संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ५|पाद ३| खण्ड ५६ पाद ३ खण्ड ५६ खण्ड ५७ पाद ३ - खण्ड ५६ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ५६ Translation - भाषांतर १ - १९ - विभक्तित्वे किम् प्रयोजनम् ।२ - १९ - विभक्तित्वे प्रयोजनम् इत्प्रतिषेधः ।३ - १९ - इदानीम् ।४ - १९ - न विभक्तौ तुस्माः इति इत्प्रतिषेधः सिद्धः भवति ।५ - १९ - यदि एवम् किमः अत् क्व प्रेप्स्यन् दीप्यसे क्व अर्धमासाः ।६ - १९ - अत्र अपि प्राप्नोति ।७ - १९ - तौ च उक्तम् ।८ - १९ - किम् उक्तम् ।९ - १९ - विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति ।१० - १९ - इदमः विभक्तिस्वरः च ।११ - १९ - इदमः विभक्तिस्वरः च प्रयोजनम् ।१२ - १९ - इतः ।१३ - १९ - इह ।१४ - १९ - इदमः तृतीयादिः विभक्तिः उदात्ता भवति इति एषः स्वरः भवति ।१५ - १९ - त्यदादिविधयः च ।१६ - १९ - त्यदादिविधयः च प्रयोजनम् ।१७ - १९ - यतः ।१८ - १९ - यत्र ।१९ - १९ - विभक्तौ इति त्यदादिविधयः सिद्धाः भवन्ति ।१ - ९ - बहुग्रहणे सङ्ख्याग्रहणम् ।२ - ९ - बहुग्रहणे सङ्ख्याग्रहणम् कर्तव्यम् ।३ - ९ - इह मा भूत् ।४ - ९ - बहौ ।५ - ९ - बहोः इति ।६ - ९ - अथ किमर्थम् किमः उपसङ्ख्यानम् क्रियते न सर्वनाम्नः इति एव सिद्धम् ।७ - ९ - द्व्यातिप्रतिषेधात् किमः उपसङ्ख्यानम् ।८ - ९ - द्व्यातिप्रतिषेधात् किमः उपसङ्ख्यानम् क्रियते ।९ - ९ - अद्व्यादिभ्यः इति प्रतिषेधे प्राप्ते किमः उपसङ्ख्यानम् क्रियते ।१ - २८ - क्व अयम् नकारः श्रूयते ।२ - २८ - न क्व चित् श्रूयते ।३ - २८ - लोपः अस्य भवति नलोपः प्रातिपदिकान्तस्य इति ।४ - २८ - यदि न क्व चित् श्रूयते किमर्थम् उच्चार्यते ।५ - २८ - अनेकाल्शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।६ - २८ - क्रियमाणे अपि नकारे सर्वादेशः न प्राप्नोति ।७ - २८ - किम् कारणम् ।८ - २८ - नलोपे कृते एकाल्त्वात् ।९ - २८ - इदम् इह सम्प्रधार्यम् ।१० - २८ - नलोपः क्रियताम् सर्वादेशः इति ।११ - २८ - किम् अत्र कर्तव्यम् ।१२ - २८ - परत्वात् नलोपः ।१३ - २८ - असिद्धः नलोपः ।१४ - २८ - तस्य असिद्धत्वात् सर्वादेशः भवति ।१५ - २८ - परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते ।१६ - २८ - एवम् तर्हि आनुपूर्व्या सिद्धम् एतत् ।१७ - २८ - न अकृते सर्वादेशे प्रातिपदिकसञ्ज्ञा प्राप्नोति न च अकृतायाम् प्रातिपदिकसञ्ज्ञायाम् नलोपः प्राप्नोति ।१८ - २८ - तत् आनुपूर्व्या सिद्धम् ।१९ - २८ - न एतत् अस्ति प्रयोजनम् ।२० - २८ - अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण नकारम् सर्वादेशः भविष्यति ।२१ - २८ - अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् ।२२ - २८ - किम् ।२३ - २८ - ये अन्ये अकारादेशाः प्राप्नुवन्ति तद्बाधनार्थम् ।२४ - २८ - तत् यथा मः राजि समः क्वौ इति मकारस्य मकारवचनसामर्थ्यात् अनुस्वारादयः न भवन्ति ।२५ - २८ - तस्मात् नकारः कर्तव्यः ।२६ - २८ - न कर्तव्यः ।२७ - २८ - क्रियते न्यासे एव ।प्रश्लिष्टनिर्देशः अयम् अ अ अ इति ।२८ - २८ - सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।१ - १५ - एतदः इति योगविभागः ।२ - १५ - एतदः इति योगविभागः कर्तव्यः ।३ - १५ - एतदः एत इत् इति एतौ आदेशौ भवतः ततः अन् ।४ - १५ - अन् च भवति एतदः इति ।५ - १५ - केन विहितेन थकारे एतदः आदेशः उच्यते ।६ - १५ - एतदः च थमः उपसङ्ख्यानम् ।७ - १५ - एतदः च थमः उपसङ्ख्यानम् कर्तव्यम् ।८ - १५ - एतत्प्रकारम् इत्थम् ।९ - १५ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।१० - १५ - न कर्तव्यम् ।११ - १५ - एतत् ज्ञापयति भवति अत्र थमुः इति यत् अयम् थकारादौ आदेशम् शास्ति ।१२ - १५ - कुतः नु खलु एतज्ज्ञापकात् अत्र थमुः भविष्यति ।१३ - १५ - न पुनः यः एव असौ अविशेषविहितः थकारादिः तस्मिन् आदेशः स्यात् ।१४ - १५ - इदमा थकारादिम् विशेषयिष्यामः ।१५ - १५ - इदमः यः थकारादिः इति ।१ - ५९ - इदम् विचार्यते इमे तसिलादयः विभक्त्यादेशः वा स्युः परे वा इति ।२ - ५९ - कथम् च आदेशः स्युः कथम् वा परे ।३ - ५९ - यदि पञ्चम्याः सप्तम्याः इति षष्ठी तदा आदेशाः ।४ - ५९ - अथ पञ्चमी ततः परे ।५ - ५९ - कुतः सन्देहः ।६ - ५९ - समानः निर्देशः ।७ - ५९ - कः च अत्र विशेषः ।८ - ५९ - तसिलादयः विभक्त्यादेशाः चेत् सुब्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधिप्रतिषेधः ।९ - ५९ - तसिलादयः विभक्त्यादेशाः चेत् सुब्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधिप्रतिषेधः वक्तव्यः ।१० - ५९ - सुब्लुक् ।११ - ५९ - ततस्त्यः ।१२ - ५९ - यतस्त्यः ।१३ - ५९ - तत्रत्यः ।१४ - ५९ - यत्रत्यः ।१५ - ५९ - सुपः धातुप्रातिपदिकयोः इति सुब्लुक् प्राप्नोति ।१६ - ५९ - सुब्लुक् ।१७ - ५९ - स्वर ।१८ - ५९ - यदा ।१९ - ५९ - तदा ।२० - ५९ - अनुदात्तौ सुप्पितौ इति एषः स्वरः प्राप्नोति ।२१ - ५९ - स्वर ।२२ - ५९ - गुण ।२३ - ५९ - कस्मात् ।२४ - ५९ - कुतः ।२५ - ५९ - घेः ङिति इति गुणः प्राप्नोति ।२६ - ५९ - गुण ।२७ - ५९ - दीर्घ ।२८ - ५९ - तस्मिन् ।२९ - ५९ - तर्हि ।३० - ५९ - अतः दीर्घः यञि सुपि च इति दीर्घत्वम् प्राप्नोति ।३१ - ५९ - दीर्घ ।३२ - ५९ - एत्त्व. तेषु ।३३ - ५९ - तत्र ।३४ - ५९ - बहुवचने झलि एत् इति एत्त्वम् प्राप्नोति ।३५ - ५९ - एत्त्व ।३६ - ५९ - औत्त्व ।३७ - ५९ - कस्मिन् ।३८ - ५९ - कुत्र ।३९ - ५९ - इदुद्भ्याम् औत् अत् च घेः इति औत्त्वम् प्राप्नोति ।४० - ५९ - औत्त्व ।४१ - ५९ - स्मायादिविधिः ।४२ - ५९ - तस्मात् ।४३ - ५९ - ततः ।४४ - ५९ - तस्मिन् ।४५ - ५९ - तत्र ।४६ - ५९ - ङसिङ्योः स्मात्स्मिनौ इत् स्मादयः प्राप्नुवन्ति ।४७ - ५९ - पञ्चमीनिर्देशात् सिद्धम् ।४८ - ५९ - सन्तु परे ।४९ - ५९ - यदि परे समानशब्दानाम् प्रतिषेधः वक्तव्यः ।५० - ५९ - तस्मात् तस्यति ।५१ - ५९ - यस्मात् तस्यति ।५२ - ५९ - पञ्चम्यन्तस्य तसेः तसिल् भवति इति तसिल् प्राप्नोति ।५३ - ५९ - अनादेशे स्वार्थविज्ञानात् समानशब्दाप्रतिषेधः ।५४ - ५९ - अनादेशे स्वार्थविज्ञानात् समानशब्दाप्रतिषेधः ।५५ - ५९ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।५६ - ५९ - तसिल् कस्मात् न भवति ।५७ - ५९ - स्वार्थविज्ञानात् ।५८ - ५९ - पञ्चम्यन्तात् परस्य तसेः स्वार्थे वर्तमानस्य तसिला भवितव्यम् ।५९ - ५९ - न च अत्र पञ्चम्यन्तात् परः तसिः स्वार्थे वर्तते ।१ - १८ - किमर्थम् तसेः तसिल् उच्यते ।२ - १८ - तसेः तसिल्वचनम् स्वरार्थम् ।३ - १८ - तसेः तसिल्वचनम् क्रियते स्वरार्थम् ।४ - १८ - लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् ।५ - १८ - ननु च अयम् तसिल् तसिम् बाधिष्यते ।६ - १८ - न सिध्यति ।७ - १८ - परत्वात् तसिः प्राप्नोति ।८ - १८ - तसिलः अवकाशः ।९ - १८ - ततः हीयते ।१० - १८ - ततः अवरोहति ।११ - १८ - तसेः अवकाशः ।१२ - १८ - ग्रामतः आगच्छति ।१३ - १८ - नगरतः आगच्छति ।१४ - १८ - इह उभयम् प्राप्नोति ।१५ - १८ - ततः आगच्छति ।१६ - १८ - यतः आगच्छति ।१७ - १८ - परत्वात् तसिः प्राप्नोति ।१८ - १८ - तस्मात् सुष्थु उच्यते तसेः तसिल्वचनम् स्वरार्थम् इति ।१ - ३ - पर्यभिभ्याम् च इति यत् उच्यते तत् सर्वोभयार्थे द्रष्टव्यम् ।२ - ३ - यावत् सर्वतः तावत् परितः ।३ - ३ - यावत् उभयतः तावत् अभितः ।१ - ४५ - इह कस्मात् न भवति ।२ - ४५ - सः ।३ - ४५ - तौ ।४ - ४५ - ते ।५ - ४५ - भवदादिभिः योगे इति वक्तव्यम् ।६ - ४५ - के पुनः भवदादयः ।७ - ४५ - भवान् ।८ - ४५ - दीर्घायुः ।९ - ४५ - देवानाम्प्रियः ।१० - ४५ - आयुष्मान् इति ।११ - ४५ - सः भवान् ।१२ - ४५ - तत्र भवान् ।१३ - ४५ - ततः भवान् ।१४ - ४५ - तम् भवन्तम् ।१५ - ४५ - तत्र भवन्तम् ।१६ - ४५ - ततः भवन्तम् ।१७ - ४५ - तेन भवता ।१८ - ४५ - तत्र भवता ततः भवता ।१९ - ४५ - तस्मै भवते ।२० - ४५ - तत्र भवते ।२१ - ४५ - ततः भवते ।२२ - ४५ - तस्मात् भवतः ।२३ - ४५ - तत्र भवतः ।२४ - ४५ - ततः भवतः ।२५ - ४५ - तस्मिन् भवति ।२६ - ४५ - तत्र भवति ।२७ - ४५ - ततः भवति ।२८ - ४५ - सः दीर्घायुः ।२९ - ४५ - तत्र दीर्घायुः ।३० - ४५ - ततः दीर्घायुः ।३१ - ४५ - तम् दीर्घायुषम् ।३२ - ४५ - तत्र दीर्घायुषम् ।३३ - ४५ - ततः दीर्घायुषम् ।३४ - ४५ - सः देवानाम्प्रियः ।३५ - ४५ - तत्र देवानाम्प्रियः ।३६ - ४५ - ततः देवानाम्प्रियः ।३७ - ४५ - तम् देवानाम्प्रियम् ।३८ - ४५ - तत्र देवानाम्प्रियम् ।३९ - ४५ - ततः देवानाम्प्रियम् ।४० - ४५ - सः आयुष्मान् ।४१ - ४५ - तत्र आयुष्मान् ।४२ - ४५ - ततः आयुष्मान् ।४३ - ४५ - तम् आयुष्मन्तम् ।४४ - ४५ - तत्र आयुष्मन्तम् ।४५ - ४५ - ततः आयुष्मन्तम्१ - ३ - अधुना इति किम् निपात्यते ।२ - ३ - इदमः अश्भावः धुना च प्रत्ययः इदमः वा लोपः अधुना च प्रत्ययः ।३ - ३ - अस्मिन् काले अधुन ।१ - ९ - इदानीम् ।२ - ९ - इदमः तृतीयादिविभक्तिः उदात्ता भवति इति एषः स्वरः प्राप्नोति ।३ - ९ - दानीम् इति निपातनात् स्वरसिद्धिः ।४ - ९ - दानीम् इति निपातनात् स्वरसिद्धिः भविष्यति ।५ - ९ - आद्युदात्तनिपातनम् करिष्यते ।६ - ९ - सः निपातनस्वरः विभक्तिस्वरस्य बाधकः भविष्यति ।७ - ९ - उक्तम् वा ।८ - ९ - किम् उक्तम् ।९ - ९ - आदौ सिद्धम् इति ।१ - ५ - तदः दावचनम् अनर्थकम् विहितत्वात् ।२ - ५ - तदः दावचनम् अनर्थकम् ।३ - ५ - किम् कारणम् ।४ - ५ - विहितत्वात् ।५ - ५ - विहितः अत्र प्रत्ययः सर्वैकान्यकिंयत्तदः काले दा इति ।१ - ४ - तयोः इति प्रातिपदिकनिर्देशः ।२ - ४ - तयोः इति प्रातिपदिकनिर्देशः द्रष्टव्यः ।३ - ४ - द्वेष्यम् विजानीयात् ॒योगयोः वा प्रत्यययोः वा इति ।४ - ४ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे तयोः इति प्रातिपदिकनिर्देशः इति ।१ - ३४ - सद्यः इति किम् निपात्यते ।२ - ३४ - समानस्य सभावः द्यः च अहनि ।३ - ३४ - समानस्य सभावः निपात्यते द्यः च प्रत्ययः अहनि अभिधेये ।४ - ३४ - समाने अहनि सद्यः ।५ - ३४ - परुत् परारि इति किम् निपात्यते ।६ - ३४ - पूर्वपूर्वतयोः परभावः उदारी च संवत्सरे ।७ - ३४ - पूर्वपूर्वतयोः परभावः निपात्यते उदारी च प्रत्ययौ संवत्सरे अभिधेये ।८ - ३४ - पूर्वस्मिन् संवत्सरे परुत् ।९ - ३४ - पूर्वतरे संवत्सरे परारि ।१० - ३४ - ऐषमः इति किम् निपात्यते ।११ - ३४ - इदमः समसण् ।१२ - ३४ - इदमः समसण् प्रत्ययः निपात्यते संवत्सरे अभिधेये ।१३ - ३४ - अस्मिन् संवत्सरे ऐषमः ।१४ - ३४ - परेद्यवि इति किम् निपात्यते ।१५ - ३४ - परस्मात् एद्यवि अहनि ।१६ - ३४ - परस्मात् एद्यवि प्रत्ययः निपात्यते अहनि अभिधेये ।१७ - ३४ - परस्मिन् अहनि परेद्यवि ।१८ - ३४ - अद्य इति किम् निपात्यते ।१९ - ३४ - इदमः अश्भावः द्यः च ।२० - ३४ - इदमः अश्भावः निपात्यते द्यः च प्रत्ययः अहनि अभिधेये ।२१ - ३४ - अस्मिन् अहनि अद्य ।२२ - ३४ - पूर्वेद्युः अन्येद्युः अन्यतरेद्युः इतरेद्युः अपरेद्युः अधरेद्युः उभयेद्युः उत्तरेद्युः इति किम् निपात्यते ।२३ - ३४ - पूर्वान्यान्यतरेरापराधरोभयोत्तरेभ्यः एद्युसुच् ।२४ - ३४ - पूर्वान्यान्यतरेरापराधरोभयोत्तरेभ्यः एद्युसुच् प्रत्ययः निपात्यते अहनि अभिधेये ।२५ - ३४ - पूर्वस्मिन् अहनि पूर्वेद्युः ।२६ - ३४ - अन्यस्मिन् अहनि अन्येद्युः ।२७ - ३४ - अन्यतरस्मिन् अहनि अन्यतरेद्युः ।२८ - ३४ - इतरस्मिन् अहनि इतरेद्युः ।२९ - ३४ - अपरस्मिन् अहनि अपरेद्युः ।३० - ३४ - अधरस्मिन् अहनि अधरेद्युः ।३१ - ३४ - उभयोः अह्नोः उभयेद्युः ।३२ - ३४ - उत्तरस्मिन् अहनि उत्तरेद्युः ।३३ - ३४ - द्युः च उभयात् । उभयशब्दात् द्युः च वक्तव्यः ।३४ - ३४ - तस्मात् मनुष्येभ्यः उभयद्युः ।१ - ४ - इह कस्मात् न भवति ।२ - ४ - पूर्वस्मिन् देशे वसति इति ।३ - ४ - न एषः देशः ।४ - ४ - देशविशेषणम् एतत् ।१ - ३५ - किमर्थम् अतसुच् क्रियते न तसुच् एव क्रियते ।२ - ३५ - तत्र अयम् अपि अर्थः ।३ - ३५ - स्वरार्थः चकारः न कर्तव्यः भवति ।४ - ३५ - प्रत्ययस्वरेण एव सिद्धम् ।५ - ३५ - का रूपसिद्धिः दक्षिणतः ग्रामस्य ।६ - ३५ - उत्तरतः ग्रामस्य ।७ - ३५ - दक्षिणोत्तरशब्दौ अकारान्तौ ।८ - ३५ - तसुशब्दः प्रत्ययः ।९ - ३५ - भवेत् सिद्धम् यदा अकारान्तौ ।१० - ३५ - यतु तु खलु आकारान्तौ तदा न सिध्यति ।११ - ३५ - तदा अपि सिद्धम् ।१२ - ३५ - कथम् ।१३ - ३५ - पुंवद्भावेन ।१४ - ३५ - कथम् पुंवद्भावः ।१५ - ३५ - तसिलादिषु आ कृत्वसुचः इति ।१६ - ३५ - न सिध्यति ।१७ - ३५ - भाषितपुंस्कस्य पुंवद्भावः न च एतौ भाषितपुंस्कौ ।१८ - ३५ - ननु च भो दक्षिणशब्दः उत्तरशब्दः च पुंसि भाष्येते ।१९ - ३५ - समानायाम् आकृतौ यत् भाषितपुंस्कम् इति उच्यते आकृत्यन्तरे च एतौ भाषितपुंस्कौ ।२० - ३५ - दक्षिणा उत्तरा इति दिक्शब्दौ ।२१ - ३५ - दक्षिणः उत्तरः इति व्यवस्थाशब्दौ ।२२ - ३५ - यदि पुनः दिक्शब्दाः अपि व्यवस्थाशब्दाः स्युः ।२३ - ३५ - कथम् यानि दिगपदिष्टानि कार्याणि ।२४ - ३५ - दिशः यदा व्यवस्थाम् वक्ष्यन्ति ।२५ - ३५ - यदि तरि यः यः दिशि वर्तते सः सः दिक्शब्दः रमणीयादिषु अतिप्रसङ्गः भवति ।२६ - ३५ - रमणीया दिक् शोभना दिक् इति ।२७ - ३५ - अथ मतम् एतत् दिशि दृष्टः दिग्दृष्टः दिग्दृष्टः शब्दः दिक्शब्दः दिशम् यः न व्यभिचरति इति रमणीयादिषु अतिप्रसङ्गः न भवति ।२८ - ३५ - पुंवद्भावः तु प्राप्नोति ।२९ - ३५ - एवम् तर्हि सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः वक्तव्यः दक्षिणोत्तरपूर्वाणाम् इति एवमर्थम् ।३० - ३५ - विशेषणार्थम् तर्हि ।३१ - ३५ - क्व विशेषणार्थेन अर्थः ।३२ - ३५ - षष्ठी अतसर्थप्रत्ययेन इति ।३३ - ३५ - षष्ठी तसर्थप्रत्ययेने इति उच्यमाने इह अपि स्यात् ।३४ - ३५ - ततः ग्रामात् ।३५ - ३५ - यतः ग्रामात् इति ।१ - ४ - उपरि उपरिष्टात् इति किम् निपात्यते ।२ - ४ - ऊर्ध्वस्य उपभावः रिलिष्टातिलौ च ।३ - ४ - ऊर्ध्वस्य उपभावः रिलिष्टातिलौ च प्रत्ययौ निपात्येते ।४ - ४ - उपरि उपरिष्तात् ।१ - १५ - पश्चात् इति किम् निपात्यते ।२ - १५ - अपरस्य पश्चभावः आतिः च प्रतययः ।३ - १५ - अपरस्य पश्चभावः निपात्यते आतिः च प्रतययः ।४ - १५ - पश्चात् ।५ - १५ - दिक्पूर्वपदस्य च ।६ - १५ - दिक्पूर्वपदस्य च अपरस्य पश्चभावः वक्तव्यः आतिः च प्रतययः ।७ - १५ - दक्षिणपश्चात् ।८ - १५ - उत्तरपश्चात् ।९ - १५ - अर्धोत्तरपदस्य च समासे ।१० - १५ - अर्धोत्तरपदस्य च समासे अपरस्य पश्चभावः वक्तव्यः ।११ - १५ - दक्षिणपश्चार्धः ।१२ - १५ - उत्तरपश्चार्धः ।१३ - १५ - अर्धे च ।१४ - १५ - अर्धे च परतः अपरस्य पश्चभावः वक्तव्यः ।१५ - १५ - पश्चार्धः ।१ - ४ - अपञ्चम्याः इति प्राक् असः ।२ - ४ - अपञ्चम्याः इति यत् उच्यते प्राक् असः तत् द्रष्टव्यम् ।३ - ४ - द्वेष्यम् विजानीयात् अविशेषेण उत्तरम् अपञ्चम्याः इति ।४ - ४ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे अपञ्चम्याः इति प्राक् असः इति ।१ - १० - किमर्थः चकारः ।२ - १० - स्वरार्थः ।३ - १० - चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।४ - १० - न एतत् अस्ति प्रयोजनम् ।५ - १० - एकाच् अयम् ।६ - १० - तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।७ - १० - प्रत्ययस्वरेण एव सिद्धम् ।८ - १० - विशेषणार्थः तर्हि ।९ - १० - क्व विशेषणार्थेन अर्थः ।१० - १० - अन्यारादितरर्तेदिक्शब्दाञ्चूऊत्तरपदाजाहियुक्ते ।१ - २६ - विधार्थे इति उच्यते ।२ - २६ - कः विधार्थः नाम ।३ - २६ - विधायाः अर्थः विधार्थः ।४ - २६ - यदि एवम् एका गोविधा ।५ - २६ - एका हस्तिविधा ।६ - २६ - अत्र अपि प्राप्नोति ।७ - २६ - एवम् तर्हि धाविधानम् धात्वर्थपृथग्भावे ।८ - २६ - धाविधानम् धात्वर्थपृथग्भावे इति वक्तव्यम् ।९ - २६ - कः पुनः धात्वर्थपृथग्भावः ।१० - २६ - किम् यत् तत् देवदत्तः कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति ।११ - २६ - न इति आह ।१२ - २६ - कारकपृथक्त्वम् एतत् ।१३ - २६ - यत् तर्हि तत् काल्ये भुङ्के सायम् भुङ्क्ते इति ।१४ - २६ - न इति आह ।१५ - २६ - कालपृथक्त्वम् एतत् ।१६ - २६ - यत् तर्हि शीतम् भुङ्क्ते उष्णम् भुङ्क्ते इति ।१७ - २६ - न इति आह ।१८ - २६ - गुणपृथक्त्वम् एतत् ।१९ - २६ - कः तर्हि धात्वर्थपृथग्भावः ।२० - २६ - कारकाणाम् प्रवृत्तिविशेषः क्रिया ।२१ - २६ - यदि एवम् क्रियाप्रकारे अयम् भवति ।२२ - २६ - विधयुक्तगताः च प्रकारे भवन्ति ।२३ - २६ - एवंविधम् ।२४ - २६ - एवंयुक्तम् ।२५ - २६ - एवङ्गतम् ।२६ - २६ - एवम्प्रकारम् इति ।१ - ७ - सहभावे ध्यमुञ् ।२ - ७ - सहभावे ध्यमुञ् वक्तव्यः ।३ - ७ - एइकध्यम् राशिम् कुरु ।४ - ७ - सः तर्हि वक्तव्यः ।५ - ७ - न वक्तव्यः ।६ - ७ - अधिकरणविचाले इति उच्यते न च सः एव अधिकरणविचालः यत् एकम् अनेकम् क्रियते ।७ - ७ - यत् अपि अनेकम् एकम् क्रियते सः अपि अधिकरणविचालः ।१ - ४ - धमुञन्तात् स्वार्थे डदर्शनम् ।२ - ४ - धमुञन्तात् स्वार्थे डः दृश्यते सः च विधेयः ।३ - ४ - पथि द्वैधानि ।४ - ४ - संशये द्वैधानि ।१ - १० - पाशपि कुत्सितग्रहणम् ।२ - १० - पाशपि कुत्सितग्रहणम् कर्तव्यम् ।३ - १० - वैयाकरणपाशः ।४ - १० - याज्ञिकपाशः ।५ - १० - यः हि यापयितव्यः याप्यः तत्र मा भूत् इति ।६ - १० - अथ वैयाकरणः शरीरेण कृशः व्याकरणेन च शोभनः कर्तव्यः वैयाकरणपाशः इति ।७ - १० - न कर्तव्यः ।८ - १० - कथम् ।९ - १० - यस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने तद्गुणे वक्तव्ये प्रत्ययेन भवितव्यम् ।१० - १० - न च कार्श्यस्य भावात् द्रव्ये वैयाकरणशब्दः ।१ - ६ - पूरणग्रहणम् शक्यम् अकर्तुम् ।२ - ६ - न हि अपूरणः तीयशब्दः अस्ति यत्र दोषः स्यात् ।३ - ६ - ननु च अयम् अस्ति मुखतीयः पार्श्वतीयः इति ।४ - ६ - अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् अस्य न भविष्यति ।५ - ६ - उत्तरार्थम् तर्हि पूरणग्रहणम् कर्तव्यम् ।६ - ६ - प्राक् एकादशभ्यः अच्छन्दसि इति पूरणात् यथा स्यात् ।१ - ३१ - एकात् आकिनिचि द्विबह्वर्थे प्रत्ययविधानम् ।२ - ३१ - एकात् आकिनिचि द्विबह्वर्थे प्रत्ययः विधेयः ।३ - ३१ - एकाकिनौ ।४ - ३१ - एकाकिनः इति ।५ - ३१ - किम् पुनः कारणम् न सिध्यति ।६ - ३१ - एकशब्दः अयम् सङ्ख्यापदम् सङ्ख्यायाः च सङ्ख्येयम् अर्थः ।७ - ३१ - सिद्धम् तु सङ्ख्यादेशवचनात् ।८ - ३१ - सिद्धम् एतत् ।९ - ३१ - कथम् ।१० - ३१ - द्विबह्वर्थायाः सङ्ख्यायाः एकशब्दः आदेशः वक्तव्यः ।११ - ३१ - असहायस्य वा ।१२ - ३१ - असहायस्य वा एकशब्दः आदेशः वक्तव्यः ।१३ - ३१ - असहायः एकाकी ।१४ - ३१ - असहायौ एकाकिनौ ।१५ - ३१ - असहायाः एकाकिनः ।१६ - ३१ - सिध्यति ।१७ - ३१ - सूत्रम् तर्हि भिद्यते ।१८ - ३१ - यथान्यासम् एव अस्तु ।१९ - ३१ - ननु च उक्तम् एकात् आकिनिचि द्विबह्वर्थे प्रत्ययविधानम् इति ।२० - ३१ - न एषः दोषः ।२१ - ३१ - अयम् एकशब्दः अस्ति एव सङ्ख्यापदम् ।२२ - ३१ - तत् यथा एकः द्वौ बहवः इति ।२३ - ३१ - अस्ति अन्यार्थे वर्तते ।२४ - ३१ - तत् यथा सधमादः द्युम्नः एकाः ताः ।२५ - ३१ - अन्याः इति अर्थः ।२६ - ३१ - अस्ति असहायवाची ।२७ - ३१ - तत् यथा ।२८ - ३१ - एकाग्नयः ।२९ - ३१ - एकहलानि ।३० - ३१ - एकाकिभिः क्षुद्रकैः जितम् इति ।३१ - ३१ - तत् यः असहायवाची तस्य एषः प्रयोगः ।१ - ८८ - अतिशायने इति उच्यते ।२ - ८८ - किम् इदम् अतिशायने इति ।३ - ८८ - देश्याः सूत्रनिबन्धाः क्रियन्ते ।४ - ८८ - यावत् ब्रूयात् प्रकर्षे अतिशये इति तावत् अतिशायने इति ।५ - ८८ - कस्य पुनः प्रकर्षे प्रत्ययः उत्पद्यते ।६ - ८८ - ङ्याप्प्रातिपदिकात् इति वर्तते ।७ - ८८ - ङ्याप्प्रातिपदिकस्य प्रकर्षे ।८ - ८८ - ङ्याप्प्रातिपदिकम् वै शब्दः न च शब्दस्य प्रकर्षापकर्षौ स्तः ।९ - ८८ - शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।१० - ८८ - कः पुनः ङ्याप्प्रातिपदिकार्थः ।११ - ८८ - द्रव्यम् ।१२ - ८८ - न वै द्रव्यसय प्रकर्षे इष्यते ।१३ - ८८ - एवम् तर्हि गुणः ।१४ - ८८ - एवम् अपि गुणग्रहणम् कर्तव्यम् ।१५ - ८८ - द्रव्यम् अपि ङ्याप्प्रातिपदिकार्थः गुणः अपि ।१६ - ८८ - तत्र कुतः एतत् गुणस्य प्रकर्षे भविष्यति न पुनः द्रव्यस्य प्रकर्षे इति ।१७ - ८८ - क्रियमाणे च अपि गुणग्रहणे समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति ।१८ - ८८ - न तर्हि इदानीम् इदम् भवति अध्वर्युः वै श्रेयान् ।१९ - ८८ - पापीयान् प्रतिप्रस्थाता ।२० - ८८ - अन्धानाम् काणतमः इति ।२१ - ८८ - समानगुणे एषा स्पर्धा भवति ।२२ - ८८ - अध्वर्युः वै श्रेयान् अन्येभ्यः प्रशस्येभ्यः ।२३ - ८८ - पापीयान् प्रतिप्रस्थाता अन्येभ्यः पापेभ्यः ।२४ - ८८ - अन्धानाम् काणतमः इति कणिः अयम् सौक्ष्म्ये वर्तते ।२५ - ८८ - सर्वे इमे किम् चित् पश्यन्ति ।२६ - ८८ - अयम् एषाम् काणतमः इति ।२७ - ८८ - अदूरविप्रकर्षे इति वक्तव्यम् ।२८ - ८८ - इह मा भूत् ।२९ - ८८ - महान् सर्षपः ।३० - ८८ - महान् हिमवान् इति ।३१ - ८८ - जातेः न इति वक्तव्यम् ।३२ - ८८ - इह मा भूत् वृक्षः अयम् प्लक्षः अयम् इति ।३३ - ८८ - न तर्हि इदानीम् इदम् भवति गोतरः ।३४ - ८८ - गोतरा ।३५ - ८८ - अश्वतरः इति ।३६ - ८८ - न एषः जातेः प्रकर्षः ।३७ - ८८ - कस्य तर्हि ।३८ - ८८ - गुणस्य ।३९ - ८८ - गौः अयम् शकटम् वहति ।४० - ८८ - गोतरर्ः अयम् यः शकटम् वहति सीरम् च ।४१ - ८८ - गौः इयम् या समाम् समाम् विजायते ।४२ - ८८ - गोतरा इयम् या समाम् समाम् विजायते स्त्रीवत्सा च ।४३ - ८८ - अश्वः अयम् यः चत्वारि योजनानि गच्छति ।४४ - ८८ - अश्वतरः अयम् यः अष्टौ योजनानि गच्छति ।४५ - ८८ - तथा तिङः च इति अत्र क्रियाग्रहणम् कर्तव्यम् साधनप्रकर्षे मा भूत् ।४६ - ८८ - न एषः दोषः ।४७ - ८८ - यत् तावत् उच्यते गुणग्रहणम् कर्तव्यम् इति ।४८ - ८८ - न कर्तव्यम् ।४९ - ८८ - यस्य प्रकर्षः अस्ति तस्य प्रकर्षे भविष्यति ।५० - ८८ - गुणस्य च एव प्रकर्षः न द्रव्यस्य ।५१ - ८८ - कथम् ज्ञायते ।५२ - ८८ - एवम् हि दृश्यते लोके ।५३ - ८८ - इह समाने आयामे विस्तारे पटस्य अन्यः अर्घः भवति काशिकस्य अन्यः माथुरस्य ।५४ - ८८ - गुणान्तरम् खलु अपि शिल्पिनः उत्पादयमानाः द्रव्यान्तरेण प्रक्षालयन्ति ।५५ - ८८ - अन्येन शुद्धम् धौतकम् कुर्वन्ति अन्येन शैफालिकम् अन्येन माध्यमिकम् ।५६ - ८८ - यत् अपि उच्यते क्रियमाणे च अपि गुणग्रहणे समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति ।५७ - ८८ - न कर्तव्यम् ।५८ - ८८ - समानगुणे एव स्पर्धा भवति ।५९ - ८८ - नहि आढ्याभिरूपौ स्पर्धेते ।६० - ८८ - वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लात् कृष्णे प्रत्ययः उत्पद्यमानः वाचकः स्यात् ।६१ - ८८ - यत् अपि उच्यते अदूरविप्रकर्षे इति वक्तव्यम् इति ।६२ - ८८ - न वक्तव्यम् ।६३ - ८८ - अदूरविप्रकर्षे एव स्पर्धा भवति ।६४ - ८८ - न हि निष्कधनः शतनिष्कधनेन स्पर्धते ।६५ - ८८ - यत् अपि उच्यते जातेः न इति वक्तव्यम् इति ।६६ - ८८ - न वक्तव्यम् ।६७ - ८८ - जननेन या प्राप्यते सा जातिः न च एतस्य अर्थस्य प्रकर्षापकर्षौ स्तः ।६८ - ८८ - यत् अपि उच्यते तिङः च इति अत्र क्रियाग्रहणम् कर्तव्यम् साधनप्रकर्षे मा भूत् इति ।६९ - ८८ - न कर्तव्यम् ।७० - ८८ - साधनम् वै द्रव्यम् न च द्रव्यस्य प्रकर्षापकर्षौ स्तः ।७१ - ८८ - किम् पुनः एकम् शौक्ल्यम् आहोस्वित् नाना ।७२ - ८८ - किम् च अतः ।७३ - ८८ - यदि एकम् प्रकर्षः न उपपद्यते ।७४ - ८८ - न हि तेन एव तस्य प्रकर्षः भवति ।७५ - ८८ - अथ नाना समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति ।७६ - ८८ - अस्ति एकम् शौक्ल्यम् तत् तु विशेषवत् ।७७ - ८८ - किङ्कृतः विशेषः ।७८ - ८८ - अल्पत्वमहत्त्वकृतः ।७९ - ८८ - अथ वा पुनः अस्तु एकम् निर्विशेषम् च ।८० - ८८ - ननु च उक्तम् प्रकर्षः न उपपद्यते ।८१ - ८८ - न हि तेन एव तस्य प्रकर्षः भवति इति ।८२ - ८८ - गुणान्तरेण प्रच्छादात् प्रकर्षः भविष्यति ।८३ - ८८ - अथ वा पुनः अस्तु नाना ।८४ - ८८ - ननु च उक्तम् समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति ।८५ - ८८ - न कर्तव्यम् ।८६ - ८८ - समानगुणे एव स्पर्धा भवति ।८७ - ८८ - नहि आढ्याभिरूपौ स्पर्धेते ।८८ - ८८ - वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लात् कृष्णे प्रत्ययः उत्पद्यमानः वाचकः स्यात् ।१ - ५६ - किमन्तात् पुनः उत्पत्त्या भवितव्यम् ।२ - ५६ - द्वितीयान्तात् अतिशय्यमानात् ।३ - ५६ - शुक्लम् अतिशेते शुक्लतरः ।४ - ५६ - कृष्णम् अतिशेते कृष्णतरः ।५ - ५६ - यदि द्वितीयान्तात् अतिशय्यमानात् कालः अतिशेते कालीम् कालितरः इति प्राप्नोति कालतरः इति च इष्यते ।६ - ५६ - तथा काली अतिशेते कालम् कालतरः इति प्राप्नोति कालितरा इति च इष्यते ।७ - ५६ - तथा गार्ग्यः अतिशेते गर्गान् गर्गतरः इति प्राप्नोति गार्ग्यतरः इति च इष्यते ।८ - ५६ - तथा गर्गाः अतिशेरते गार्ग्यम् गार्ग्यतराः इति प्राप्नोति गर्गतराः इति च इष्यते ।९ - ५६ - एवम् तर्हि प्रथमान्तात् स्वार्थिकः भविष्यति ।१० - ५६ - कालः अतिशेते कालतरः ।११ - ५६ - काली अतिशेते कालितरा ।१२ - ५६ - गार्ग्यः अतिशेते गार्ग्यतरः ।१३ - ५६ - गर्गाः अतिशेरते गर्गतराः ।१४ - ५६ - यदि प्रथमान्तात् स्वार्थिकः कुमारितरा किशोरितरा अव्यतिरिक्तम् वयः इति कृत्वा वयसि प्रथमे इति ङीप् प्राप्नोति ।१५ - ५६ - तरपा उक्तत्वात् स्त्रीप्रत्ययः न भविष्यति ।१६ - ५६ - टाप् अपि तर्हि न प्राप्नोति ।१७ - ५६ - उक्ते अपि हि भवन्ति एते टाबादयः ।१८ - ५६ - उक्तम् एतत् स्वार्थिकाः टाबादयः इति ।१९ - ५६ - ङीप् अपि तर्हि प्राप्नोति ।२० - ५६ - एवम् तर्हि गुणः अभिधीयते ।२१ - ५६ - एवम् अपि लिङ्गवचनानि न सिध्यन्ति ।२२ - ५६ - शुक्लतरम् ।२३ - ५६ - शुक्लतरा ।२४ - ५६ - शुक्लतरः ।२५ - ५६ - शुक्लतरौ ।२६ - ५६ - शुक्लतराः इति ।२७ - ५६ - आश्रयतः लिङ्गवचनानि भविष्यन्ति ।२८ - ५६ - गुणवचनानाम् हि शब्दानाम् आश्रयत लिङ्गवचनानि भवन्ति ।२९ - ५६ - शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।३० - ५६ - यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गु अस्य अपि भविष्यति ।३१ - ५६ - अथ वा क्रिया अभिधीयते ।३२ - ५६ - एवम् अपि लिङ्गवचनानि न सिध्यन्ति ।३३ - ५६ - आश्रयतः लिङ्गवचनानि भविष्यन्ति ।३४ - ५६ - एवम् अपि द्विवचनम् प्राप्नोति ।३५ - ५६ - यः च अतिशेते यः च अतिशय्यते उभौ तौ तस्य आश्रयौ भवतः ।३६ - ५६ - न एषः दोषः ।३७ - ५६ - कथम् ।३८ - ५६ - शेतिः अकर्मकः ।३९ - ५६ - अकर्मकाः अपि धातवः सोपसर्गाः सकर्मकाः भवन्ति ।४० - ५६ - कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणम् वा भवन्ति कर्तृस्थभावकः च शेतिः ।४१ - ५६ - अथ यदि एव द्वितीयान्तात् उत्पत्तिः प्रथमान्तात् वा स्वार्थिकः अथ अपि गुणः अभिधीयते अथ अपि क्रिया किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।४२ - ५६ - गतम् इति आह ।४३ - ५६ - कथम् ।४४ - ५६ - यदा तावत् द्वितीयान्तात् उत्पत्तिः प्रथमान्तात् वा स्वार्थिकः तदा कृत्यल्युटः बहुलम् इति एवम् अत्र ल्युट् भविष्यति ।४५ - ५६ - यदा गुणः अभिधीयते तदा न्यायसिद्धम् एव ।४६ - ५६ - यदा लपि क्रिया तदा अपि न्यायसिद्धम् एव ।४७ - ५६ - अथ वा अतिशाययति इति अतिशायनम् ।४८ - ५६ - कः प्रयोज्यार्थः ।४९ - ५६ - गुणाः गुणिनम् प्रयोजयन्ति गुणी वा गुणान् प्रयोजयति ।५० - ५६ - कः पुनः इह शेत्यर्थः ।५१ - ५६ - इह यः यत्र भवति शेते असौ तत्र ।५२ - ५६ - गुणाः च गुणिनि शेरते ।५३ - ५६ - शेत्यर्थः कारितार्थः वा निर्देशः अयम् समीक्षितः ।५४ - ५६ - शेत्यर्थे न अस्ति वक्तव्यम् ।५५ - ५६ - कारितार्थे ब्रवीमि ते ।५६ - ५६ - गुणी वा गुणसंयोगात् गुणः वा गुणिना यदि अभिव्यज्येत संयोगात् कारितार्थः भविष्यति ।१ - ३३ - इह अस्य अपि सूक्ष्माणि वस्त्राणि अस्य अपि सूक्ष्माणि वस्त्राणि इति परत्वात् आतिशायिकः प्राप्नोति ।२ - ३३ - अतिशायने बहुव्रीहौ उक्तम् ।३ - ३३ - किम् उक्तम् ।४ - ३३ - पूर्व्पदातिशये आतिशायिकात् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः ।५ - ३३ - उत्तरपदातिशये आतिशायिकः बहुव्रीहेः बह्वाढ्यतराद्यर्थः इति ।६ - ३३ - इह त्रीणि शुक्लानि वस्त्राणि प्रकर्षापकर्षयुक्तानि ।७ - ३३ - तत्र पूर्वम् अपेक्ष्य उत्तरे द्वे तरबन्ते ।८ - ३३ - तत्र द्वयोः तरबन्तयोः एकस्मात् प्रकर्षयुक्तात् शुक्लतरशब्दात् उत्पत्तिः प्राप्नोति शुक्लशब्दात् एव च इष्यते ।९ - ३३ - शुक्लतरस्य शुक्लभावात् प्रकृतेः प्रत्ययविज्ञानम् ।१० - ३३ - शुक्लतरशब्दे शुक्लशब्दः अस्ति ।११ - ३३ - तस्मात् उत्पत्तिः भविष्यति ।१२ - ३३ - न एतत् विवदामहे शुक्लतरशब्दे शुक्लशब्दः अस्ति न अस्ति इति ।१३ - ३३ - किम् तर्हि ।१४ - ३३ - शुक्लतरशब्दः अपि अस्ति ।१५ - ३३ - ततः उत्पत्तिः प्राप्नोति ।१६ - ३३ - तदन्तात् च स्वार्थे छन्दसि दर्शनम् श्रेष्ठमाय इति ।१७ - ३३ - तदन्तात् आतिशायिकान्तात् च स्वार्थे छन्दसि आतिशायिकः दृश्यते ।१८ - ३३ - देवो वः सवित प्रर्पयतु श्रेष्ठमाय कर्मणे ।१९ - ३३ - एवम् तर्हि मध्यमात् शुक्लशब्दात् पूर्वपरापेक्षात् उत्पत्तिः वक्तव्या ।२० - ३३ - मध्यमः च शुक्लशब्दः पूर्वम् अपेक्ष्य प्रकृष्टः परम् अपेक्ष्य न्यूनः न च न्यूनः प्रवर्तते ।२१ - ३३ - अथ वा उत्पद्यताम् ।२२ - ३३ - लुक् भविष्यति ।२३ - ३३ - वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लतरशब्दात् उत्पद्यमानः वाचकः स्यात् ।२४ - ३३ - न खलु अपि बहूनाम् प्रकर्षे तरपा भवितव्यम् ।२५ - ३३ - केन तर्हि ।२६ - ३३ - तमपा ।२७ - ३३ - पूर्वेण स्पर्धमानः अयम् लभते सितः ।२८ - ३३ - परस्मिन् न्यूनताम् एति न च न्यूनः प्रवर्तते ।२९ - ३३ - अपेक्ष्य मध्यमः पूर्वम् आधिक्यम् लभते सितः ।३० - ३३ - परस्मिन् न्यूनताम् एति यथा अमात्यः स्थिते नृपे ।३१ - ३३ - अस्तु वा अपि तरः तस्मात् ।३२ - ३३ - न अपशब्दः भविष्यति ।३३ - ३३ - वाचकः चेत् प्रयोक्तव्यः वाचकः चेत् प्रयुज्यताम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP