कर्तव्यः ।
१४ - १६ - क्रियते न्यासे एव ।
१५ - १६ - द्विडकारकः निर्देशः ।
१६ - १६ - अद्ड्डतरादिभ्यः इति
N/A
References : N/A
Last Updated : January 17, 2018
TOP