संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ५|पाद ३| खण्ड ५७ पाद ३ खण्ड ५६ खण्ड ५७ पाद ३ - खण्ड ५७ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ५७ Translation - भाषांतर १ - ३१ - द्विवचने इति उच्यते ।२ - ३१ - तत्र इदम् न सिध्यति ।३ - ३१ - दन्तोष्ठस्य दन्ताः स्निग्धतराः ।४ - ३१ - पाणिपादस्य पादौ सुकुमारतरौ ।५ - ३१ - अस्माकम् च देवदत्तस्य च देवदत्तः अभिरूपतरः इति ।६ - ३१ - यदि पुनः द्व्यर्थोपपदे इति उच्येत ।७ - ३१ - तत्र अयम् अपि अर्थः ।८ - ३१ - विभज्योपपदग्रहणम् न कर्तव्यम् ।९ - ३१ - इह अपि शङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति द्व्यर्थोपपदे इति एव सिद्धम् ।१० - ३१ - न एवञ्जातीयका द्व्यर्थता शक्या विज्ञातुम् ।११ - ३१ - इह अपि प्रस्ज्येत ।१२ - ३१ - शङ्काश्यकानाम् पाटलिपुत्रकाणाम् च पाटलिपुत्रकाः अभिरूपतमाः इति ।१३ - ३१ - अवश्यम् खलु अपि विभज्योपपदग्रहणम् कर्तव्यम् यः हि बहूनाम् विभागः तदर्थम् ।१४ - ३१ - शङ्काश्यकेभ्यः च पाटलिपुत्रकेभ्यः च माथुराः अभिरूपतराः इति ।१५ - ३१ - तत् तर्हि द्व्यर्थोपपदे इति वक्तव्यम् ।१६ - ३१ - न वक्तव्यम् ।१७ - ३१ - न इदम् पारिभाषिकस्य द्विवचनस्य ग्रहणम् ।१८ - ३१ - किम् तर्हि अन्वर्थग्रहणम् ।१९ - ३१ - उच्यते वचनम् ।२० - ३१ - द्वयोः अर्थयोः वचनम् द्विवचनम् इति ।२१ - ३१ - एवम् अपि तरबीयसुनोः एकद्रव्यस्य उत्कर्षापकर्षयोः उपसङ्ख्यानम् ।२२ - ३१ - तरबीयसुनोः एकद्रव्यस्य उत्कर्षापकर्षयोः उपसङ्ख्यानम् वक्तव्यम् ।२३ - ३१ - परुत् भवान् पटुः आसीत् ।२४ - ३१ - पटुतरः च ऐषमः इति ।२५ - ३१ - सिद्धम् तु गुणप्रधानत्वात् ।२६ - ३१ - सिद्धम् एतत् ।२७ - ३१ - कथम् ।२८ - ३१ - गुणप्रधानत्वात् ।२९ - ३१ - गुणप्रधानः अयम् निर्देशः क्रियते ।३० - ३१ - गुणान्तरयोगात् च अन्यत्वम् भवति ।३१ - ३१ - तत् यथा तम् एव गुणान्तरयुक्तम् वक्तारः भवन्ति अन्यः भवान् संवृत्तः इति ।१ - १० - एवकारः किमर्थः ।२ - १० - नियमार्थः ।३ - १० - न एतत् अस्ति प्रयोजनम् ।४ - १० - सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थः भविष्यति ।५ - १० - इष्टतः अवधारणार्थः तर्हि ।६ - १० - यथा एवम् विज्ञायेत ।७ - १० - अजादी गुणवचनात् एव इति ।८ - १० - मा एवम् विज्ञायि ।९ - १० - अजादी एव गुणवचनात् इति ।१० - १० - किम् च स्यात् न व्यञ्जनादी गुणवचनात् स्याताम् ।१ - २९ - इदम् अयुक्तम् वर्तते ।२ - २९ - किम् अत्र अयुक्तम् ।३ - २९ - अजादी गुणवचनात् एव इति उक्त्वा अगुणवचनानाम् अपि अजाद्योः आदेशाः उच्यन्ते ।४ - २९ - न एषः दोषः ।५ - २९ - एतत् एव ज्ञापयति भवतः एतेभ्यः अगुणवचनेभ्यः अपि अजादी इति यत् अयम् अजाद्योः परतः आदेशान् शास्ति ।६ - २९ - एवम् अपि तयोः इति वक्तव्यम् स्यात् ।७ - २९ - तयोः परतः इति ।८ - २९ - यदि पुनः अयम् विधिः विज्ञायेत ।९ - २९ - न एवम् शक्यम् ।१० - २९ - व्यञ्जनादी हि न स्याताम् उपाधीनाम् च सङ्करः स्यात् पुनर्विधानात् अजाद्योः ।११ - २९ - ननु च एते विशेषाः अनुवर्तेरन् ।१२ - २९ - यदि अपि एते अनुवर्तेरन् व्यञ्जनादी तर्हि न स्याताम् ।१३ - २९ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवतः एतेभ्यः अगुणवचनेभ्यः अपि अजादी इति यत् अयम् अजाद्योः परतः आदेशान् शास्ति ।१४ - २९ - ननु च उक्तम् तयोः इति वक्तव्यम् इति ।१५ - २९ - न वक्तव्यम् ।१६ - २९ - प्रकृतम् अजादीग्रहणम् अनुवर्तते ।१७ - २९ - क्व प्रकृतम् ।१८ - २९ - अजादी गुणवचनात् एव इति ।१९ - २९ - तत् वै प्रथमानिर्दिष्टम् सप्तमीनिर्दिष्टेन च इह अर्थः ।२० - २९ - अर्थात् विभक्तिविपरिणामः भविष्यति ।२१ - २९ - तत् यथा ।२२ - २९ - उच्चानि देवदत्तस्य गृहाणि ।२३ - २९ - आमन्त्रयस्व एनम् ।२४ - २९ - देवदत्तम् इति गम्यते ।२५ - २९ - देवदत्तस्य गाव अश्वा हिरण्यम् इति ।२६ - २९ - आढ्यः वैधवेयः ।२७ - २९ - देवदत्तः इति गम्यते ।२८ - २९ - पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति ।२९ - २९ - एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् सप्तमीनिर्दिष्टम् भविष्यति ।१ - ४७ - स्त्रीलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च ।२ - ४७ - तेन स्त्रीलिङ्गात् एव उत्पत्तिः स्यात् एकवचनान्तात् च ।३ - ४७ - पुन्नपुंसकलिङ्गात् द्विवचनबहुवचनान्तात् च न स्यात् ।४ - ४७ - न एषः दोषः ।५ - ४७ - न अयम् प्रत्ययार्थः ।६ - ४७ - किम् तर्हि ।७ - ४७ - प्रकृत्यर्थविशेषणम् एतत् ।८ - ४७ - प्रशंसायाम् यत् प्रातिपदिकम् वर्तते तस्मात् रूपप् भवति ।९ - ४७ - कस्मिन् अर्थे ।१० - ४७ - स्वार्थे इति ।११ - ४७ - स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।१२ - ४७ - प्रकृतेः लिङ्गवचनाभावात् तिङ्प्रकृतेः अम्भाववचनम् ।१३ - ४७ - प्रकृतेः लिङ्गवचनाभावात् तिङ्प्रकृतेः रूपपः अम्भावः वक्तव्यः ।१४ - ४७ - पचतिरूपम् ।१५ - ४७ - पचतोरूपम् ।१६ - ४७ - पचन्तिरूपम् इति ।१७ - ४७ - सिद्धम् तु क्रियाप्रधानत्वात् ।१८ - ४७ - सिद्धम् एतत् ।१९ - ४७ - कथम् ।२० - ४७ - क्रियाप्रधानत्वात् ।२१ - ४७ - क्रियाप्रधानम् आख्यातम् एका च क्रिया ।२२ - ४७ - द्रव्यप्रधानम् नाम ।२३ - ४७ - कथम् पुनः ज्ञयते क्रियाप्रधानम् आख्यातम् भवति द्रव्यप्रधानम् नाम इति ।२४ - ४७ - यत् क्रियाम् पृष्टः तिङा आचष्टे ।२५ - ४७ - किम् देवदत्तः करोति ।२६ - ४७ - पचति इति ।२७ - ४७ - द्रव्यम् पृष्टः कृता आचष्टे ।२८ - ४७ - कतरः देवदत्तः ।२९ - ४७ - यः कारकः हारकः इति ।३० - ४७ - यदि तर्हि एका क्रिया द्विवचनबहुवचनानि न सिद्यन्ति ।३१ - ४७ - पचतः ।३२ - ४७ - पचन्ति इति ।३३ - ४७ - न एतानि क्रियापेक्षाणि ।३४ - ४७ - किम् तर्हि साधनापेक्षाणि ।३५ - ४७ - इह अपि तर्हि प्राप्नुवन्ति ।३६ - ४७ - पचतिरूपम् ।३७ - ४७ - पचतोरूपम् ।३८ - ४७ - पचन्तिरूपम् इति ।३९ - ४७ - तिङा उक्तत्वात् तस्य अभिसम्बन्धस्य न भविष्यति ।४० - ४७ - एकवचनम् अपि तर्हि न प्राप्नोति ।४१ - ४७ - समयात् भविष्यति ।४२ - ४७ - द्विवचनबहुवचनानि अपि तर्हि समयात् प्राप्नुवन्ति ।४३ - ४७ - एवम् तर्हि एकवचनम् उत्सर्गः करिष्यते ।४४ - ४७ - तस्य द्विबह्वोः द्विवचनबहुवचने अपवावौ भविष्यतः ।४५ - ४७ - एवम् अपि नपुंसकत्वम् वक्तव्यम् ।४६ - ४७ - न वक्तव्यम् ।४७ - ४७ - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।१ - १५ - वृषलादिभ्यः उपसङ्ख्यानम् ।२ - १५ - वृषलादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।३ - १५ - वृषलरूपः ।४ - १५ - दस्युरूपः ।५ - १५ - चोररूपः इति ।६ - १५ - सिद्धम् तु प्रकृत्यर्थवैशिष्ट्यवचनात् ।७ - १५ - सिद्धम् एतत् ।८ - १५ - कथम् ।९ - १५ - प्रकृत्यर्थस्य वैशिष्ट्ये इति वक्तव्यम् ।१० - १५ - वृषलरूपः अयम् ।११ - १५ - अपि अयम् पलाण्डुना सुराम् पिबेत् ।१२ - १५ - चोररूपः अयम् ।१३ - १५ - अपि अयम् अक्ष्णोः अञ्जनम् हरेत् ।१४ - १५ - दस्युरूपः अयम् ।१५ - १५ - अपि अयम् धावतः लोहितम् पिबेत् ।१ - ७४ - ईषदसमाप्तौक्रियाप्रधानत्वात् लिङ्गवचनानुपपत्तिः ।२ - ७४ - ईषदसमाप्तौ क्रियाप्रधानत्वात् लिङ्गवचनयोः अनुपपत्तिः ।३ - ७४ - पटुकल्पः ।४ - ७४ - पटुकल्पौ ।५ - ७४ - पटुकल्पाः इति ।६ - ७४ - एकः अयम् अर्थः ईषदसमाप्तिः नाम ।७ - ७४ - तस्य एकत्वात् एकवचनम् प्राप्नोति ।८ - ७४ - प्रकृत्यर्थविशेषणत्वाद् सिद्धम् ।९ - ७४ - सिद्धम् एतत् ।१० - ७४ - कथम् ।११ - ७४ - न अयम् प्रत्ययार्थः ।१२ - ७४ - किम् तर्हि प्रकृत्यर्थविशेषणम् एतत् ।१३ - ७४ - ईषदसमाप्तौ यत् प्रातिपदिकम् वर्तते तस्मात् कल्पबादयः भवन्ति ।१४ - ७४ - कस्मिन् अर्थे ।१५ - ७४ - स्वार्थे इति ।१६ - ७४ - स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।१७ - ७४ - प्रकृत्यर्थे चेत् लिङ्गवचनानुपपत्तिः ।१८ - ७४ - प्रकृत्यर्थे चेत् लिङ्गवचनयोः अनुपपत्तिः ।१९ - ७४ - गुडकल्पा द्राक्षा ।२० - ७४ - तैलकल्पा प्रसन्ना ।२१ - ७४ - पयस्कल्पा यवागूः इति ।२२ - ७४ - सिद्धम् तु तत्सम्बन्धे उत्तरपदार्थे प्रत्ययवचनात् ।२३ - ७४ - सिद्धम् एतत् ।२४ - ७४ - कथम् ।२५ - ७४ - तत्सम्बन्धे ईषदसमाप्तिसम्बन्धे उत्तरपदार्थे प्रत्ययः भवति इति वक्तव्यम् ।२६ - ७४ - सिध्यति ।२७ - ७४ - सूत्रम् तर्हि भिद्यते ।२८ - ७४ - यथान्यासम् एव अस्तु ।२९ - ७४ - ननु च उक्तम् ईषदसमाप्तौक्रियाप्रधानत्वात् लिङ्गवचनानुपपत्तिः इति ।३० - ७४ - परिहृतम् एतत् प्रकृत्यर्थविशेषणत्वाद् सिद्धम् इति ।३१ - ७४ - ननु च उक्तम् प्रकृत्यर्थे चेत् लिङ्गवचनानुपपत्तिः इति ।३२ - ७४ - न एषः दोषः ।३३ - ७४ - आचार्यप्रवृत्तिः ज्ञापयति स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति यत् अयम् णचः स्त्रियाम् अञ् इति स्त्रीग्रहणम् करोति ।३४ - ७४ - यदि एतत् ज्ञाप्यते बहुगुडः द्राक्षा ।३५ - ७४ - बहुतैलम् प्रसन्ना ।३६ - ७४ - बहुपयः यवागूः इति अत्र अपि प्राप्नोति ।३७ - ७४ - न अपि अतिवर्तन्ते ।३८ - ७४ - किम् पुनः इह उदाहरणम् ।३९ - ७४ - पटुकल्पः ।४० - ७४ - मृदुकल्पः इति ।४१ - ७४ - न एतत् अस्ति ।४२ - ७४ - निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः ।४३ - ७४ - इदम् तर्हि ।४४ - ७४ - गुडकल्पा द्राक्षा ।४५ - ७४ - तैलकल्पा प्रसन्ना ।४६ - ७४ - पयस्कल्पा यवागूः इति ।४७ - ७४ - द्रव्यम् अपि अनिर्ज्ञातम् ।४८ - ७४ - इदम् तर्हि ।४९ - ७४ - कृतकल्पम् ।५० - ७४ - भुक्तकल्पम् ।५१ - ७४ - पीतकल्पम् इति ।५२ - ७४ - क्तान्तात् प्रत्ययविधानानुपपत्तिः क्तस्य भूतकाललक्षणत्वात् कल्पादीनाम् च असमाप्तिवचनात् ।५३ - ७४ - क्तान्तात् प्रत्ययविधानेः अनुपपत्तिः ।५४ - ७४ - किम् कारणम् ।५५ - ७४ - क्तस्य भूतकाललक्षणत्वात् ।५६ - ७४ - भूतकाललक्षणः क्तः ।५७ - ७४ - कल्पादीनाम् च असमाप्तिवचनात् ।५८ - ७४ - विसमाप्तिवचनाः च कल्पादयः ।५९ - ७४ - न च अस्ति सम्भवः यत् भूतकालः च स्यात् असमाप्तिः च इति ।६० - ७४ - सिद्धम् तु आशंसायाम् भूतवद्वचनात् ।६१ - ७४ - सिद्धम् एतत् ।६२ - ७४ - कथम् ।६३ - ७४ - आशंसायाम् भूतवत् च इति एवम् अत्र क्तः भविष्यति ।६४ - ७४ - इदम् च अपि उदाहरणम् पटुकल्पः ।६५ - ७४ - मृदुकल्पः इति ।६६ - ७४ - ननु च उक्तम् निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः इति ।६७ - ७४ - लोकतः व्यवहारम् दृष्ट्वा गुणस्य निर्ज्ञानम् ।६८ - ७४ - तत् यथा पटुः अयम् ब्राह्मणः इति उच्यते यः लघुना उपायेन अथान् साधयति ।६९ - ७४ - पटुकल्पः अयम् इति उच्यति यः न तथा साधयति ।७० - ७४ - इदम् च अपि उदाहरणम् गुडकल्पा द्राक्षा ।७१ - ७४ - तैलकल्पा प्रसन्ना ।७२ - ७४ - पयस्कल्पा यवागूः इति ।७३ - ७४ - ननु च उक्तम् द्रव्यम् अपि अनिर्ज्ञातम् इति ।७४ - ७४ - लोकतः द्रव्यम् अपि निर्ज्ञातम् ।१ - ८० - विभाषाग्रहणम् किमर्थम् ।२ - ८० - विभाषा बहुच् यथा स्यात् ।३ - ८० - बहुचा मुक्ते वाक्यम् अपि यथा स्यात् ।४ - ८० - न एतत् अस्ति प्रयोजनम् ।५ - ८० - प्रकृता महाविभाषा ।६ - ८० - तया वाक्यम् भविष्यति ।७ - ८० - इदम् तर्हि प्रयोजनम् ।८ - ८० - कल्पादयः अपि यथा स्युः इति ।९ - ८० - एतत् अपि न अस्ति प्रयोजनम् ।१० - ८० - बहुच् उच्यते कल्पादयः अपि ।११ - ८० - तत् उभयम् वचनात् भविष्यति ।१२ - ८० - न एवम् शक्यम् ।१३ - ८० - अक्रियमाणे हि विभाषाग्रहणे अनवकाशः बहुच् कल्पादीन् बाधेत ।१४ - ८० - कल्पादयः अपि अनवकाशाः ।१५ - ८० - ते वचनात् भविष्यन्ति ।१६ - ८० - सावकाशाः कल्पादयः ।१७ - ८० - कः अवकाशः ।१८ - ८० - तिङन्तानि अवकाशः ।१९ - ८० - अथ सुब्ग्रहणम् किमर्थम् ।२० - ८० - सुबन्तात् उत्पत्तिः यथा स्यात् ।२१ - ८० - प्रातिपदिकात् मा भूत् इति ।२२ - ८० - न एतत् अस्ति प्रयोजनम् ।२३ - ८० - न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा ।२४ - ८० - यदि एवम् इह अपि न अर्थः सुब्ग्रहणेन ।२५ - ८० - सुपः आत्मनः क्यच् इति ।२६ - ८० - इह अपि न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा ।२७ - ८० - अयम् अस्ति विशेषः ।२८ - ८० - सुबन्तात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा भवति ।२९ - ८० - प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा न प्राप्नोति ।३० - ८० - ननु च प्रातिपदिकात् अपि उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा ।३१ - ८० - कथम् ।३२ - ८० - आरभ्यते नः क्ये इति ।३३ - ८० - तत् च अवश्यम् कर्तव्यम् सुबन्तात् उत्पत्तौ नियमार्थम् ।३४ - ८० - तत् एव प्रातिपदिकात् उत्पत्तौ सत्याम् विध्यर्थम् भविष्यति ।३५ - ८० - इदम् तर्हि प्रयोजनम् ।३६ - ८० - सुबन्तात् उत्पत्तिः यथा स्यात् ।३७ - ८० - तिङन्तात् मा भूत् इति ।३८ - ८० - एतत् अपि न अस्ति प्रयोजनम् ।३९ - ८० - ङ्याप्प्रातिपदिकात् इति वर्तते ।४० - ८० - अतः उत्तरम् पठति ।४१ - ८० - बहुचि सुब्ग्रहणात् पूर्वत्र तिङः विधानम् ।४२ - ८० - बहुचि सुब्ग्रहणम् क्रियते पूर्वत्र तिङः विधिः यथा विज्ञायेत ।४३ - ८० - न एतत् अस्ति प्रयोजनम् ।४४ - ८० - प्रकृतम् तिङ्ग्रहणम् अनुवर्तते ।४५ - ८० - क्व प्रकृतम् ।४६ - ८० - अतिशायने तमबिष्ठनौ ।४७ - ८० - तिङः च इति ।४८ - ८० - एवम् तर्हि बहुचि सुब्ग्रहणम् पूर्वत्र तिङः विधानात् ।४९ - ८० - बहुचि सुब्ग्रहणम् क्रियते ।५० - ८० - किम् कारणम् ।५१ - ८० - पूर्वत्र तिङः विधानात् ।५२ - ८० - पूर्वत्र तिङः च इति अनुवर्तते ।५३ - ८० - तत् इह अपि प्राप्नोति ।५४ - ८० - ननु च तिङ्ग्रहणम् निवर्तेत ।५५ - ८० - अवश्यम् उत्तरार्थम् अनुवर्त्यम् अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति पचतकि जल्पतकि इति एवमर्थम् ।५६ - ८० - यदि सुब्ग्रहणम् क्रियते स्वरः न सिध्यति ।५७ - ८० - बहुपटवः एवम् स्वरः प्रसज्येत बहुपटवः इति च इष्यते ।५८ - ८० - पठिष्यति हि आचार्यः चितः सप्रकृतेः बह्वकजर्थम् इति ।५९ - ८० - स्वरः कथम् ।६० - ८० - स्वरः प्रातिपदिकत्वात् ।६१ - ८० - सुब्लुकि कृते प्रातिपदिकत्वात् स्वरः भविष्यति ।६२ - ८० - अथ तुग्रहणम् किमर्थम् ।६३ - ८० - तुग्रहणम् नित्यपूर्वार्थम् ।६४ - ८० - तुग्रहणम् क्रियते नित्यम् पूर्वः यथा स्यात् ।६५ - ८० - विभाषा मा भूत् इति ।६६ - ८० - न एतत् अस्ति प्रयोजनम् ।६७ - ८० - न विभाषाग्रहणेन पूर्वम् अभिसम्बध्यते ।६८ - ८० - किम् तर्हि ।६९ - ८० - बहुच् अभिसम्बध्यते विभाषा बहुच् भवति इति ।७० - ८० - यदा च भवति तदा पूर्वः भवति ।७१ - ८० - इदम् तर्हि प्रयोजनम् ।७२ - ८० - प्राक् उत्पत्तेः यत् लिङ्गम् वचनम् च तत् उत्पन्ने अपि प्रत्यये यथा स्यात् ।७३ - ८० - बहुगुडः द्राक्षा ।७४ - ८० - बहुतैलम् प्रसन्ना ।७५ - ८० - बहुपयः यवागूः इति ।७६ - ८० - एतत् अपि न अस्ति प्रयोजनम् ।७७ - ८० - स्वाऋथिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।७८ - ८० - एवम् तर्हि सिद्धे सति यत् तुग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।७९ - ८० - किम् एतस्य ज्ञापने प्रयोजनम् ।८० - ८० - गुडकल्पा द्राक्षा , तैलकल्पा प्रसन्ना , पयस्कल्पा यवागूः इति एतत् सिद्धम् भवति ।१ - १८ - तमादिभ्यः कल्पादयः विप्रतिषेधेन ।२ - १८ - तमादिभ्यः कल्पादयः भवन्ति विप्रतिषेधेन ।३ - १८ - तमादीनाम् अवकाशः प्रकर्षस्य वचनम् ईषदसमाप्तेः अवचनम् ।४ - १८ - पटुतरः ।५ - १८ - पटुतमः ।६ - १८ - कल्पादीनाम् ईषदसमाप्तेः वचनम् प्रकर्षस्य अवचनम् ।७ - १८ - पटुकल्पः ।८ - १८ - मृदुकल्पः ।९ - १८ - उभयवचने उभयम् प्राप्नोति ।१० - १८ - पटुकल्पतरः ।११ - १८ - मृदुकल्पतरः ।१२ - १८ - कल्पादयः भवन्ति विप्रतिषेधेन ।१३ - १८ - यदि एवम् ईषदसमाप्तेः प्रकर्षे तमादिः प्रत्ययः प्राप्नोति प्रकृतेः एव च इष्यते ।१४ - १८ - तमादिः ईषत्प्रधानात् ।१५ - १८ - तमादिः ईषत्प्रधानात् अपि भवति ।१६ - १८ - अस्य प्रकर्षः अस्ति ।१७ - १८ - तस्य प्रकर्षे भविष्यति ।१८ - १८ - कस्य च प्रकर्षः अस्ति. प्रकृतेः एव ।१ - १० - किम् अयम् सुबन्तस्य प्राक् टेः भवति आहोस्वित् ङ्याप्प्रातिपदिकस्य ।२ - १० - कुतः सन्देहः ।३ - १० - उभयम् प्रकृतम् ।४ - १० - अन्यतरत् शक्यम् विशेषयितुम् ।५ - १० - किम् च अतः ।६ - १० - यदि सुबन्तस्य युष्मकाभिः अस्मकाभिः युष्मकासु अस्मकासु युवकयोः आवकयोः इति न सिध्यति ।७ - १० - अथ प्रातिपदिकस्य त्वयका मयका त्वयकि मयकि इति अत्र अपि प्राप्नोति ।८ - १० - अस्तु सुबन्तस्य ।९ - १० - कथम् युष्मकाभिः अस्मकाभिः युष्मकासु अस्मकासु युवकयोः आवकयोः इति ।१० - १० - अनोकारसकारभकारादौ इति वक्तव्यम् ।१ - ७ - अकच्प्रकरणे तूष्णीमः काम् ।२ - ७ - अकच्प्रकरणे तूष्णीमः काम् वक्तव्यः ।३ - ७ - आसितव्यम् किल तूष्णीकाम् एतत् पश्यतः चिन्तितम् ।४ - ७ - शीले कः मलोपः च ।५ - ७ - शीले कः मलोपः च वक्तव्यः ।६ - ७ - तूष्णीशीलः ।७ - ७ - तूष्णीकः ।१ - ८ - इह भिनत्ति छिनत्ति इति शनमि कृते शप् प्राप्नोति ।२ - ८ - बहुकृतम् बहुभुक्तम् बहुपीतम् इति बहुचि कृते कल्पादयः प्राप्नुवन्ति ।३ - ८ - उच्चकैः नीचकैः अकचि कृते कादयः प्राप्नुवन्ति ।४ - ८ - ननु च श्नम्बहुजकचः अपवादाः ते बाधकाः भविष्यन्ति ।५ - ८ - श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गप्रतिषेधः ।६ - ८ - श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गप्रतिषेधः वक्तव्यः ।७ - ८ - समानदेशैः अपवादैः उत्सर्गाणाम् बाधनम् भवति ।८ - ८ - नानादेशत्वात् न प्राप्नोति ।१ - ३१ - कविधेः तमादयः पूर्वविप्रतिषिद्धम् ।२ - ३१ - कविधेः तमादयः भवन्ति पूर्वविप्रतिषेधेन ।३ - ३१ - कविधेः अवकाशः कुत्सादीनाम् वचनम् प्रकर्षस्य अवचनम् ।४ - ३१ - पटुकः ।५ - ३१ - मृदुकः ।६ - ३१ - तमादीनाम् अवकाशः प्रकर्षस्य वचनम् कुत्सादीनाम् अवचनम् ।७ - ३१ - पटुतरः ।८ - ३१ - पटुतमः ।९ - ३१ - उभयवचने उभयम् प्राप्नोति ।१० - ३१ - पटुतरकः ।११ - ३१ - पटुतमकः ।१२ - ३१ - तमादयः भवन्ति पूर्वविप्रतिषेधेन ।१३ - ३१ - कदा चित् छिन्नकतरादयः ।१४ - ३१ - कदा चित् छिन्नकतरादयः भवन्ति विप्रतिषेधेन ।१५ - ३१ - छिन्नकतरम् ।१६ - ३१ - छिन्नकतमम् । एकदेशिप्रधानः च समासः ।१७ - ३१ - एकदेशिप्रधानः च समासः कविधेः भवति पूर्वविप्रतिषेधेन ।१८ - ३१ - अर्धपिप्पलिका ।१९ - ३१ - अर्धकोशातकिका ।२० - ३१ - उत्तरपदार्थप्रधानः च सञ्ज्ञायाम् कन्विध्यर्थम् ।२१ - ३१ - उत्तरपदार्थप्रधानः च समासः कविधेः भवति पूर्वविप्रतिषेधेन ।२२ - ३१ - किम् प्रयोजनम् ।२३ - ३१ - सञ्ज्ञायाम् कन्विध्यर्थम् ।२४ - ३१ - सञ्ज्ञायाम् कन् यथा स्यात् ।२५ - ३१ - नवग्रामकम् ।२६ - ३१ - नवराष्ट्रकम् ।२७ - ३१ - नवनगरकम् ।२८ - ३१ - कदा चित् द्वन्द्वः ।२९ - ३१ - कदा चित् द्वन्द्वः कविधेः भवति पूर्वविप्रतिषेधेन ।३० - ३१ - प्लक्षकन्यग्रोदकौ ।३१ - ३१ - प्लक्षन्यग्रोधकौ इति ।१ - ४१ - इह कुत्सितकः अनुकम्पितकः इति स्वशब्देन उक्तत्वात् तस्य अर्थस्य प्रत्ययः न प्राप्नोति ।२ - ४१ - न एषः दोषः ।३ - ४१ - कुत्सितस्य अनुकम्पायाम् भविष्यति अनुकम्पितस्य कुत्सायाम् ।४ - ४१ - अथ वा स्वार्थम् अभिधायः शब्दः निरपेक्षः द्रव्यम् आह समवेतम् ।५ - ४१ - समवेतस्य च वचने लिङ्गम् वचनम् विभक्तिम् च ।६ - ४१ - अभिधाय तान् विशेषान् अपेक्षमाणः च कृत्स्नमात्मानम् प्रियकुत्सनादिषु पुनः प्रवर्तते असौ विभक्त्यन्तः ।७ - ४१ - कथम् पुनः इदम् विज्ञायते कुत्सितादीनाम् अर्थे इति आहोस्वित् कुत्सितादिसमानाधिकरणात् इति ।८ - ४१ - कः च अत्र विशेषः ।९ - ४१ - कुत्सिदादीनाम् अर्थे चेत् लिङ्गवचनानुपपत्तिः ।१० - ४१ - कुत्सिदादीनाम् अर्थे चेत् लिङ्गवचनयोः अनुपपत्तिः ।११ - ४१ - पटुकम् ।१२ - ४१ - पटुका ।१३ - ४१ - पटुकः ।१४ - ४१ - पटुकौ ।१५ - ४१ - पटुकाः इति ।१६ - ४१ - एकः अयम् अर्थः कुत्सितम् नाम ।१७ - ४१ - तस्य एकत्वात् एकवचनम् एव प्राप्नोति ।१८ - ४१ - अस्ति तर्हि कुत्सितादिसमानाधिकरणात् इति ।१९ - ४१ - कुत्सिदादिसमानाधिकरणात् इति चेत् अतिप्रसङ्गः यथा टाबादिषु ।२० - ४१ - कुत्सिदादिसमानाधिकरणात् इति चेत् अतिप्रसङ्गः भवति यथा टाबादिषु ।२१ - ४१ - कथम् च टाबादिषु ।२२ - ४१ - उक्तम् तत्र स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः इति ।२३ - ४१ - एवम् इह अपि कुत्सिदादिसमानाधिकरणात् इति चेत् अतिप्रसङ्गः भवति ।२४ - ४१ - इदम् घृतकम् ।२५ - ४१ - इदम् तैलकम् ।२६ - ४१ - इदम्शब्दात् अपि प्राप्नोति ।२७ - ४१ - सिद्धम् तु येन कुत्सितादिवचनम् तद्युक्तात् स्वार्थे प्रत्ययविधानात् ।२८ - ४१ - सिद्धम् एतत् ।२९ - ४१ - कथम् ।३० - ४१ - येन कुत्सितादयः अर्थाः गम्यन्ते तद्युक्तात् स्वार्थे प्रत्ययः भवति इति वक्तव्यम् ।३१ - ४१ - सिध्यति ।३२ - ४१ - सूत्रम् तर्हि भिद्यते ।३३ - ४१ - यथान्यासम् एव अस्तु ।३४ - ४१ - ननु च उक्तम् कुत्सिदादीनाम् अर्थे चेत् लिङ्गवचनानुपपत्तिः इति ।३५ - ४१ - न एषः दोषः ।३६ - ४१ - न अयम् प्रत्ययार्थः ।३७ - ४१ - किम् तर्हि प्रकृत्यर्थविशेषणम् एतत् ।३८ - ४१ - कुत्सितादिषु यत् प्रातिपदिकम् वर्तते तस्मात् कादयः भवन्ति ।३९ - ४१ - कस्मिन् अर्थे ।४० - ४१ - स्वार्थे ।४१ - ४१ - स्वाऋथिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।१ - २९ - चतुर्थ्यात् ।२ - २९ - चतुर्थ्यात् लोपः वक्तव्यः ।३ - २९ - बृहस्पतिदत्तकः ।४ - २९ - बृहस्पतिकः ।५ - २९ - प्रजापतिदत्तकः ।६ - २९ - प्रजापतिकः ।७ - २९ - अनजादौ च ।८ - २९ - अनजादौ च लोपः वक्तव्यः ।९ - २९ - देवदत्तकः ।१० - २९ - देवकः ।११ - २९ - यज्ञदत्तकः ।१२ - २९ - यज्ञकः ।१३ - २९ - लोपः पूर्वपदस्य च ।१४ - २९ - पूर्वपदस्य च लोपः वक्तव्यः ।१५ - २९ - देवदत्तकः ।१६ - २९ - दत्तकः ।१७ - २९ - यज्ञदत्तकः ।१८ - २९ - दत्तकः ।१९ - २९ - अप्रत्यये तथा एव इष्टः ।२० - २९ - देवदत्तः ।२१ - २९ - दत्तः ।२२ - २९ - यज्ञदत्तः ।२३ - २९ - दत्तः ।२४ - २९ - उवर्णात् लः इलस्य च ।२५ - २९ - उवर्णात् इलस्य च लोपः वक्तव्यः ।२६ - २९ - भानुदत्तकः ।२७ - २९ - भानुलः ।२८ - २९ - वसुदत्तकः ।२९ - २९ - वसुलः ।१ - १६ - अथ ठग्ग्रहणम् किमर्थम् न इके कृते अजादौ इति एव सिद्धम् ।२ - १६ - ठग्ग्रहणम् उकः द्वितीयत्वे कविधानार्थम् ।३ - १६ - ठग्ग्रहणम् क्रियते उकः द्वितीयत्वे कविधिः यथा स्यात् ।४ - १६ - वायुदत्तकः ।५ - १६ - वायुकः ।६ - १६ - पितृदत्तकः ।७ - १६ - पितृकः ।८ - १६ - अजादिलक्षणे हि माथिकादिवत् प्रसङ्गः ।९ - १६ - अजादिलक्षणे हि माथिकादिवत् प्रसज्येत ।१० - १६ - तत् यथ मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः न भवति एवम् इह अपि न स्यात् ।११ - १६ - द्वितीयात् अचः लोपे सन्ध्यक्षरद्वितीयत्वे तदादेः लोपवचनम् ।१२ - १६ - द्वितीयात् अचः लोपे कर्तव्ये सन्ध्यक्षरद्वितीयत्वे तदादेः लोपः वक्तव्यः ।१३ - १६ - लहोडः ।१४ - १६ - लहिकः ।१५ - १६ - कहोडः ।१६ - १६ - कहिकः ।१ - २२ - वरुणादीनाम् च तृतीयात् सः च अकृतसन्धीनाम् ।२ - २२ - वरुणादीनाम् च तृतीयात् लोपः उच्यते ।३ - २२ - सः च अकृतसन्धीनाम् वक्तव्यः ।४ - २२ - सुपर्याशीर्दत्तः ।५ - २२ - सुपरिकः , सुपरियः , सुपरिलः ।६ - २२ - इह षडङ्गुलिः षडिकः इति अजादिलोपे कृते पदसञ्ज्ञा न प्राप्नोति ।७ - २२ - तत्र कः दोषः ।८ - २२ - जश्त्वम् न स्यात् ।९ - २२ - षडिके जश्त्वे उक्तम् ।१० - २२ - किम् उक्तम् ।११ - २२ - सिद्धम् अचः स्थानिवत्वात् इति ।१२ - २२ - यदि एवम् वाचिकादिषु पदवृत्तप्रतिषेधः ।१३ - २२ - वाचिकादिषु पदवृत्तस्य प्रतिषेधः वक्तव्यः ।१४ - २२ - सिद्धम् एकाक्षरपूर्वपदानाम् उत्तरपदलोपवचनात् ।१५ - २२ - सिद्धम् एतत् ।१६ - २२ - कथम् ।१७ - २२ - एकाक्षरपूर्वपदानाम् उत्तरपदस्य लोपः वक्तव्यः ।१८ - २२ - इह अपि तर्हि प्राप्नोति ।१९ - २२ - षडङ्गुलिः ।२० - २२ - षडिकः इति ।२१ - २२ - षषः ठाजादिवचनात् सिद्धम् ।२२ - २२ - षषः ठाजादिवचनात् सिद्धम् एतत् ।१ - १० - किमर्थम् इमौ उभौ अर्थौ निर्दिश्येते न यत् अल्पम् ह्रस्वम् अपि तत् भवति यत् च ह्रस्वम् अल्पम् अपि तत् भवति ।२ - १० - न एतयोः आवश्यकः समावेशः ।३ - १० - अल्पम् घृतम् ।४ - १० - अल्पम् तैलम् इति उच्यते ।५ - १० - न कः चित् आह ह्रस्वम् घृतम् ।६ - १० - ह्रस्वम् तैलम् इति ।७ - १० - तथा ह्रस्वः पटः ।८ - १० - ह्रस्वः शाटकः इति उच्यते ।९ - १० - न कः चित् आह अल्पः पटः ।१० - १० - अल्पः शाटकः इति ।१ - १३ - कुटीशमीशुण्डाभ्यः प्रत्ययसन्नियोगेन पुंवद्भावः ।२ - १३ - कुटीशमीशुण्डाभ्यः प्रत्ययसन्नियोगेन पुंवद्भावः वक्तव्यः ।३ - १३ - कुटी ।४ - १३ - कुटीरः ।५ - १३ - शमी ।६ - १३ - शमीरः ।७ - १३ - शुण्डा ।८ - १३ - शुण्डारः इति ।९ - १३ - किम् पुनः कारणम् न सिध्यति ।१० - १३ - स्वार्थिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।११ - १३ - उक्तम् वा ।१२ - १३ - किम् उक्तम् ।१३ - १३ - स्वाऋथिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।१ - ७ - वत्सादिभ्यः तनुत्वे कार्श्ये प्रतिषेधः ।२ - ७ - वत्सादिभ्यः तनुत्वे कार्श्ये प्रतिषेधः वक्तव्यः ।३ - ७ - कृशः वत्सः वत्सतरः इति मा भूत् इति ।४ - ७ - सः तर्हि प्रतिषेधः वक्तव्यः ।५ - ७ - न वक्तव्यः ।६ - ७ - यस्य गुणस्य हि भावात् द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम् ।७ - ७ - न च कार्श्यस्य सद्भावात् द्रव्ये वत्सशब्दः ।१ - १२ - किमादीनाम् द्विबह्वर्थे प्रत्ययविधानात् उपाध्यानर्थक्यम् ।२ - १२ - किमादीनाम् द्विबह्वर्थे प्रत्ययविधानात् उपाधिग्रहणम् अनर्थकम् ।३ - १२ - किम् कारणम् ।४ - १२ - बहिर्धारणम् निर्धारणम् ।५ - १२ - यावता द्वयोः एकस्य एव बहिर्धारणम् भवति ।६ - १२ - अपरः आह बहूनाम् जतिपरिप्रश्ने डतमच् इति अत्र बहुग्रहणम् अनर्थकम् ।७ - १२ - किम् कारणम् ।८ - १२ - किम् इति एतत् परिप्रश्ने वर्तते परिप्रश्नः च अनिर्ज्ञाते अनिर्ज्ञातम् च बहुषु ।९ - १२ - द्व्येकयोः पुनः निर्ज्ञातम् ।१० - १२ - निर्ज्ञातत्वात् द्व्येकयोः परिप्रश्नः न ।११ - १२ - परिप्रश्नाभावात् किम् एव न अस्ति ।१२ - १२ - कुतः प्रत्ययः ।१ - ७ - प्राग्वचनम् किमर्थम् ।२ - ७ - विभाषा यथा स्यात् ।३ - ७ - प्राग्वचनानर्थक्यम् च विभाषाप्रकरणात् ।४ - ७ - प्राग्वचनम् अनर्थकम् ।५ - ७ - किम् कारणम् ।६ - ७ - प्रकृता महाविभाषा ।७ - ७ - तय एव सिद्धम् ।१ - १२ - अवक्षेपणे कन् विधीयते कुत्सिते कः ।२ - १२ - कः एतयोः अर्थयोः विशेषः ।३ - १२ - अवक्षेपणम् करणम् कुत्सितम् कर्म ।४ - १२ - अवक्षेपणम् वै कुत्सितम् करणम् ।५ - १२ - तेन यत् कुत्य्स्यते तत् अपि कुत्सितम् भवति ।६ - १२ - तत्र कुत्सितम् इति एव सिद्धम् भवति ।७ - १२ - एवम् तर्हि यत् परस्य कुत्सार्थम् उपादीयते तत् इह उदाहरणम् ।८ - १२ - व्याकरणकेन नाम अयम् गर्वितः ।९ - १२ - याज्ञिक्येन नाम अयम् गर्वितः ।१० - १२ - यत् स्वकुत्सार्थम् कुत्सार्थम् उपादीयते तत् तत्र उदाहरणम् ।११ - १२ - देवदत्तकः ।१२ - १२ - यज्ञदत्तकः ।१ - ६ - किमर्थम् मनुष्ये लुप् उच्यते न लुक् एव उच्येत ।२ - ६ - लिङ्गसिद्ध्यर्थम् लुप् मनुष्ये ।३ - ६ - लिङ्गसिद्ध्यर्थम् मनुष्ये लुप् उच्यते ।४ - ६ - चञ्चा इव चञ्चा ।५ - ६ - वध्रिका इव वध्रिका ।६ - ६ - खरकुटी इव खरकुटी ।१ - ९ - अपण्ये इति उच्यते ।२ - ९ - तत्र इदम् न सिध्यति ।३ - ९ - शिवः ।४ - ९ - स्कन्दः ।५ - ९ - विशाखः इति ।६ - ९ - किम् कारणम् ।७ - ९ - मौर्यैः हिरण्याऋथिभिः अर्चाः प्रकल्पिताः ।८ - ९ - भवेत् तासु न स्यात् ।९ - ९ - याः तु एताः सम्प्रतिपूजार्थाः तासु भविष्यति ।१ - ९ - तत् इति अनेन किम् प्रतिनिर्दिश्यते ।२ - ९ - छः ।३ - ९ - कथम् पुनः समासः नाम छविषयः स्यात् ।४ - ९ - एवम् तर्हि इवार्थः ।५ - ९ - यदि तर्हि समासः अपि इवार्थे प्रत्ययः अपि समासेनोक्तत्वात् प्रत्ययः न प्राप्नोति ।६ - ९ - एवम् तर्हि द्वौ इवार्थौ ।७ - ९ - कथम् ।८ - ९ - काकागमनम् इव तालपतनम् इव काकतालम् ।९ - ९ - काकतालम् इव काकतालीयम् ।१ - १३ - अणः गोत्रात् गोत्रवचनम् ।२ - १३ - अणः गोत्रात् गोत्रग्रहणम् कर्तव्यम् ।३ - १३ - गोत्रात् इति वक्तव्यम् ।४ - १३ - इह मा भूत् ।५ - १३ - आभिजितः मुहूर्तः ।६ - १३ - आभिजितः स्थालीपाकः इति ।७ - १३ - गोत्रम् इति च वक्तव्यम् ।८ - १३ - किम् प्रयोजनम् ।९ - १३ - आभिजितकः ।१० - १३ - गोत्राश्रयः वुञ् यथा स्यात् ।११ - १३ - गोत्रम् इति शक्यम् अकर्तुम् ।१२ - १३ - कथम् आभिजितकः ।१३ - १३ - गोत्रात् अयम् स्वार्थिकः गोत्रम् एव भवति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP