१ - १८ - ऊट् आदिः कास्मात् न भवति ।
२ - १८ - आदिः टित् भवति इति आदिः प्राप्नोति ।
३ - १८ - सम्प्रसारणम् इति अनेन यणः स्थानम् ह्रियते ।
४ - १८ - यदि एवम् वाहः ऊड्वचनानर्थक्यम् सम्प्रसारणेन कृतत्वात् ।
५ - १८ - वाहः ऊड्वचनम् अनर्थकम् ।
६ - १८ - किम् कारणम् ।
७ - १८ - सम्प्रसारणेन कृतत्वात् ।
८ - १८ - सम्प्रसारणेन एव सिद्धम् ।
९ - १८ - का रूपसिद्धिः ।
१० - १८ - प्रष्ठौहः पश्य ।
११ - १८ - गुणः प्रत्ययलक्षणत्वात् ।
१२ - १८ - प्रत्ययलक्षणेन गुणः भविष्यति ।
१३ - १८ - एज्ग्रहणात् वृद्धिः ।
१४ - १८ - एज्ग्रहणात् वृद्धिः भविष्यति ।
१५ - १८ - एवम् तर्हि सिद्धे सति यत् वाहः ऊठम् शास्ति शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।
१६ - १८ - किम् एतस्य ज्ञापने प्रयोजनम् ।
१७ - १८ - पचाव इदम् , पचाम इदम् ।
१८ - १८ - असिद्धत्वात् बहिरङ्गलक्षणस्य आत् गुणस्य अन्तरङ्गलक्षणम् ऐत्त्वम् न भवति इति ।
१ - २१ - श्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् ।
२ - २१ - श्वादीनाम् प्रसारणे नकारान्तग्रहणम् कर्तव्यम् ।
३ - २१ - किम् प्रयोजनम् ।
४ - २१ - अनकारान्तप्रतिषेधार्थम् ।
५ - २१ - अनकारान्तस्य मा भूत् ।
६ - २१ - मभवा मघवते ।
७ - २१ - तथा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति यथा इह भवति , यूनः पश्ये इति एवम् युवतीः ल्पश्य इति अत्र अपि स्यात् इति ।
८ - २१ - यत् तावत् उच्यते नकारान्तग्रहणम् कर्तव्यम् ।
९ - २१ - न कर्तव्यम् ।
१० - २१ - उक्तम् वा ।
११ - २१ - किम् उक्तम् ।
१२ - २१ - अर्वणस् तृ मघोनः च न शिष्यम् छान्दसम् हि तत् इति ।
१३ - २१ - यत् अपि उच्यते प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति यथा इह भवति , यूनः पश्ये इति एवम् युवतीः ल्पश्य इति अत्र अपि स्यात् इति लिङ्गविशिष्टग्रहणे च उक्तम् ।
१४ - २१ - किम् उक्तम् ।
१५ - २१ - न वा विभक्तौ लिङ्गविशिष्टाग्रहणात् इति ।
१६ - २१ - अथ वा उपरिष्टात् योगविभागः करिष्यते ।
१७ - २१ - श्वयुवमघोनाम् अतद्धिते ।
१८ - २१ - ततः अल्लोपः ।
१९ - २१ - अकारस्य च लोपः भवति ।
२० - २१ - ततः अनः ।
२१ - २१ - अनः इति उभयोः शेषः ।
१ - १५ - अथ किम् इदम् षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम् आहोस्वित् नियमार्थम् ।
२ - १५ - कथ च अल्लोपार्थम् स्यात् कथम् वा नियमार्थम् ।
३ - १५ - यदि अविशेषेण अल्लोपटिलोपयोः सः प्रकृतिभावः ततः अल्लोपार्थम् ।
४ - १५ - अथ हि अणि टिलोपस्य एव प्रकृतिभावः ततः नियमार्थम् ।
५ - १५ - षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम् ।
६ - १५ - षपूर्वादीनाम् पुनर्वचनम् क्रियते अल्लोपार्थम् ।
७ - १५ - अविशेषेण अल्लोपटिलोपयोः सः प्रकृतिभावः ।
८ - १५ - अवधारणे हि अन्यत्र प्रकृतिभावे उपधालोपप्रसङ्गः । अवधारणे हि सति अन्यत्र प्रकृतिभावे उपधालोपः प्रसज्येत ।
९ - १५ - कथम् ।
१० - १५ - यदि तावत् एवम् नियमः स्यात् षपूर्वादीनाम् एव अणि इति भवेत् इह नियमात् न स्यात् सामनः , वैमनः इति ।
११ - १५ - ताक्षण्यः इति प्राप्नोति ।
१२ - १५ - अथ अपि एवम् नियमः स्यात् षपूर्वादीनाम् अणि एव इति एवम् अपि भवेत् इह नियमात् न स्यात् ताक्षण्यः इति , सामनः , वैमनः इति तु प्राप्नोति ।
१३ - १५ - अथ अपि उभयतः नियमः स्यात् षपूर्वादीनाम् एव अणि , अणि एव षपूर्वादीनाम् इति एवम् अपि सामन्यः , वेमन्यः इति प्राप्नोति ।
१४ - १५ - तस्मात् सुष्थु उच्यते षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम् ।
१५ - १५ - अवधारणे हि अन्यत्र प्रकृतिभावे उपधालोपप्रसङ्गः इति ।
१ - १७ - आतः अनापः ।
२ - १७ - आतः अनापः इति वक्तव्यम् ।
३ - १७ - इह अपि यथा स्यात् समासे अनञ्पूर्वे क्त्वः ल्यप् इति ।
४ - १७ - अनापः इति किमर्थम् ।
५ - १७ - खट्वायाम् , मालायाम् ।
६ - १७ - यदि अनापः इति उच्यते कथम् क्त्वायाम् ।
७ - १७ - निपातनात् एतत् सिद्धम् ।
८ - १७ - किम् निपातनम् ।
९ - १७ - क्त्वायाम् व प्रतिषेधः इति ।
१० - १७ - यदि एवम् न अर्थः अनापः इति अनेन ।
११ - १७ - कथम् समासे अनञ्पूर्वे क्त्वः ल्यप् इति ।
१२ - १७ - निपातनात् एतत् सिद्धम् ।
१३ - १७ - कथम् हलः श्नः शानच् हौ इति ।
१४ - १७ - एतत् अपि निपातनात् सिद्धम् ।
१५ - १७ - अथ वा योगविभागः करिष्यते ।
१६ - १७ - आतः आकारलोपः भवति ।
१७ - १७ - ततः धातोः धातोः च आकारस्य लोपः भवति इति ।
१ - १६ - मन्त्रेषु आत्मनः प्रत्ययमात्रप्रसङ्गः ।
२ - १६ - मन्त्रेषु आत्मनः प्रत्ययमात्रे लोपः प्रसङ्क्तव्यः ।
३ - १६ - इह अपि यथा स्यात् त्मन्या समञ्जन् ।
४ - १६ - त्मनोः अन्तः अस्थः इति ।
५ - १६ - यदि प्रत्ययमात्रे लोपः उच्यते कथम् आत्मनः एव निर्मिमीष्व इति ।
६ - १६ - तस्मात् न अर्थः प्रत्ययमात्रे लोपेन ।
७ - १६ - कथम् त्मन्या समञ्जन् ।
८ - १६ - त्मनोः अन्तः अस्थः इति ।
९ - १६ - छान्दसत्वात् सिद्धम् ।
१० - १६ - छान्दसम् एतत् ।
११ - १६ - दृष्टानुविधिः छन्दसि भवति ।
१२ - १६ - आदिग्रहणानर्थक्यम् च आकारप्रकरणात् ।
१३ - १६ - आदिग्रहणम् च अनर्थकम् ।
१४ - १६ - किम् कारणम् ।
१५ - १६ - आकारप्रकरणात् ।
१६ - १६ - आतः इति वर्तते ।
१ - ९ - तिग्रहणम् किमर्थम् न विंशतेः डिति लोपः इति एव उच्येत ।
२ - ९ - न एवम् शक्यम् ।
३ - ९ - विंशतेः डिति लोपः इति उच्यमाने अन्त्यस्य प्रसज्येत ।
४ - ९ - सिद्धः अन्त्यस्य यस्येत लोपेन ।
५ - ९ - तत्र आरम्भसामर्थ्यात् तिशब्दस्य भविष्यति ।
६ - ९ - कुतः नु खलु एतत् अनन्यार्थे आरम्भे तिशब्दस्य भविष्यति न पुनः अङ्गस्य इति ।
७ - ९ - तस्मात् तिग्रहणम् कर्तव्यम् ।
८ - ९ - अथ क्रियमाणे अपि तिग्रहणे अन्त्यस्य कस्मात् न भवति ।
९ - ९ - निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।
१ - ७ - अभस्य उपसङ्ख्यानम् कर्तव्यम् ।
२ - ७ - इह अपि यथा स्यात् उपसरजः , मन्दुरजः इति ।
३ - ७ - तत् तर्हि वक्तव्यम् ।
४ - ७ - न वक्तव्यम् ।
५ - ७ - कथम् उपसरजः , मन्दुरजः इति ।
६ - ७ - डिति अभस्य अपि अनुबन्धकरणसामर्थ्यात् ।
७ - ७ - अभस्य अपि अनुबन्धकरणसामर्थ्यात् भविष्यति ।
१ - ५३ - नकारन्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरस्द्मसुपर्वणाम् उपसङ्ख्यानम् ।
२ - ५३ - नकारन्तस्य टिलोपे सब्रह्मचारिन् पीठसर्पिन् कलापिन् कुथुमिन् तैतिलिन् जाजलिन् लाङ्गलिन् शिलालिन् शिखण्डिन् सूकरस्द्मन् सुपर्वन् इति एतेषाम् उपसङ्ख्यानम् कर्तव्यम् ।
३ - ५३ - सब्रह्मचारिन् ।
४ - ५३ - साब्रह्मचाराः ।
५ - ५३ - सब्रह्मचारिन् ।
६ - ५३ - पीठसर्पिन् ।
७ - ५३ - पैठसर्पाः ।
८ - ५३ - पीठसर्पिन् ।
९ - ५३ - कलापिन् ।
१० - ५३ - कालपाः ।
११ - ५३ - कलापिन् ।
१२ - ५३ - कुथुमिन् ।
१३ - ५३ - कौथुमाः ।
१४ - ५३ - कुथुमिन् ।
१५ - ५३ - तैतिलिन् ।
१६ - ५३ - तैतिलाः ।
१७ - ५३ - तैतिलिन् ।
१८ - ५३ - जाजलिन् ।
१९ - ५३ - जाजलाः ।
२० - ५३ - जाजलिन् ।
२१ - ५३ - लाङ्गलिन् ।
२२ - ५३ - लाङ्गलाः ।
२३ - ५३ - लाङ्गलिन् ।
२४ - ५३ - शिलालिन् ।
२५ - ५३ - शैलालाः ।
२६ - ५३ - शिलालिन् ।
२७ - ५३ - शिखण्डिन् ।
२८ - ५३ - शैखण्डाः ।
२९ - ५३ - शिखण्डिन् ।
३० - ५३ - सूकरस्द्मन् ।
३१ - ५३ - सौकरसद्माः ।
३२ - ५३ - सूकरस्द्मन् ।
३३ - ५३ - सुपर्वन् ।
३४ - ५३ - सौपर्वाः ।
३५ - ५३ - सुपर्वन् ।
३६ - ५३ - चर्मणः कोशे ।
३७ - ५३ - चर्मणः कोशे उपसङ्ख्यानम् कर्तव्यम् ।
३८ - ५३ - चार्मः कोशः ।
३९ - ५३ - आस्मनः विकारे ।
४० - ५३ - आस्मनः विकारे उपसङ्ख्यानम् कर्तव्यम् ।
४१ - ५३ - अश्मनः विकारः आश्मः ।
४२ - ५३ - शुनः सङ्कोचे ।
४३ - ५३ - शौनः सङ्कोचः ।
४४ - ५३ - अव्ययानाम् च । अव्ययानाम् च उपसङ्ख्यानम् कर्तव्यम् ।
४५ - ५३ - किम् प्रयोजनम् ।
४६ - ५३ - सायम्प्रतिकाद्यर्थम् । सायम्प्रातिकः पौनःपुनिकः ।
४७ - ५३ - शाश्वतिके प्रतिषेधः वक्तव्यः ।
४८ - ५३ - न वक्तव्यः ।
४९ - ५३ - निपातनात् एतत् सिद्धम् ।
५० - ५३ - किम् निपातनम् ।
५१ - ५३ - येषाम् च विरोधः शाश्वतिकः इति ।
५२ - ५३ - एवम् तर्हि शाश्वते प्रतिषेधः वक्तव्यः ।
५३ - ५३ - शाश्वतम् ।
१ - १४ - इवर्णान्तस्य इति किम् उदाहरणम् ।
२ - १४ - हे दाक्षि दाक्ष्या दाकृ̄यः ।
३ - १४ - हे दाक्षि इति ।
४ - १४ - यदि लोपः न स्यात् परस्य ह्रस्वत्वे कृते सवर्णदीर्घत्वम् प्रस्ज्येत ।
५ - १४ - दाक्ष्या इति ।
६ - १४ - यदि लोपः न स्यात् परस्य यणादेशे कृते पूर्वस्य श्रवणम् प्रसज्येत ।
७ - १४ - दाक्षेयः इति ।
८ - १४ - यदि लोपः न स्यात् परस्य लोपे कृते पूर्वस्य श्रवणम् प्रसज्येत ।
९ - १४ - न एतानि सन्ति प्रयोजनानि ।
१० - १४ - सवर्णदीर्घत्वेन अपि एतानि सिद्धानि ।
११ - १४ - इदम् तर्हि ।
१२ - १४ - अतिसखेः आगच्छति ।
१३ - १४ - अतिसखेः स्वम् ।
१४ - १४ - यदि लोपः न स्यात् उपसर्जनह्रस्वत्वे कृते असखि इति प्रतिषेधः प्रसज्येत ।
१ - ३१ - यस्य ईत्यादौ श्याम् प्रतिषेधः ।
२ - ३१ - यस्य ईत्यादौ श्याम् प्रतिषेधः वक्तव्यः ।
३ - ३१ - काण्डे कुड्ये ।
४ - ३१ - सौर्ये नाम हिमवतः शृङ्गे ।
५ - ३१ - सः तर्हि प्रतिषेधः वक्तव्यः ।
६ - ३१ - न वक्तव्यः ।
७ - ३१ - इह श्याम् इति अपि प्रकृतम् न इति अपि ।
८ - ३१ - तत्र अभिसम्बन्धमात्रम् कर्तव्यम् यस्य ईत्यादौ लोपः भवति श्याम् न ।
९ - ३१ - इयङुवङ्भ्याम् लोपः विप्रतिषेधेन ।
१० - ३१ - इयङुवङ्भ्याम् लोपः भवति विप्रतिषेधेन ।
११ - ३१ - इयङुवङोः अवकाशः श्रियौ श्रियः , भ्रुवौ भ्रुवः ।
१२ - ३१ - लोपस्य अवकाशः कामण्डलेयः , माद्रबाहेयः ।
१३ - ३१ - इह उभयम् प्राप्नोति वत्सप्रेयः , लैखाभ्रेयः ।
१४ - ३१ - लोपः भवति विप्रतिषेधेन ।
१५ - ३१ - गुणवृद्धी च । गुणवृद्धी च इयङुवङ्भ्याम् भवतः विप्रतिषेधेन ।
१६ - ३१ - गुणवृद्ध्योः अवकाशः चेता गौः ।
१७ - ३१ - इयङुवङोः सः एव ।
१८ - ३१ - इह उभयम् प्राप्नोति चयनम् , चायकः , लवनम् , लावकः ।
१९ - ३१ - गुणवृद्धी भवतः विप्रतिषेधेन ।
२० - ३१ - न वा इयङुवङादेशस्य अन्यविषये वचनात् ।
२१ - ३१ - न वा अर्थः विप्रतिषेधेन ।
२२ - ३१ - किम् कारणम् ।
२३ - ३१ - इयङुवङादेशस्य अन्यविषये वचनात् ।
२४ - ३१ - इयङुवङादेशः अन्यविषये आरभ्यते ।
२५ - ३१ - किंविषये ।
२६ - ३१ - यणादिविषये ।
२७ - ३१ - सः यथा यणादेशम् बाधते एवम् गुणवृद्धी बाधेत ।
२८ - ३१ - तस्मात् तत्र गुणवृद्धिविषये प्रतिषेधः ।
२९ - ३१ - तस्मात् तत्र गुणवृद्धिविषये प्रतिषेधः वक्तव्यः ।
३० - ३१ - न वक्तव्यः ।
३१ - ३१ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयङुवङादेशः यणादेशम् बाधिष्यते गुणवृद्धी न बाधिष्यते ।
१ - ३२ - सूर्यादीनाम् अणन्ते अप्रसिद्धिः अङ्गान्यत्वात् ।
२ - ३२ - सूर्यादीनाम् अणन्ते अप्रसिद्धिः ।
३ - ३२ - सौरी बलाका ।
४ - ३२ - किम् कारणम् ।
५ - ३२ - अङ्गान्यत्वात् ।
६ - ३२ - अणन्तम् एतत् अङ्गम् अन्यत् भवति ।
७ - ३२ - लोपे कृते न अङ्गान्यत्वम् ।
८ - ३२ - स्थानिवद्भावात् अङ्गान्यत्वम् भवति ।
९ - ३२ - सिद्धम् तु स्थानिवत्प्रतिषेधात् ।
१० - ३२ - सिद्धम् एतत् ।
११ - ३२ - कथम् ।
१२ - ३२ - स्थानिवत्प्रतिषेधात् ।
१३ - ३२ - प्रतिषिध्यते अत्र स्थानिवद्भावः यलोपविधिम् प्रति न स्थानिवत् भवति इति ।
१४ - ३२ - एवम् अपि न सिध्यति ।
१५ - ३२ - किम् कारणम् ।
१६ - ३२ - शब्दान्यत्वात् ।
१७ - ३२ - अन्यः हि शूर्यशब्दः अन्यः सौर्यशब्दः ।
१८ - ३२ - न एषः दोषः ।
१९ - ३२ - एकदेशविकृतम् अनन्यवत् भवति इति भविष्यति ।
२० - ३२ - उपधाग्रहणानर्थक्यम् च ।
२१ - ३२ - स्थानिवद्भावे च इदानीम् प्रतिषिद्धे उपधाग्रहणम् अनर्थकम् ।
२२ - ३२ - किम् कारणम् ।
२३ - ३२ - अन्त्यः एव हि सूर्यादीनाम् यकारः ।
२४ - ३२ - किम् यातम् एतत् भवति ।
२५ - ३२ - सुष्ठु च यातम् साधु च यातम् यदि प्राक् भात् असिद्धत्वम् ।
२६ - ३२ - अथ हि सह तेन असिद्धत्वम् असिद्धत्वात् लोपस्य न अन्त्यः यकारः भवति ।
२७ - ३२ - यदि अपि सह तेन असिद्धत्वम् एवम् अपि न दोषः ।
२८ - ३२ - न एवम् विज्ञायते सूर्यादीनाम् अङ्गानाम् यकारलोपः इति ।
२९ - ३२ - कथम् तर्हि ।
३० - ३२ - अङ्गस्य यलोपः भवति सः चेत् सूर्यादीनाम् यकारः इति ।
३१ - ३२ - एवम् अपि सूर्यचरी , अत्र प्राप्नोति ।
३२ - ३२ - तस्मात् उपधाग्रहणम् कर्तव्यम् ।
१ - २१ - विषयपरिगणनम् च ।
२ - २१ - विषयपरिगणनम् च कर्तव्यम् ।
३ - २१ - सूर्यमत्स्ययोः ङ्याम् ।
४ - २१ - सूर्यमत्स्ययोः ङ्याम् इति वक्तव्यम् ।
५ - २१ - सौरी मत्सी ।
६ - २१ - सूर्यागस्त्ययोः छे च ।
७ - २१ - सूर्यागस्त्ययोः छे च ङ्याम् च इति वक्तव्यम् ।
८ - २१ - सौरी सौरीयः , आगस्ती , आगस्तीयः ।
९ - २१ - तिष्यपुष्ययोः नक्षत्राणि ।
१० - २१ - तिष्यपुष्ययोः नक्षत्राणि लोपः वक्तव्यः तैषम् , पौषम् ।
११ - २१ - अन्तिकस्य तसि कादिलोपः आद्युदात्तत्वम् च ।
१२ - २१ - अन्तिकस्य तसि कादिलोपः वक्तव्यः आद्युदात्तत्वम् च वक्तव्यम् ।
१३ - २१ - अन्तितः न दूरात् ।
१४ - २१ - तमे तादेः च ।
१५ - २१ - तमे तादेः च कादेः च लोपः वक्तव्यः ।
१६ - २१ - अग्ने त्वम् नः अन्तमः ।
१७ - २१ - अन्तितमः अवरोहति ।
१८ - २१ - तसि इति एषः न वक्तव्यः ।
१९ - २१ - दृष्टः दाशतये अपि हि घौ लोपः अन्तिषत् इति यत्र । अन्तिषत् ।
२० - २१ - तथा अघौ ये अन्त्यथर्वसु ।
२१ - २१ - अन्ति ये च दूरके ।
१ - १३ - छग्रहणम् शक्यम् अकर्तुम् ।
२ - १३ - इह कस्मात् न भवति बिल्वकेभ्यः ।
३ - १३ - भस्य इति वर्तते ।
४ - १३ - एवम् अपि बिल्वकाय , अत्र प्राप्नोति ।
५ - १३ - तद्धितस्य इति वर्तते ।
६ - १३ - एवम् अपि बिल्वकस्य विकारः अवयवः वा बैल्वकः , अत्र प्राप्नोति ।
७ - १३ - तद्धिते तद्धितस्य इति वर्तते ।
८ - १३ - एवम् अपि बिल्वकीयायाम् भवः बैल्वकः , बैल्वकस्य किम् चित् बैल्वकीयम् , अत्र प्राप्नोति ।
९ - १३ - न सः बिल्वकात् ।
१० - १३ - बिल्वकादिभ्यः यः विहितः इति उच्यते न च असौ बिल्वकशब्दात् विहितः ।
११ - १३ - किम् तर्हि बिल्वकीयशब्दात् ।
१२ - १३ - एवम् तर्हि सिद्धे सति यत् छग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा सन्नियोगशिष्टानाम् अन्यतराभावे उभयोः अभावः इति ।
१३ - १३ - तस्मात् छग्रहणम् कर्तव्यम् छस्य एव लुक् यथा स्यात् कुकः मा भूत् इति ।
१ - १५ - तुः सर्वस्य लोपः वक्तव्यः अन्त्यस्य लोपः मा भूत् इति ।
२ - १५ - सः तर्हि वक्तव्यः ।
३ - १५ - न वक्तव्यः । तुः सर्वलोपविज्ञानम् अन्त्यस्य वचनानर्थक्यात् ।
४ - १५ - तुः सर्वलोपः विज्ञायते ।
५ - १५ - कुतः ।
६ - १५ - अन्त्यस्य वचनानर्थक्यात् ।
७ - १५ - अन्त्यस्य लोपवचने प्रयोजनम् न अस्ति इति कृत्वा सर्वस्य भविष्यति ।
८ - १५ - अथ वा लुक् प्रकृतः ।
९ - १५ - सः अनुवर्तिष्यते ।
१० - १५ - अशक्यः लुक् अनुवर्तयितुम् ।
११ - १५ - किम् कारणम् ।
१२ - १५ - विजयिष्ठकरिष्थयोः गुणदर्शनात् ।
१३ - १५ - विजयिष्ठकरिष्थयोः गुणः दृश्यते ।
१४ - १५ - विजयिष्ठः ।
१५ - १५ - आसुतिम् करिष्ठः ।
१ - १९ - णौ इष्ठवत् प्रातिपदिकस्य ।
२ - १९ - णौ प्रातिपदिकस्य इष्ठवद्भावः वक्तव्यः ।
३ - १९ - किम् प्रयोजनम् ।
४ - १९ - पुंवद्भावरभावटिलोपयणादिपरार्थम् ।
५ - १९ - पुंवद्भावार्थम् ।
६ - १९ - एनीम् आचष्टे , एतयति ।
७ - १९ - श्येतयति ।
८ - १९ - रभावार्थम् ।
९ - १९ - पृथुम् आचष्टे , प्रथयति ।
१० - १९ - म्रदयति ।
११ - १९ - टिलोपार्थम् ।
१२ - १९ - पटुम् आचष्टे पटयति ।
१३ - १९ - यणादिपरार्थम् ।
१४ - १९ - स्थूलम् आचष्टे स्थवयति ।
१५ - १९ - दवयति ।
१६ - १९ - किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् ।
१७ - १९ - उदाहरणमात्रम् इति आह ।
१८ - १९ - प्रादयः अपि हि इष्यन्ते प्रियम् आचष्टे प्रापयति ।
१९ - १९ - भारद्वाजीयाः पठन्ति णौ इष्ठवत् प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरप्रादिविन्मतोर्लुक्कन्विध्यर्थम् इति ।
(पा-६,४.१५९; अकि-३,२३०.१२-१३; रो-४,७९५; भा-१ - ४ - किम् अयम् यिशब्दः आहोस्वित् यकारः ।
(पा-६,४.१५९; अकि-३,२३०.१२-१३; रो-४,७९५; भा-२ - ४ - किम् च अतः ।
(पा-६,४.१५९; अकि-३,२३०.१२-१३; रो-४,७९५; भा-३ - ४ - यदि लोपः अपि अनुवर्तते ततओ यिशब्दः ।
(पा-६,४.१५९; अकि-३,२३०.१२-१३; रो-४,७९५; भा-४ - ४ - अथ निवृत्तम् ततः यकारः ।
१ - ५३ - कथम् इदम् विज्ञायते हलादेः अङ्गस्य इति आहोस्वित् हलादेः ऋकारस्य इति ।
२ - ५३ - युक्तम् पुनः इदम् विचारयितुम् ।
३ - ५३ - ननु अनेन असन्दिग्धेन अङ्गविशेषणेन भवितव्यम् ।
४ - ५३ - कथम् हि ऋकारस्य नाम हल् आदिः स्यात् अन्यस्य अन्यः ।
५ - ५३ - अयम् आदिशब्दः अस्ति एव अवयववाची ।
६ - ५३ - तत् यथा ऋगादिः , अर्धर्चादिः , श्लोकादिः इति ।
७ - ५३ - अस्ति सामीप्ये वर्तते ।
८ - ५३ - तत् यथा ।
९ - ५३ - दधिभोजनम् अर्थसिद्धेः आदिः ।
१० - ५३ - दधिभोजनसमीपे ।
११ - ५३ - घृतभोजनम् आरोग्यस्य आदिः ।
१२ - ५३ - घृतभोजनसमीपे ।
१३ - ५३ - यावता सामीप्ये अपि वर्तते जायते विचारणा हल्समीपस्य ऋकारस्य हलादेः अङ्गस्य इति ।
१४ - ५३ - किम् च अतः ।
१५ - ५३ - यदि विज्ञायते हलादेः अङ्गस्य इति अप्रथीयान् , अत्र न प्राप्नोति ।
१६ - ५३ - अथ विज्ञायते हलादेः ऋकारस्य इति अनृचीयान् , अत्र अपि प्राप्नोति ।
१७ - ५३ - उभयथा स्वृचीयान् इति अत्र प्राप्नोति ।
१८ - ५३ - अस्तु तावत् हलादेः अङ्गस्य इति ।
१९ - ५३ - कथम् अप्रथीयान् ।
२० - ५३ - तद्धितान्तेन समासः भविष्यति ।
२१ - ५३ - न प्रथीयान् अप्रथीयान् इति ।
२२ - ५३ - भवेत् सिद्धम् यदा तद्धितान्तेन समासः ।
२३ - ५३ - यदा तु खलु समासात् तद्धितोत्पत्तिः तदा न सिध्यति ।
२४ - ५३ - न एव समासात् तद्धितोत्पत्त्या भवितव्यम् ।
२५ - ५३ - किम् कारणम् ।
२६ - ५३ - बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य ।
२७ - ५३ - भवेत् यदा बहुव्रीहिः तदा न स्यात् ।
२८ - ५३ - यदा तु खलु तत्पुरुषः तदा प्राप्नोति ।
२९ - ५३ - न पृथुः अपृथुः ।
३० - ५३ - अयम् अपि अपृथुः ।
३१ - ५३ - अयम् अपि अपृथुः ।
३२ - ५३ - अयम् अनयोः अप्रथीयान् इति ।
३३ - ५३ - न समासात् अजादिभ्याम् भवितव्यम् ।
३४ - ५३ - किम् कारणम् ।
३५ - ५३ - गुणवचनात् इति उच्यते न च समासः गुणवचनः इति ।
३६ - ५३ - यदा तर्हि समासात् विन्मतुपौ विन्मतुबन्तात् अजादी तदा प्राप्नुतः ।
३७ - ५३ - अविद्यमानाः पृथवः अपृथवः ।
३८ - ५३ - अपृथवः अस्य सन्ति अपृथुमान् ।
३९ - ५३ - अयम् अपृथुमान् ।
४० - ५३ - अयम् अपृथुमान् ।
४१ - ५३ - अयम् अनयोः अप्रथीयान् इति ।
४२ - ५३ - न एषः दोषः ।
४३ - ५३ - अपृथवः एव न सन्ति कुतः यस्य अपृथवः इति ।
४४ - ५३ - इह कस्मात् न भवति मातयति , भ्रातयति ।
४५ - ५३ - लोपः अत्र बाधकः भविष्यति ।
४६ - ५३ - इदम् इह सम्प्रधार्यम् ।
४७ - ५३ - टिलोपः क्रियताम् रभावः इति किम् अत्र कर्तव्यम् ।
४८ - ५३ - परत्वात् रभावः ।
४९ - ५३ - यदि पुनः अवशिष्टस्य रभावः उच्येत ।
५० - ५३ - न एवम् शक्यम् ।
५१ - ५३ - इह अपि प्रसज्येत कृतम् आचष्टे , कृतयति इति ।
५२ - ५३ - एवम् तर्हि परिगणनम् कर्तव्यम् ।
५३ - ५३ - पृथुमृदुकृशभृशदृढपरिवृढानाम् इति वक्तव्यम् ।
१ - ६१ - प्रकृत्या एकाच् इति किम् इष्ठेय्मेयस्सु आहोस्वित् अविशेषेण ।
२ - ६१ - किम् च अतः ।
३ - ६१ - यदि अविशेषेण स्वी खी शौवम् अधुना इति अत्र अपि प्राप्नोति ।
४ - ६१ - स्विखिनौ एव न स्तः ।
५ - ६१ - कथम् ।
६ - ६१ - उक्तम् एतत् ।
७ - ६१ - एकाक्षरात् कृतः जातेः सप्तम्याम् च न तौ स्मृतौ ।
८ - ६१ - स्ववान् खवान् इति एव भवितव्यम् ।
९ - ६१ - शौवम् इति परत्वात् ऐजागमे कृते टिलोपेन भवितव्यम् ।
१० - ६१ - अधुना इति सप्रकृतिकस्य सप्रत्ययकस्य स्थाने निपातनम् क्रियते ।
११ - ६१ - इह तर्हि प्राप्नोति द्रव्यम् ।
१२ - ६१ - यस्य ईति आदौ प्रकृतिभावः ।
१३ - ६१ - यस्य ईति यस्य लोपप्राप्तिः तस्य प्रकृतिभावः न च एतानि यस्य ईति आदौ ।
१४ - ६१ - एवम् अपि श्रिये हितः श्रीयः , ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीयापाकः इति अत्र प्राप्नोति ।
१५ - ६१ - तस्मात् इष्ठेय्मेयस्सु प्रकृतिभावः ।
१६ - ६१ - अथ इष्ठेय्मेयस्सु प्रकृतिभावे किम् उदाहरणम् ।
१७ - ६१ - प्रेयान् प्रेष्थः ।
१८ - ६१ - न एतत् अस्ति ।
१९ - ६१ - प्रादीनाम् असिद्धत्वात् न भविष्यति ।
२० - ६१ - इदम् तर्हि श्रेयान् , श्रेष्ठः ।
२१ - ६१ - प्रकृत्या एकाच् इष्ठेय्मेयस्सु चेत् एकाचः उच्चारणसामर्थ्यात् अवचनात् प्रकृतिभावः ।
२२ - ६१ - प्रकृत्या एकाच् इष्ठेय्मेयस्सु चेत् तत् न ।
२३ - ६१ - किम् कारणम् ।
२४ - ६१ - एकाचः उच्चारणसामर्थ्यात् अन्तरेण अपि वचनम् प्रकृतिभावः भविष्यति ।
२५ - ६१ - विन्मतोः तु लुगर्थम् ।
२६ - ६१ - विन्मतोः तु लुगर्थम् प्रकृतिभावः वक्तव्यः ।
२७ - ६१ - स्रग्वितरः , स्रजीयान् , स्रग्वितमः , स्रजिष्ठः ।
२८ - ६१ - स्रुग्वत्तरः , स्रुचीयान् , स्रुग्वत्तमः , स्रुचिष्ठः ।
२९ - ६१ - ननु च विन्मतोः लुक् टिलोपम् बाधिष्यते ।
३० - ६१ - कथम् अन्यस्य उच्यमानस्य अन्यस्य बाधकम् स्यात् ।
३१ - ६१ - असति खलु अपि सम्भवे बाधनम् भवति ।
३२ - ६१ - अस्ति च सम्भवः यत् उभयम् स्यात् ।
३३ - ६१ - यथा एव खलु अपि विन्मतोः लुक् टिलोपम् बाधते एव नः तद्धिते इति एतम् अपि बाधेत ।
३४ - ६१ - यतरः नः ब्रह्मीयान् ।
३५ - ६१ - ब्रह्मवत्तरः इति ।
३६ - ६१ - यत् तावत् उच्यते कथम् अन्यस्य उच्यमानस्य अन्यस्य बाधकम् स्यात् इति ।
३७ - ६१ - इदम् तावत् अयम् प्रष्टव्यः ।
३८ - ६१ - यदि तर्हि विन्मतोः लुक् न उच्येत किम् इह स्यात् इति ।
३९ - ६१ - टिलोपः इति आह ।
४० - ६१ - टिलोपः चेत् न अप्राप्ते टिलोपे विन्मतोः लुक् आरभ्यते ।
४१ - ६१ - सः बाधकः भविष्यति ।
४२ - ६१ - यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति ।
४३ - ६१ - अस्ति च सम्भवः यत् उभयम् स्यात् इति ।
४४ - ६१ - सति अपि सम्भवे बाधनम् भवति ।
४५ - ६१ - तत् यथा ।
४६ - ६१ - दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति ।
४७ - ६१ - एवम् इह अपि सति अपि सम्भवे विन्मतोः लुक् टिलोपम् बाधिष्यते ।
४८ - ६१ - यत् अपि उच्यते यथा एव खलु अपि विन्मतोः लुक् टिलोपम् बाधते एव नः तद्धिते इति एतम् अपि बाधेत इति ।
४९ - ६१ - न बाधते ।
५० - ६१ - किम् कारणम् ।
५१ - ६१ - येन न अप्राप्ते तस्य बाधनम् ।
५२ - ६१ - न अप्राप्ते टिलोपे विन्मतोः लुक् आरभ्यते ।
५३ - ६१ - नः तद्धिते इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च ।
५४ - ६१ - अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् विन्मतोः लुक् टिलोपम् बाधिष्यते ।
५५ - ६१ - नः तद्धिते इति एतम् न बाधिष्यते ।
५६ - ६१ - यदि तर्हि विन्मतोः लुक् टिलोपम् बाधते पयिष्थः इति न सिध्यति ।
५७ - ६१ - पयसिष्थः इति प्राप्नोति ।
५८ - ६१ - यथालक्षणम् अप्रयुक्ते ।
५९ - ६१ - प्रकृत्या अके राजन्यमनुष्ययुवानः ।
६० - ६१ - राजन्यमनुष्ययुवानः अके प्रकृत्या भवन्ति इति वक्तव्यम् ।
६१ - ६१ - राजन्यकम् , मानुष्यकम् , यौवनिका ।
१ - ३ - मपूर्वात् प्रतिषेधे वा हितनाम्नः ।
२ - ३ - मपूर्वात् प्रतिषेधे वा हितनाम्नः इति वक्तव्यम् ।
३ - ३ - समानः हैतनामः , समानः हैतनामनः इति च ।
१ - २४ - अथ किम् इदम् ब्राह्मस्य अजातौ अनः लोपार्थम् वचनम् आहोस्वित् नियमार्थम् ।
२ - २४ - कथ च लोपाथम् स्यात् कथम् व नियमार्थम् ।
३ - २४ - यदि तावत् अपत्ये इति वर्तते ततः नियमार्थम् ।
४ - २४ - अथ निवृत्तम् ततः लोपार्थम् ।
५ - २४ - अतः उत्तरम् पठति ब्राह्मस्य अजातौ लोपार्थम् वचनम् ।
६ - २४ - ब्राह्मस्य अजातौ लोपार्थम् वचनम् क्रियते ।
७ - २४ - अपत्ये इति निवृत्तम् ।
८ - २४ - तत्र अप्राप्तविधाने प्राप्तप्रतिषेधः ।
९ - २४ - तत्र अप्राप्तस्य टिलोपस्य विधाने प्राप्तस्य प्रतिषेधः वक्तव्यः ।
१० - २४ - ब्राह्मणः ।
११ - २४ - न वा पर्युदाससामर्थ्यात् ।
१२ - २४ - न वा वक्तव्यः ।
१३ - २४ - किम् कारणम् ।
१४ - २४ - पर्युदाससामर्थ्यात् पर्युदासः अत्र भविष्यति ।
१५ - २४ - अस्ति अन्यत् पर्युदासे प्रयोजनम् ।
१६ - २४ - किम् ।
१७ - २४ - या जातिः एव न अपत्यम् ।
१८ - २४ - ब्राह्मी ओषधिः इति ।
१९ - २४ - न वै अत्र इष्यते ।
२० - २४ - अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति ।
२१ - २४ - एवम् तर्हि अनुवर्तते अपत्ये इति न तु अपत्ये इति अनेन निपातनम् अभिसम्बध्यते ब्राह्मः इति निपात्यते अपत्ये अजातौ इति ।
२२ - २४ - किम् तर्हि ।
२३ - २४ - प्रतिषेधः अभिसम्बध्यते ब्राह्मः इति निपात्यते ।
२४ - २४ - अपत्ये जातौ न इति ।
१ - ७ - किमर्थम् इदम् उच्यते न नः तद्धिते इति एव सिद्धम् ।
२ - ७ - न सिध्यति ।
३ - ७ - अन् अणि इति प्रकृतिभावः प्रसज्येत ।
४ - ७ - अणि इति उच्यते णः च अयम् ।
५ - ७ - एवम् तर्हि सिद्धे सति यत् निपातनम् करोति तत् ज्ञापयति आचार्यः ताच्छीलिके णे अण्कृतानि भवन्ति ।
६ - ७ - किम् एतस्य ज्ञापने प्रयोजनम् ।
७ - ७ - चौरी तापसी इति अणन्तात् इति ईकारः सिद्धः भवति ।
१ - ३९ - अत्र भ्रौणहत्ये किम् निपात्यते ।
२ - ३९ - यकारादौ तद्धिते तत्वम् निपात्यते ।
३ - ३९ - भ्रौणहत्ये तत्वनिपातनानर्थक्यम् सामान्येन कृतत्वात् ।
४ - ३९ - भ्रौणहत्ये तत्वनिपातनम् अनर्थकम् ।
५ - ३९ - किम् कारणम् ।
६ - ३९ - सामान्येन कृतत्वात् ।
७ - ३९ - सामान्येन एव अत्र तत्वम् भविष्यति ।
८ - ३९ - हनः तः अचिण्णमुलोः इति ।
९ - ३९ - ज्ञापकम् तु तद्धिते तत्वप्रतिषेधस्य ।
१० - ३९ - एवम् तर्हि ज्ञापयति आचार्यः न तद्धिते तत्वम् भवति इति ।
११ - ३९ - किम् एतस्य ज्ञापने प्रयोजनम् ।
१२ - ३९ - भ्रौणघ्नः , वार्त्रघ्नः इति अत्र तत्वम् न भवति ।
१३ - ३९ - ऐक्ष्वाकस्य स्वरभेदात् निपातनम् पृथक्त्वेन ।
१४ - ३९ - ऐक्ष्वाकस्य स्वरभेदात् निपातनम् पृथक्त्वेन कर्तव्यम् ।
१५ - ३९ - ऐक्ष्वाकः , ऐक्ष्वाकः ।
१६ - ३९ - एकश्रुत्या निर्देशात् सिद्धम् ।एकश्रुतिः स्वरसर्वनाम यथा नपुंसकम् लिङ्गसर्वनाम ।
१७ - ३९ - अथ मैत्रेये किम् निपात्यते ।
१८ - ३९ - मैत्रेये ढञि यादिलोपनिपातनम् ।
१९ - ३९ - मैत्रेये ढञि यादिलोपः निपात्यते ।
२० - ३९ - इदम् मित्रयुशब्दस्य चतुः ग्रहणम् क्रियते ।
२१ - ३९ - गृष्ट्यादिषु प्रत्ययविध्यर्थम् पाठः क्रियते ।
२२ - ३९ - द्वितीये अध्याये यस्कादिषु लुगर्थम् ग्रहणम् क्रियते ।
२३ - ३९ - सप्तमे अध्याये इयादेशार्थम् ।
२४ - ३९ - इदम् चतुर्थम् यादिलोपार्थम् ।
२५ - ३९ - द्विर्ग्रहणम् शक्यम् अकर्तुम् ।
२६ - ३९ - बिदादिषु प्रत्ययविध्यर्थम् पाठः कर्तव्यः ।
२७ - ३९ - तत्र न एव अर्थः लुका न अपि यादिलोपेन ।
२८ - ३९ - इयादेशेन एव सिद्धम् ।
२९ - ३९ - न एवम् शक्यम् ।
३० - ३९ - इह हि मैत्रेयकः सङ्घः इति सङ्घातलक्षणेषु अञ्यञिञाम् अण् इति अण् प्रसज्येत ।
३१ - ३९ - हिरण्मये किम् निपात्यते ।
३२ - ३९ - हिरण्मये यलोपवचनम् ।
३३ - ३९ - हिरण्मये यलोपः निपात्यते ।
३४ - ३९ - अथ हिरण्यये किम् निपात्यते ।
३५ - ३९ - हिरण्ययस्य छन्दसि मलोपवचनात् सिद्धम् ।
३६ - ३९ - हिरण्ययस्य छन्दसि मलोपः निपात्यते ।
३७ - ३९ - हिरण्ययी नः नयतु ।
३८ - ३९ - हिरण्ययाः पन्थानः आसन् ।
३९ - ३९ - हिरण्ययम् आसनम् ।