पाद ४ - खण्ड ७०

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ११ - आ कुतः अयम् अधिकारः ।

२ - ११ - आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः ।

३ - ११ - यदि आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः गुणः यङ्लुकोः इति यङ्लुग्ग्रहणम् कर्तव्यम् ।

४ - ११ - प्राक् अभ्यासविकारेभ्यः पुनः अङ्गाधिकारे सति प्रत्ययलक्षणेन सिद्धम् ।

५ - ११ - अस्तु तर्हि प्राक् अभ्यासविकारेभ्यः अङ्गाधिकारः ।

६ - ११ - यदि प्राक् अभ्यासविकारेभ्यः अङ्गाधिकारः वव्रश्च वकारस्य सम्प्रसारणम् प्राप्नोति ।

७ - ११ - आ सप्तमाध्यायपरिसमाप्तेः पुनः अङ्गाधिकारे सति उः अदत्वस्य स्थानिवद्भावान् न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः सिद्धः भवति ।

८ - ११ - सः च इदानीम् अपरिहारः भवति यत् तत् उक्तम् अङ्गान्यत्वात् च सिद्धम् इति ।

९ - ११ - अस्तु तर्हि आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः ।

१० - ११ - ननु च उक्तम् गुणः यङ्लुकोः इति यङ्लुग्ग्रहणम् कर्तव्यम् इति ।

११ - ११ - क्रियते न्यासे एव ।

१ - ३५ - किम् पुनः इयम् स्थान्षष्ठी , अङ्गस्य स्थाने इति ।

२ - ३५ - एवम् भवितुम् अर्हति ।

३ - ३५ - अङ्गस्य इति स्थानषष्ठी चेत् पञ्चम्यन्तस्य च अधिकारः ।

४ - ३५ - अङ्गस्य इति स्थानषष्ठी चेत् पञ्चम्यन्तस्य च अधिकारः कर्तव्यः ।

५ - ३५ - अङ्गात् इति अपि वक्तव्यम् ।

६ - ३५ - अनुच्यमाने हि अतः भिसः ऐस् भवति इति अतः इति पञ्चमी अङ्गस्य इति स्थानषष्ठी ।

७ - ३५ - तत्र अशक्यम् विविभक्तिकत्वात् अतः इति पञ्चम्या अङ्गम् विशेषयितुम् ।

८ - ३५ - तत्र कः दोषः ।

९ - ३५ - अकारात् परस्य भिस्मात्रस्य ऐस्-भावः भवति इति इह अपि प्रसज्येत ब्राह्मणभिस्सा , ओदनभिस्सटा इति ।

१० - ३५ - अवयवषष्ठ्यादीनाम् च अप्रसिद्धिः ।

११ - ३५ - अवयवषष्ठ्यादयः च न सिध्यन्ति ।

१२ - ३५ - तत्र कः दोषः ।

१३ - ३५ - शासः इत् अङ्हलोः इति शासेः च अन्त्यस्य स्यात् उपधामात्रस्य च ।

१४ - ३५ - ऊत् उपधायाः गोहः इति गोहेः च अन्त्यस्य स्यात् उपधामात्रस्य च ।

१५ - ३५ - सिद्धम् तु परस्परम् प्रति अङ्गप्रत्ययसङ्ज्ञाभावात् ।

१६ - ३५ - सिद्धम् एतत् ।

१७ - ३५ - कथम् ।

१८ - ३५ - परस्परम् प्रति अङ्गप्रत्ययसङ्ज्ञे भवतः ।

१९ - ३५ - अङ्गसञ्ज्ञाम् प्रति प्रत्ययसञ्ज्ञा प्रत्ययसञ्ज्ञाम् प्रति अङ्गसञ्ज्ञा ।

२० - ३५ - किम् अतः यत् परस्परम् प्रति अङ्गप्रत्ययसङ्ज्ञे भवतः ।

२१ - ३५ - सम्बन्धषष्थीनिर्देशः च ।

२२ - ३५ - सम्बन्धषष्थीनिर्देशः च अयम् कृतः भवति ।

२३ - ३५ - अङ्गस्य यः भिस्-शब्दः इति ।

२४ - ३५ - किम् च अङ्गस्य भिस्-शब्दः ।

२५ - ३५ - निमित्तम् ।

२६ - ३५ - यस्मिन् अङ्गम् इति एतत् भवति ।

२७ - ३५ - कस्मिन् च एतत् भवति ।

२८ - ३५ - प्रत्यये ।

२९ - ३५ - एवम् अपि अवयवषष्ठ्यादयः अविशेषिताः भवन्ति ।

३० - ३५ - अवयवषष्ठ्यादयः अपि सम्बन्धे एव ।

३१ - ३५ - एवम् अपि स्थानम् अविशेषितम् भवति ।

३२ - ३५ - स्थानम् अपि सम्बन्धः एव ।

३३ - ३५ - एवम् अपि न ज्ञायते क्व स्थानषष्ठी क्व विशेषणषष्ठी इति ।

३४ - ३५ - यत्र षष्ठी अन्ययोगम् न अपेक्षते सा स्थानषष्ठी ।

३५ - ३५ - यत्र हि अन्ययोगम् अपेक्षते सा विशेषणषष्ठी ।

१ - ८० - कानि पुनः अङ्गाधिकारस्य प्रयोजननि ।

२ - ८० - अङ्गाधिकारस्य प्रयोजनम् सम्प्रसारणदीर्घत्वे ।

३ - ८० - हलः उत्तरस्य सम्प्रसारणस्य दीर्घः भवति ।

४ - ८० - हूतः , जीनः , संवीतः , शूनः ।

५ - ८० - अङ्गस्य इति किमर्थम् ।

६ - ८० - निरुतम् , दुरुतम् ।

७ - ८० - नाम्सनोः च ।

८ - ८० - नाम्सनोः च दीर्घत्वे प्रयोजनम् ।

९ - ८० - नामि दीर्घः भवति ।

१० - ८० - अग्नीनाम् , वायूनाम् ।

११ - ८० - अङ्गस्य इति किमर्थम् ।

१२ - ८० - क्रिमिणाम् पश्य ।

१३ - ८० - पामनाम् पश्य ।

१४ - ८० - सनि दीर्घः भवति ।

१५ - ८० - चिचीषति , तुष्टूषति ।

१६ - ८० - अङ्गस्य इति किमर्थम् ।

१७ - ८० - दधि सनोति ।

१८ - ८० - मधु सनोति ।

१९ - ८० - लिङि एत्वे ।

२० - ८० - लिङि एत्वे प्रयोजनम् ।

२१ - ८० - ग्लेयात् , म्लेयात् ।

२२ - ८० - अङ्गस्य इति किमर्थम् ।

२३ - ८० - निर्यायात् , निर्वायात् ।

२४ - ८० - अतः भिसः ऐस्त्वे ।

२५ - ८० - अतः भिसः ऐस्त्वे प्रयोजनम् ।

२६ - ८० - वृक्षैः , प्लक्षैः ।

२७ - ८० - अङ्गस्य इति किमर्थम् ।

२८ - ८० - ब्राह्मणभिस्सा , ओदनभिस्सटा ।

२९ - ८० - लुङादिषु अडाटौ ।

३० - ८० - लुङादिषु अडाटौ प्रयोजनम् ।

३१ - ८० - अकार्षीत् , ऐहिष्ट ।

३२ - ८० - अङ्गस्य इति किमर्थम् ।

३३ - ८० - प्राकरोत् , उपैहिष्ट ।

३४ - ८० - इयङुवङ्युष्मदस्मत्तातङामिनुडानेमुक्केह्रस्वयिदीर्घभितत्वानि ।

३५ - ८० - इयङुवङौ प्रयोजनम् ।

३६ - ८० - श्रियौ श्रियः , भ्रुवौ भ्रुवः ।

३७ - ८० - अङ्गस्य इति किमर्थम् ।

३८ - ८० - श्र्यर्थम् , भ्र्वर्थम् ।

३९ - ८० - युष्मदस्मदोः प्रयोजनम् ।

४० - ८० - सामः आकम् ।

४१ - ८० - युष्माकम् अस्माकम् ।

४२ - ८० - अङ्गस्य इति किमर्थम् ।

४३ - ८० - युष्मत्साम , अस्मत्साम ।

४४ - ८० - तातङ् प्रयोजनम् ।

४५ - ८० - जीवतात् भवान् ।

४६ - ८० - अङ्गस्य इति किमर्थम् ।

४७ - ८० - पच हि तावत् त्वम् ।

४८ - ८० - जल्प तु तावत् त्वम् ।

४९ - ८० - आमि नुट् प्रयोजनम् ।

५० - ८० - कुमारीणम् , किशोरीणाम् ।

५१ - ८० - अङ्गस्य इति किमर्थम् ।

५२ - ८० - कुमारी , आम् इति आह ।

५३ - ८० - किशोरी , आम् इति आह ।

५४ - ८० - आने मुक् प्रयोजनम् ।

५५ - ८० - पचमानः , यजमानः ।

५६ - ८० - अङ्गस्य इति किमर्थम् ।

५७ - ८० - प्राणः ।

५८ - ८० - के ह्रस्वः प्रयोजनम् ।

५९ - ८० - किशोरिका , कुमारिका ।

६० - ८० - अङ्गस्य इति किमर्थम् ।

६१ - ८० - कुमारी कायति कुमारीकः ।

६२ - ८० - यि दीर्घः प्रयोजनम् ।

६३ - ८० - चीयते , स्तूयते ।

६४ - ८० - अङ्गस्य इति किमर्थम् ।

६५ - ८० - दधियानम् , मधुयानम् ।

६६ - ८० - भि तत्वम् प्रयोजनम् ।

६७ - ८० - अद्भिः , अद्भ्यः ।

६८ - ८० - अङ्गस्य इति किमर्थम् ।

६९ - ८० - अब्भारः , अब्भक्षः ।

७० - ८० - न एतानि सन्ति प्रयोजनानि ।

७१ - ८० - कथम् ।

७२ - ८० - अर्थवद्ग्रहणप्रत्ययग्रहणाभ्याम् सिद्धम् ।

७३ - ८० - अर्थवद्ग्रहणप्रत्ययग्रहणाभ्याम् एतानि सिद्धानि ।

७४ - ८० - क्व चित् अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् भविष्यति क्व चित् प्रत्ययाप्रत्ययोः ग्रहणे प्रत्ययस्य एव ग्रहणम् भवति इति ।

७५ - ८० - अथ वा प्रत्यये इति प्रकृत्य अङ्गकार्यम् अध्येष्ये ।

७६ - ८० - यदि प्रत्यये इति प्रकृत्य अङ्गकार्यम् अधीषे प्राकरोत् , उपैहिष्ट , उपसर्गात् पूर्वम् अडाटौ प्राप्नुतः ।

७७ - ८० - सिद्धम् तु प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य च ग्रहणम् ।

७८ - ८० - सिद्धम् एतत् ।

७९ - ८० - कथम् ।

८० - ८० - प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एवम् उपसर्गात् पूर्वम् अडाटौ न भविष्यतः ।

१ - २० - इह कस्मात् न भवति तृतीयः ।

२ - २० - अण्प्रकरणात् ऋकारस्य अप्राप्तिः ।

३ - २० - अण्प्रकरणात् ऋकारस्य दीर्घत्वम् न भविष्यति ।

४ - २० - अणः इति वर्तते ।

५ - २० - क्व प्रकृतम् ।

६ - २० - ढ्रलोपे पूर्वस्य दीर्घः अणः इति ।

७ - २० - तत् वै इकः काशे इति अनेन इग्ग्रहणेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् ।

८ - २० - इग्ग्रहणस्य च अण्विशेषणत्वात् ।

९ - २० - अण्विशेषणम् इग्ग्रहणम् ।

१० - २० - अणः इकः इति ।

११ - २० - यदि तर्हि अण्विशेषणम् इग्ग्रहणम् चौ दीर्घः भवति इति इह न प्राप्नोति अवाचा , अवाचे ।

१२ - २० - न एषः दोषः ।

१३ - २० - अण्ग्रहणम् अनुवर्तते इग्ग्रहणम् निवृत्तम् ।

१४ - २० - एवम् अपि कर्तृ̄चा कर्तृ̄चे , अत्र न प्राप्नोति ।

१५ - २० - यथालक्षणम् अप्रयुक्ते ।

१६ - २० - अथ वा उभयम् निवृत्तम् ।

१७ - २० - कस्मात् न भवति तृतीयः ।

१८ - २० - निपातनात् ।

१९ - २० - किम् निपातनम् ।

२० - २० - द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्याम् इति ।

१ - ३३ - किमर्थम् आमः सनकारस्य ग्रहणम् क्रियते न आमि दीर्घः इति एव उच्येत ।

२ - ३३ - केन इदानिम् सनकारके भविष्यति ।

३ - ३३ - नुट् अयम् आम्भक्तः आम्ग्रहणेन ग्राहिष्यते ।

४ - ३३ - अतः उत्तरम् पठति नामि दीर्घः आमि चेत् स्यात् कृते दीर्घे न नुट् भवेत् ।

५ - ३३ - नामि दीर्घः आमि चेत् स्यात् कृते दीर्घत्वे न नुट् स्यात् ।

६ - ३३ - इदम् इह सम्प्रधार्यम् ।

७ - ३३ - दीर्घत्वम् क्रियताम् नुट् इति किम् अत्र कर्तव्यम् ।

८ - ३३ - परत्वात् नुट् ।

९ - ३३ - नित्यम् दीर्घत्वम् ।

१० - ३३ - कृते अपि नुटि प्राप्नोति अकृते अपि ।

११ - ३३ - नित्यत्वात् दीर्घत्वे कृते ह्रस्वाश्रयः नुट् न प्राप्नोति ।

१२ - ३३ - एवम् तर्हि आह अयम् ह्रस्वान्तात् नुट् इति न च ह्रस्वान्तः अस्ति ।

१३ - ३३ - तत्र वचनात् भविष्यति ।

१४ - ३३ - वचनात् यत्र तत् न अस्ति ।

१५ - ३३ - न इदम् वचनात् लभ्यम् ।

१६ - ३३ - अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

१७ - ३३ - किम् ।

१८ - ३३ - यत्र दीर्घत्वम् प्रतिषिध्यते ।

१९ - ३३ - तिसृणाम् , चतसृणाम् इति ।

२० - ३३ - न एतत् अस्ति प्रयोजनम् ।

२१ - ३३ - इह तावत् चतसृणाम् इति षट्चतुर्भ्यः च इति एवम् भविष्यति ।

२२ - ३३ - तिसृणाम् इति त्रिग्रहणम् अपि तत्र प्रकृतम् अनुवर्तते ।

२३ - ३३ - क्व प्रकृतम् ।

२४ - ३३ - त्रेः त्रयः इति ।

२५ - ३३ - इदम् तर्हि त्वम् नृणम् नृपते जायसे शुचिः ।

२६ - ३३ - न एकम् उदाहरणम् ह्रस्वग्रहणम् प्रयोजयति ।

२७ - ३३ - तत्र वचनात् भूतपूर्वगतिः विज्ञास्यते ।

२८ - ३३ - ह्रस्वान्तम् यत् भूतपूर्वम् इति ।

२९ - ३३ - उत्तराऋथम् तर्हि सनकारग्रहणम् कर्तव्यम् ।

३० - ३३ - नोपधायाः च चर्मणाम् ।

३१ - ३३ - नोपधायाः नामि यथा स्यात् ।

३२ - ३३ - इह मा भूत् चर्मणाम् , वर्मणाम् इति ।

३३ - ३३ - नामि दीर्घः आमि चेत् स्यात् कृते दीर्घे न नुट् भवेत् । वचनात् यत्र तत् न अस्ति । नोपधायाः च चर्मणाम् ।

१ - ४५ - हनः क्वौ उपधादीर्घत्वप्रसङ्गः ।

२ - ४५ - हनः क्वौ उपधालक्षणम् दीर्घत्वम् प्राप्नोति ।

३ - ४५ - अनुनासिकस्य क्विझलोः क्ङिति इति ।

४ - ४५ - तस्य प्रतिषेधः वक्तव्यः ।

५ - ४५ - वृत्रहणौ वृत्रहणः इति ।

६ - ४५ - नियमवचनात् सिद्धम् ।

७ - ४५ - इन्हन्पूषार्यम्णाम् शौ सौ च इति एतस्मात् नियमवचनात् दीर्घत्वम् न भविष्यति ।

८ - ४५ - नियमवचनात् सिद्धम् इति चेत् सर्वनामस्थानप्रकरणे नियमवचनात् अन्यत्र अनियमः ।

९ - ४५ - नियमवचनात् सिद्धम् इति चेत् सर्वनामस्थानप्रकरणे नियमवचनात् अन्यत्र नियमः न प्राप्नोति ।

१० - ४५ - क्व अन्यत्र ।

११ - ४५ - वृत्रहणि भ्रूणहनि ।

१२ - ४५ - एवम् तर्हि दीर्घविधिः यः इह इन्प्रभृतीनाम् तम् विनियम्य सुटि इति सुविद्वान् ।

१३ - ४५ - दीर्घविधिः यः इह इन्प्रभृतीनाम् तम् सर्वनामस्थाने विनियम्य , इन्हन्पूषार्यम्णाम् सर्वनामस्थाने दीर्घः भवति ।

१४ - ४५ - किमर्थम् इदम् ।

१५ - ४५ - नियमाऋथम् ।

१६ - ४५ - इन्हन्पूषार्यम्णाम् सर्वनामस्थाने एव न अन्यत्र ।

१७ - ४५ - शौ नियमम् पुनः एव विदध्यात् ।

१८ - ४५ - ततः शौ ।

१९ - ४५ - शौ एव सर्वनामस्थाने न अन्यत्र ।

२० - ४५ - ततः सौ ।

२१ - ४५ - सौ एव सर्वनामस्थाने न अन्यत्र ।

२२ - ४५ - भ्रूणहनि इति तथा अस्य न दुष्येत् ।

२३ - ४५ - तथा अस्य भ्रूणहनि इति न दोषः भवति ।

२४ - ४५ - शास्ति निवर्त्य सुटि इति अविशेषे शौ नियमम् कुरु वा अपि असमीक्ष्य ।

२५ - ४५ - अथ वा निवृत्ते सर्वनामस्थानप्रकरणे अविशेषेण शौ नियमम् वक्ष्यामि ।

२६ - ४५ - इन्हन्पूषार्यम्णाम् शौ एव ।

२७ - ४५ - ततः सौ ।

२८ - ४५ - सौ एव ।

२९ - ४५ - इह अपि तर्हि नियमात् न प्राप्नोति इन्द्रः वृत्रहायते ।

३० - ४५ - दीर्घविधेः उपधानियमात् मे हन्त यि दीर्घविधौ च न दोषः ।

३१ - ४५ - उपधालक्षणदीर्घत्वस्य नियमः न च एतत् उपधालक्षणम् दीर्घत्वम् ।

३२ - ४५ - सुटि अपि वा प्रकृते अनवकाशः शौ नियमः अप्रकृतप्रतिषेधे ।

३३ - ४५ - अथ वा अनुवर्तमाने सर्वनामस्थानग्रहणे अनवकाशः शौ नियमः अप्रकृतस्य अपि दीर्घत्वस्य नियामकः भविष्यति ।

३४ - ४५ - कथम् ।

३५ - ४५ - यस्य हि शौ नियमः सुटि न एतत् तेन न तत्र भवेत् विनियम्यम् ।

३६ - ४५ - यस्य हि शिः सर्वनामस्थानम् न तस्य सुट् ।

३७ - ४५ - यस्य सुट् सर्वनामस्थानम् न तस्य शिः ।

३८ - ४५ - तत्र सर्वनामस्थानप्रकरणे नियम्यम् न अस्ति इति कृत्वा अविशेषेण शौ नियमः विज्ञास्यते ।

३९ - ४५ - दीर्घविधिः यः इह इन्प्रभृतीनाम् तम् विनियम्य सुटि इति सुविद्वान् ।

४० - ४५ - शौ नियमम् पुनः एव विदध्यात् ।

४१ - ४५ - भ्रूणहनि इति तथा अस्य न दुष्येत् ।

४२ - ४५ - शास्ति निवर्त्य सुटि इति अविशेषे शौ नियमम् कुरु वा अपि असमीक्ष्य ।

४३ - ४५ - दीर्घविधेः उपधानियमात् मे हन्त यि दीर्घविधौ च न दोषः ।

४४ - ४५ - सुटि अपि वा प्रकृते अनवकाशः शौ नियमः अप्रकृतप्रतिषेधे ।

४५ - ४५ - यस्य हि शौ नियमः सुटि न एतत् तेन न तत्र भवेत् विनियम्यम् ।

१ - ३२ - अत्वसन्तस्य दीर्घत्वे पितः उपसङ्ख्यानम् ।

२ - ३२ - अत्वसन्तस्य दीर्घत्वे पितः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३२ - गोमान् , यवमान् ।

४ - ३२ - किम् पुनः कारणम् न सिध्यति ।

५ - ३२ - अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणम् न इति एवम् पितः न प्राप्नोति ।

६ - ३२ - अननुबन्धकग्रहणे इति उच्यते ।

७ - ३२ - सानुबन्धकस्य इदम् ग्रहणम् ।

८ - ३२ - एवम् तर्हि तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणम् न इति एवम् पितः न प्राप्नोति ।

९ - ३२ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

१० - ३२ - न कर्तव्यम् ।

११ - ३२ - पकारलोपे कृते न अतुबन्तम् भवति अत्वन्तम् एव ।

१२ - ३२ - यथा एव तर्हि पकारलोपे कृते न अतुबन्तम् एवम् उकारलोपे अपि कृते न अत्वन्तम् ।

१३ - ३२ - ननु च भूतपूर्वगत्या भविष्यति अत्वन्तम् ।

१४ - ३२ - यथा एव तर्हि भूतपूर्वगत्या अत्वन्तम् एवम् अतुबन्तम् अपि ।

१५ - ३२ - एवम् तर्हि आश्रीयमाणे भूतपूर्वगतिः अत्वन्तम् च आस्रीयते न अतुबन्तम् ।

१६ - ३२ - न सिध्यति ।

१७ - ३२ - इह हि व्याकरणे सर्वेषु एव सानुबन्धकग्रहणेषु रूपम् आश्रीयते यत्र अस्य एतत् रूपम् इति ।

१८ - ३२ - रूपनिर्ग्रहः च न अन्तरेण लौकिकम् प्रयोगम् ।

१९ - ३२ - तस्मिन् च लौकिके प्रयोगे सानुबन्धकानाम् प्रयोगः न अस्ति इति कृत्वा द्वितीयः प्रयोगः उपास्यते ।

२० - ३२ - कः असौ ।

२१ - ३२ - उपदेशः नाम ।

२२ - ३२ - उपदेशे च एतत् अतुबन्तम् न अत्वन्तम् ।

२३ - ३२ - यदि पुनः अत्शब्दम् गृहीत्वा दीर्घत्वम् उच्येत ।

२४ - ३२ - न एवम् शक्यम् ।

२५ - ३२ - इह अपि प्रसज्येत जगत् , जनगत् ।

२६ - ३२ - अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति ।

२७ - ३२ - इह अपि तर्हि न प्राप्नोति कृतवान् , भुक्तवान् इति ।

२८ - ३२ - क्व तर्हि स्यात् ।

२९ - ३२ - पचन् , यजन् ।

३० - ३२ - न वै अत्र इष्यते ।

३१ - ३२ - अनिष्टम् च प्राप्नोति इष्तम् च न सिध्यति ।

३२ - ३२ - तस्मात् उपसङ्ख्यानम् कर्तव्यम् ।

१ - २३ - गमेः दीर्घत्वे इङ्ग्रहणम् । गमेः दीर्घत्वे इङ्ग्रहणम् कर्तव्यम् ।

२ - २३ - इङ्गमेः इति वक्तव्यम् ।

३ - २३ - इह मा भूत् सञ्जिगंसते वत्सः मात्रा इति ।

४ - २३ - अग्रहणे हि अनादेशस्य अपि दीर्घप्रसङ्गः ।

५ - २३ - अक्रियमाणे हि इङ्ग्रहणे अनादेशस्य अपि दीर्घत्वम् प्रसज्येत ।

६ - २३ - सञ्जिगंसते वत्सः मात्रा इति ।

७ - २३ - न वा छन्दसि अनादेशस्य अपि दीर्घत्वदर्शनात् इङ्ग्रहणानर्थक्यम् ।

८ - २३ - न वा इङ्ग्रहणम् कर्तव्यम् ।

९ - २३ - किम् कारणम् ।

१० - २३ - छन्दसि अनादेशस्य अपि दीर्घत्वदर्शनात् ।

११ - २३ - छन्दसि अनादेशस्य अपि गमेः दीर्घत्वम् दृश्यते ।

१२ - २३ - स्वर्गम् लोकम् सञ्जिगांसत् ।

१३ - २३ - छन्दसि अनादेशस्य अपि दीर्घत्वदर्शनात् इङ्ग्रहणम् अनर्थकम् ।

१४ - २३ - यथा एव तर्हि छन्दसि अनादेशस्य अपि गमेः दीर्घत्वम् भवति एवम् भाषायाम् अपि प्राप्नोति ।

१५ - २३ - तस्मात् इङ्ग्रहणम् कर्तव्यम् ।

१६ - २३ - न कर्तव्यम् ।

१७ - २३ - योगविभागः करिष्यते ।

१८ - २३ - अचः सनि ।

१९ - २३ - अजन्तानाम् सनि दीर्घः भवति ।

२० - २३ - ततः हनिगम्योः ।

२१ - २३ - हनिगम्योः च सनि दीर्घः भवति ।

२२ - २३ - अचः इति एव ।

२३ - २३ - अचः स्थाने यौ हनिगमी ।

१ - १० - अथ उपधाग्रहणम् अनुवर्तते उत अहो न ।

२ - १० - किम् च अतः ।

३ - १० - सनि दीर्घे उपधाधिकारः चेत् व्यञ्जनप्रतिषेधः ।

४ - १० - सनि दीर्घे उपधाधिकारः चेत् व्यञ्जनप्रतिषेधः वक्तव्यः , चिचीषति तुष्टूषति इति एवम् अर्थम् ।

५ - १० - एवम् तर्हि निवृत्तम् ।

६ - १० - अनधिकारे उक्तम् ।

७ - १० - किम् उक्तम् ।

८ - १० - हनिगमिदीर्घेषु अज्ग्रहणम् इति ।

९ - १० - न एषः दोषः ।

१० - १० - उक्तम् एतत् ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् इति ।

१ - २० - अथ , ऊट् आदिः कस्मान् न भवति ।

२ - २० - आदिः टित् भवति इति प्राप्नोति ।

३ - २० - कस्य पुनः आदिः ।

४ - २० - वकारस्य ।

५ - २० - अस्तु ।

६ - २० - वकारकस्य का प्रतिपत्तिः ।

७ - २० - लोपः व्योः वलि इति लोपः भविष्यति ।

८ - २० - न एवम् शक्यम् ।

९ - २० - ज्वरत्वरस्रिव्यविमवाम् उपधायाः च इति द्वौ ऊटौ स्याताम् ।

१० - २० - एवम् तर्हि न एषः टित् ।

११ - २० - कः तर्हि ।

१२ - २० - ठित् ।

१३ - २० - यदि तर्हि ठित् , धौतः पटः इति एत्येधत्यूट्सु इति वृद्धिः न प्राप्नोति ।

१४ - २० - चर्त्वे कृते भविष्यति ।

१५ - २० - असिद्धम् चर्त्वम् ।

१६ - २० - तस्य असिद्धत्वात् न प्राप्नोति ।

१७ - २० - आश्रयात् सिद्धत्वम् भविष्यति ।

१८ - २० - असति अन्यस्मिन् आश्रयात् सिद्धत्वम् स्यात् अस्ति च अन्यः सिद्धः वाहः उट् इति ।

१९ - २० - एषः अपि ठित् करिष्यते ।

२० - २० - तत्र उभयोः चर्त्वे कृते आश्रयात् सिद्धत्वम् भविष्यति ।

१ - ३६ - अथ क्ङिद्ग्रहणम् अनुवर्तते उत अहो न ।

२ - ३६ - किम् च अतः ।

३ - ३६ - शूट्त्वे क्ङिदधिकारः चेत् छः षत्वम् ।

४ - ३६ - शूट्त्वे क्ङिदधिकारः चेत् छः षत्वम् वक्तव्यम् ।

५ - ३६ - प्रष्टा , प्रष्टुम् , प्रष्टव्यम् ।

६ - ३६ - तुक्प्रसङ्गः च ।

७ - ३६ - तुक् च प्राप्नोति ।

८ - ३६ - निवृत्ते अपि क्ङिद्ग्रहणे अवश्यम् अत्र तुगभावार्थः यत्नः कर्तव्यः ।

९ - ३६ - अन्तरङ्गत्वात् हि तुक् प्राप्नोति ।

१० - ३६ - च्छ्वोः इति सन्निपातग्रहणम् विज्ञायते ।

११ - ३६ - ननु एवम् अपि अन्त्यस्य प्राप्नोति ।

१२ - ३६ - सन्निपातग्रहणसामर्थ्यात् सर्वस्य भविष्यति ।

१३ - ३६ - एवम् अपि अङ्गस्य प्राप्नोति ।

१४ - ३६ - निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् अङ्गस्य न भविष्यति ।

१५ - ३६ - यदि एवम् उत्पुच्छयतेः अप्रत्ययः उत्पुट् इति प्राप्नोति , उत्पुत् इति च इष्यते ।

१६ - ३६ - तथा वाञ्छतेः अप्रत्ययः वान् , वांशौ वांशः इति न सिध्यति ।

१७ - ३६ - यथालक्षणम् अप्रयुक्ते ।

१८ - ३६ - तत्र तु एतावान् विशेषः ।

१९ - ३६ - अनुवर्तमाने क्ङिद्ग्रहणे छः षत्वम् वक्तव्यम् तत्र च अपि सन्निपातग्रहणम् विज्ञेयम् ।

२० - ३६ - निवृत्ते दिवः ऊड्भावः ।

२१ - ३६ - निवृत्ते दिवः ऊड्भावः प्राप्नोति ।

२२ - ३६ - द्युभ्याम् , द्युभिः ।

२३ - ३६ - अस्तु ।

२४ - ३६ - कथम् द्युभ्याम् , द्युभिः इति ।

२५ - ३६ - ऊठि कृते दिवः उत् इति उत्त्वम् भविष्यति ।

२६ - ३६ - न सिध्यति ।

२७ - ३६ - आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति ।

२८ - ३६ - तदर्थम् तपरः कृतः ।

२९ - ३६ - एवमर्थम् तपरः क्रियते ।

३० - ३६ - क्व पुनः क्ङिद्ग्रहणम् प्रकृतम् ।

३१ - ३६ - अनुनासिकस्य क्विझलोः क्ङिति इति ।

३२ - ३६ - यदि तत् अनुवर्तते अज्झनगमाम् सनि क्विझलोः च इति क्विझलोः अपि दीर्घत्वम् प्राप्नोति ।

३३ - ३६ - झलि तावत् न दोषः ।

३४ - ३६ - सनम् झल्ग्रहणेन विशेषयिष्यामः ।

३५ - ३६ - सनि झलादौ इति ।

३६ - ३६ - क्वौ अपि आचार्यप्रवृत्तिः ज्ञापयति न अनेन क्वौ दीर्घत्वम् भवति इति यत् अयम् क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घः असम्प्रसारम् च इति दीर्घत्वम् शास्ति ।

१ - १८ - असिद्धवचनम् किमर्थम् ।

२ - १८ - असिद्धवचने उक्तम् ।

३ - १८ - किम् उक्तम् ।

४ - १८ - तत्र तावत् उक्तम् षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च इति ।

५ - १८ - इह अपि असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च ।

६ - १८ - आदेशलक्षणप्रतिषेधाऋथम् तावत् ।

७ - १८ - आगहि जहि गतः , गतवान् ।

८ - १८ - अनुनासिकलोपे जभावे च कृते अतः लोपः , अतः हेः इति च प्राप्नोति ।

९ - १८ - असिद्धत्वात् न भवति ।

१० - १८ - उत्सर्गलक्षणभावार्थम् च ।

११ - १८ - एधि शाधि ।

१२ - १८ - अस्तिशास्त्योः एत्त्वशाभावयोः कृतयोः झल्लक्षणम् धित्वम् न प्राप्नोति ।

१३ - १८ - असिद्धत्वात् भवति ।

१४ - १८ - अथ अत्रग्रहणम् किमर्थम् ।

१५ - १८ - अत्रग्रहणम् विषयार्थम् ।

१६ - १८ - विषयः प्रतिनिर्दिश्यते ।

१७ - १८ - अत्र एतस्मिन् आभाच्छास्त्रे आभाच्छास्त्रम् असिद्धम् यथा स्यात् ।

१८ - १८ - इह मा भूत् अभाजि, रागः, उपबर्हणम् इति ।

१ - ९१ - कानि पुनः अस्य योगस्य प्रयोजनानि ।

२ - ९१ - प्रयोजनम् शैत्त्वम् धित्वे ।

३ - ९१ - शाभावः एत्त्वम् च धित्वे प्रयोजनम् ।

४ - ९१ - एधि शाधि ।

५ - ९१ - अस्तिशास्त्योः एत्त्वशाभावयोः कृतयोः झल्लक्षणम् धित्वम् न प्राप्नोति ।

६ - ९१ - असिद्धत्वात् भवति ।

७ - ९१ - शाभावः तावत् न प्रयोजयति ।

८ - ९१ - एवम् वक्ष्यामि ।

९ - ९१ - शास् हौ शा हौ इति ।

१० - ९१ - यत्वभूतः सकारः ।

११ - ९१ - तत्र सात् धित्वम् धि च इति सकारस्य लोपः ।

१२ - ९१ - अथ वा , आ हौ इति वक्ष्यामि ।

१३ - ९१ - एवम् अपि सकारस्य प्राप्नोति ।

१४ - ९१ - उपधायाः इति वर्तते ।

१५ - ९१ - उपधायाः आत्वे कृते सात् धित्वम् धि च इति सकारस्य लोपः ।

१६ - ९१ - अथ वा न हौ इति वक्ष्यामि ।

१७ - ९१ - तत्र एत्त्वे प्रतिषिद्धे सात् धित्वम् धि च इति सकारस्य लोपः ।

१८ - ९१ - एत्त्वम् अपि लोपापवादः विज्ञास्यते न च सकारस्य लोपः प्राप्नोति ।

१९ - ९१ - हिलोपः उत्त्वे ।

२० - ९१ - हिलोपः उत्त्वे प्रयोजनम् ।

२१ - ९१ - कुरु इति अत्र हिलोपे कृते सार्वधातुकपरे उकारे इति उत्त्वम् न प्राप्नोति ।

२२ - ९१ - असिद्धत्वात् भवति ।

२३ - ९१ - एतत् अपि न अस्ति प्रयोजनम् ।

२४ - ९१ - वक्ष्यति तत्र सार्वधातुकग्रहणस्य प्रयोजनम् सार्वधातुके भूतपूर्वमात्रे यथा स्त्यात् उत्त्वम् ।

२५ - ९१ - तास्तिलोपेण्यणादेशाः अडाड्विधौ ।

२६ - ९१ - तलोपः अस्तिलोपः इणः च यणादेशः अडाड्विधौ प्रयोजनम् ।

२७ - ९१ - अकारि , ऐही इति ।

२८ - ९१ - तलोपे कृते लुङि इति अडाटौ न क्ल्प्राप्नुतः ।

२९ - ९१ - असिद्धत्वात् भवतः ।

३० - ९१ - अस्तिलोपः इणः च यणादेशः प्रयोजनम् ।

३१ - ९१ - आसन् , आयन् इति ।

३२ - ९१ - इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात् आट् न प्राप्नोति ।

३३ - ९१ - असिद्धत्वात् भवति ।

३४ - ९१ - अस्तिलोपः तावत् न प्रयोजयति ।

३५ - ९१ - आचार्यप्रवृत्तिः ज्ञापयति लोपात् आट् बलीयान् इति यत् अयम् श्नसोः अल्लोपः इति तपरकरणम् करोति ।

३६ - ९१ - इण्यणादेशः च अपि न प्रयोजयति ।

३७ - ९१ - यणादेशे योगविभागः करिष्यते ।

३८ - ९१ - इणः यण् भवति ।

३९ - ९१ - ततः एः अनेकाचः ।

४० - ९१ - एः च अनेकाचः इणः यण् भवति ।

४१ - ९१ - ततः असंयोगपूर्वस्य यण् भवति ।

४२ - ९१ - एः अनेकाचः इति एव ।

४३ - ९१ - सर्वेषाम् एव परिहारः ।

४४ - ९१ - उपदेशः इति वर्तते ।

४५ - ९१ - तत्र उपदेशावस्थायाम् एव अडाटौ भवतः ।

४६ - ९१ - अथ वा आर्धधातुके इति वर्तते ।

४७ - ९१ - अथ वा लुङ्लङ्लृङ्क्षु अट् इति द्विलकारकः निर्देशः लुङादिषु लकारादिषु इति ।

४८ - ९१ - सर्वथा , ऐज्यत , औप्यत इति न सिध्यति ।

४९ - ९१ - वक्ष्यति एतत् अजादीनाम् अटा सिद्धम् इति ।

५० - ९१ - अनुनासिकलोपः हिलोपाल्लोपयोः जभावः च ।

५१ - ९१ - अनुनासिकलोपः हिलोपाल्लोपयोः जभावः च प्रयोजनम् ।

५२ - ९१ - आगहि जहि गतः , गतवान् ।

५३ - ९१ - अनुनासिकलोपे कृते जभावे च अतः हेः अतः लोपः इति च लोपः प्राप्नोति ।

५४ - ९१ - असिद्धत्वात् न भवति ।

५५ - ९१ - अनुनासिकलोपः तावत् न प्रयोजयति ।

५६ - ९१ - अल्लोपे उपदेशे इति वर्तते ।

५७ - ९१ - यदि उपदेशे इति वर्तते धिनुतः , कृणुतः अत्र न प्राप्नोति ।

५८ - ९१ - न एषः दोषः ।

५९ - ९१ - न उपदेशग्रहणेन प्रकृतिः अभिसम्बध्यते ।

६० - ९१ - किम् तर्हि ।

६१ - ९१ - आर्धधातुकम् अभिसम्बध्यते आर्धधातुकोपदेशे यत् अकारान्तम् इति ।

६२ - ९१ - जभावः च न प्रयोजयति ।

६३ - ९१ - हिलोपे योगविभागः करिष्यते ।

६४ - ९१ - अतः हेः ।

६५ - ९१ - ततः उतः च ।

६६ - ९१ - उतः च हेः लुक् भवति इति ।

६७ - ९१ - ततः प्रत्ययात् ।

६८ - ९१ - प्रत्ययात् इति उभयोः शेषः ।

६९ - ९१ - अथ किमर्थम् अनुनासिकलोपः हिलोपाल्लोपयोः जभावः च इति उच्यते न अनुनासिकलोपजभावौ अल्लोपहिलोपयोः इति एव उच्यते ।

७० - ९१ - सङ्ख्यातानुदेशः मा भूत् इति ।

७१ - ९१ - अनुनासिकलोपः हिलोपे प्रयोजयति ।

७२ - ९१ - मण्डूकि ताभिः आगहि ।

७३ - ९१ - रोहितः च इह अ गहि ।

७४ - ९१ - मरुद्भिः अग्ने अगहि ।

७५ - ९१ - सम्प्रसारणम् अवर्णलोपे ।

७६ - ९१ - सम्प्रसारणम् अवर्णलोपे प्रयोजनम् ।

७७ - ९१ - मधोनः पश्य ।

७८ - ९१ - मघोना , मघोने ।

७९ - ९१ - सम्प्रसारणे कृते यस्य इति लोपः प्राप्नोति ।

८० - ९१ - असिद्धत्वात् न भवति ।

८१ - ९१ - न एतत् अस्ति प्रयोजनम् ।

८२ - ९१ - वक्ष्यति एतत् मघवन्शब्दः अव्युत्पन्नम् प्रातिपदिकम् इति ।

८३ - ९१ - रेभावः आल्लोपे ।

८४ - ९१ - रेभावः आल्लोपे प्रयोजनम् ।

८५ - ९१ - किम् स्वित् गर्भम् प्रथमम् दध्रे आपः ।

८६ - ९१ - रेभावे कृते आतः लोपः इटि च इति आकारलोपः न प्राप्नोति ।

८७ - ९१ - असिद्धत्वात् भवति ।

८८ - ९१ - एतत् अपि न अस्ति प्रयोजनम् ।

८९ - ९१ - छान्दसः रेभावः लिट् च छन्दसि सार्वधातुकम् अपि भवति ।

९० - ९१ - तत्र सार्वधातुकम् अपित् ङित् भवति इति ङित्वम् ।

९१ - ९१ - श्नाभ्यस्तयोः आतः इति आकारलोपः भवति ।

१ - २२ - यदि तर्हि अयम् योगः न आरभ्यते , उत् तु कृञः कथम् ओः विनिवृत्तौ । इह कुर्वः कुर्मः कुर्यात् इति उकारलोपे कृते सार्वधातुकपरे उकारे इति उत्त्वम् न प्राप्नोति ।

२ - २२ - णेः अपि च इटि कथम् विनिवृत्तिः ।

३ - २२ - इह च कारयतेः कारिष्यते णेः अनिटि इति णिलोपः न प्राप्नोति ।

४ - २२ - अब्रुवतः तव योगम् इमम् स्यात् लुक् च चिणः नु कथम् न तरस्य ।

५ - २२ - इह च , अकारितराम् अहारितराम् इति चिणः उत्तरस्य तरस्य लुक् न स्यात् ।

६ - २२ - चम् भगवान् कृतवान् तु तदर्थम् तेन भवेत् इटि णेः निवृत्तिः ।

७ - २२ - इह स्यसिच्सीयुट्तासिषु भावकर्मणोः उपदेशे अज्झनग्रहदृशाम् वा चिण्वत् इट् च किम् च ।

८ - २२ - णिलोपः च ।

९ - २२ - म्वोः अपि ये च तथा अपि अनुवृत्तौ ।

१० - २२ - इह अपि कुर्वः कुर्मः कुर्यात् इति म्वोः ये च इति एतत् अपि अनुवर्तिष्यते ।

११ - २२ - चिण्लुकि च क्ङितः एव लुक् स्यात् ।

१२ - २२ - चिण्लुकि अपि प्रकृतम् क्ङिद्ग्रहणम् अनुवर्तते ।

१३ - २२ - क्व प्रकृतम् ।

१४ - २२ - गमहनखनघसाम् लोपः क्ङिति अनङि इति ।

१५ - २२ - तत् वै सप्तमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

१६ - २२ - चिणः इति एषा पञ्चमी क्ङिति इति सप्तम्याः षष्ठीम् ल्प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

१७ - २२ - उत् तु कृञः कथम् ओः विनिवृत्तौ ।

१८ - २२ - णेः अपि च इटि कथम् विनिवृत्तिः ।

१९ - २२ - अब्रुवतः तव योगम् इमम् स्यात् लुक् च चिणः नु कथम् न तरस्य ।

२० - २२ - चम् भगवान् कृतवान् तु तदर्थम् तेन भवेत् इटि णेः निवृत्तिः ।

२१ - २२ - म्वोः अपि ये च तथा अपि अनुवृत्तौ ।

२२ - २२ - चिण्लुकि च क्ङितः एव लुक् स्यात् ।

१ - १०२ - आरभ्यमाणे अपि एतस्मिन् योगे सिद्धम् वसुसम्प्रसारणम् अज्विधौ ।

२ - १०२ - वसुसम्प्रसारणम् अज्विधौ सिद्धम् वक्तव्यम् ।

३ - १०२ - किम् प्रयोजनम् ।

४ - १०२ - पपुषः पश्य ।

५ - १०२ - तस्थुषः पश्य ।

६ - १०२ - निन्युषः पश्य ।

७ - १०२ - चिच्युषः पश्य ।

८ - १०२ - लुलुवुषः पश्य ।

९ - १०२ - पुपुवुषः पश्य इति ।

१० - १०२ - वसोः सम्प्रसारणे कृते अचि इति आकारलोपादीनि यथा स्युः इति ।

११ - १०२ - किम् पुनः कारणम् न सिध्यन्ति ।

१२ - १०२ - बहिरङ्गलक्षणत्वात् असिद्धत्वात् च ।

१३ - १०२ - बहिरङ्गलक्षणम् च एव हि वसुसम्प्रसारणम् असिद्धम् च ।

१४ - १०२ - आत्त्वम् यलोपाल्लोपयोः पशुषः न वाजान् चाखायिता चाखायितुम् ।

१५ - १०२ - आत्त्वम् यलोपाल्लोपयोः सिद्धम् वक्तव्यम् ।

१६ - १०२ - किम् प्रयोजनम् ।

१७ - १०२ - पशुषः न वाजान् ।

१८ - १०२ - पशुषः इति आत्त्त्वस्य असिद्धत्वात् आतः धातोः इति आकारलोपः न प्राप्नोति ।

१९ - १०२ - चाखायिता चाखायितुम् इति आत्त्वस्य असिद्धत्वात् यस्य हलः इति यलोपः प्राप्नोति ।

२० - १०२ - समानाश्रयवचनात् सिद्धम् ।

२१ - १०२ - समानाश्रयम् असिद्धम् भवति व्याश्रयम् च एतत् ।

२२ - १०२ - इह तावत् पपुषः पश्य , तस्थुषः पश्य , निन्युषः पश्य , चिच्युषः पश्य , लुलुवुषः पश्य , पुपुवुषः पश्य इति ।

२३ - १०२ - वसौ आकारलोपादीनि वसन्तस्य विभक्तौ सम्प्रसारणम् ।

२४ - १०२ - पशुषः इति विटि आत्त्वम् विडन्तस्य विभक्तौ आकारलोपः ।

२५ - १०२ - चाखायिता चाखायितुम् इति यङि आत्त्वम् यङन्तस्य च आर्धधातुके लोपः इति ।

२६ - १०२ - किम् वक्तव्यम् एतत् ।

२७ - १०२ - न हि ।

२८ - १०२ - कथम् अनुच्यमानम् गंस्यते ।

२९ - १०२ - अत्रग्रहणसामर्थ्यात् ।

३० - १०२ - ननु च अन्यत् अत्रग्रहणस्य प्रयोजनम् उक्तम् ।

३१ - १०२ - किम् उक्तम् ।

३२ - १०२ - अत्रग्रहणम् विषयार्थम् इति ।

३३ - १०२ - अधिकारात् अपि एतत् सिद्धम् ।

३४ - १०२ - इह पपुषः , चिच्युषः , लुलुवुषः , द्वौ हेतू व्य्पदिष्टौ बहिरङ्गलक्षणत्वम् असिद्धत्वम् च इति ।

३५ - १०२ - तत्र भवएत् असिद्धत्वम् प्रत्युक्तम् बहिरङ्गलक्षणत्वम् तु न एव प्रत्युक्तम् ।

३६ - १०२ - न एषः दोषः बहिरङ्गम् अन्तरङ्गम् इति च प्रतिद्वन्द्विभाविनौ एतौ अर्थौ ।

३७ - १०२ - कथम् ।

३८ - १०२ - सति अन्तरङ्गे बहिरङ्गम् सति च बहिरङ्गे अन्तरङ्गम् ।

३९ - १०२ - न च अत्र अन्तरङ्गबहिरङ्गयोः युगपत् समवस्थानम् अस्ति ।

४० - १०२ - न अनभिनिर्वृत्ते बहिरङ्गे अन्तरङ्गम् प्राप्नोति ।

४१ - १०२ - तत्र निमित्तम् एव बहिरङ्गम् अन्तरङ्गस्य ।

४२ - १०२ - ह्रस्वयलोपाल्लोपाः च अयादेशे ल्यपि ।

४३ - १०२ - ह्रस्वयलोपाल्लोपाः च अयादेशे ल्यपि सिद्धाः वक्तव्याः ।

४४ - १०२ - प्रशमय्य गतः , प्रतमय्य गतः ।

४५ - १०२ - प्रबेभिदय्य गतः ।

४६ - १०२ - प्रचेच्छिदय्य गतः ।

४७ - १०२ - प्रस्तनय्य गतः ।

४८ - १०२ - प्रगदय्य गतः ।

४९ - १०२ - ह्रस्वयलोपाल्लोपानाम् असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः न प्राप्नोति ।

५० - १०२ - अत्र अपि एषः परिहारः समानाश्रयवचनात् सिद्धम् इति ।

५१ - १०२ - कथम् ।

५२ - १०२ - णौ एते विधयः णेः ल्यपि अयादेशः ।

५३ - १०२ - वुग्युटौ उवङ्यणोः ।

५४ - १०२ - वुग्युटौ उवङ्यणोः सिद्धौ वक्तव्यौ ।

५५ - १०२ - बभूवतुः , बभूवुः वुकः असिद्धत्वात् उवङादेशः प्राप्नोति ।

५६ - १०२ - उपदिदीये , उपदिदीयाते युटः असिद्धत्वात् यणादेशः प्राप्नोति ।

५७ - १०२ - वुकः तावत् न वक्तव्यः ।

५८ - १०२ - वुकम् न वक्ष्यामि ।

५९ - १०२ - एवम् वक्ष्यामि भुवः लुङ्लिटोः ऊत् उपधायाः इति ।

६० - १०२ - अत्र उवङादेशे कृते या उपधा तस्याः ऊत्त्वम् भविष्यति ।

६१ - १०२ - एवम् अपि कुतः नु खलु एतत् उवङादेशे कृते या उपधा तस्याः ऊत्त्वम् भविष्यति न पुनः साम्प्रतिकी या उपधा तस्याः स्यात् भकारस्य ।

६२ - १०२ - न एषः दोषः ।

६३ - १०२ - ओः इति वर्तते ।

६४ - १०२ - तेन उवर्णस्य भविष्यति ।

६५ - १०२ - भवेत् सिद्धम् बभूवतुः , बभूवुः ।

६६ - १०२ - इदम् तु न सिध्यति बभूव बभूविथ इति ।

६७ - १०२ - किम् कारणम् ।

६८ - १०२ - गुणवृद्ध्योः कृतयोः उवर्णाभावात् ।

६९ - १०२ - न अत्र गुणवृद्धी प्राप्नुतः ।

७० - १०२ - किम् कारणम् ।

७१ - १०२ - क्ङिति च इति प्रतिषेधात् ।

७२ - १०२ - कथम् कित्त्वम् ।

७३ - १०२ - इन्धिभवतिभ्याम् च इति ।

७४ - १०२ - तत् वै वयम् कित्त्वम् प्रत्याचक्ष्महे वुका ।

७५ - १०२ - इह तु कित्त्वेन वुक् प्रत्याख्यायते ।

७६ - १०२ - किम् पुनः अत्र न्याय्यम् ।

७७ - १०२ - वुग्वचनम् एव न्याय्यम् ।

७८ - १०२ - सति अपि हि कित्त्वे स्याताम् एव अत्र गुणवृद्धी ।

७९ - १०२ - किम् कारणम् ।

८० - १०२ - इग्लक्षणयोः गुणवृद्ध्योः सः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः ।

८१ - १०२ - एवम् तर्हि न अर्थः वुका न अपि कित्त्वेन ।

८२ - १०२ - स्ताम् अत्र गुणवृद्धी ।

८३ - १०२ - गुणवृद्ध्योः कृतयोः अवावोः च कृतयोः या उपधा तस्याः ऊत्त्वम् भविष्यति ।

८४ - १०२ - कथम् ।

८५ - १०२ - ओः इति अत्र अवर्णम् अपि प्रतिनिर्दिश्यते ।

८६ - १०२ - इह अपि तर्हि प्राप्नोति ।

८७ - १०२ - कीलालपः पश्य ।

८८ - १०२ - शुभंयः पश्य इति ।

८९ - १०२ - लोपः अत्र बाधकः भविष्यति ।

९० - १०२ - इह तर्हि प्राप्नोति ।

९१ - १०२ - कीलालपौ कीलालपाः इति ।

९२ - १०२ - एवम् तर्हि व्योः इति वर्तते ।

९३ - १०२ - तेन उवर्णम् विशेषयिष्यामः ।

९४ - १०२ - ओः व्योः इति ।

९५ - १०२ - इह इदानीम् ओः इति अनुवर्तते ।

९६ - १०२ - व्योः इति निवृत्तम् ।

९७ - १०२ - युटः च अपि न वक्तव्यम् ।

९८ - १०२ - युड्वचनसामर्थ्यात् न भविष्यति ।

९९ - १०२ - अस्ति अन्यत् युड्वचने प्रयोजनम् ।

१०० - १०२ - किम् ।

१०१ - १०२ - द्वयोः यकारयोः श्रवणम् यथा स्यात् ।

१०२ - १०२ - न व्यञ्जनपरस्य अनेकस्य एकस्य वा यकारस्य श्रवणम् प्रति विशेषः अस्ति ।

१ - ७६ - किम् पुनः प्राक् भात् असिद्धत्वम् आहोस्वित् सह तेन ।

२ - ७६ - कुतः पुनः अयम् सन्देहः ।

३ - ७६ - आङा अयम् निर्देशः क्रियते आङ् च पुनः सन्देहम् जनयति ।

४ - ७६ - तत् यथा आ पाटलिपुत्रात् वृष्टः देवः इति सन्देहः किम् प्राक् पाटलिपुत्रात् सह तेन इति ।

५ - ७६ - एवम् इह अपि सन्देहः प्राक् भात् सह तेन इति ।

६ - ७६ - कः च अत्र विशेषः ।

७ - ७६ - प्राक् भात् इति चेत् सुनामघोनाभूगुणेषु उपसङ्ख्यानम् ।

८ - ७६ - प्राक् भात् इति चेत् सुनामघोनाभूगुणेषु उपसङ्ख्यानम् कर्तव्यम् ।

९ - ७६ - शुनः पश्य ।

१० - ७६ - शुना शुने ।

११ - ७६ - सम्प्रसारणे कृते अल्लोपः अनः इति प्राप्नोति ।

१२ - ७६ - यस्य पुनः सह तेन असिद्धत्वम् असिद्धत्वात् तस्य न संयोगात् वमन्तात् इति प्रतिषेधः भविष्यति ।

१३ - ७६ - यस्य अपि प्राक् भात् असिद्धत्वम् तस्य अपि एषः न दोषः ।

१४ - ७६ - कथम् ।

१५ - ७६ - न अस्त्रि अत्र विशेषः अल्लोपेन वा निवृत्तौ सत्याम् पूर्वत्वेन वा ।

१६ - ७६ - अयम् अस्ति विशेषः ।

१७ - ७६ - अल्लोपेन निवृत्तौ सत्याम् उदात्तनिवृत्तिस्वरः प्रसज्येत ।

१८ - ७६ - न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति ।

१९ - ७६ - किम् कारणम् ।

२० - ७६ - न गोश्वन्साववर्ण इति प्रतिषेधात् ।

२१ - ७६ - न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः ।

२२ - ७६ - कस्य तर्हि ।

२३ - ७६ - तृतीयादिस्वरस्य ।

२४ - ७६ - यत्र तर्हि तृतीयादिस्वरः न अस्ति ।

२५ - ७६ - शुनः पश्य इति ।

२६ - ७६ - एवम् तर्हि न वयम् लक्षणस्य प्रतिषेधम् शिष्मः ।

२७ - ७६ - किम् तर्हि येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य अयम् प्रतिषेधः ।

२८ - ७६ - यत्र तर्हि विभक्तिस्वरः न अस्ति ।

२९ - ७६ - बहुशुनी इति ।

३० - ७६ - यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत ।

३१ - ७६ - न एवम् शक्यम् ।

३२ - ७६ - इह अपि प्रस्ज्येत कुमारी इति ।

३३ - ७६ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न उदात्तनिवृत्तिस्वरः शुनि अवतरति इति यत् अयम् श्वन्शब्दम् गौरादिषु पठति ।

३४ - ७६ - अन्तोदात्तार्थम् यत्नम् करोति ।

३५ - ७६ - सिद्धम् हि स्यात् ङीपा एव ।

३६ - ७६ - मघोनः पश्य ।

३७ - ७६ - मघोना मघोने ।

३८ - ७६ - सम्प्रसारणे कृते यस्य इति लोपः प्राप्नोति ।

३९ - ७६ - यस्य पुनः सह तेन असिद्धत्वम् असिद्धत्वात् तस्य न भविष्यति ।

४० - ७६ - यस्य अपि प्राक् भात् असिद्धत्वम् तस्य अपि एषः न दोषः ।

४१ - ७६ - कथम् ।

४२ - ७६ - वक्ष्यति एतत् मघवन्-शब्दः अव्युत्पन्नम् प्रातिपदिकम् इति ।

४३ - ७६ - भूगुणः ।

४४ - ७६ - भूयान् ।

४५ - ७६ - भूभावे कृते ओः गुणः प्राप्नोति ।

४६ - ७६ - यस्य पुनः सह तेन असिद्धत्वम् असिद्धत्वात् तस्य न भविष्यति ।

४७ - ७६ - यस्य अपि प्राक् भात् असिद्धत्वम् तस्य अपि एषः न दोषः ।

४८ - ७६ - कथम् ।

४९ - ७६ - दीर्घोच्चारणसामर्थ्यात् न भविष्यति ।

५० - ७६ - अस्ति दीर्घोच्चारणस्य प्रयोजनम् ।

५१ - ७६ - किम् ।

५२ - ७६ - भूमा इति ।

५३ - ७६ - निपातनात् एतत् सिद्धम् ।

५४ - ७६ - किम् निपातनम् ।

५५ - ७६ - बहोः नञ्वत् उत्तरपदभूम्नि इति ।

५६ - ७६ - अथ वा पुनः अस्तु सह तेन इति ।

५७ - ७६ - आ भात् इति चेत् सुसम्प्रसारणयलोपप्रस्थादीनाम् प्रतिषेधः ।

५८ - ७६ - पपुषः पश्य ।

५९ - ७६ - तस्थुषः , निन्युषः , चिच्युषः , लुलुवुषः , पुपुवुषः इति ।

६० - ७६ - वसोः सम्प्रसारणे कृते अचि इति आकारलोपादीनि न सिध्यन्ति ।

६१ - ७६ - न एषः दोषः ।

६२ - ७६ - उक्तम् एतत् समानाश्रयवचनात् सिद्धम् इति ।

६३ - ७६ - कथम् ।

६४ - ७६ - वसौ आकारलोपादीनि वसन्तस्य विभक्तौ सम्प्रसारणम् ।

६५ - ७६ - यलोपः ।

६६ - ७६ - सौरी बलाका ।

६७ - ७६ - यः असौ अणि अकारः लुप्यते तस्य असिद्धत्वात् ईति यलोपः न प्राप्नोति ।

६८ - ७६ - अत्र अपि एषः एव परिहारः ।

६९ - ७६ - समानाश्रयवचनात् सिद्धम् इति ।

७० - ७६ - कथम् ।

७१ - ७६ - अणि अकारलोपः अणन्तस्य ईति लोपः ।

७२ - ७६ - प्रस्थादिषु ।

७३ - ७६ - प्रेयान् , स्थेयान् ।

७४ - ७६ - प्रस्थादीनाम् असिद्धत्वात् प्रकृत्या एकाच् इति प्रकृतिभावः न प्राप्नोति ।

७५ - ७६ - न एषः दोषः ।

७६ - ७६ - यथा एव प्रस्थादीनाम् असिद्धत्वात् प्रकृतिभावः न प्राप्नोति एवम् टिलोपः अपि न भविष्यति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP