संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ५|पाद १| खण्ड ५२ पाद १ खण्ड ५२ खण्ड ५३ पाद १ - खण्ड ५२ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ५२ Translation - भाषांतर १ - ४१ - प्राग्वचनम् किमर्थम् ।२ - ४१ - प्राग्वचने उक्तम् ।३ - ४१ - किम् उक्तम् ।४ - ४१ - तत्र तावत् उक्तम् प्राग्वचनम् सकृद्विधानार्थम् ।५ - ४१ - अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रसङ्गः इति ।६ - ४१ - इह अपि प्राग्वचनम् क्रियते सकृद्विधानार्थम् ।७ - ४१ - सकृत् विहितः प्रत्ययः विहितः यथा स्यात् ।८ - ४१ - योगे योगे तस्य ग्रहणम् मा कार्षम् इति ।९ - ४१ - न एतत् अस्ति प्रयोजनम् ।१० - ४१ - अधिकारात् अपि एतत् सिद्धम् ।११ - ४१ - अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।१२ - ४१ - अधिकारात् सिद्धम् इति चेत् अपवादविषये छप्रसङ्गः ।१३ - ४१ - अधिकारात् सिद्धम् इति चेत् अपवादविषये छः प्राप्नोति ।१४ - ४१ - उगवादिभ्यः यत् छः च इति छः अपि प्राप्नोति ।१५ - ४१ - तस्मात् प्राग्वचनम् कर्तव्यम् ।१६ - ४१ - अथ क्रिय्माणे अपि प्राग्वचने कथम् इदम् विज्ञायते ।१७ - ४१ - प्राक् क्रीतात् याः प्रकृतयः आहोस्वित् प्राक् क्रीतात् ये अर्थाः इति ।१८ - ४१ - किम् च अतः ।१९ - ४१ - यदि विज्ञायते प्राक् क्रीतात् याः प्रकृतयः इति सः एव दोषः अपवादविषये अपि छप्रसङ्गः इति ।२० - ४१ - अथ विज्ञायते प्राक् क्रीतात् ये अर्थाः इति न दोषः भवति ।२१ - ४१ - समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः यत् छम् बाधिष्यते ।२२ - ४१ - यथा न दोषः तथा अस्तु. प्राक् क्रीतात् ये अर्थाः इति विज्ञायते ।२३ - ४१ - कुतः एतत् ।२४ - ४१ - तथा हि अयम् प्राधान्येन अर्थम् प्रतिनिर्दिशति ।२५ - ४१ - इतरथा हि बह्व्यः तत्र प्रकृतयः पठ्यन्ते ।२६ - ४१ - ततः याम् काम् चित् एवम् प्रकृतिम् अवधित्वेन उपाददीत ।२७ - ४१ - अथ वा पुनः अस्तु प्राक् क्रीतात् याः प्रकृतयः इति ।२८ - ४१ - ननु च उक्तम् अपवादविषये अपि छप्रसङ्गः इति ।२९ - ४१ - न वा क्व चित् वावचनात् ।३० - ४१ - न वा एषः दोषः ।३१ - ४१ - किम् कारणम् ।३२ - ४१ - क्व चित् वावचनात् ।३३ - ४१ - यत् अयम् क्वच् वावचनम् करोति विभाषा हविरपूपादिभ्यः इति तत् ज्ञापयति न अपवादविषये छः भवति इति ।३४ - ४१ - यदि एवम् न अर्थः प्राग्वचनेन ।३५ - ४१ - अधिकारात् सिद्धम् ।३६ - ४१ - ननु च उक्तम् अधिकारात् सिद्धम् इति चेत् अपवादविषये छप्रसङ्गः इति ।३७ - ४१ - परिहृतम् एतत् ण वा क्व चित् वावचनात् इति ।३८ - ४१ - अथ किमर्थम् इयान् अवधिः गृह्यते न प्राक् ठञः इति एव उच्येत ।३९ - ४१ - एतत् ज्ञापयति आचार्यः अर्थेषु अयम् भवति इति ।४० - ४१ - किम् एतस्य ज्ञापने प्रयोजनम् ।४१ - ४१ - समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः यत् छम् बाधते ।१ - ३५ - यञ्ञ्यौ अञः पूर्वविप्रतिषिद्धम् सनङ्गूपानहौ प्रयोजनम् । यञ्ञ्यौ भवतः अञः पूर्वविप्रतिषेधेन ।२ - ३५ - किम् प्रयोजनम् षनङ्गूपानहौ प्रयोजनम् ।३ - ३५ - यतः अवकाशः शङ्कव्यम् दारु पिचव्यः कार्पासः ।४ - ३५ - अञः अवकाशः वार्ध्रम् वारत्रम् ।५ - ३५ - सनङ्गुः नाम चर्मविकारः ।६ - ३५ - तस्मात् उभयम् प्राप्नोति ।७ - ३५ - सनङ्गव्यम् चर्म ।८ - ३५ - ञ्यस्य अवकाशः औपानह्यम् दारु ।९ - ३५ - अञः सः एव ।१० - ३५ - उपानत् नाम चर्मविकारः ।११ - ३५ - तस्मात् उभयम् प्राप्नोति ।१२ - ३५ - औपानह्यम् चर्म ।१३ - ३५ - ढञ् च । ढञ् च भवति अञः पूर्वविप्रतिषेधेन ।१४ - ३५ - ढञः अवकाशः छादिषेयम् तृणम् ।१५ - ३५ - अञः सः एव ।१६ - ३५ - छदिः नाम् चर्मविकारः ।१७ - ३५ - तस्मात् उभयम् प्राप्नोति ।१८ - ३५ - छादिषेयम् चर्म ।१९ - ३५ - ढञ् भवति पूर्वविप्रतिषेधेन ।२० - ३५ - हविरपूपादिभ्यः विभाषायाः यत् । हविरपूपादिभ्यः विभाषायाः यत् भवति पूर्वविप्रतिषेधेन ।२१ - ३५ - हविरपूपादिभ्यः विभाषायाः अवकाशः आमिक्ष्यम् आमिक्षीयम् पुरोडाश्यम् पुरोडाशीयम् ।२२ - ३५ - यतः सः एव ।२३ - ३५ - इह उभयम् प्राप्नोति ।२४ - ३५ - चरव्याः तण्डुलाः ।२५ - ३५ - यत् भवति पूर्वविप्रतिषेधेन ।२६ - ३५ - अन्नविकारेभ्यः च । अन्नविकारेभ्यः च विभाषायाः यत् भवति पूर्वविप्रतिषेधेन ।२७ - ३५ - अन्नविकारेभ्यः च विभाषायाः अवकाशः सुर्याः सुरीयाः ।२८ - ३५ - यतः सः एव ।२९ - ३५ - इह उभयम् प्राप्नोति ।३० - ३५ - सक्तव्याः धानाः इति ।३१ - ३५ - यत् भवति पूर्वविप्रतिषेधेन ।३२ - ३५ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।३३ - ३५ - न वक्तव्यः ।३४ - ३५ - इष्टवाची परशब्दः ।३५ - ३५ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।१ - ३३ - अयम् नाभिशब्दः गवादिषु पठ्यते. तत्र एव उच्यते नाभि नभम् च इति ।२ - ३३ - तत्र चोद्यते ।३ - ३३ - नाभेः नभभावे प्रत्ययानुपपत्तिः प्रकृत्यभावात् । नाभेः नभभावे प्रत्ययानुपपत्तिः ।४ - ३३ - किम् कारणम् ।५ - ३३ - प्रकृत्यभावात् ।६ - ३३ - विकृतेः प्रकृतौ अभिधेयायाम् प्रत्ययेन भवितव्यम् न च नाभिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति ।७ - ३३ - यत् एव हि तन्मण्डलचक्राणाम् मण्डलचक्रम् तत् नभ्यम् इति उच्यते ।८ - ३३ - सिद्धम् तु शाखादिषु वचनात् ह्रस्वत्वम् च ।९ - ३३ - सिद्धम् एतत् ।१० - ३३ - कथम् ।११ - ३३ - शाखादिषु नाभिशब्दः पठितव्यः ह्रस्वत्वम् च वक्तव्यम् ।१२ - ३३ - नाभिः इव नभ्यम् इति ।१३ - ३३ - कः पुनः इह उपमार्थः ।१४ - ३३ - यत् तत् अक्षधारणम् परिवर्तनम् वा ।१५ - ३३ - अपरः आह यत् तत् अञ्जनोपाञ्जनम् इति ।१६ - ३३ - न तर्हि इदानीम् इदम् वक्तव्यम् नाभि नभम् च इति ।१७ - ३३ - वक्तव्यम् च ।१८ - ३३ - किम् प्रयोजनम् ।१९ - ३३ - यानि एतानि अरवन्ति चक्राणि तदर्थम् ।२० - ३३ - तत्र नाभिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति ।२१ - ३३ - यानि च अपि अनरवन्ति चक्राणि तदर्थम् अपि इदम् वक्तव्यम् ।२२ - ३३ - दृश्यते हि समुदायात् अवयवस्य पृथक्त्वम् ।२३ - ३३ - तत् यथा वार्क्षी शाखा इति ।२४ - ३३ - गुणान्तरयोगात् च विकारशब्दः दृश्यते ।२५ - ३३ - तत् यथा वैभीतकः यूपः खादिरम् चषालम् इति ।२६ - ३३ - तत्र अवयवसमुदाये वृत्तिः भविष्यति ।२७ - ३३ - अथ यः नभ्यार्थः वृक्षः कथम् तत्र भवितव्यम् ।२८ - ३३ - नभ्यः वृक्षः नभ्या शिंशिपा इति ।२९ - ३३ - नभ्यात् तु लुग्वचनम् । नभ्यात् तु लुक् वक्तव्यः ।३० - ३३ - सः तर्हि वक्तव्यः ।३१ - ३३ - न वक्तव्यः ।३२ - ३३ - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।३३ - ३३ - नभ्यार्थः नभ्यः इति ।१ - १० - अयम् योगः शक्यः अवक्तुम् ।२ - १० - कथम् अशीतिशतम् कम्बल्यम् इति ।३ - १० - निपातनात् एतत् सिद्धम् ।४ - १० - किम् निपातनम् ।५ - १० - अपरिमाणविस्ताचितकम्बलेभ्यः न तद्धितलुकि इति ।६ - १० - इदम् तर्हि प्रयोजनम् सञ्ज्ञायाम् इति वक्ष्यामि इति ।७ - १० - इह मा भूत् ।८ - १० - कम्बलीयाः ऊर्णाः ।९ - १० - एतत् अपि न अस्ति प्रयोजनम् ।१० - १० - परिमाणपर्युदासेन पर्युदासे प्राप्ते तत्र कम्बलग्रहणम् क्रियते परिमाणार्थम् परिमाणम् च सञ्ज्ञा एव ।१ - ७ - किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।२ - ७ - कथम् च प्राप्ते कथम् वा अप्राप्ते ।३ - ७ - उवर्णान्तात् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते ।४ - ७ - हविरपूपादिभ्यः अप्राप्ते ।५ - ७ - हविरपूपादिभ्यः अप्राप्ते विभाषा ।६ - ७ - प्राप्ते नित्यः विधिः ।७ - ७ - चरव्याः तण्डुलाः ।१ - २ - यत्प्रकरणे रथात् च । यत्प्रकरणे रथात् च उपसङ्ख्यानम् ।२ - २ - रथाय हिता रथ्या ।१ - २२ - वृषशब्दः अयम् अकारान्तः गृह्यते ।२ - २२ - वृषन्शब्दः अपि नकारान्तः अस्ति ।३ - २२ - तस्य उपसङ्ख्यानम् कर्तव्यम् वृषशब्दः च आदेशः वक्तव्यः वृष्णे हितम् इति विगृह्य वृष्यम् इति एव यथा स्यात् ।४ - २२ - तथा ब्रह्मन्शब्दः नकारान्तः गृह्यते ।५ - २२ - ब्राह्मणशब्दः च अकारान्तः अस्ति ।६ - २२ - तस्य उपसङ्ख्यानम् कर्तव्यम् ब्रह्मन्शब्दः च आदेशः वक्तव्यः ब्राह्मणेभ्यः हितम् इति विगृह्य ब्रह्मण्यम् इति एव यथा स्यात् ।७ - २२ - तत् तर्हि वक्तव्यम् ।८ - २२ - न वक्तव्यम् ।९ - २२ - समानार्थौ एतौ वृषशब्दः वृषन्शब्दः च ब्रह्मन्शब्दः ब्राह्मणशब्दः च ।१० - २२ - आतः च समानार्थौ ।११ - २२ - एवम् हि आह ।१२ - २२ - कुतः नु चरसि ब्रह्मन् ।१३ - २२ - कुतः नु चरसि ब्राह्मण इति ।१४ - २२ - तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।१५ - २२ - तत् यथा ।१६ - २२ - अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति आविकम् इति ।१७ - २२ - एवम् इह अपि वृषाय हितम् इति विगृह्य वृष्यम् इति भविष्यति ।१८ - २२ - वृष्णे हितम् इति विगृह्य वाक्यम् एव ।१९ - २२ - तथा ब्रह्मणे हितम् इति विगृह्य ब्रह्मण्यम् इति भविष्यति ।२० - २२ - ब्राह्मणेभ्यः हितम् इति विगृह्य वाक्यम् एव भविष्यति ।२१ - २२ - त्रैशब्द्यम् च इह साध्यम् ।२२ - २२ - तत् च एवम् सति सिद्धम् भवति ।१ - ३३ - भोगोत्तरपदात् खविधाने अनिर्देशः पूर्वपदार्थहितत्वात् । भोगोत्तरपदात् खविधाने अनिर्देशः ।२ - ३३ - अगमकः निर्देशः अनिर्देशः ।३ - ३३ - किम् कारणम् ।४ - ३३ - पूर्वपदार्थहितत्वात् ।५ - ३३ - उत्तरपदार्थप्रधानः तत्पुरुषः पूर्वपदार्थप्रधाने च प्रत्ययः इष्यते ।६ - ३३ - पितृभोगाय हिते प्राप्नोति पित्रे च एव हिते इष्यते ।७ - ३३ - एवम् तर्हि भोगीनर्प्रत्ययः विज्ञास्यते ।८ - ३३ - भोगीनर् इति चेत् वावचनम् ।९ - ३३ - भोगीनर् इति यदि प्रत्ययः विधीयते वावचनम् कर्तव्यम् मात्रीयः पित्रीयः इति अपि यथा स्यात् ।१० - ३३ - राजाचार्याभ्याम् नित्यम् । राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् ।११ - ३३ - राजभोगीनः ।१२ - ३३ - आचार्यात् अणत्वम् च ।१३ - ३३ - आचार्यभोगीनः ।१४ - ३३ - किम् भोगीनर्प्रत्ययः विधीयते इति अतः राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् ।१५ - ३३ - न इति आह ।१६ - ३३ - सर्वथा राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् ।१७ - ३३ - इह च ग्रामणिभोगीनः सेनानिभोगीनः इति उत्तरपदे इति ह्रस्वत्वम् न प्राप्नोति ।१८ - ३३ - इह च अब्भोगिनः इति अपः भि इति तत्वम् प्राप्नोति ।१९ - ३३ - सूत्रम् च भिद्यते ।२० - ३३ - यथान्यासम् एव अस्तु ।२१ - ३३ - ननु च उक्तम् भोगोत्तरपदात् खविधाने अनिर्देशः पूर्वपदार्थहितत्वात् इति ।२२ - ३३ - न एषः दोषः ।२३ - ३३ - अयम् भोगशब्दः अस्ति एव द्रव्यपदार्थकः ।२४ - ३३ - तत् यथा भोगवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्नानि च वर्तन्ते ।२५ - ३३ - अस्ति क्रियापदार्थकः ।२६ - ३३ - तत् यथा भोगवान् अयम् ब्राह्मणः इति उच्यते यः सम्यक् स्नानादीः क्रियाः अनुभवति ।२७ - ३३ - तत् यः क्रियापदार्थकः तस्य अयम् ग्रहणम् ।२८ - ३३ - यः च पितृस्थाभ्यः क्रियाभ्यः हितः सम्बन्धात् असौ पित्रे अपि हितः भवति ।२९ - ३३ - यदि सम्बन्धात् अस्तु द्रव्यपदार्थकस्य अपि ग्रहणम् ।३० - ३३ - यः अपि हि पितृद्रव्याय हितः सम्बन्धात् असौ पित्रे हितः भवति ।३१ - ३३ - अथ वा भोगशब्दः शरीरवाची अपि द्र्श्यते ।३२ - ३३ - तत् यथा अहिः इव भोगैः पर्येति बाहुम् इति. अहिः इव शरीरैः इति गम्यते ।३३ - ३३ - एवम् पितृशरीराय हितः पितृभोगीणः इति ।१ - १७ - खविधाने पञ्चजनात् उपसङ्ख्यानम् । खविधाने पञ्चजनात् उपसङ्ख्यानम् कर्तव्यम् ।२ - १७ - पञ्चजनाय हितः पञ्चजनीनः ।३ - १७ - समानाधिकरणे इति वक्तव्यम् ।४ - १७ - यः हि पञ्चानाम् जनाय हितः पञ्चजनीयः सः भवति ।५ - १७ - सर्वजनात् ठञ् च । सर्वजनात् ठञ् वक्तव्यः खः च ।६ - १७ - सर्वजनाय हितः सार्वजनिकः सार्वजनीनः ।७ - १७ - समानाधिकरणे इति च वक्तव्यम् ।८ - १७ - यः हि सर्वेषाम् जनाय हितः सर्वजनीयः सः ।९ - १७ - महाजनात् नित्यम् । महाजनात् नित्यम् ठञ् वक्तव्यः ।१० - १७ - महाजनाय हितः माहाजनिकः ।११ - १७ - तत्पुरुषे इति वक्तव्यम् बहुव्रीहौ मा भूत् इति ।१२ - १७ - महान् जनः अस्य महाजनः महाजनाय हितः महाजनीयः ।१३ - १७ - यदि तर्हि अतिप्रसङ्गाः सन्ति इति उपाधिः क्रियते आद्यन्यासे अपि उपाधिः कर्तव्यः ।१४ - १७ - आत्मन्विश्वजने समानाधिकरणे इति वक्तव्यम् ।१५ - १७ - यः हिस् विश्वेषाम् जनाय हितः विश्वजनीयः सः भवति ।१६ - १७ - अथ मतम् एतत् अनभिधानात् आद्यन्यासे न भविष्यति इति इह अपि न अर्थः उपाधिग्रहणेन ।१७ - १७ - इह अपि अनभिधानात् न भविष्यति ।१ - ५ - सर्वात् णस्य वावचनम् । सर्वात् णस्य वा इति वक्तव्यम् ।२ - ५ - सार्वः सर्वीयः ।३ - ५ - पुरुषात् वधे । पुरुषात् वधे इति वक्तव्यम् पौरुषेयः वधः ।४ - ५ - अत्यल्पम् इदम् उच्यते पुरुषात् वधे इति ।५ - ५ - पुरुषात् वधविकारसमूहतेनकृतेषु इति वक्तव्यम् पौरुषेयः वधः , पौरुषेयः विकारः , पौरुषेयः समूहः , तेन कृतम् पौरुषेयम् ।१ - ९ - तदर्थम् इति कृत्यनामभ्यः ठञ् ।२ - ९ - तदर्थम् इति कृत्यनामभ्यः ठञ् वक्तव्यः ।३ - ९ - इन्द्रमहार्थम् ऐन्द्रमहिहम् गाङ्गामहिहम् काशेरुयज्ञिकम् ।४ - ९ - न वा प्रयोजनेन कृतत्वात् ।५ - ९ - न वा वक्तव्यम् ।६ - ९ - किम् कारणम् ।७ - ९ - प्रयोजनेन कृतत्वात् ।८ - ९ - यत् हि इन्द्रमहार्थम् इन्द्रमहः तस्य प्रयोजनम् भवति ।९ - ९ - तत्र प्रयोजनम् इति एव सिद्धम् ।१ - ४६ - उपध्यर्थम् इति प्रत्ययानुपपत्तिः । उपध्यर्थम् इति प्रत्ययस्य इह अनुपपत्तिः ।२ - ४६ - किम् कारणम् ।३ - ४६ - उपध्यभावात् ।४ - ४६ - विकृतेः प्रकृतौ अभिधेयायाम् प्रत्ययेन भवितव्यम् ।५ - ४६ - न च उपधिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति ।६ - ४६ - यत् हि तत् रथाङ्गम् तत् औपधेयम् इति उच्यते ।७ - ४६ - सिद्धम् तु कृदन्तस्य स्वार्थे अञ्वचनात् । सिद्धम् एतत् ।८ - ४६ - कथम् ।९ - ४६ - कृदन्तस्य स्वार्थे अञ् वक्तव्यः ।१० - ४६ - उपधीयते उपधेयम् ।११ - ४६ - उपधेयम् एव औपधेयम् ।१२ - ४६ - सिध्यति ।१३ - ४६ - सूत्रम् तर्हि भिद्यते ।१४ - ४६ - यथान्यासम् एव अस्तु ।१५ - ४६ - ननु च उक्तम् उपध्यर्थम् इति प्रत्ययानुपपत्तिः इति ।१६ - ४६ - न एतत् अस्ति ।१७ - ४६ - अयम् उपधिशब्दः अस्ति एव कर्मसाधनः ।१८ - ४६ - उपधीयते उपधिः इति ।१९ - ४६ - अस्ति भावसाधनः ।२० - ४६ - उपधानम् उपधिः इति ।२१ - ४६ - तत् यः भावसाधनः तस्य इदम् ग्रहणम् ।२२ - ४६ - एवम् अपि न सिध्यति ।२३ - ४६ - किम् कारणम् ।२४ - ४६ - विकृतेः प्रकृतौ इति वर्तते ।२५ - ४६ - प्रकृतिविकृतिग्रहणम् निवर्तिष्यते ।२६ - ४६ - तत् च अवश्यम् निवर्त्यम् इहार्थम् उत्तराथम् च ।२७ - ४६ - इहार्थम् तावत् ।२८ - ४६ - बालेयाः तण्डुलाः ।२९ - ४६ - उत्तरार्थम् ऋषभोपानहोः ञ्यः ।३० - ४६ - आर्षभ्यः वत्सः इति ।३१ - ४६ - अथ तदर्थम् इति अनुवर्तते उताहो न ।३२ - ४६ - किम् च अर्थः अनुवृत्त्या ।३३ - ४६ - बाढम् अर्थः ।३४ - ४६ - तत् अस्य तत् अस्मिन् स्यात् इति तदर्थे यथा स्यात् ।३५ - ४६ - इह मा भूत् ।३६ - ४६ - प्रासादः देवदत्तस्य स्यात् इति ।३७ - ४६ - प्राकारः नगरस्य स्यात् इति ।३८ - ४६ - यदि तदर्थम् इति अनुवर्तते ऋषभोपानहोः ञ्यः ऋषभार्थः घासः उपानदर्थः तिलकल्कः इति अत्र अपि प्राप्नोति ।३९ - ४६ - एवम् तर्हि अनुवर्तते प्रकृतिविकृतिग्रहणम् ।४० - ४६ - ननु च उक्तम् बल्यृषभयोः न सिध्यति इति ।४१ - ४६ - किम् पुनः भवान् विकारम् मत्वा आह बल्यृषभयोः न सिध्यति इति ।४२ - ४६ - यदि तावत् यः प्रकृत्युपमर्देन भवति सः विकारः वैभीतकः यूपः खादिरम् चषालम् इति न सिध्यति ।४३ - ४६ - अथ मतम् एतत् एव गुणान्तरयुक्तम् विकारः इति बल्यृषभयोः अपि सिद्धम् भवति ।४४ - ४६ - गुणन्तरयुक्ताः हि तण्डुलाः बालेयाः गुणान्तरयुक्तः च वत्सः आर्षभः ।४५ - ४६ - औपधेयम् तु न सिध्यति ।४६ - ४६ - वचनात् स्वार्थिकः भविष्यति ।१ - १९ - स्याद्ग्रहणम् किमर्थम् ।२ - १९ - इह मा भूत् ।३ - १९ - प्रासादः देवदत्तस्य प्राकारः नगरस्य इति ।४ - १९ - अथ क्रियमाणे अपि स्याद्ग्रहणे इह कस्मात् न भवति ।५ - १९ - प्रासादः देवदत्तस्य स्यात् ।६ - १९ - प्राकारः नगरस्य स्यात् इति ।७ - १९ - शक्यार्थे लिङ् इति वक्तव्यम् ।८ - १९ - न एवम् शक्यम् ।९ - १९ - इदानीम् एव हि उक्तम् न हि उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् इति ।१० - १९ - एवम् तर्हि इतिकरणः क्रियते ।११ - १९ - ततः चेत् विवक्षा भवति ।१२ - १९ - विवक्षा च द्वयी ।१३ - १९ - अस्ति एव प्रायोक्त्री विवक्षा अस्ति लौकिकी ।१४ - १९ - प्रयोक्ता हि मृद्व्या स्निग्धया श्लक्ष्णया जिह्वया मृदून् स्निग्धान् श्लक्ष्णान् शब्दान् प्रयुङ्क्ते ।१५ - १९ - लौकिकी विवक्षा यत्र प्रायस्य सम्प्रत्ययः ।१६ - १९ - प्रायः इति लोकः व्यपदिश्यते ।१७ - १९ - न च प्रासादः देवदत्तस्य स्यात् प्राकारः नगरस्य स्यात् इति अत्र उत्पद्यमानेन प्रत्ययेन प्रायस्य सम्प्रत्ययः स्यात् ।१८ - १९ - यदि एवम् न अर्थः स्याद्ग्रहणेन ।१९ - १९ - न हि प्रासादः देवदत्तस्य स्यात् प्राकारः नगरस्य स्यात् इति अत्र उत्पद्यमानेन प्रत्ययेन प्रायस्य सम्प्रत्ययः स्यात् ।१ - ३१ - किमर्थम् सङ्ख्यायाः पृथग्ग्रहणम् क्रियते न सङ्ख्या अपि परिमाणम् एव तत्र परिमाणपर्युदासेन पर्युदासः भविष्यति ।२ - ३१ - एवम् तर्हि सिद्धे सति यत् सङ्ख्ययाः पृथग्ग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्या सङ्ख्या अन्यत् परिमाणम् इति ।३ - ३१ - किम् एतस्य ज्ञापने प्रयोजनम् ।४ - ३१ - अपरिमाणबिस्ताचितकम्बएल्भ्यः न तद्धितलुकि इति द्वाभ्याम् शताभ्याम् क्रीता द्विशता त्रिशता परिमाणपर्युदासेन न भवति इति ।५ - ३१ - यदि एतत् ज्ञाप्यते तत् अस्य परिमाणम् सङ्ख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु इति विशेषणम् न प्रकल्पते परिमाणम् या सङ्ख्या इति ।६ - ३१ - इह च क्रीतवत् परिमाणत् इति सङ्ख्याविहितस्य प्रत्ययस्य अतिदेशः न प्रकल्पते ।७ - ३१ - शतस्य विकारः शत्यः शतिकः ।८ - ३१ - साहस्रः इति ।९ - ३१ - यत् तावत् उच्यते तत् ज्ञापयति आचार्यः अन्या सङ्ख्या अन्यत् परिमाणम् इति ।१० - ३१ - न्यायसिद्धम् एव एतत् ।११ - ३१ - भेदमात्रम् सङ्ख्या आह ।१२ - ३१ - यत् च इषीकान्तम् यत् च अपरिमाणम् सर्वस्य सङ्ख्या भेदमात्रम् ब्रवीति ।१३ - ३१ - परिमाणम् तु सर्वतः ।१४ - ३१ - सर्वतः मानम् इति च अतः परिमाणम् इति ।१५ - ३१ - प्रस्थस्य च समानाकृतेः न कुतः चित् विशेषः गम्यते न च उन्मानतः न परिमाणतः न प्रमाणतः ।१६ - ३१ - किम् पुनः उन्मानम् किम् परिमाणम् किम् प्रमाणम् ।१७ - ३१ - ऊर्ध्वमानम् किल उन्मानम् ।१८ - ३१ - ऊर्ध्वम् यत् मीयते तत् उन्मानम् ।१९ - ३१ - परिमाणम् तु सर्वतः । सर्वतः मानम् इति च अतः परिमाणम् ।२० - ३१ - कुत एतत् ।२१ - ३१ - परिः सर्वतोभावे वर्तते ।२२ - ३१ - आयामः तु प्रमाणम् स्यात् । आयामविवक्षायाम् प्रमाणम् इति एतत् भवति ।२३ - ३१ - सङ्ख्या बाह्या तु सर्वतः ।२४ - ३१ - आतः च सर्वतः सङ्ख्या बाह्या ।२५ - ३१ - भेदभावम् ब्रवीति एषा न एषा मानम् कुतः चन । एवम् च कृत्वा सङ्ख्यायाः पृथग्ग्रहणम् क्रियते ।२६ - ३१ - यत् अपि उच्यते तत् अस्य परिमाणम् सङ्ख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु इति विशेषणम् न प्रकल्पते इति ।२७ - ३१ - आह अयम् परिमाणम् या सङ्ख्या इति ।२८ - ३१ - न च अस्ति सङ्ख्या परिमाणम् ।२९ - ३१ - तत्र वचनात् इयती विवक्षा भविष्यति ।३० - ३१ - यद् अपि उच्यते क्रीतवत् परिमाणत् इति सङ्ख्याविहितस्य प्रत्ययस्य अतिदेशः न प्रकल्पते इति ।३१ - ३१ - सङ्ख्यायाः इति च तत्र वक्तव्यम् ।१ - ४१ - किम् पुनः इमे ठगादयः प्राक् अर्हात् भवन्ति आहोस्वित् सह अर्हेण ।२ - ४१ - कः च अत्र विशेषः ।३ - ४१ - ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः ।४ - ४१ - ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः ।५ - ४१ - अर्हे ठगादयः विधेयाः ।६ - ४१ - शतम् अर्हति शत्यः शतिकः ।७ - ४१ - साहरः इति ।८ - ४१ - वस्ने वसनात् सिद्धम् ।९ - ४१ - इह यः शतम् अर्हति शतम् तस्य वस्नः भवति ।१० - ४१ - तत्र सः अस्य अंशवस्नभृतयः इति एव सिद्धम् ।११ - ४१ - वस्ने वचनात् सिद्धम् इति चेत् मांसौदनिकादिषु अप्राप्तिः ।१२ - ४१ - वस्ने वचनात् सिद्धम् इति चेत् मांसौदनिकादिषु अप्राप्तिः ।१३ - ४१ - मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः ।१४ - ४१ - तथा गुणानाम् परिप्रश्नः भवति ।१५ - ४१ - किम् अयम् ब्राह्मणः अर्हति ।१६ - ४१ - शतम् अर्हति शत्यः शतिकः साहस्रः नैष्किकः इति न सिध्यति ।१७ - ४१ - सन्तु तर्हि सहार्हेण ।१८ - ४१ - आ अर्हात् चेत् भोजनादिषु अत्र्प्रसङ्गः । आ अर्हात् चेत् भोजनादिषु अत्र्प्रसङ्गः भवति ।१९ - ४१ - भोजनम् अर्हति ।२० - ४१ - पानम् अर्हति इति ।२१ - ४१ - किम् उच्यते भोजनादिषु अत्र्प्रसङ्गः इति यदा छेदादिभ्यः इति उच्यते ।२२ - ४१ - अवश्यम् मांसौदनिकाद्यर्थम् योगविभागः कर्तव्यः ।२३ - ४१ - तत् अर्हति ।२४ - ४१ - ततः छेदादिभ्यः नित्यम् इति ।२५ - ४१ - तस्मिन् क्रियमाणे भोजनादिषु अत्र्प्रसङ्गः भवति ।२६ - ४१ - उक्तम् वा । किम् उक्तम् ।२७ - ४१ - अनभिधानात् इति ।२८ - ४१ - अनभिधानात् भोजनादिषु अतिप्रसङ्गः न भवति [ऋभविष्यति] ।२९ - ४१ - अथ वा योगविभागः न करिष्यते ।३० - ४१ - कथम् मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः ।३१ - ४१ - अस्मिन् दीयते अस्मै इति च एवम् एतत् सिद्धम् ।३२ - ४१ - अथ वा पुनः अस्तु प्राक् अर्हात् ।३३ - ४१ - ननु च उक्तम् ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः इति ।३४ - ४१ - परिहृतम् एतत् वस्ने वचनात् सिद्धम् इति ।३५ - ४१ - ननु च उक्तम् वस्ने वचनात् सिद्धम् इति चेत् मांसौदनिकादिषु अप्राप्तिः ।३६ - ४१ - मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः ।३७ - ४१ - तथा गुणानाम् परिप्रश्नः भवति ।३८ - ४१ - किम् अयम् ब्राह्मणः अर्हति ।३९ - ४१ - शतम् अर्हति शत्यः शतिकः साहस्रः नैष्किकः इति न सिध्यति ।४० - ४१ - न एषः दोषः ।४१ - ४१ - अस्मिन् दीयते अस्मै इति च एवम् एतत् सिद्धम् ।१ - ३३ - असमासे इति किमर्थम् ।२ - ३३ - परमनिष्केण क्रीतम् परमनैष्किकम् ।३ - ३३ - न एतत् अस्ति ।४ - ३३ - निष्कशब्दात् प्रत्ययः विधीयते ।५ - ३३ - तत्र कः प्रसङ्गः यत् परमनिष्कशब्दात् स्यात् ।६ - ३३ - न एव प्राप्नोति न अर्थः प्रतिषेधेन ।७ - ३३ - तदन्तविधिना प्राप्नोति ।८ - ३३ - ग्रहणवता प्रातिपदिकेन तदन्तिविधिः प्रतिषिध्यते ।९ - ३३ - निष्कादिषु असमासग्रहणम् ज्ञापकम् पूर्वत्र तदन्ताप्रतिषेधस्य । निष्कादिषु असमासग्रहणम् क्रियते ज्ञापकार्थम् ।१० - ३३ - किम् ज्ञाप्यम् ।११ - ३३ - पूर्वत्र तदन्त्विधेः प्रतिषेधः न भवति इति ।१२ - ३३ - किम् एतस्य ज्ञापने प्रयोजनम् ।१३ - ३३ - प्राक् वतेः ठञ् इति अत्र तदन्तविधिः सिद्धः भवति ।१४ - ३३ - न एतत् अस्ति प्रयोजनम् ।१५ - ३३ - ग्रहणवता प्रातिपदिकेन तदन्तिविधिः प्रतिषिध्यते ।१६ - ३३ - न च ठञ्विधौ का चित् प्रकृतिः गृह्यते ।१७ - ३३ - इदम् तर्हि प्रयोजनम् ।१८ - ३३ - आ अर्हात् अगोपुच्छसङ्ख्यापरिमाणात् ठक् ।१९ - ३३ - परमगोपुच्छेन क्रीतम् पारमगोपुच्छिकम् ।२० - ३३ - अत्र तदन्तविधिः सिद्धः भवति ।२१ - ३३ - एतत् अपि न अस्ति प्रयोजनम् ।२२ - ३३ - विधौ प्रतिषेधः प्रतिषेधः च अयम् ।२३ - ३३ - एवम् तर्हि ज्ञापयति आचार्यः इतः उत्तरम् तदन्तविधेः प्रतिषेधः न भवति इति ।२४ - ३३ - किम् एतस्य ज्ञापने प्रयोजनम् ।२५ - ३३ - पार्याणतुरायणचान्द्रायणम् वर्तयति द्वैपारायणिकः त्रैपारायणिकः ।२६ - ३३ - अत्र तदन्तविधिः सिद्धः भवति ।२७ - ३३ - एतत् अपि न अस्ति प्रयोजनम् ।२८ - ३३ - वक्ष्यति एतत् ।२९ - ३३ - प्राक् वतेः सङ्ख्यापूर्वपदानाम् तदन्तग्रहणम् अलुकि ।३० - ३३ - पूर्वत्र एव तर्हि प्रयोजनम् ।३१ - ३३ - खलयवमाषतिलवृषब्रह्मणः च इति ।३२ - ३३ - कृष्णतिलेभ्यः हितः कृष्णतिल्यः ।३३ - ३३ - राजमाषेभ्यः हितम् राजमाष्यम् ।१ - ८ - प्राक् वतेः सङ्ख्यापूर्वपदानाम् तदन्तग्रहणम् अलुकि ।२ - ८ - प्राक् वतेः सङ्ख्यापूर्वपदानाम् तदन्तग्रहणम् अलुकि कर्तव्यम् ।३ - ८ - पार्याणतुरायणचान्द्रायणम् वर्तयति द्वैपारायणिकः त्रैपारायणिकः ।४ - ८ - अलुकि इति किमर्थम् ।५ - ८ - द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् ।६ - ८ - त्रिशूर्पम् ।७ - ८ - द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् ।८ - ८ - त्रैशौर्पिकम् ।१ - ५ - शतप्रतिषेधे अन्यशतत्वे अप्रतिषेधः ।२ - ५ - शतप्रतिषेधे अन्यशतत्वे प्रतिषेधः न भवति इति वक्तव्यम्. इह मा भूत् ।३ - ५ - शतेन क्रीतम् शत्यम् शाटकशतम् इति ।४ - ५ - अन्यशतत्वे इति किम् ।५ - ५ - शतकम् निदानम् ।१ - २० - डतेः च इति वक्तव्यम् इह अपि यथा स्यात् ।२ - २० - कतिभिः क्रीतम् कतिकम् ।३ - २० - किम् पुनः कारणम् न सिध्यति ।४ - २० - त्यन्तायाः न इति प्रतिषेधः प्राप्नोति ।५ - २० - तिप्रतिषेधात् डतिग्रहणम् इति चेत् अर्थवद्ग्रहणात् सिद्धम् ।६ - २० - अर्थवतः तिशब्दस्य ग्रहणम् न च डतेः तिशब्दः अर्थवान् ।७ - २० - न एषा परिभाषा इह शक्या विज्ञातुम् ।८ - २० - न हि केवलेन प्रत्ययेन अर्थः गम्यते ।९ - २० - केन तर्हि ।१० - २० - सप्रकृतिकेन ।११ - २० - क्व तर्हि एषा परिभाषा भवति ।१२ - २० - यानि एतानि शब्दसङ्घातग्रहणानि ।१३ - २० - तत् तर्हि वक्तव्यम् ।१४ - २० - न वक्तव्यम् ।१५ - २० - अर्थवद्ग्रहणात् सिद्धम् ।१६ - २० - ननु च उक्तम् न एषा परिभाषा इह शक्या विज्ञातुम् ।१७ - २० - न हि केवलेन प्रत्ययेन अर्थः गम्यते इति ।१८ - २० - केवलेन अपि प्रत्ययेन अर्थः गम्यते ।१९ - २० - कथम् ।२० - २० - उक्तम् अन्वयव्यतिरेकाभ्याम् ।१ - २० - कस्य अयम् इट् विधीयते ।२ - २० - कनः इति आह ।३ - २० - तत् कनः ग्रहणम् कर्तव्यम् ।४ - २० - अक्रियमाणे हि कनः ग्रहणे प्रत्ययाधिकारात् प्रत्ययः अयम् विज्ञायेत ।५ - २० - टित्करणसामर्थ्यात् आदिः भविष्यति ।६ - २० - अस्ति अन्यत् टित्करणे प्रयोजनम् ।७ - २० - टितः इति ईकारः यथा स्यात् ।८ - २० - अकारान्तप्रकरणे ईकारः न च एषः अकारान्तः ।९ - २० - एवम् अपि कुतः एतत् टित्करणसामर्थ्यात् आदिः भविष्यति न पुनः अकारान्तप्रकरणे सति अनकारान्तात् अपि ईकारः स्यात् ।१० - २० - तस्मात् कणः ग्रहणम् कर्तव्यम् ।११ - २० - न कर्तव्यम् ।१२ - २० - प्रकृतम् अनुवर्तते ।१३ - २० - क्व प्रकृतम् ।१४ - २० - सङ्ख्यायाः अतिशदन्तायाः कन् इति ।१५ - २० - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।१६ - २० - वतोः इति एषा पञ्चमी कन् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।१७ - २० - प्रत्ययविधिः अयम् ।१८ - २० - न च प्रत्ययविधौ पञ्चम्याः प्रकल्पिकाः भवन्ति ।१९ - २० - न अयम् प्रत्ययविधिः ।२० - २० - विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।१ - १२ - असञ्ज्ञायाम् इति किमर्थम् ।२ - १२ - त्रिंशत्कः विंशत्कः ।३ - १२ - कथम् च अत्र कन् भवति ।४ - १२ - सङ्ख्यायाः कन् भवति इति ।५ - १२ - अतिशदन्तायाः इति प्रतिषेधः प्राप्नोति ।६ - १२ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति अत्र कन् इति यत् अयम् विंशतिकात् खः इति प्रत्ययान्तनिपातनम् करोति ।७ - १२ - विंशतेः एतत् ज्ञापकम् स्यात् ।८ - १२ - न इति आह ।९ - १२ - योगापेक्षम् ज्ञापकम् ।१० - १२ - अथ वा योगविभागः करिष्यते ।११ - १२ - विंशतित्रिंशभ्याम् कन् भवति इति ।१२ - १२ - ततः ड्वुन् असञ्ज्ञायाम् इति ।१ - ६ - टिथन् अर्धात् च ।२ - ६ - टिथन् अर्धात् च इति वक्तव्यम् ।३ - ६ - अर्धिकः अर्धिकी ।४ - ६ - कार्षापणात् वा प्रतिः च ।५ - ६ - कार्षापणात् टिठन् वक्तव्यः वा च प्रतिः आदेशः वक्तव्यः ।६ - ६ - कार्षापणिकः कार्षापणिकी प्रतिकः प्रतिकी ।१ - ७१ - द्विगोः लुकि उक्तम् ।२ - ७१ - किम् उक्तम् ।३ - ७१ - तत्र तावत् उक्तम् द्विगोः लुकि तन्निमित्तग्रहणम्. अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।४ - ७१ - इह अपि द्विगोः लुकि तन्निमित्तग्रहणम् कर्तव्यम् ।५ - ७१ - द्विगोः निमित्तम् यः तद्धितः तस्य लुक् भवति इति वक्तव्यम् ।६ - ७१ - इह मा भूत् ।७ - ७१ - द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् ।८ - ७१ - त्रिशूर्पम् ।९ - ७१ - द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् ।१० - ७१ - त्रैशौर्पिकम् ।११ - ७१ - अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि ।१२ - ७१ - अर्थविशेषस्य असम्प्रत्यये अतन्निमित्तात् अपि वक्तव्यम् ।१३ - ७१ - किम् प्रयोजनम् ।१४ - ७१ - द्वयोः शूर्पयोः समाहारः द्विशूर्पी ।१५ - ७१ - द्विशूर्प्या क्रीतम् इति विगृह्य द्विशूर्पम् इति एव यथा स्यात् ।१६ - ७१ - अथ क्रियमाणे अपि तन्निमित्तग्रहणे कथम् इदम् विज्ञायते ।१७ - ७१ - तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति आहोस्वित् सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति ।१८ - ७१ - किम् च अतः ।१९ - ७१ - यदि विज्ञायते तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति क्रियमाणे अपि तन्निमित्तग्रहणे अत्र प्राप्नोति ।२० - ७१ - द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् ।२१ - ७१ - त्रिशूर्पम् ।२२ - ७१ - द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् ।२३ - ७१ - त्रैशौर्पिकम् ।२४ - ७१ - अथ विज्ञायते सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति न दोषः भवति ।२५ - ७१ - यथ न दोषः तथा अस्तु ।२६ - ७१ - सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति विज्ञायते ।२७ - ७१ - कुतः एतत् ।२८ - ७१ - यत् अयम् आह अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।२९ - ७१ - तत् तर्हि तन्निमित्तग्रहणम् कर्तव्यम् ।३० - ७१ - न कर्तव्यम् ।३१ - ७१ - द्विगोः इति न एषा पञ्चमी ।३२ - ७१ - का तर्हि ।३३ - ७१ - सम्बन्धषष्ठी ।३४ - ७१ - द्विगोः तद्धितस्य लुक् भवति ।३५ - ७१ - किम् च द्विगोः तद्धितः ।३६ - ७१ - निमित्तम् ।३७ - ७१ - यस्मिन् द्विगुः इति एतत् भवति ।३८ - ७१ - कस्मिन् च एतत् भवति ।३९ - ७१ - प्रत्यये ।४० - ७१ - इदम् तर्हि वक्तव्यम् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।४१ - ७१ - एतत् च न वक्तव्यम् ।४२ - ७१ - इह अस्माभिः त्रैशब्द्यम् साध्यम् ।४३ - ७१ - द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् ।४४ - ७१ - त्रिशूर्पम् ।४५ - ७१ - द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् ।४६ - ७१ - त्रैशौर्पिकम् इति ।४७ - ७१ - तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।४८ - ७१ - तत् यथा ।४९ - ७१ - अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति ।५० - ७१ - एवम् इह अपि द्वाभ्याम् शूर्पाभ्याम् क्रीतम् इति विगृह्य द्विशूर्पम् इति भविष्यति ।५१ - ७१ - द्विशूर्प्या क्रीतम् इति विगृह्य वाक्यम् एव भविष्यति ।५२ - ७१ - अथ असञ्ज्ञायाम् इति किमर्थम् ।५३ - ७१ - पाञ्चलोहितिकम् पाञ्चकलापिकम् ।५४ - ७१ - सञ्ज्ञाप्रतिषेधानर्थक्यम् च तन्निमित्तत्वात् लोपस्य ।५५ - ७१ - सञ्ज्ञाप्रतिषेधः च अनर्थकः ।५६ - ७१ - किम् कारणम् ।५७ - ७१ - तन्निमित्तत्वात् लोपस्य ।५८ - ७१ - न अन्तरेण तद्धितम् तद्धितस्य च लुकम् द्विगुः सञ्ज्ञा अस्ति ।५९ - ७१ - यः तस्मात् उत्पद्यते न असु तन्निमित्तम् स्यात् ।६० - ७१ - एवम् तर्हि इदम् स्यात् ।६१ - ७१ - पञ्चानाम् लोहितानाम् समाहारः पञ्चलोहिती पञ्चलोहित्या क्रीतम् ।६२ - ७१ - अत्र अपि पञ्चलोहितम् इति एव भवितव्यम् ।६३ - ७१ - कथम् ।६४ - ७१ - उक्तम् हि एतत् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।६५ - ७१ - उक्तम् सङ्ख्यात्वे प्रयोजनम् तस्मात् इह अध्यर्धग्रहणानर्थक्यम् ।६६ - ७१ - उक्तम् सङ्ख्यात्वे अध्यर्धग्रहणस्य प्रयोजनम् ।६७ - ७१ - किम् उक्तम् ।६८ - ७१ - अध्यर्धग्रहणम् च समासकन्विध्यर्थम् लुकि च अग्रहणम् इति ।६९ - ७१ - तस्मात् इह अध्यर्धग्रहणानर्थक्यम् ।७० - ७१ - तस्मात् इह अध्यर्धग्रहणम् अनर्थकम् ।७१ - ७१ - द्विगोः इति एव लुक् सिद्धः ।१ - २ - कार्षापणसहस्राभ्याम् सुवर्णशतमानयोः उपसङ्ख्यानम् कर्तव्यम् ।२ - २ - अध्यर्धसुवर्णम् अध्यर्धसौवर्णिकम् अध्यर्धशतमानम् अध्यर्धशातमानम् द्विशतमानम् द्विशातमानम्१ - ११ - द्वित्रिभ्याम् द्वैयोग्यम् ।२ - ११ - द्वित्रिभ्याम् इति यत् उच्यते द्वैयोग्यम् एतत् द्रष्टव्यम् ।३ - ११ - किम् इदम् द्वैयोग्यम् इति ।४ - ११ - द्वयोः योगयोः भवम् द्वियोगम् ।५ - ११ - द्वियोगस्य भावः द्वैयोग्यम् इति ।६ - ११ - द्वेष्यम् विजानीयात् अविशेषेण इतः उत्तरम् द्वित्रिभ्याम् इति ।७ - ११ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे द्वित्रिभ्याम् द्वैयोग्यम् इति ।८ - ११ - तत्र च बहुग्रहणम् ।९ - ११ - तत्र च बहुग्रहणम् कर्तव्यम् ।१० - ११ - बहुनिष्कम् बहुनैष्किकम् ।११ - ११ - बहुबिस्तम् बहुबैस्तिकम् ।१ - ८ - खार्याः ईकन् केवलायाः च ।२ - ८ - खार्याः ईकन् केवलायाः च इति वक्तव्यम् ।३ - ८ - खारीकम् ।४ - ८ - काकिण्याः च उपसङ्ख्यानम् ।काकिण्याः च उपसङ्ख्यानम् कर्तव्यम् ।५ - ८ - अध्यर्धकाकिणीकम् द्विकाकिणीकम् ।६ - ८ - केवलायाः च ।७ - ८ - केवलायाः च इति वक्तव्यम् ।८ - ८ - काकिणीकम् ।१ - ६ - शतशाणाभ्याम् वा ।२ - ६ - शतशाणाभ्याम् वा इति वक्तव्यम् ।३ - ६ - अध्यर्धशतम् अध्यर्धशत्यम् पञ्चशतम् पञ्चशत्यम् अध्यर्धशाणम् अध्यर्धशाण्यम् पञ्चशाणम् पञ्चशाण्यम् ।४ - ६ - द्वित्रिपूर्वात् अण् च ।५ - ६ - द्वित्रिपूर्वात् अण् च इति वक्तव्यम् ।६ - ६ - द्विशाणम् त्रिशाणम् द्वैशाणम् त्रैशाणम् द्विशाण्यम् त्रिशाण्यम् ।१ - ३८ - तेन क्रीतम् इति करणात् ।२ - ३८ - तेन क्रीतम् इति अत्र करणात् इति वक्तव्यम् ।३ - ३८ - इह मा भूत् ।४ - ३८ - देवदत्तेन क्रीतम् ।५ - ३८ - यज्ञदत्तेन क्रीतम् इति ।६ - ३८ - अकर्त्रेकान्तात् ।७ - ३८ - अकर्त्रेकान्तात् इति वक्तव्यम् ।८ - ३८ - इह मा भूत् ।९ - ३८ - देवदत्तेन पाणिना क्रीतम् इति ।१० - ३८ - सङ्ख्यैकवचनात् द्विगोः च उपसङ्ख्यानम् ।११ - ३८ - सङ्ख्यायाः इति वक्तव्यम् ।१२ - ३८ - इह अपि यथा स्यात् ।१३ - ३८ - पञ्चभिः क्रीतम् पञ्चकम् ।१४ - ३८ - किम् पुनः कारणम् न सिध्यति ।१५ - ३८ - एकवचनान्तात् इति वक्ष्यति ।१६ - ३८ - तस्य अयम् पुरस्तात् अपकर्षः ।१७ - ३८ - एकवचनात् ।१८ - ३८ - एकवचनान्तात् इति वक्तव्यम् ।१९ - ३८ - इह मा भूत् ।२० - ३८ - शूर्पाभ्याम् क्रीतम् ।२१ - ३८ - शूर्पैः क्रीतम् इति ।२२ - ३८ - द्विगोः च ।२३ - ३८ - द्विगोः च इति वक्तव्यम् ।२४ - ३८ - इह अपि यथा स्यात् ।२५ - ३८ - द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् त्रिशूर्पम् इति ।२६ - ३८ - यदि एकवचनान्तात् इति उच्यते मुद्गैः क्रीतम् मौद्गिकम् माषैः क्रीतम् माषिकम् इति न सिध्यति ।२७ - ३८ - परिमाणस्य सङ्ख्यायाः यत् एकवचनम् तदन्तात् इति वक्तव्यम् ।२८ - ३८ - तत् तर्हि एकवचनान्तात् इति वक्तव्यम् ।२९ - ३८ - तस्मिन् च क्रियमाणे बहु वक्तव्यम् भवति ।३० - ३८ - न वक्तव्यम् ।३१ - ३८ - कस्मात् न भवति शूर्पाभ्याम् क्रीतम् ।३२ - ३८ - शूर्पैः क्रीतम् इति ।३३ - ३८ - उक्तम् वा ।३४ - ३८ - किम् उक्तम् ।३५ - ३८ - अनभिधानात् इति ।३६ - ३८ - यदि एवम् करणात् अकर्त्रेकान्तात् इति अपि न वक्तव्यम् ।३७ - ३८ - कर्तुः कर्त्रेकान्तात् वा कस्मात् न भवति ।३८ - ३८ - अनभिधानात् ।१ - १० - संयोगनिपातयोः कः विशेषः ।२ - १० - संयोगः नाम सः भवति इदम् कृत्वा इदम् अवाप्यते इति ।३ - १० - उत्पातः नाम सः भवति यादृच्छिकः भेदः वा छेदः वा पद्मम् वा पर्णम् वा ।४ - १० - तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमकोपनयोः उपसङ्ख्यानम् ।५ - १० - तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमकोपनयोः उपसङ्ख्यानम् कर्तव्यम् ।६ - १० - वातस्य शमनम् कोपनम् वा वातिकम् ।७ - १० - पैत्तिकम् श्लैष्मिकम् ।८ - १० - सन्निपातात् च ।९ - १० - सन्निपातात् च इति वक्तव्यम् ।१० - १० - सान्निपातिकम् ।१ - ४ - यत्प्रकरणे ब्रह्मवर्चसात् च ।२ - ४ - यत्प्रकरणे ब्रह्मवर्चसात् च उपसङ्ख्यानम् कर्तव्यम् ।३ - ४ - ब्रह्मवर्चसस्य निमित्तम् ब्रह्म्वर्चस्यः ।४ - ४ - उत्पातः वा ।१ - ११ - तद् अस्मिन् दीयते अस्मै इति च ।२ - ११ - तद् अस्मिन् दीयते अस्मै इति च इति वक्तव्यम् ।३ - ११ - पञ्च वृद्धिः वा आयः वा लाभः वा शुल्कः वा उपदा वा दीयते अस्मै पञ्चकः ।४ - ११ - सप्तकः ।५ - ११ - अष्टकः ।६ - ११ - नवकः ।७ - ११ - दशकः ।८ - ११ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।९ - ११ - न कर्तव्यम् ।१० - ११ - यत् हि यस्मै दीयते तस्मिन् अपि तत् दीयते ।११ - ११ - तत् अस्मिन् दीयते इति एव सिद्धम् ।१ - १३ - ठन्प्रकरणे अनन्तात् उपसङ्ख्यानम् ।२ - १३ - ठन्प्रकरणे अनन्तात् उपसङ्ख्यानम् कर्तव्यम् ।३ - १३ - द्वितीयकः ।४ - १३ - तृतीयकः ।५ - १३ - किम् पुनः कारणम् न सिध्यति ।६ - १३ - पूरणात् इति उच्यते ।७ - १३ - न च एतत् पूरणान्तम् ।८ - १३ - अना एतत् पर्यवपन्नम् ।९ - १३ - पूरणम् नाम अर्थः ।१० - १३ - तम् अर्थम् आह तीयशब्दः ।११ - १३ - पूरणम् सः असौ भवति ।१२ - १३ - पूरणन्तात् स्वार्थे भागे अन् ।१३ - १३ - सः अपि पूरणम् भवति एव ।१ - ५ - तत् पचति इति द्रोणात् अण् च ।२ - ५ - तत् पचति इति द्रोणात् अण् च इति वक्तव्यम् ।३ - ५ - द्रोणम् पचति ।४ - ५ - द्रौणी ।५ - ५ - द्रौणिकी ।१ - ९ - कुलिजात् च इति सिद्धे लुक्खग्रहणानर्थक्यम् पूर्व्समिन् त्रिकभावात् ।२ - ९ - कुलिजात् च इति एव सिद्धम् ।३ - ९ - न अर्थः लुक्खग्रहणेन ।४ - ९ - किम् कारणम् ।५ - ९ - पूर्वस्मिन् त्रिकभावात् ।६ - ९ - पूर्वस्मिन् योगे सर्वः एषः त्रिकः निर्दिश्यते ।७ - ९ - द्व्याढकी ।८ - ९ - द्व्याढिकी ।९ - ९ - द्व्याढकीना । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP