संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ५|पाद १| खण्ड ५३ पाद १ खण्ड ५२ खण्ड ५३ पाद १ - खण्ड ५३ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ५३ Translation - भाषांतर १ - ७३ - सञ्ज्ञायाम् स्वार्थे ।२ - ७३ - सञ्ज्ञायाम् स्वार्थे प्रत्ययः उत्पाद्यः ।३ - ७३ - पञ्च एव पञ्चकाः शकुनयः ।४ - ७३ - त्रिकाः शालङ्कायनाः ।५ - ७३ - सप्तकाः ब्रह्मवृक्षाः ।६ - ७३ - ततः परिमाणिनि ।७ - ७३ - ततः परः प्रत्ययः परिमाणिनि इति वक्तव्यम् ।८ - ७३ - पञ्चकः सङ्घः ।९ - ७३ - दशकः सङ्घः ।१० - ७३ - जीवितपरिमाणे च उपसङ्ख्यानम् ।११ - ७३ - जीवितपरिमाणे च उपसङ्ख्यानम् कर्तव्यम् ।१२ - ७३ - षष्टिः जीवितपरिमाणम् अस्य षाष्टिकः ।१३ - ७३ - साप्ततिकः ।१४ - ७३ - जीवितपरिमाणे च इति अनर्थकम् वचनम् कालात् इति सिद्धत्वात् ।१५ - ७३ - जीवितपरिमाणे च इति अनर्थकम् वचनम् ।१६ - ७३ - किम् कारणम् ।१७ - ७३ - कालात् इति सिद्धत्वात् ।१८ - ७३ - कालात् इति एव सिद्धम् ।१९ - ७३ - इह यस्य षष्टिः जीवितपरिमाणम् षष्तिम् असु भूतः भवति ।२० - ७३ - तत्र तम् अधीष्टः भृतः भूतः भावी इति एव सिद्धम् ।२१ - ७३ - अवश्यम् च एतत् एवम् विज्ञेयम् ।२२ - ७३ - इह वचने हि लुक्प्रसङ्गः ।२३ - ७३ - इह हि क्रियमाणे लुक् प्रसज्येत द्विषाष्टिकः ।२४ - ७३ - त्रिषाष्टिकः ।२५ - ७३ - अनेन सति लुक् भवति ।२६ - ७३ - तेन सति कस्मात् न भवति ।२७ - ७३ - आ अर्हात् इति उच्यते ।२८ - ७३ - न सिध्यति ।२९ - ७३ - किम् कारणम् ।३० - ७३ - न हि इमे कालशब्दाः ।३१ - ७३ - किम् तर्हि सङ्ख्याशब्दाः इमे ।३२ - ७३ - इमे अपि कालशब्दाः ।३३ - ७३ - कथम् ।३४ - ७३ - सङ्ख्या सङ्ख्येये वर्तते ।३५ - ७३ - यदि तर्हि यः यः काले वर्तते सः सः कालशब्दः रमणीयादिषु अत्रिप्रसङ्गः भवति ।३६ - ७३ - रमणीयम् कालम् भूतः ।३७ - ७३ - शोभनम् कालम् भूतः ।३८ - ७३ - अथ मतम् एतत् ।३९ - ७३ - काले दृष्टः शब्दः कालशब्दः कालम् यः न व्यभिचरति इति न रमणीयादिषु अत्रिप्रसङ्गः भवति ।४० - ७३ - जीवितपरिमाणे तु उपसङ्ख्यानम् कर्तव्यम् ।४१ - ७३ - इह च उपसङ्ख्यानम् कर्तव्यम् ।४२ - ७३ - वार्षशतिकः ।४३ - ७३ - वार्षसहस्रिकः इति ।४४ - ७३ - किम् पुनः कारणम् न सिध्यति ।४५ - ७३ - न हि वर्षशतशब्दः सङ्ख्या ।४६ - ७३ - किम् तर्हि सङ्ख्येये वर्तते वर्षशतशब्दः ।४७ - ७३ - एवम् तर्हि अन्येभ्यः अपि दृश्यते खारशताद्यर्थम् ।४८ - ७३ - अन्येभ्यः अपि दृश्यते इति वक्तव्यम् ।४९ - ७३ - किम् प्रयोजनम् ।५० - ७३ - खारशताद्यर्थम् ।५१ - ७३ - खारशतिकः राशिः ।५२ - ७३ - खारसहस्त्रिकः राशिः ।५३ - ७३ - अयम् तर्हि दोषः ।५४ - ७३ - इह वचने हि लुक्प्रसङ्गः इति ।५५ - ७३ - न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यम् इति ।५६ - ७३ - किम् तर्हि ।५७ - ७३ - यत्र क्रियमाणे न दोषः तत्र कर्तव्यम् ।५८ - ७३ - क्व च क्रियमाणे न दोषः ।५९ - ७३ - परम् अर्हात् ।६० - ७३ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।६१ - ७३ - न कर्तव्यम् ।६२ - ७३ - कालात् इति एव सिद्धम् ।६३ - ७३ - ननु च उक्तम् न इमे कालशब्दाः ।६४ - ७३ - किम् तर्हि ।६५ - ७३ - सङ्ख्याशब्दाः इति ।६६ - ७३ - ननु च उक्तम् इमे अपि कालशब्दाः ।६७ - ७३ - कथम् ।६८ - ७३ - सङ्ख्या सङ्ख्येये वर्तते ।६९ - ७३ - ननु च उक्तम् यदि तर्हि यः यः काले वर्तते सः सः कालशब्दः रमणीयादिषु अत्रिप्रसङ्गः भवति इति ।७० - ७३ - उक्तम् वा ।७१ - ७३ - किम् उक्तम् ।७२ - ७३ - अनभिधानात् इति ।७३ - ७३ - अनभिधानात् रमणीयादिषु उत्पत्तिः न भविष्यति ।१ - ६ - स्तोमे डविधिः पञ्चदशाद्यर्थः ।२ - ६ - स्तोमे डः विधेयः ।३ - ६ - किम् प्रयोजनम् ।४ - ६ - पञ्चदशाद्यर्थः ।५ - ६ - पञ्चदशः स्तोमः ।६ - ६ - सप्तदशः स्तोमः इति ।१ - ११६ - इमे विंशत्यादयः सप्रकृतिकाः सप्रत्ययकाः निपात्यन्ते ।२ - ११६ - तत्र न ज्ञायते का प्रकृतिः कः प्रत्ययः कः प्रत्ययार्थः इति ।३ - ११६ - तत्र वक्तव्यम् इयम् प्रकृतिः अयम् प्रत्ययः अयम् प्रत्ययार्थः इति ।४ - ११६ - इमे ब्रूमः द्विशब्दात् अयम् दशदर्थाभिदाहिनः स्वार्थे शतिच्प्रत्ययः निपात्यते विन्भावः च ।५ - ११६ - द्वौ दशतौ विंशतिः ।६ - ११६ - विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः ।७ - ११६ - विंशत्यादयः दशात् चेत् समासः न उपपद्यते ।८ - ११६ - विंशतिगवम् इति ।९ - ११६ - किम् कारणम् ।१० - ११६ - द्रव्यम् अनभिहितम् ।११ - ११६ - तस्य अनभिहितत्वात् षष्ठी प्राप्नोति ।१२ - ११६ - षष्ठ्यन्तम् च समासे पूर्वम् निपतति ।१३ - ११६ - तत्र गोविंशतिः इति प्राप्नोति ।१४ - ११६ - न च एवम् भवितव्यम् ।१५ - ११६ - भवितव्यम् च विंशतिगवम् तु न सिध्यति ।१६ - ११६ - इह च त्रिंशत्पूली चत्वारिंशत्पूली समानाधिकरणलक्षणः समासः न प्राप्नोति ।१७ - ११६ - वचनम् च विधेयम् ।१८ - ११६ - विंशतिः ।१९ - ११६ - द्वित्वात् दशतोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति ।२० - ११६ - एवम् तर्हि परिमाणिनि विंशत्यादयः भविष्यन्ति ।२१ - ११६ - परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् ।२२ - ११६ - परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययः विधेयः ।२३ - ११६ - विंशकः सङ्घः ।२४ - ११६ - षष्ठीवचनविधिः च ।२५ - ११६ - षष्ठी च विधेया ।२६ - ११६ - गवाम् विंशतिः ।२७ - ११६ - द्रव्यम् अभिहितम् ।२८ - ११६ - तस्य अभिहितत्वात् षष्ठी न प्राप्नोति ।२९ - ११६ - एकवचनम् च विधेयम् ।३० - ११६ - विंशतिः गावः ।३१ - ११६ - गोभिः सामानाधिकरण्यात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति ।३२ - ११६ - अनारम्भः वा प्रातिपदिकविज्ञानात् यथा सहस्रादिषु ।३३ - ११६ - अनारम्भः वा पुनः विंशत्यादीनाम् न्याय्यः ।३४ - ११६ - कथम् सिध्यति ।३५ - ११६ - प्रातिपदिकविज्ञानात् ।३६ - ११६ - कथम् प्रातिपदिकविज्ञानम् ।३७ - ११६ - विंशत्यादयः अव्युत्पन्नानि प्रातिपदिकानि यथा सहस्रादिषु ।३८ - ११६ - तत् यथा सहस्रम् अयुतम् अर्बुदम् इति न च अनुगमः क्रियते भवति च अभिधानम् ।३९ - ११६ - यथा सहस्रादिषु इति उच्यते ।४० - ११६ - अथ सहस्रादिषु अपि कथम् भवितव्यम् ।४१ - ११६ - सहस्रम् गवाम् ।४२ - ११६ - सहस्रम् गावः ।४३ - ११६ - सहस्रगवम् ।४४ - ११६ - गोसहस्रम् इति ।४५ - ११६ - यावता अत्र अपि सन्देहः न असूया कर्तव्या यत्र अनुगमः क्रियते ।४६ - ११६ - ननु च उक्तम् विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः ।४७ - ११६ - परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् ।४८ - ११६ - षष्ठीवचनविधिः च इति ।४९ - ११६ - न एषः दोषः ।५० - ११६ - समुदाये विंशत्यादयः भविष्यन्ति ।५१ - ११६ - किम् वक्तव्यम् एतत् ।५२ - ११६ - न हि ।५३ - ११६ - कथम् अनुच्यमानम् गंस्यते ।५४ - ११६ - सङ्घः इति वर्तते ।५५ - ११६ - सङ्घः समूहः समुदायः इति अनर्थान्तरम् ।५६ - ११६ - ते एते विंशत्यादयः समुदाये सन्तः भाववचनाः भवन्ति भाववचनाः सन्तः गुणवचनाः भवन्ति गुणवचनाः सन्तः अविशिष्टाः भवन्ति अन्यैः गुणवचनैः ।५७ - ११६ - अन्येषु च गुणवचनेषु कदा चित् गुणः गुणिविशेषकः भवति ।५८ - ११६ - तत् यथा शुक्लः पटः इति ।५९ - ११६ - कदा चित् गुणिना गुणः व्यपदिश्यते पटस्य शुक्लः इति ।६० - ११६ - तत् यदा तावत् उच्यते विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः इति सामानाधिकरण्यम् तदा गुणगुणिनोः ।६१ - ११६ - वचनपरिहारः तिष्ठतु तावत् ।६२ - ११६ - परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् इति संहनने वृत्तः संहनने वर्तिष्यते ।६३ - ११६ - सङ्ख्यासंहनने वृत्तः द्रव्यसंहनने वर्तिष्यते ।६४ - ११६ - अथ षष्ठी तदा गुणिना गुणः विशेष्यते ।६५ - ११६ - वचनपरिहारः उभयोः अपि ।६६ - ११६ - यदि तर्हि इमे विंशत्यादयः गुणवचनाः स्युः सधर्मभिः अन्यैः गुणवचनैः भवितव्यम् ।६७ - ११६ - अन्ये च गुणवचनाः द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते ।६८ - ११६ - तत् यथा ।६९ - ११६ - शुक्लम् वस्त्रम् ।७० - ११६ - शुक्ला शाटी ।७१ - ११६ - शुक्लः कम्बलः ।७२ - ११६ - शुक्लौ कम्बलौ ।७३ - ११६ - शुक्लाः कम्बलाः इति ।७४ - ११६ - यत् असौ द्रव्यम् श्रितः गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।७५ - ११६ - विंशत्यादयः पुनः न अनुवर्तन्ते ।७६ - ११६ - अन्ये अपि वै गुणवचनाः न अवश्यम् द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते ।७७ - ११६ - तत् यथा ।७८ - ११६ - गावः धनम् ।७९ - ११६ - पुत्रा अपत्यम् ।८० - ११६ - इन्द्राग्नी देवता ।८१ - ११६ - विश्वेदेवाः देवता ।८२ - ११६ - यावन्तः ते वाशिताम् अनुयन्ति सर्वे ते दक्षिणा समृद्ध्यै इति ।८३ - ११६ - अथ अत्र अननुवृत्तौ हेतुः शक्यः वक्तुम् ।८४ - ११६ - बाढम् शक्यः वक्तुम् ।८५ - ११६ - कामम् तर्हि उच्यताम् ।८६ - ११६ - इह कदा चित् गुणः प्राधान्येन विवक्षितः भवति ।८७ - ११६ - तत् यथा पञ्च उडुपशतानि तीर्णानि ।८८ - ११६ - पञ्च फलकशतानि तीर्णानि ।८९ - ११६ - अश्वैः युद्धम् ।९० - ११६ - असिभिः युद्धम् इति ।९१ - ११६ - न च असयः युध्यन्ते ।९२ - ११६ - असिगुणाः पुरुषाः युध्यन्ते गुणः तु खलु प्राधान्येन विवक्षितः ।९३ - ११६ - इह तावत् गावः धनम् इति धिनोतेः धनम् एकः गुणः ।९४ - ११६ - सः प्राधान्येन विवक्षितः ।९५ - ११६ - पुत्राः अपत्यम् इति अपतनात् अपत्यम् एकः गुणः ।९६ - ११६ - सः प्राधान्येन विवक्षितः ।९७ - ११६ - इन्द्राग्नी देवता ।९८ - ११६ - विश्वेदेवाः देवता इति दिवेः ऐश्वर्यकर्मणः देवः ।९९ - ११६ - तस्मात् स्वार्थे तल् ।१०० - ११६ - एकः गुणः ।१०१ - ११६ - सः प्राधान्येन विवक्षितः ।१०२ - ११६ - यावन्तः ते वाशिताम् अनुयन्ति सर्वे ते दक्षिणा समृद्ध्या इति दक्षेः वृद्धिकर्मणः दक्षिणा एकः गुणः ।१०३ - ११६ - सः प्राधान्येन विवक्षितः ।१०४ - ११६ - तस्य एकत्वात् एकवचनम् भविष्यति ।१०५ - ११६ - विंशत्यादिषु च अपि एकः गुणः ।१०६ - ११६ - सः प्राधान्येन विवक्षितः ।१०७ - ११६ - तस्य एकत्वात् एकवचनम् भविष्यति ।१०८ - ११६ - अयम् तर्हि विंशत्यादिषु भाववचनेषु दोषः ।१०९ - ११६ - गोविंशतिः आनीयताम् इति भावानयने चोदिते द्रव्याननम् न प्राप्नोति ।११० - ११६ - न एषः दोषः ।१११ - ११६ - इदम् तावत् अयम् प्रष्टव्यः अथ इह गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति कथम् आकृतौ चोदितायाम् द्रव्ये आरम्भणलम्भनप्रोक्षणविशसनादीनि क्रियन्ते इति ।११२ - ११६ - असम्भवात् ।११३ - ११६ - आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते ।११४ - ११६ - इदम् अपि एवञ्जातीयकम् एव ।११५ - ११६ - असम्भवात् भावानयनस्य द्रव्यानयनम् भविष्यति ।११६ - ११६ - अथ वा अव्यतिरेकात् ।१ - २० - छेदादिपथिभ्यः विग्रहदर्शनात् नित्यग्रहणानर्थक्यम् ।२ - २० - छेदादिपथिभ्यः नित्यग्रहणम् अनर्थकम् ।३ - २० - किम् कारणम् ।४ - २० - विग्रहदर्शनात् ।५ - २० - विग्रहः दृश्यते ।६ - २० - छेदम् अर्हति ।७ - २० - पन्थानम् गच्छति इति ।८ - २० - विकारार्थम् तर्हि इदम् नित्यग्रहणम् क्रियते ।९ - २० - विकारेण विग्रहः मा भूत् इति ।१० - २० - विरागविरङ्गम् च ।११ - २० - पन्थः ण नित्यम् इति ।१२ - २० - विकारार्थम् इति चेत् अकङादिभिः तुल्यम् ।१३ - २० - विकारार्थम् इति चेत् अकङादिभिः तुल्यम् एतत् ।१४ - २० - यथा अकङादिभिः विकारैः विग्रहः न भवति एवम् आभ्याम् अपि न भविष्यति ।१५ - २० - किम् पुनः इह अकर्तव्यम् नित्यग्रहणम् क्रियते आहोस्वित् अन्यत्र कर्तव्यम् न क्रियते ।१६ - २० - इह अकर्तव्यम् क्रियते ।१७ - २० - एषः एव न्यायः यत् उत सन्नियोगशिष्टानाम् अन्यतरापाये उभयोः अपि अभावः ।१८ - २० - तत् यथा ।१९ - २० - देवदत्तयज्ञदत्ताभ्याम् इदम् कर्तव्यम् इति ।२० - २० - देवदत्तापाये यज्ञदत्तः अपि न करोति ।१ - ३ - यज्ञर्त्विग्भ्याम्तत् कर्म अर्हति इति उपसङ्ख्यानम् । यज्ञर्त्विग्भ्याम्तत् कर्म अर्हति इति उपसङ्ख्यानम् कर्तव्यम् ।२ - ३ - य्जञकर्म अर्हति यज्ञियः देशः ।३ - ३ - ऋत्विक्कर्म अर्हति आर्त्विजीनम् ब्राह्मणकुलम् इति ।१ - १७ - तत् वर्तयति इति अनिर्देशः तत्र अदर्शनात् ।२ - १७ - तत् वर्तयति इति अनिर्देशः ।३ - १७ - अगमकः निर्देशः अनिर्देशः ।४ - १७ - पारायणम् कः वर्तयति ।५ - १७ - यः परस्य करोति ।६ - १७ - तुरायणम् कः वर्तयति ।७ - १७ - यः चरुपुरोडाशान् निर्वपति ।८ - १७ - तत्र अदर्शनात् ।९ - १७ - न च तत्र प्रत्ययः दृश्यते ।१० - १७ - इङ्यज्योः च दर्शनात् ।११ - १७ - इङ्यज्योः च प्रत्ययः दृश्यते ।१२ - १७ - यः पारायणम् अधीते सः पारायणिकः इति उच्यते ।१३ - १७ - यः तुरायणेन यजते सः तौरायणिकः इति उच्यते ।१४ - १७ - यः च एव अधीते यः परस्य करोति उभौ तौ वर्तयतः ।१५ - १७ - यः च यजते यः च यः चरुपुरोडाशान् निर्वपति उभौ तौ वर्तयतः ।१६ - १७ - उभयत्र कस्मात् न भवति ।१७ - १७ - अनभिधानात् ।१ - ८ - योजनम् गच्छति इति क्रोशशतयोजनशतयोः उपसङ्ख्यानम् ।२ - ८ - योजनम् गच्छति इति क्रोशशतयोजनशतयोः उपसङ्ख्यानम् कर्तव्यम् ।३ - ८ - क्रोशशतम् गच्छति इति क्रौशशतिकः ।४ - ८ - योजनशतम् गच्छति इति यौजनशतिकः इति ।५ - ८ - ततः अभिगमनम् अर्हति इति च ।६ - ८ - ततः अभिगमनम् अर्हति इति च क्रोशशतयोजनशतयोः उपसङ्ख्यानम् कर्तव्यम् ।७ - ८ - क्रोशशतात् अभिगमनम् अर्हति क्रौशशतिकः भिक्षुः ।८ - ८ - योजनशतात् अभिगमनम् अर्हति यौजनशतिकः गुरुः ।१ - २५ - आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदात् उपसङ्ख्यानम् ।२ - २५ - आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदात् उपसङ्ख्यानम् कर्तव्यम् ।३ - २५ - वारिपथेन गच्छति वारिपथिकः ।४ - २५ - वारिपथेन आहृतम् वारिपथिकम् ।५ - २५ - वारि ।६ - २५ - जङ्गल ।७ - २५ - जङ्गलपथेन गच्छति जाङ्गलपथिकः ।८ - २५ - जङ्गलपथेन आहृतम् जाङ्गलपथिकम् ।९ - २५ - जङ्गल ।१० - २५ - स्थल ।११ - २५ - स्थलपथेन गच्छति स्थालपथिकः ।१२ - २५ - स्थलपथेन आहृतम् स्थालपथिकम् ।१३ - २५ - स्थल ।१४ - २५ - कान्तार ।१५ - २५ - कान्तारपथेन गच्छति कान्तारपथिकः ।१६ - २५ - कान्तारपथेन आहृतम् कान्तारपथिकम् ।१७ - २५ - अजपथशङ्कुपथाभ्याम् च ।१८ - २५ - अजपथशङ्कुपथाभ्याम् च इति वक्तव्यम् ।१९ - २५ - अजपथेन गच्छति आजपथिकः ।२० - २५ - अजपथेन आहृतम् आजपथिकम्. शङ्कुपथेन गच्छति शाङ्कुपथिकः ।२१ - २५ - शङ्कुपथेन आहृतम् शाङ्कुपथिकम् ।२२ - २५ - मधुकमरिचयोः अण् स्थलात् ।२३ - २५ - मधुकमरिचयोः अण् स्थलात् वक्तव्यः ।२४ - २५ - स्थालपथम् मधुकम् ।२५ - २५ - स्थालपथम् मरिचम् ।१ - १६ - अधीष्टभृतयोः द्वितीयानिर्देशः अनर्थकः तत्र अदर्शनात् ।२ - १६ - अधीष्टभृतयोः द्वितीयानिर्देशः अनर्थकः ।३ - १६ - किम् कारणम् ।४ - १६ - तत्र अदर्शनात् ।५ - १६ - न हि असौ मासम् अधीष्यते ।६ - १६ - किम् तर्हि मुहूर्तम् अधीष्टः मासम् तत् कर्म करोति ।७ - १६ - सिद्धम् तु चतुर्थीनिर्देशात् ।८ - १६ - सिद्धम् एतत् ।९ - १६ - कथम् ।१० - १६ - चतुर्थीनिर्देशात् ।११ - १६ - चतुर्थीनिर्देशः कर्तव्यः ।१२ - १६ - तस्मै अधीष्टः इति ।१३ - १६ - सः तर्हि चतुर्थीनिर्देशः कर्तव्यः ।१४ - १६ - न कर्तव्यः ।१५ - १६ - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।१६ - १६ - मासार्थः मुहूर्तः मासः ।१ - ४ - अवयसि ठन् च इति अनन्तरस्य अनुकर्षः ।२ - ४ - अवयसि ठन् च इति अनन्तरस्य अनुकर्षः द्रष्टव्यः ।३ - ४ - द्वेष्यम् विजानीयात् यप् अपि अनुवर्तते इति ।४ - ४ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे अवयसि ठन् च इति अनन्तरस्य अनुकर्षः इति ।१ - ७ - षष्टिके सञ्ज्ञाग्रहणम् ।२ - ७ - षष्टिके सञ्ज्ञाग्रहणम् कर्तव्यम् ।३ - ७ - मुद्गाः अपि हि षष्टिरात्रेणे पच्यन्ते ।४ - ७ - तत्र मा भूत् इति ।५ - ७ - उक्तम् वा ।६ - ७ - किम् उक्तम् ।७ - ७ - अनभिधानात् इति ।१ - ३३ - तत् अस्य ब्रह्मचर्यम् इति महानाम्न्यादिभ्यः उपसङ्ख्यानम् ।२ - ३३ - तत् अस्य ब्रह्मचर्यम् इति महानाम्न्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।३ - ३३ - महानाम्नीनाम् ब्रह्मचर्यम् माहानाम्निकम् ।४ - ३३ - आदित्यव्रतिकम् ।५ - ३३ - तत् चरति इति च ।६ - ३३ - तत् चरति इति च महानाम्न्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।७ - ३३ - महानाम्नीः चरति माहानाम्निकः ।८ - ३३ - आदित्यव्रतिकः ।९ - ३३ - न एषः युक्तः निर्देशः तत् चरति इति ।१० - ३३ - महानाम्न्यः नाम ऋचः ।११ - ३३ - न च ताः चर्यन्ते ।१२ - ३३ - व्रतम् तासाम् चर्यते ।१३ - ३३ - न एषः दोषः ।१४ - ३३ - साहचर्यात् ताच्छब्यम् भविष्यति ।१५ - ३३ - महानाम्नीसहचरितम् व्रतम् महानाम्न्यः व्रतम् इति ।१६ - ३३ - अवान्तरदीक्षादिभ्यः डिनिः ।१७ - ३३ - अवान्तरदीक्षादिभ्यः डिनिः वक्तव्यः ।१८ - ३३ - अवान्तरदीक्षी ।१९ - ३३ - तिलव्रती ।२० - ३३ - अष्टाचत्वारिंशतः ड्वुन् च ।२१ - ३३ - अष्टाचत्वारिंशतः ड्वुन् च डिनिः च वक्तव्यः ।२२ - ३३ - अष्टाचत्वारिंशकः ।२३ - ३३ - अष्टाचत्वारिंशी ।२४ - ३३ - चातुर्मास्यानाम् यलोपः च ।२५ - ३३ - चातुर्मास्यानाम् यलोपः च ड्वुन् च डिनिः च वक्तव्यः ।२६ - ३३ - चातुर्मासिकः ।२७ - ३३ - चातुर्मासी ।२८ - ३३ - अथ किम् इदम् चातुर्मास्यानाम् इति ।२९ - ३३ - चतुर्मासात् ण्यः यज्ञे तत्र भवे ।३० - ३३ - चतुर्मासात् ण्यः वक्तव्यः यज्ञे तत्र भवे इति एतस्मिन् अर्थे ।३१ - ३३ - चतुर्षु मासेषु भवानि चातुर्मास्यानि यज्ञाः ।३२ - ३३ - सञ्ज्ञायाम् अण् । सञ्ज्ञायाम् अण् वक्तव्यः ।३३ - ३३ - चतुर्षु मासेषु भवा चातुर्मासी पौणमासी१ - १२ - आख्याग्रहणम् किमर्थम्. तस्य दक्षिणा यज्ञेभ्यः इति इयति उच्यमाने ये एते सञ्ज्ञीभूतकाः यज्ञाः ततः उतपत्तिः स्यात् ।२ - १२ - अग्निष्टोमिक्यः ।३ - १२ - राजसूयिकः ।४ - १२ - वाजपेयिक्यः ।५ - १२ - यत्र वा यज्ञशब्दः अस्ति ।६ - १२ - नावयज्ञिक्यः ।७ - १२ - पाकयज्ञिक्यः ।८ - १२ - इह न स्यात् ।९ - १२ - पाञ्चौदनिक्यः ।१० - १२ - दाशौदनिक्यः ।११ - १२ - आख्याग्रहणे पुनः क्रियमाणे न दोषः भवति ।१२ - १२ - ये च सञ्ज्ञीभूतकाः यत्र च यज्ञशब्दः अस्ति यत्र च न अस्ति तदाख्यामात्रात् सिच्छम् भवति ।१ - १६ - कार्यग्रहणम् अनर्थकम् तत्रभवेन कृतत्वात् । कार्यग्रहणम् अनर्थकम् ।२ - १६ - किम् कारणम् ।३ - १६ - तत्रभवेन कृतत्वात् ।४ - १६ - यत् हि मासे कार्यम् मासे भवम् तत् भवति ।५ - १६ - तत्र तत्र भवः इति एव सिद्धम् ।६ - १६ - किम् इदम् भवान् कार्यग्रहणम् एव प्रत्याचष्टे न पुनः दीयतेग्रहणम् अपि ।७ - १६ - यथा एव हि यत् मासे कार्यम् तत् मासे भवम् भवति एवम् यत् अपि मासे दीयते तत् अपि मासे भवम् भवति ।८ - १६ - तत्र तत्र भवः इति एव सिद्धम् ।९ - १६ - न सिध्यति ।१० - १६ - न तत् मासे दीयते ।११ - १६ - किम् तर्हि मासे गते ।१२ - १६ - एवम् तर्हि औपश्लेषिकम् अधिकरणम् विज्ञास्यते ।१३ - १६ - एवम् तर्हि योगविभागोत्तरकालम् इदम् पठितव्यम् ।१४ - १६ - तस्य दक्षिणा यज्ञाख्येभ्यः ।१५ - १६ - तत्र च दीयते ।१६ - १६ - ततः कार्यम् भववत् कालात् इति ।१ - २२ - अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् ।२ - २२ - अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।३ - २२ - त्रीणि इमानि अण्ग्रहणानि ।४ - २२ - व्युष्टादिभ्यः अण् ।५ - २२ - समयः तत् अस्य प्राप्तम् ।६ - २२ - ऋतोः अण् ।७ - २२ - प्रयोजनम् ।८ - २२ - विशाखाषाढात् अण् मन्थदण्डयोः इति ।९ - २२ - तत्र न ज्ञायते कतरस्मिन् अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् ।१० - २२ - अविशेषात् सर्वत्र ।११ - २२ - व्युष्टादिभ्यः अण् भवति इति उक्त्वा अग्निपदादिभ्यः च इति वक्तव्यम् ।१२ - २२ - अग्निपदे दीयते कार्यम् वा आग्निपदम् ।१३ - २२ - पैलुमूलम् ।१४ - २२ - समयः तत् अस्य प्राप्तम् ।१५ - २२ - ऋतोः अण् ।१६ - २२ - अग्निपदादिभ्यः च इति वक्तव्यम् ।१७ - २२ - उपवस्ता प्राप्तः अस्य औपवस्त्रम् ।१८ - २२ - प्राशिता प्राप्तः अस्य प्राशित्रम् ।१९ - २२ - प्रयोजनम् ।२० - २२ - विशाखाषाढात् अण् मन्थदण्डयोः ।अग्निपदादिभ्यः च इति वक्तव्यम् ।२१ - २२ - चूडा प्रयोजनम् अस्य चौडम् ।२२ - २२ - श्रद्धा प्रयोजनम् अस्य श्राद्धम् ।१ - २१ - छप्रकरणे विशिपूरिपदिरुहिप्रकृतेः अनात् सपूर्वपदात् उपसङ्ख्यानम् ।२ - २१ - छप्रकरणे विशिपूरिपदिरुहिप्रकृतेः अनात् सपूर्र्वपदात् उपसङ्ख्यानम् कर्तव्यम् ।३ - २१ - विशि ।४ - २१ - गेहानुप्रवेशनीयम् ।५ - २१ - पूरि ।६ - २१ - प्रपापूरणीयम् ।७ - २१ - पदि ।८ - २१ - गोप्रपदनीयम् ।९ - २१ - अश्वप्रपदनीयम् ।१० - २१ - रुहि ।११ - २१ - प्राशादारोहणीयम् ।१२ - २१ - स्वर्गादिभ्यः यत् ष्वर्गादिभ्यः यत् प्रत्ययः भवति ।१३ - २१ - स्वर्ग्यम् ।१४ - २१ - धन्यम् ।१५ - २१ - यशस्यम् ।१६ - २१ - आयुष्यम् ।१७ - २१ - पुण्याहवाचनादिभ्यः लुक् ।१८ - २१ - पुण्याहवाचनादिभ्यः लुक् वक्तव्यः ।१९ - २१ - पुण्याहवाचनम् ।२० - २१ - शान्तिवाचनम् ।२१ - २१ - स्वस्तिवाचनम् ।१ - ११ - एकागारात् निपातनानर्थक्यम् ठञ्प्रकरणात् ।२ - ११ - एकागारात् निपातनम् अनर्थकम् ।३ - ११ - किम् कारणम् ।४ - ११ - ठञ्प्रकरणात् ।५ - ११ - ठञ् प्रकृतः ।६ - ११ - सः अनुवर्तिष्यते ।७ - ११ - इदम् तर्हि प्रयोजनम् ।८ - ११ - चौरे इति वक्ष्यामि इति ।९ - ११ - इह मा भूत् ।१० - ११ - एकागारम् प्रयोजनम् अस्य भिक्षोः इति ।११ - ११ - यदि एतावत् प्रयोजनम् स्यात् एकागारात् चौरे इति एव ब्रूयात् ।१ - १२ - आकालात् निपातनानर्थक्यम् ठञ्प्रकरणात् ।२ - १२ - आकालात् निपातनम् नर्थकम् ।३ - १२ - किम् कारणम् ।४ - १२ - ठञ्प्रकरणात् ।५ - १२ - ठञ् प्रकृतः ।६ - १२ - सः अनुवर्तिष्यते ।७ - १२ - इदम् तर्हि प्रयोजनम् ।८ - १२ - एतस्मिन् विशेषे निपातनम् करिष्यामि समानकालस्य आद्यन्तविवक्षायाम् इति ।९ - १२ - आकालात् ठन् च ।१० - १२ - आकालात् ठन् च वक्तव्यः ।११ - १२ - आकालिकी ।१२ - १२ - आकालिका ।१ - ४६ - इदम् अयुक्तम् वर्तते ।२ - ४६ - किम् अत्र अयुक्तम् ।३ - ४६ - यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति उच्यते ।४ - ४६ - कथम् च तृतीयासमर्थम् नाम क्रिया स्यात् ।५ - ४६ - न एषः दोषः ।६ - ४६ - सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते ।७ - ४६ - ब्राह्मणः क्षत्रियः ।८ - ४६ - वैश्यः शूद्रः इति ।९ - ४६ - आतः च गुणसमुदाये एवम् हि आह ।१० - ४६ - तपः श्रुतम् च योनिः च इति एतद् ब्राह्मणकारकम् ।११ - ४६ - तपःश्त्रुताभ्याम् यः हीनः जातिब्राह्मणः एव सः ।१२ - ४६ - तथा गौरः शुच्याचारः पिङ्गलः कपिलकेशः इति एतान् अपि अभ्यन्तरान् ब्राह्मणे गुणन् कुर्वन्ति ।१३ - ४६ - समुदायेषु च शब्दाः वृत्ताः अवयवेषु अपि वर्तन्ते ।१४ - ४६ - तत् यथा पूर्वे पञ्चालाः , उत्तरे पञ्चालाः , तैलम् भुक्तम् , घृतम् भुक्तम् , शुक्लः , नीलः , कृष्णः इति ।१५ - ४६ - एवम् अयम् ब्राह्मणशब्दय समुदाये वृत्तः अवयवेषु अपि वर्तते ।१६ - ४६ - यदि तर्हि तृतीयासमर्थम् विशेष्यते प्रत्ययार्थः अविशेषितः भवति ।१७ - ४६ - तत्र कः दोषः ।१८ - ४६ - तृतीयासमर्थात् क्रियावाचिनः गुणतुल्ये अपि प्रत्ययः स्यात् ।१९ - ४६ - पुत्रेण तुल्यः स्थूलः ।२० - ४६ - पुत्रेण तुल्यः पिङ्गलः ।२१ - ४६ - अस्तु तर्हि प्रत्ययार्थविशेषणम् ।२२ - ४६ - यत् तत् तुल्यम् क्रिया चेत् सा भवति इति ।२३ - ४६ - एवम् अपि तृतीयासमर्थम् अविशेषितम् भवति ।२४ - ४६ - तत्र कः दोषः ।२५ - ४६ - तृतीयासमर्थात् अक्रियावाचिनः क्रियातुल्ये अपि प्रत्ययः प्राप्नोति ।२६ - ४६ - न एषः दोषः ।२७ - ४६ - यत् तत् तुल्यम् क्रिया चेत् सा भवति इति उच्यते ।२८ - ४६ - तुलया च सम्मितम् तुल्यम् ।२९ - ४६ - यदि च तृतीयासमर्थम् अपि क्रिया प्रत्ययार्थः अपि क्रिया ततः तुलयम् भवति ।३० - ४६ - अथ वा पुनः अस्तु यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति एव ।३१ - ४६ - ननु च उक्तम् प्रत्ययार्थः अविशेषितः इति ।३२ - ४६ - तत्र कः दोषः ।३३ - ४६ - तृतीयासमर्थात् क्रियावाचिनः गुणतुल्ये अपि प्रत्ययः स्यात् ।३४ - ४६ - पुत्रेण तुल्यः स्थूलः ।३५ - ४६ - पुत्रेण तुल्यः पिङ्गलः इति ।३६ - ४६ - न एषः दोषः ।३७ - ४६ - यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति उच्यते ।३८ - ४६ - तुलया च सम्मितम् तुल्यम् ।३९ - ४६ - यदि च तृतीयासमर्थम् अपि क्रिया प्रत्ययार्थः अपि क्रिया ततः तुलयम् भवति ।४० - ४६ - किम् पुनः अत्र ज्यायः ।४१ - ४६ - प्रत्ययार्थविशेषणम् एव ज्यायः ।४२ - ४६ - कुतः एतत् ।४३ - ४६ - एवम् च एव कृत्वा आचार्येण सूत्रम् पठितम् ।४४ - ४६ - वतिना सामानाधिकरण्यम् कृतम् ।४५ - ४६ - अपि च वतेः अव्ययेषु पाठः न कर्तव्यः भवति ।४६ - ४६ - क्रियायाम् अयम् भवन् लिङ्गसङ्ख्याभ्यम् न योक्ष्यते ।१ - १० - किमर्थम् इदम् उच्यते न तेन तुल्यम् क्रिया चेत् वतिः इति एव सिद्धम् ।२ - १० - न सिध्यति ।३ - १० - तृतीयासमर्थात् तत्र प्रत्ययः यदा अन्येन कर्तव्याम् क्रियाम् अन्यः करोति तदा प्रत्ययः उत्पाद्यते ।४ - १० - न च का चिद् इवशब्देन योगे तृतीया विधीयते ।५ - १० - ननु च सपतमी अपि न विधीयते ।६ - १० - एवम् तर्हि सिद्धे सति यत् इवशब्देन योगे सप्तमीसमर्थात् वतिम् शास्ति तत् ज्ञापयति आचार्यः भवति इवशब्देन योगे सप्तमी इति ।७ - १० - किम् एतस्य ज्ञापने प्रयोजनम् ।८ - १० - देवेषु इव नाम ।९ - १० - ब्राह्मणेषु इव नाम ।१० - १० - एषः प्रयोगः उपपन्नः भवति ।१ - ६ - किमर्थम् इदम् उच्यते न तेन तुल्यम् क्रिया चेत् वतिः इति एव सिद्धम् ।२ - ६ - न सिध्यति ।३ - ६ - तृतीयासमर्थात् तत्र प्रत्ययः यदा अन्येन कर्तव्याम् क्रियाम् अन्यः करोति तदा प्रत्ययः उत्पाद्यते ।४ - ६ - इह पुनः द्वितीयासमर्थात् आत्मार्हायाम् क्रियायाम् अर्हतिकर्तरि निश्चितबलाधाने प्रत्ययः उत्पाद्यते ।५ - ६ - ब्राह्मणवत् भवान् वर्तते ।६ - ६ - एतत् वृत्तम् ब्राह्मणः अर्हति इति ।१ - १५ - अर्थग्रहणम् किमर्थम् ।२ - १५ - न उपसर्गात् छन्दसि धातवु इति एव उच्येत ।३ - १५ - धातुः वै शब्दः ।४ - १५ - शब्दे कार्यस्य असम्भवात् अर्थे कार्यम् विज्ञास्यते ।५ - १५ - कः पुनः धात्वर्थः ।६ - १५ - क्रिया ।७ - १५ - इदम् तर्हि प्रयोजनम् ।८ - १५ - उत्तरपदलोपः यथा विज्ञायेत ।९ - १५ - धातुकृतः अर्थः धात्वर्थः इति ।१० - १५ - कः पुनः धातुकृतः अर्थः ।११ - १५ - साधनम् ।१२ - १५ - किम् प्रयोजनम् ।१३ - १५ - साधने अयम् भवन् लिङ्गसङ्ख्याभ्यम् योक्ष्यते ।१४ - १५ - उद्गतानि उद्वतः ।१५ - १५ - निगतानि निवतः इति ।१ - ११ - स्त्रीपुंसाभ्याम् वत्युपसङ्ख्यानम् ।२ - ११ - स्त्रीपुंसाभ्याम् वत्युपसङ्ख्यानम् कर्तव्यम् ।३ - ११ - स्त्रीवत् ।४ - ११ - पुंवत् इति ।५ - ११ - किम् पुनः कारणम् न सिध्यति ।६ - ११ - इमौ नञ्स्नञौ प्राक् भवनात् इति उच्येते ।७ - ११ - तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् ।८ - ११ - न एषः दोषः ।९ - ११ - आचार्यप्रवृत्तिः ज्ञापयति न वत्यर्थे नञ्स्नञौ भवतः इति यत् अयम् स्त्रियाः पुंवत् इति निर्देशम् करोति ।१० - ११ - एवम् अपि स्त्रीवत् इति न सिध्यति ।११ - ११ - योपापेक्षम् ज्ञापकम् ।१ - २५ - स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् ।२ - २५ - स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् कर्तव्यम् ।३ - २५ - स्त्रीभावः स्त्रीत्वम् स्त्रीता ।४ - २५ - किम् पुनः कारणम् न सिध्यति ।५ - २५ - इमौ नञ्स्नञौ प्राक् भवनात् इति उच्येते ।६ - २५ - तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् ।७ - २५ - वावचनम् च ।८ - २५ - वावचनम् च कर्तव्यम् ।९ - २५ - किम् प्रयोजनम् ।१० - २५ - नञ्स्नञौ अपि यथा स्याताम् ।११ - २५ - स्त्रीभावः स्त्रैणम् ।१२ - २५ - पुम्म्भावः पौंस्नम् इति ।१३ - २५ - अपवादसमावेशात् वा सिद्धम् ।१४ - २५ - अपवादसमावेशात् वा सिद्धम् एतत् ।१५ - २५ - तत् यथा इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति एवम् आभ्याम् अपि भविष्यति ।१६ - २५ - न एव ईश्वरः आज्ञापपयति न अपि धर्मसूत्रकाराः पठन्ति इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति इति ।१७ - २५ - किम् तर्हि आ च त्वात् इति एतस्मात् यत्नात् इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति ।१८ - २५ - न च एतौ अत्र अभ्यन्तरौ ।१९ - २५ - एतौ अपि अत्र अभ्यन्तरौ ।२० - २५ - कथम् ।२१ - २५ - अपवादसदेशाः अपवादाः भवन्ति इति ।२२ - २५ - एतत् च एव न जानीमः अपवादसदेशाः अपवादाः भवन्ति इति ।२३ - २५ - अपि च कुतः एतत् एतौ अपि अत्र अभ्यन्तरौ न पुनः पूर्वौ वा स्याताम् परौ वा ।२४ - २५ - एवम् तर्हि वक्ष्यति आ च त्वात् इति अत्र चकारकरणस्य प्रयोजनम् ।२५ - २५ - नञ्स्नञ्भ्याम् अपि समावेशः भवति इति ।१ - १०० - तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः ।२ - १०० - तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः भवति ।३ - १०० - इह अपि प्राप्नोति ।४ - १०० - अभिप्रायः देवदत्तस्य मोदकेषु भोजने ।५ - १०० - ये नः भावाः ते नः भावाः पुत्राः पुत्रैः चेष्टन्ते इति ।६ - १०० - सिद्धम् तु यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने त्वतलौ ।७ - १०० - सिद्धम् एतत् ।८ - १०० - कथम् ।९ - १०० - यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम् ।१० - १०० - न च अभिप्रायादीनाम् भावात् द्रव्ये देवदत्तशब्दः वर्तते ।११ - १०० - किम् पुनः द्रव्यम् के पुनः गुणाः ।१२ - १०० - शब्दस्पर्शरूपरसगन्धाः गुणाः ।१३ - १०० - ततः अन्यत् द्रव्यम् ।१४ - १०० - किम् पुनः अन्यत् शब्दादिभ्यः द्रव्यम् आहोस्वित् अनन्यत् ।१५ - १०० - गुणस्य अयम् भावात् द्रव्ये शब्दनिवेशम् कुर्वन् ख्यापयति अन्यत् शब्दादिभ्यः द्रव्यम् इति ।१६ - १०० - अनन्यत् शब्दादिभ्यः द्रव्यम् ।१७ - १०० - न हि अन्यत् उपलभ्यते ।१८ - १०० - पशोः खलु अपि विशसितस्य पर्णशते न्यस्तस्य न अन्यत् शब्दादिभ्यः उपलभ्यते ।१९ - १०० - अन्यत् शब्दादिभ्यः द्रव्यम् तत् तु अनुमानगम्यम् ।२० - १०० - तत् यथा ओषधिवनस्पतीनाम् वृद्धिह्रासौ ।२१ - १०० - ज्योतिषाम् गतिः इति ।२२ - १०० - कः असौ अनुमानः ।२३ - १०० - इह समाने वर्ष्मणि परिणाहे च अन्यत् तुलाग्रम् भवति लोहस्य अन्यत् कार्पासानाम् ।२४ - १०० - यत्कृतः विशेषः तत् द्रव्यम् ।२५ - १०० - तथा कः चित् स्पृशन् एव छिनत्ति कः चित् लम्बमानः अपि न छिनत्ति ।२६ - १०० - यत्कृतः विशेषः तत् द्रव्यम् ।२७ - १०० - कः चित् एकेन एव प्रहारेण व्यपवर्गम् करोति कः चित् द्वाभ्याम् अपि अन् करोति ।२८ - १०० - यत्कृतः विशेषः तत् द्रव्यम् ।२९ - १०० - अथ वा यस्य गुणान्तरेषु अपि प्रादुर्भावत्सु तत्त्वम् न विहन्यते तत् द्रव्यम् ।३० - १०० - किम् पुनः तत्त्वम् ।३१ - १०० - तद्भावः तत्त्वम् ।३२ - १०० - तत् यथा आमलकादीनाम् फलानाम् रक्तादयः पीतादयः च गुणाः प्रादुः भवन्ति ।३३ - १०० - आमलकम् बदरम् इति एव भवति ।३४ - १०० - अन्वर्थम् खलु अपि निर्वचनम् ।३५ - १०० - गुणसन्द्रावः द्रव्यम् इति ।३६ - १०० - यदि तर्हि षष्ठीसमर्थात् गुणे प्रत्ययाः उतप्द्यन्ते किम् इयता सूत्रेण ।३७ - १०० - एतावत् वक्तव्यम् षष्ठीसमर्थात् गुणे इति ।३८ - १०० - षष्ठीसमर्थात् गुणे इति इयति उच्यमाने द्विगुणा रज्जुः त्रिगुणा रज्जुः अत्र अपि प्राप्नोति ।३९ - १०० - न एषः दोषः ।४० - १०० - गुणशब्दः अयम् बह्वर्थः ।४१ - १०० - अस्ति एव समेषु अवयवेषु वर्तते ।४२ - १०० - तत् यथा द्विगुणा रज्जुः त्रिगुणा रज्जुः इति ।४३ - १०० - अस्ति द्रव्यपदार्थकः ।४४ - १०० - तत् यथा गुणवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्यानि च वर्तन्ते ।४५ - १०० - अस्ति अप्राधान्ये वर्तते ।४६ - १०० - तत् यथा यः यत्र अप्रधानम् भवति सः आह गुणभूताः वयम् अत्र इति ।४७ - १०० - अस्ति आचारे वर्तते ।४८ - १०० - तत् यथा गुणवान् अयम् ब्राह्मणः इति उच्यते यः सम्यक् आचारम् करोति ।४९ - १०० - अस्ति संस्कारे वर्तते ।५० - १०० - तत् यथा संस्कृतम् अन्नम् गुणवत् इति उच्यते ।५१ - १०० - अथ वा सर्वत्र एव अयम् गुणशब्दः समेषु अवयवेषु वर्तते ।५२ - १०० - तत् यथा द्विगुणम् अध्ययनम् त्रिगुणम् अध्ययनम् इति उच्यते ।५३ - १०० - चर्चागुणान् क्रमगुणान् च अपेक्ष्य भवति न संहितागुणान् चर्चागुणान् च ।५४ - १०० - यदि एवम् गुणवत् अन्नम् इति गुणशब्दः न उपपद्यते ।५५ - १०० - न हि अन्नस्य सूपादयः गुणाः समाः भवन्ति ।५६ - १०० - न अवश्यम् वर्ष्मतः परिमाणतः एव वा साम्यम् भवति ।५७ - १०० - किम् तर्हि युक्तितः अपि ।५८ - १०० - आतः च युक्तितः ।५९ - १०० - यः हि मुद्गप्रस्थे लवणप्रस्थम् प्रक्षिपेत् न अदः युक्तम् स्यात् ।६० - १०० - यदि तावत् अदेः अन्नम् न अदः अत्तव्यम् स्यात् ।६१ - १०० - अथ अनितेः अन्नम् न अदः जग्द्व्हा प्राण्यात् ।६२ - १०० - शुक्लादिषु तर्हि वर्त्यभावात् वृत्तिः न प्राप्नोति ।६३ - १०० - शुक्लत्वम् ।६४ - १०० - शुक्लता इति ।६५ - १०० - किम् पुनः कारणम् शुक्लादयः एव उदाह्रियन्ते न पुनः वृक्षादयः अपि ।६६ - १०० - वृक्षत्वम् वृक्षता इति ।६७ - १०० - अस्ति अत्र विशेषः ।६८ - १०० - उभयवचनाः हि एते द्रव्यम् च आहुः गुणम् च ।६९ - १०० - यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति ।७० - १०० - इमे अपि तर्हि उभयवचनाः ।७१ - १०० - कथम् ।७२ - १०० - आरभ्यते मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् भवति इति ।७३ - १०० - यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति ।७४ - १०० - डित्थादिषु तर्हि वर्त्यभावात् वृत्तिः न प्राप्नोति ।७५ - १०० - डित्थत्वम् ।७६ - १०० - डित्थता ।७७ - १०० - डाम्भिट्टत्वम् इति ।७८ - १०० - अत्र अपि कः चित् प्राथमकल्पिकः डित्थः डाम्भिट्टः च ।७९ - १०० - तेन कृताम् क्रियाम् गुणम् वा यः कः चित् करोति सः उच्यते डित्थत्वम् ते एतत् डाम्भिट्टत्वम् ते एतत् ।८० - १०० - एवम् डित्थाः कुर्वन्ति ।८१ - १०० - एवम् डाम्भिट्टाः कुर्वन्ति ।८२ - १०० - यः तर्हि प्राथमकल्पिकः डित्थः डाम्भिट्टः च तस्य वर्त्यभावात् वृत्तिः न प्राप्नोति ।८३ - १०० - न एषः दोषः ।८४ - १०० - यथा एव तस्य काथञ्चित्कः प्रयोगः एवम् वृत्तिः अपि भविष्यति ।८५ - १०० - यत् वा सर्वे भावाः स्वेन भावेन भवन्ति सः तेषाम् भावः तदभिधाने ।८६ - १०० - किम् एभिः त्रिभिः भावग्रहणैः क्रियते ।८७ - १०० - एकेन शब्दः प्रतिनिर्दिश्यते द्वाभ्याम् अर्थः ।८८ - १०० - यत् वा सर्वे शब्दाः स्वेन अर्थेन भवन्ति ।८९ - १०० - सः तेषाम् अर्थः इति तदभिधाने वा त्वतलौ भवतः इति वक्तव्यम् ।९० - १०० - न एवम् अन्यत्र भवति ।९१ - १०० - न हि तेन रक्तम् रागात् इति अत्र शब्देन रक्ते प्रत्ययाः उत्पद्यन्ते ।९२ - १०० - शब्दे असम्भवात् अर्थेन रक्ते प्रत्ययाः भविष्यन्ति ।९३ - १०० - तत् तर्हि अन्यतरत् कर्तव्यम् ।९४ - १०० - सूत्रम् च भिद्यते ।९५ - १०० - यथान्यासम् एव अस्तु ।९६ - १०० - ननु च उक्तम् तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः इति ।९७ - १०० - उक्तम् वा ।९८ - १०० - किम् उक्तम् ।९९ - १०० - अनभिधानात् इति ।१०० - १०० - अनभिधानात् अभिप्रायादिषु उतपत्तिः न भविष्यति ।१ - ५९ - त्वतल्भ्याम् नञ्समासः पूर्वविप्रतिषिद्धम् त्वतलोः स्वरसिद्ध्यर्थम् ।२ - ५९ - त्वतल्भ्याम् नञ्समासः भवति पूर्वविप्रतिष्धेन ।३ - ५९ - किम् प्रयोजनम् ।४ - ५९ - त्वतलोः स्वरसिद्ध्यर्थम् ।५ - ५९ - त्वतलोः स्वरसिद्धिः यथा स्यात् ।६ - ५९ - त्वतलोः अवकाशः भावस्य वचनम् प्रतिषेधस्य अवचनम् ।७ - ५९ - ब्राह्मणत्वम् ।८ - ५९ - ब्राह्म्णता ।९ - ५९ - नञ्समासस्य अवकाशः प्रतिषेधस्य वचनम् भावस्य अवचनम् ।१० - ५९ - अब्राह्मणः ।११ - ५९ - अवृषलः ।१२ - ५९ - उभयवचने उभयम् प्राप्नोति ।१३ - ५९ - अब्राह्मणत्वम् ।१४ - ५९ - अब्राह्मणता ।१५ - ५९ - नञ्समासः भवति पूर्वविप्रतिष्धेन ।१६ - ५९ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।१७ - ५९ - न वक्तव्यः ।१८ - ५९ - न अत्र त्वतलौ प्राप्नुतः ।१९ - ५९ - किम् कारणम् ।२० - ५९ - असामर्थ्यात् ।२१ - ५९ - कथम् असामर्थ्यम् ।२२ - ५९ - सापेक्षम् असमर्थम् भवति इति ।२३ - ५९ - यावता ब्राह्मणशब्दः प्रतिषेधम् अपेक्षते ।२४ - ५९ - नञ्समासः अपि तर्हि न प्राप्नोति ।२५ - ५९ - किम् कारणम् ।२६ - ५९ - असामर्थ्यात् एव ।२७ - ५९ - कथम् असामर्थ्यम् ।२८ - ५९ - सापेक्षम् असमर्थम् भवति इति ।२९ - ५९ - यावता ब्राह्मणशब्दः भावम् अपेक्षते ।३० - ५९ - प्रधानम् तदा ब्राह्मणशब्दः ।३१ - ५९ - भवति च प्रधानस्य सापेक्षस्य अपि समासः ।३२ - ५९ - इदम् तर्हि प्रयोजनम् ।३३ - ५९ - नञ्समादात् अन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इति वक्ष्यति ।३४ - ५९ - तत्र व्यवस्थार्थम् इदम् वक्तव्यम् ।३५ - ५९ - वा छन्दसि ।३६ - ५९ - वा छन्दसि नञ्समासः वक्तव्यः ।३७ - ५९ - निर्वीर्यताम् वै यजमानः आशास्ते अपशुताम् ।३८ - ५९ - अयोनित्वाय ।३९ - ५९ - अशिथिलत्वाय ।४० - ५९ - अगोताम् अनपत्यताम् ।४१ - ५९ - भवेत् इदम् युक्तम् उदाहरणम् ।४२ - ५९ - अयोनित्वाय ।४३ - ५९ - अशिथिलत्वाय इति ।४४ - ५९ - इदम् तु अयुक्तम् अपशुताम् इति ।४५ - ५९ - न हि असौ समासभावम् आशास्ते ।४६ - ५९ - किम् तर्हि ।४७ - ५९ - उत्तरपदाभावम् आशास्ते ।४८ - ५९ - न पशोः भावः इति ।४९ - ५९ - नञ्समासात् अन्यः भाववचनः ।५० - ५९ - नञ्समासात् अन्यः भाववचनः भवति विप्रतिषेधेन ।५१ - ५९ - किम् प्रयोजनम् ।५२ - ५९ - स्वरोत्तरपदवृद्ध्यर्थम् ।५३ - ५९ - स्वरार्थम् उत्तरपदवृद्ध्यर्थम् च ।५४ - ५९ - स्वरार्थम् तावत् ।५५ - ५९ - अप्रथिमा ।५६ - ५९ - अम्रदिमा ।५७ - ५९ - उत्तरपदवृद्ध्यर्थम् ।५८ - ५९ - अशौक्ल्यम् ।५९ - ५९ - अकार्ष्ण्यम् ।१ - २४ - किमर्थः चकारः ।२ - २४ - अनुकर्षणार्थः ।३ - २४ - त्वतलौ अनुकृष्येते ।४ - २४ - न एतत् अस्ति प्रयोजनम् ।५ - २४ - प्रकृतौ त्वतलौ अनुवर्तिष्येते ।६ - २४ - अतः उत्तरम् पठति ।७ - २४ - आ च त्वात् इति चकारकरणम् अपवादसमावेशार्थम् ।८ - २४ - आ च त्वात् इति चकारकरणम् क्रियते अपवादसमावेशार्थम् ।९ - २४ - इमनिच्प्रभृतिभिः अपवादैः समावेशः यथा स्यात् ।१० - २४ - न एतत् अस्ति प्रयोजनम् ।११ - २४ - आ त्वात् इति एवम् इमनिच्प्रभृतिभिः अपवादैः समावेशः भविष्यति ।१२ - २४ - इदम् तर्हि प्रयोजनम् ।१३ - २४ - आ त्वात् याः प्रकृतयः ताभ्यः च त्वतलौ यथा स्याताम् यतः च उच्येते ।१४ - २४ - एतत् अपि न अस्ति प्रयोजनम् ।१५ - २४ - आ त्वात् इति एव याः प्रकृतयः ताभ्यः त्वतलौ भविष्यतः यतः च उच्येते ।१६ - २४ - इदम् तर्हि प्रयोजनम् ।१७ - २४ - आ त्वात् ये अर्थाः तत्र त्वतलौ यथा स्याताम् यत्र च उच्येते ।१८ - २४ - एतत् अपि न अस्ति प्रयोजनम् ।१९ - २४ - आ त्वात् इति एव आ त्वात् ये अर्थाः तत्र त्वतलौ भविष्यतः यत्र च उच्येते ।२० - २४ - इदम् तर्हि प्रयोजनम् ।२१ - २४ - आ त्वात् याः प्रकृतयः ताभ्यः च त्वतलौ यथा स्याताम् यस्याः च प्रकृतेः अतस्मिन् विशेषे अन्यः प्रत्ययः उत्पद्यते ।२२ - २४ - किम् कृतम् भवति ।२३ - २४ - स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् चोदितम् ।२४ - २४ - तत् न वक्तव्यम् भवति ।१ - २७ - कस्य अयम् प्रतिषेधः ।२ - २७ - त्वतलोः इति आह ।३ - २७ - न एतत् असि प्रयोजनम् ।४ - २७ - इष्येते नञ्पूर्वात् तत्पुरुषात् त्वतलौ अब्राह्मणत्वम् अब्राह्मणता इति ।५ - २७ - अतः उत्तरम् पठति ।६ - २७ - न नञ्पूर्वात् इति उत्तरस्य प्रतिषेधः ।७ - २७ - न नञ्पूर्वात् इति उत्तरस्य भावप्रत्ययस्य प्रतिषेधः क्रियते ।८ - २७ - न एतत् अस्ति प्रयोजनम् ।९ - २७ - परिगणिताभ्यः प्रकृतिभ्यः उत्तरः भावप्रत्ययः विधीयते ।१० - २७ - न च तत्र का चित् नञ्पूर्वा प्रकृतिः गृह्यते ।११ - २७ - तदन्तविधिना प्राप्नोति ।१२ - २७ - ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।१३ - २७ - यत्र तर्हि तदन्तविधिः अस्ति ।१४ - २७ - पत्यन्तपुरोहितादिभ्यः यक् इति ।१५ - २७ - यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् अपत्यन्तात् यक् भवति नञ्पूर्वात् तत्पुरुषात् इति ।१६ - २७ - एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः नञ्पूर्वात् बहुव्रीहेः भवति इति ।१७ - २७ - न इष्यते ।१८ - २७ - त्वतलौ एव इष्येते अविद्यमानाः पृथवः अस्य अपृथुः , अपृथोः भावः अपृथुत्वम् अपृथुता इति ।१९ - २७ - एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः अन्यपूर्वात् तत्पुरुषात् भवति इति ।२० - २७ - न इष्यते ।२१ - २७ - त्वतलौ एव इष्येते परमः पृथुः परमपृथुः , परमपृथोः भावः परमपृथुत्वम् परमपृथुता ।२२ - २७ - एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः सापेक्षात् भवति इति ।२३ - २७ - किम् एतस्य ज्ञापने प्रयोजनम् ।२४ - २७ - नञ्समासात् अन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इति उक्तम् ।२५ - २७ - तत् उपपन्नम् भवति ।२६ - २७ - एतत् अपि न अस्ति प्रयोजनम् ।२७ - २७ - आचार्यप्रवृत्तिः ज्ञापयति सर्वे एते तद्धिताः सापेक्षात् भवन्ति इति यत् अयम् नञः गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थाः तद्धिताः इति आह ।१ - १४ - वावचनम् किमर्थम् ।२ - १४ - वाक्यम् अपि यथा स्यात् ।३ - १४ - न एतत् अस्ति प्रयोजनम् ।४ - १४ - प्रकृटा महाविभाषा ।५ - १४ - तया वाक्यम् अपि भविष्यति ।६ - १४ - इदम् तर्हि प्रयोजनम् ।७ - १४ - त्वतलौ अपि यथा स्याताम् ।८ - १४ - एतत् अपि न अस्ति प्रयोजनम् ।९ - १४ - आ च त्वात् इति एतस्मात् यत्नात् त्वतलौ अपि भविष्यतः ।१० - १४ - अतः उत्तरम् पठति ।११ - १४ - पृथ्वादिभ्यः वावचनम् अण्समावेशार्थम् ।१२ - १४ - पृथ्वादिभ्यः वावचनम् क्रियते अण्समावेशः यथा स्यात् ।१३ - १४ - पार्थवम् ।१४ - १४ - प्रथिमा ।१ - १ - ब्राह्मणादिषु चातुर्वर्ण्यादीनाम् उपसङ्ख्यानम् । ब्राह्मणादिषु चातुर्वर्ण्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् । चातुर्वर्ण्यम् । चातुर्वैद्यम् । चातुराश्रम्यम् । अर्हतः नुम् च । अर्हतः नुम् च ष्यञ् च वक्तव्यः । अर्हतः भावः आर्हन्त्यम् आर्हती ।१ - ७ - किम् इदम् नलोपे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् ।२ - ७ - किम् च अतः ।३ - ७ - यदि वर्णग्रहणम् स्तेयम् ।४ - ७ - नलोपे कृते अयादेशः प्राप्नोति ।५ - ७ - अथ सङ्घातग्रहणम् अन्त्यस्य लोपः कस्मात् न भवति ।६ - ७ - सिद्धः अन्त्यस्य लोपः यस्य इति एव ।७ - ७ - तत्र आरम्भसामर्थ्यात् सर्वस्य भविष्यति ।१ - ३ - अण्प्रकरणे श्रोत्रियस्य ।२ - ३ - अण्प्रकरणे श्रोत्रियस्य उपसङ्ख्यानम् कर्तव्यम् घलोपः च ।३ - ३ - श्रोत्रियस्य भावः श्रौत्रम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP