संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ४|पाद ३| खण्ड ५० पाद ३ खण्ड ४९ खण्ड ५० पाद ३ - खण्ड ५० व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ५० Translation - भाषांतर १ - १८ - प्रत्यक्षकारिग्रहणम् ।२ - १८ - प्रत्यक्षकारिग्रहणम् कर्तव्यम् अन्तेवास्यन्तेवासिभ्यः मा भूत् इति ।३ - १८ - तत् तर्हि वक्तव्यम् ।४ - १८ - न वक्तव्यम् ।५ - १८ - कलापिखाडायग्रहणम् ज्ञापकम् वैशम्पायनान्तेवासिषु प्रत्यक्षकारिग्रहणस्य ।६ - १८ - यत् अयम् कलापिखाडायग्रहणम् करोति तत् ज्ञापयति आचार्यः न अन्तेवास्यन्तेवासिभ्यः भवति इति ।७ - १८ - कथम् कृत्वा ज्ञापकम् ।८ - १८ - वैशम्पायनान्तेवासी कठः कठान्तेवासी खाडायनः ।९ - १८ - वैशम्पायनान्तेवासी कलापी ।१० - १८ - यदि च अन्तेवास्यन्तेवासिभ्यः अपि स्यात् कलापिखाडायग्रहणम् अनर्थकम् स्यात् ।११ - १८ - पश्यति तु आचार्यः न अन्तेवास्यन्तेवासिभ्यः भवति इति ।१२ - १८ - ततः कलापिखाडायग्रहणम् करोति ।१३ - १८ - छन्दोग्रहणम् च इतरथा हि अतिप्रसङ्गः ।१४ - १८ - छन्दोग्रहणम् च कर्तव्यम् ।१५ - १८ - इतरथा हि अतिप्रसङ्गः ।१६ - १८ - इतरथा हि अतिप्रसङ्गः स्यात् ।१७ - १८ - इह अपि प्रसज्येत ।१८ - १८ - तित्तिरिणा प्रोक्ताः श्लोकाः इति ।१ - ७ - पुराणप्रोक्तेषु ब्राह्मणकल्पेषु याज्ञवल्क्यादिभ्यः प्रतिषेधः तुल्यकालत्वात् ।२ - ७ - पुराणप्रोक्तेषु ब्राह्मणकल्पेषु इति अत्र याज्ञवल्क्यादिभ्यः प्रतिषेधः वक्तव्यः ।३ - ७ - याज्ञवल्कानि ब्राह्मणानि ।४ - ७ - सौलभानि इति ।५ - ७ - किम् कारणम् ।६ - ७ - तुल्यकालत्वात् ।७ - ७ - एतानि अपि तुल्यकालानि इति ।१ - १८ - कृते ग्रन्थे मक्षिकादिभ्यः अण् ।२ - १८ - कृते ग्रन्थे इति अत्र मक्षिकादिभ्यः अण् वक्तव्यः ।३ - १८ - मक्षिकाभिः कृतम् माक्षिकम् ।४ - १८ - तद्विशेषेभ्यः च ।५ - १८ - तद्विशेषेभ्यः च अण् वक्तव्यः ।६ - १८ - सरघाभिः कृतम् सारघम् ।७ - १८ - गार्मुतम् पौत्तिकम् ।८ - १८ - सः तर्हि वक्तव्यः ।९ - १८ - न वक्तव्यः ।१० - १८ - योगविभागात् सिद्धम् ।११ - १८ - योगविभागः करिष्यते ।१२ - १८ - कृते ग्रन्थे ।१३ - १८ - ततः सञ्ज्ञायाम् ।१४ - १८ - सञ्ज्ञायाम् च तेन कृते इति एतस्मिन् अर्थे यथाविहितम् प्रत्ययः भवति ।१५ - १८ - सरघाभिः कृतम् सारघम् ।१६ - १८ - गार्मुतम् पौत्तिकम् ।१७ - १८ - ततः कुलालादिभ्यः वुञ् ।१८ - १८ - सञ्ज्ञायाम् इति एव ।१ - ६४ - तस्य इदम् इति असन्निहिते अप्राप्तिः इदमः प्रत्यक्षवाचित्वात् ।२ - ६४ - तस्य इदम् इति असन्निहिते अप्राप्तिः ।३ - ६४ - किम् कारणम् ।४ - ६४ - इदमः प्रत्यक्षवाचित्वात् ।५ - ६४ - इदम् इति एतत् प्रत्यक्षे वर्तते ।६ - ६४ - तेन इह एव स्यात् ।७ - ६४ - तस्य इदम् इति ।८ - ६४ - तस्य अदः इति तस्य तत् इति न स्यात् ।९ - ६४ - सिद्धम् तु यद्योगा षष्ठी तत्र ।१० - ६४ - सिद्धम् एतत् ।११ - ६४ - कथम् ।१२ - ६४ - यद्योगा षष्ठी प्रवर्तते तत्र इति वक्तव्यम् ।१३ - ६४ - अनन्तरादिषु च प्रतिषेधः ।१४ - ६४ - अनन्तरादिषु च प्रतिषेधः वक्तव्यः ।१५ - ६४ - तस्य अनन्तरः तस्य समीपः इति ।१६ - ६४ - किम् यद्योगा षष्ठी प्रवर्तते इति अतः अनन्तरादिषु प्रतिषेधः वक्तव्यः ।१७ - ६४ - न इति आह ।१८ - ६४ - सर्वथ अनन्तरादिषु प्रतिषेधः वक्तव्यः ।१९ - ६४ - सिद्धम् तु परिगणनात् ।२० - ६४ - सिद्धम् एतत् ।२१ - ६४ - कथम् ।२२ - ६४ - परिगणनम् कर्तव्यम् ।२३ - ६४ - स्वे ग्रामजनपद्मनुष्येभ्यः ।२४ - ६४ - स्वे ग्रामजनपद्मनुष्येभ्यः इति वक्तव्यम् ।२५ - ६४ - स्रौघ्नः माथुरः ग्राम ।२६ - ६४ - जनपद आङ्गकः वाङ्गकः जनपद ।२७ - ६४ - मनुष्य दैवदत्तः याज्ञदत्तः ।२८ - ६४ - पत्त्रात् वाह्ये ।२९ - ६४ - पत्त्रात् वाह्ये इति वक्तव्यम् ।३० - ६४ - आश्वम् आउष्ट्रम् गार्दभम् ।३१ - ६४ - रथात् रथाङ्गे ।३२ - ६४ - रथात् रथाङ्गे इति वक्तव्यम् ।३३ - ६४ - आश्वरथम् औष्ट्ररथम् गार्दभरथम् ।३४ - ६४ - वहेः तुः अण् इट् च ।३५ - ६४ - वहेः त्रन्तात् अण् वल्तव्यः इट् च वक्तव्यः ।३६ - ६४ - संवोढुः स्वम् सांवहित्रम् ।३७ - ६४ - अग्नीधः शरणे रञ् भ च ।३८ - ६४ - अग्नीधः शरणे रञ् वक्तव्यः भसञ्ज्ञा च वक्तव्या ।३९ - ६४ - अग्नीधः शरणम् आग्नीध्रम् ।४० - ६४ - समिधाम् आधाने षेण्यण् ।४१ - ६४ - समिधाम् आधाने षेण्यण् वक्तव्यः ।४२ - ६४ - समिधाम् आधानः मन्त्रः सामिधेन्यः मन्त्रः ।४३ - ६४ - सामिधेनी ऋक् ।४४ - ६४ - चरणात् धर्माम्नाययोः ।४५ - ६४ - चरणात् धर्माम्नाययोः इति वक्तव्यम् ।४६ - ६४ - कठानाम् धर्मः आम्नायः वा काठकम् ।४७ - ६४ - कालापकम् मौदुकम् पैप्पलादकम् इति ।४८ - ६४ - तत् तर्हि बहु वक्तव्यम् ।४९ - ६४ - सूत्रम् च भिद्यते ।५० - ६४ - यथान्यासम् एव अस्तु ।५१ - ६४ - ननु च उक्तम् तस्य इदम् इति असन्निहिते अप्राप्तिः इति ।५२ - ६४ - किम् इदम् भवान् प्रत्ययार्थम् एव उपालम्भते न पुनः प्रकृत्यर्थम् अपि ।५३ - ६४ - यथा एव हि इदम् इति एतत् प्रत्यक्षे वर्तते एवम् तत् इति एतत् परोक्षे वर्तते ।५४ - ६४ - तेन इह एव स्यात् ।५५ - ६४ - तस्य इदम् इति ।५६ - ६४ - अस्य अमुष्य इति अत्र न स्यात् ।५७ - ६४ - अस्ति अत्र विशेषः ।५८ - ६४ - एकशेषनिर्देशः अत्र भविष्यति ।५९ - ६४ - तस्य च अस्य च अमुष्य त तस्य इति भवति ।६० - ६४ - इह अपि तर्हि एकशेषनिर्देशः भविष्यति ।६१ - ६४ - तत् च अदः च इदम् च इदम् इति एव ।६२ - ६४ - यत् अपि उच्यते अनन्तरादिषु च प्रतिषेधः वक्तव्यः इति ।६३ - ६४ - न वक्तव्यः ।६४ - ६४ - अनभिधानात् अनन्तरादिषु उत्पत्तिः न भविष्यति ।१ - ३ - वैरे देवासुरादिभ्यः प्रतिषेधः ।२ - ३ - वैरे देवासुरादिभ्यः प्रतिषेधः वक्तव्यः ।३ - ३ - दैवासुरम् राक्षोसुरम् ।१ - ३ - सङ्घादिषु घोषग्रहणम् ।२ - ३ - सङ्घादिषु घोषग्रहणम् कर्तव्यः ।३ - ३ - गार्गः घोषः वात्सः घोषः ।१ - १५ - किमर्थः णकारः ।२ - १५ - वृद्ध्यर्थः ।३ - १५ - ञ्णिति इति वृद्धिः यथा स्यात् ।४ - १५ - सङ्घादिषु प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिदिकस्य ।५ - १५ - सङ्घादिषु प्रत्ययस्य णित्करणम् अनर्थकम् ।६ - १५ - किम् कारणम् ।७ - १५ - वृद्धत्वात् प्रातिदिकस्य ।८ - १५ - वृद्धम् एव एतत् प्रातिपदिकम् ।९ - १५ - लिङ्गपुंवद्भावप्रतिषेधार्थम् तु ।१० - १५ - लिङ्गपुंवद्भावप्रतिषेधार्थम् तु णकारः कर्तव्यः ।११ - १५ - लिङ्गार्थम् ।१२ - १५ - वैदी ।१३ - १५ - पुंवद्भावप्रतिषेधार्थम् ।१४ - १५ - बैदी स्थूणा अस्य बैदीस्थूणः ।१५ - १५ - वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् ।१ - २६ - कौपिञ्जलहस्तिपदाद् अण् ।२ - २६ - कौपिञ्जलहस्तिपदाद् अण् वक्तव्यः ।३ - २६ - कौपिञ्जलाः हास्तिपदाः ।४ - २६ - आथर्वणिकस्य इकलोपः च ।५ - २६ - आथर्वणिकस्य इकलोपः च अण् च वक्तव्यः ।६ - २६ - आथर्वणः धर्मः आथर्वणः आम्नायः ।७ - २६ - इदम् आथर्वणार्थम् आथर्वणिकार्थम् च चतुर्ग्रहणम् क्रियते ।८ - २६ - वसन्तादिषु अथर्वन्शब्दः आथर्वणशब्दः च पठ्यते ।९ - २६ - षष्थाध्याये प्रकृतिभावार्थम् ग्रहणम् क्रियते ।१० - २६ - इदम् चतुर्थम् इकलोपार्थम् ।११ - २६ - द्विर्ग्रहणम् शक्यम् अकर्तुम् ।१२ - २६ - कथम् ।१३ - २६ - तेन प्रोक्तम् इति प्रकृत्य ऋषिभ्यः लुक् वक्तव्यः वसिष्ठः अनुवाकः विश्वामित्रः अनुवाकः इति एवमर्थम् ।१४ - २६ - ततः वक्तव्यम् अथर्वणः वा इति ।१५ - २६ - तेन् सिद्धम् अथर्वा आथर्वणः इति च ।१६ - २६ - अथ वसन्तादिषु आथर्वणशब्दः पठितव्यः ।१७ - २६ - तत्र न एव अर्थः प्रकृतिभावाऋथेन न अपि इकलोपार्थेन ।१८ - २६ - यदि वसन्तादिषु आथर्वणशब्दः पठ्यते अथर्वाणम् अधीते आथर्वणिकः इति न सिध्यति ।१९ - २६ - न एषः दोषः ।२० - २६ - इह अस्माभिः त्रैशब्द्यम् साध्यम् ।२१ - २६ - तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।२२ - २६ - तत् यथा ।२३ - २६ - अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति ।२४ - २६ - एवम् आथर्वणम् अधीते इति विगृह्य आथर्वणिकः इति भविष्यति अथर्वाणम् अधीते इति विगृह्य वाक्यम् एव ।२५ - २६ - तत्र अभिसम्बन्धमात्रम् कर्तव्यम् आथर्वणिकानाम् इति ।२६ - २६ - न च इदानीम् अन्यत् आथर्वणिकानाम् स्वम् भवितुम् अर्हति अन्यत् अतः धर्मात् आम्नायात् वा ।१ - ५५ - तस्य इति वर्तमाने पुनः तस्यग्रहणम् किमर्थम् ।२ - ५५ - तस्यप्रकरणे तस्यपुनर्वचनम् शैषिकनिवृत्त्यर्थम् ।३ - ५५ - तस्यप्रकरणे तस्य इति पुनर्वचनम् क्रियते शैषिकनिवृत्त्यर्थम् ।४ - ५५ - शैषिकाः निवर्त्यन्ते ।५ - ५५ - कथम् च प्राप्नुन्वन्ति ।६ - ५५ - तस्येदंवचनात् प्रसङ्गः ।७ - ५५ - तस्येदंविशेषाः हि एते अपत्यम् समूहः विकारः निवासः इति ।८ - ५५ - किमर्थम् इदम् उच्यते ।९ - ५५ - बाधनार्थम् कृतम् भवेत् ।१० - ५५ - ये तस्य बाधकाः तद्बाधनार्थम् ।११ - ५५ - कथम् पुनः अशैषिकम् शैषिकम् बाधेत ।१२ - ५५ - उत्सर्गः शेषः एव असौ ।१३ - ५५ - यः हि उत्सर्गः सः अपि शेषः एव ।१४ - ५५ - के पुनः शैषिकाणाम् विकारावयवयोः प्राप्नुवन्ति यावता सर्वम् अद्य अपवादैः व्याप्तम् ।१५ - ५५ - इह न किम् चित् उच्यते ।१६ - ५५ - हलसीरात् ठक् इति ।१७ - ५५ - कथम् पुनः इच्छता अपि अपवादः प्राप्नुवन् शक्यः बाधितुम् ।१८ - ५५ - तस्यग्रहणसामर्थ्यात् ।१९ - ५५ - किम् इदम् भवान् अध्यारुह्य तस्यग्रहणस्य एव प्रयोजनम् आह न पुनः सर्वस्य एव योगस्य ।२० - ५५ - अवश्यम् उत्तरार्थः अर्थनिर्देशः कर्तव्यः ।२१ - ५५ - समर्थविभक्तिः अपि तर्हि अवश्यम् उत्तरार्था निर्देष्टव्या ।२२ - ५५ - प्रकृता समर्थविभक्तिः अनुवर्तते तस्य इदम् इति ।२३ - ५५ - न वा सम्प्रत्ययः ।२४ - ५५ - न वा सम्प्रत्ययः इयता सूत्रेण शैषिकाणाम् निवृत्तेः ।२५ - ५५ - न हि काकः वाश्यते इति एव अधिकाराः निवर्तन्ते ।२६ - ५५ - यदि खलु अपि विकारावयवयोः शैषिकाः न इष्यन्ते महता सूत्रेण निवृत्तिः वक्तव्या ।२७ - ५५ - अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः ।२८ - ५५ - अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः इष्टा तत्र च निवृत्तिः प्राप्नोति ।२९ - ५५ - पाटलिपुत्रकाः प्रासादाः पाटलिपुत्रकाः प्राकाराः इति ।३० - ५५ - अण्मयटोः च विप्रतिषेधानुपपत्तिः मयडुत्सर्गात् ।३१ - ५५ - अण्मयटोः च विप्रतिषेधः न उपपद्यते ।३२ - ५५ - पठिष्यति हि विप्रतिषेधम् अणः वृद्धात् मयट् इति ।३३ - ५५ - सः विप्रतिषेधः न उपपद्यते ।३४ - ५५ - किम् कारणम् ।३५ - ५५ - मयडुत्सर्गात् ।३६ - ५५ - निवृत्तेषु हि शैषिकेषु वृद्धात् मयट् उत्सर्गः ।३७ - ५५ - तस्य अण् अपवादः ।३८ - ५५ - उत्सर्गापवादयोः च अयुक्तः विप्रतिषेधः ।३९ - ५५ - अनुवृत्तौ हि छोत्सर्गापवादविप्रतिषेधात् मयट् ।४० - ५५ - अनुवर्तमानेषु हि शैषिकेषु वृद्धात् छः उत्सगः तस्य अण्मयटौ अपवादौ ।४१ - ५५ - अपवादविप्रतिषेधात् मयट् भविष्यति ।४२ - ५५ - यत् तावत् उच्यते न वा सम्प्रत्ययः इयता सूत्रेण शैषिकाणाम् निवृत्तेः इति ।४३ - ५५ - सम्प्रत्ययः एव ।४४ - ५५ - न हि अत्र अण् दुर्लभः ।४५ - ५५ - सिद्धः अत्र अण् तस्य इदम् इति एव ।४६ - ५५ - सः अयम् पुनः तस्यग्रहणेन तस्य सापवादस्य अणः प्रसङ्गः इमम् निरपवादकम् अणम् प्रतिपादयति ।४७ - ५५ - तत्र ये तावत् द्वितीयाः तान् अयम् अपवादत्वात् बाधिष्यते ये तृतीयाः तान् परत्वात् ।४८ - ५५ - ये चतुर्थाः तत्र के चित् पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् इमम् न बाधिष्यन्ते के चित् मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति ।४९ - ५५ - एतावन्तः च एते स्युः यत् उत द्वितीयाः तृतीयाः चतुर्थाः वा ।५० - ५५ - न पञ्चमाः सन्ति न षष्ठाः ।५१ - ५५ - यत् अपि उच्यते अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः इति प्राण्योषधिवृक्षेभ्यः निवृत्तिः उच्यते ।५२ - ५५ - तत्र कः प्रसङ्गः यत् अप्राण्योषधिवृक्षेभ्यः निवृत्तिः स्यात् ।५३ - ५५ - यत् अपि उच्यते अण्मयटोः च विप्रतिषेधानुपपत्तिः मयडुत्सर्गात् इति मा भूत् विप्रतिषेधः ।५४ - ५५ - पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अणञम् बाधिष्यते ।५५ - ५५ - मयटम् न बाधिष्यते ।१ - ७ - किमर्थम् विकारावयवयोः युगपदधिकारः ।२ - ७ - विकारावयवयोः उक्तम् ।३ - ७ - किम् उक्तम् ।४ - ७ - तत्र तावत् उक्तम् भवव्याख्यानयोः युगपत् अधिकारः अपवादविधानार्थः ।५ - ७ - कृतनिर्देशौ हि तौ इति ।६ - ७ - इह अपि विकारावयवयोः युगपदधिकारः अपवादविधानार्थः ।७ - ७ - कृतनिर्देशौ हि तौ तस्य इदम् इति ।१ - ४ - किमर्थम् बिल्वादिषु गवीधुकाशब्दः पठ्यते न कोपधात् अण् इति एव सिद्धम् ।२ - ४ - बिल्वादिषु गवीधुकाग्रहणम् मयट्प्रतिषेधार्थम् ।३ - ४ - बिल्वादिषु गवीधुकाग्रहणम् क्रियते मयट्प्रतिषेधार्थम् ।४ - ४ - मयट् अतः मा भूत् इति ।१ - ३५ - अनुदात्तादेः अञः विधाने आद्युदात्तात् ङीषः उपसङ्ख्यानम् ।२ - ३५ - अनुदात्तादेः अञः विधाने आद्युदात्तात् ङीषः उपसङ्ख्यानम् कर्तव्यम् ।३ - ३५ - कुवली कौवलम् बदरी बादरम् ।४ - ३५ - तत् तर्हि वक्तव्यम् ।५ - ३५ - न वक्तव्यम् ।६ - ३५ - निघाते कृते अनुदात्तादेः इति एव सिद्धम् ।७ - ३५ - न सिध्यति ।८ - ३५ - किम् कारणम् ।९ - ३५ - पदस्य हि अनुदात्तादित्वम् ।१० - ३५ - पदस्य हि निघातः सुबन्तम् च पदम् ।११ - ३५ - ङ्याप्प्रातिपदिकात् च प्रत्ययः विधीयते ।१२ - ३५ - न वा समर्थस्य अनुदात्तादित्वात् ।१३ - ३५ - न वा कर्तव्यम् ।१४ - ३५ - किम् कारणम् ।१५ - ३५ - समर्थस्य अनुदात्तादित्वात् ।१६ - ३५ - समर्थम् अनुदात्तादित्वेन विशेषयिष्यामः ।१७ - ३५ - न एवम् शक्यम् ।१८ - ३५ - इह हि प्रसज्येत ।१९ - ३५ - वाचः विकारः त्वचः विकारः इति ।२० - ३५ - एतद् हि समर्थम् अनुदात्तादि ।२१ - ३५ - इह च न स्यात् सर्वेषाम् विकारः इति ।२२ - ३५ - तस्मात् न एवम् शक्यम् ।२३ - ३५ - न चेत् एवम् उपसङ्ख्यानम् कर्तव्यम् ।२४ - ३५ - न कर्तव्यम् ।२५ - ३५ - आचार्यप्रवृत्तिः ज्ञापयति यावति एव द्वितीयस्य स्वरस्य प्रादुर्भावः तावति एव पूर्वस्य निघातः इति यत् अयम् भिक्षादिषु गर्भिणीशब्दस्य पाठम् करोति ।२६ - ३५ - कथम् कृत्वा ज्ञापकम् ।२७ - ३५ - भिक्षादिषु गर्भिणीशब्दस्य पाठे एतत् प्रयोजनम् अनुदात्तादिलक्षणः अञ् मा भूत् इति ।२८ - ३५ - यदि च पदस्य निघातः गर्भशब्दः अयम् आद्युदात्तः तस्मात् इन् अन्तात् यः प्रत्ययः प्राप्नोति सः तावत् स्यात् ।२९ - ३५ - तस्मिन् अवस्थिते निघातः ।३० - ३५ - तत्र कः अनुदात्तादिलक्षणस्य अञः प्रसङ्गः ।३१ - ३५ - पश्यति तु आचार्यः यावति एव द्वितीयस्य स्वरस्य प्रादुर्भावः तावति एव पूर्वस्य निघातः इति ।३२ - ३५ - अतः भिक्षादिषु गर्भिणीशब्दम् पठति ।३३ - ३५ - पदग्रहणम् परिमाणार्थम् ।३४ - ३५ - पदग्रहणम् क्रियते परिमाणार्थम् ।३५ - ३५ - वाक्यस्य मा भूत् अनुदात्तम् पदम् एकवर्जम् इति ।१ - ८ - किमर्थम् एतयोः इति उच्यते ।२ - ८ - मयड्वैतयोर्वचनम् अपवादविषये अनिवृत्त्यर्थम् ।३ - ८ - मयट् वा एतयोः इति उच्यते अपवादविषये अनिवृत्तिः यथा स्यात् ।४ - ८ - बिल्वमयम् बैल्वम् ।५ - ८ - एतयोः इति अर्थनिर्देशः ।६ - ८ - एतयोः इति अर्थनिर्देशः द्रष्टव्यः ।७ - ८ - द्वेष्यम् विजानीयात् योगयोः वा प्रत्यययोः वा इति ।८ - ८ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे एतयोः इति अर्थनिर्देशः इति ।१ - ५२ - किमर्थम् इदम् उच्यते ।२ - ५२ - विकारावयवयोः विकारावयवयुक्तत्वात् मयट्प्रतिषेधार्थम् ञितः च तत्प्रत्ययात् अञः विधानम् ।३ - ५२ - विकारः विकारेण युज्यते अवयवेन अवयवः ।४ - ५२ - विकारावयवयोः विकारावयवयुक्तत्वात् मयट् प्राप्नोति ।५ - ५२ - इष्यते च अञ् एव स्यात् इति ।६ - ५२ - तत् च अन्तरेण यत्नम् न सिध्यति इति मयट्प्रतिषेधार्थम् ञितः च तत्प्रत्ययात् अञः विधानम् ।७ - ५२ - एवमर्थम् इदम् उच्यते ।८ - ५२ - न वा दृष्टः हि अवयवे समुदायशब्दः विकारे च प्रकृतिशब्दः तस्मात् मयडभावः ।९ - ५२ - न वा एतत् प्रयोजनम् अस्ति ।१० - ५२ - किम् कारणम् ।११ - ५२ - दृष्टः हि अवयवे समुदायशब्दः ।१२ - ५२ - तत् यथा पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतम् भुक्तम् ।१३ - ५२ - विकारे च प्रकृतिशब्दः दृश्यते ।१४ - ५२ - तत् यथा ।१५ - ५२ - शालीन् भुङ्क्ते मुद्गैः ।१६ - ५२ - शालीविकारम् मुद्गविकारेण इति ।१७ - ५२ - तस्मात् मयट् अतः न भविष्यति ।१८ - ५२ - न एतत् विवदामहे ।१९ - ५२ - अवयवे समुदायशब्दः अस्ति न अस्ति इति विकारे वा प्रकृतिशब्दः इति ।२० - ५२ - किम् तर्हि विकारावयवशब्दः अपि तु अस्ति ।२१ - ५२ - ततः उत्पत्तिः प्राप्नोति ।२२ - ५२ - विकारावयवशब्दात् प्रसङ्गः इति चेत् न तेन अनभिधानात् ।२३ - ५२ - विकारावयवशब्दात् प्रसङ्गः इति चेत् तत् न ।२४ - ५२ - किम् कारणम् ।२५ - ५२ - तेन अनभिधानात् ।२६ - ५२ - न हि विकारावयवशब्दात् उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् स्यात् ।२७ - ५२ - अनभिधानात् ततः उतपत्तिः न भविष्यति ।२८ - ५२ - तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।२९ - ५२ - अभिधाने हि अन्यतः अपि मयट्प्रसङ्गः ।३० - ५२ - अभिधाने हि सति अन्यतः अपि मयट् प्रसज्येत बैल्वस्य विकारः इति ।३१ - ५२ - तस्मात् तत्प्रत्ययान्तात् लुग्वचनम् ।३२ - ५२ - तस्मात् तत्प्रत्ययान्तात् लुक् वक्तव्यः ।३३ - ५२ - यदि लुक् उच्यते कथम् गौमयम् भस्म द्रौवयम् मानम् कापित्थः रसः इति ।३४ - ५२ - अन्यत्र गोमयात् द्रुवयात् फलात् च लुक् वक्तव्यः ।३५ - ५२ - इह तर्हि औष्ट्रकी अञन्तात् इति ईकारः न प्राप्नोति ।३६ - ५२ - इष्टम् एव एतत् सङ्गृहीतम् ।३७ - ५२ - औष्ट्रिका इति एव भवितव्यम् ।३८ - ५२ - एवम् हि सौनागाः पठन्ति ।३९ - ५२ - वुञः च अञ् कृतप्रसङ्गः इति ।४० - ५२ - इह तर्हि पालाशी समित् इति अनुपसर्जनलक्षणः ईकारः न प्राप्नोति ।४१ - ५२ - मा भूत् एवम् अञ् यः अनुपर्सर्जनम् इति ।४२ - ५२ - अञन्तात् अनुपसर्जनात् इति एवम् भविष्यति ।४३ - ५२ - न एवम् शक्यम् ।४४ - ५२ - इह हि दोषः स्यात् ।४५ - ५२ - काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी ताम् अधीते काशकृत्स्ना ब्राह्मणी इति ।४६ - ५२ - अणन्तात् इति ईकारः प्रसज्येत ।४७ - ५२ - तस्मात् अस्तु न तेन अनभिभानात् इति एव ।४८ - ५२ - इह तर्हि कापोतः रसः इत् प्राणिशब्दः न उपपद्यते ।४९ - ५२ - न एषः दोषः ।५० - ५२ - इदम् तावत् अयम् प्रष्टव्यः ।५१ - ५२ - अथ यः असौ आद्यः कपोतः सलोमकः सपक्षः न च सम्प्रति प्रणिति कथम् तत्र प्राणिशब्दः वर्तते इति ।५२ - ५२ - अथ मतम् एतत् प्रकृत्यन्वयाः विकाराः भवन्ति इति इह अपि न दोषः भवति ।१ - १३ - कथम् इदम् विज्ञायते ।२ - १३ - क्रीते ये प्रत्ययाः विहिताः ते भवन्ति परिमाणात् विकारावयवयोः इति ।३ - १३ - आहोस्वित् परिमाणात् क्रीते ये प्रत्ययाः विहिताः ते भवन्ति विकारावयवयोः इति ।४ - १३ - किम् च अतः ।५ - १३ - यदि विज्ञायते क्रीते ये प्रत्ययाः विहिताः ते भवन्ति परिमाणात् विकारावयवयोः इति प्रत्ययमात्रम् प्राप्नोति ।६ - १३ - अथ विज्ञायते परिमाणात् क्रीते ये प्रत्ययाः विहिताः ते भवन्ति विकारावयवयोः इति प्रकृतिमात्रात् प्राप्नुवन्ति ।७ - १३ - तस्मात् क्रीतवत् परिमाणात् अङ्गम् च ।८ - १३ - अङ्गम् च क्रीतवत् इति वक्तव्यम् ।९ - १३ - तत् तर्हि वक्तव्यम् ।१० - १३ - न वक्तव्यम् ।११ - १३ - क्रीतवत् इति वतिनिर्देशः अयम् ।१२ - १३ - यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण क्रीते प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन विशेषेण विकारावयवयोः भवन्ति ततः अमी क्रीतवत् कृताः स्युः ।१३ - १३ - अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमी क्रीतवत् कृताः स्युः ।१ - ५७ - अणः वृद्धात् मयट् ।२ - ५७ - अणः वृद्धात् मयट् इति एतत् भवति विप्रतिषेधेन ।३ - ५७ - अणः अवकाशः तित्तिडीक तैत्तिडीकम् ।४ - ५७ - मयटः अवकाशः काष्ठमयम् ।५ - ५७ - इह उभयम् प्राप्नोति ।६ - ५७ - शाकमयम् ।७ - ५७ - ओः अञः अनुदात्तादेः अञः च मयट् भवति विप्रतिषेधेन ।८ - ५७ - ओः अञः अवकाशः आरडवम् ।९ - ५७ - मयटः सः एव ।१० - ५७ - इह उभयम् प्राप्नोति ।११ - ५७ - दारुमयम् ।१२ - ५७ - अनुदात्तादेः अञ् भवति इति अस्य अवकाशः कौवलम् जरद्वृक्ष जारद्वृक्षम् ।१३ - ५७ - मयटः सः एव ।१४ - ५७ - इह उभयम् प्राप्नोति ।१५ - ५७ - आम्रमयम् ।१६ - ५७ - मयटः प्राण्यञ् विप्रतिषेधेन ।१७ - ५७ - मयटः प्राण्यञ् भवति विप्रतिषेधेन ।१८ - ५७ - प्राण्यञः अवकाशः गृध्र गार्ध्रम् ।१९ - ५७ - मयटः सः एव ।२० - ५७ - इह उभयम् प्राप्नोति ।२१ - ५७ - चाषम् भासम् ।२२ - ५७ - प्राण्यञ् भवति विप्रतिषेधेन ।२३ - ५७ - न वा अनवकाशत्वात् अपवादः मयट् ।२४ - ५७ - न वा एषः युक्तः विप्रतिषेधः यः अयम् अञः मयटः च ।२५ - ५७ - किम् कारणम् ।२६ - ५७ - अनवकाशत्वात् अपवादः मयट् ।२७ - ५७ - अनवकाशः मयट् सावकाशम् अञम् बाधिष्यते ।२८ - ५७ - सः कथम् अनवकाशः ।२९ - ५७ - यदि अनुवर्तन्ते शैषिकाः ।३० - ५७ - अथ निवृत्ताः शैषिकाः वृद्धम् आद्युदात्तम् मयटः अवकाशः ।३१ - ५७ - प्राण्यञः च ।३२ - ५७ - अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् मयटः प्राण्यञः च ।३३ - ५७ - किम् कारणम् ।३४ - ५७ - अनवकाशत्वात् अपवादः मयट् इति एव ।३५ - ५७ - अनवकाशः मयट् ।३६ - ५७ - सः यथा एव ओः अञम् अनुदात्तादेः अञम् च बाधते एवम् प्राण्यञम् अपि बाधेत ।३७ - ५७ - तस्मात् मयड्विधाने प्राणिप्रतिषेधः ।३८ - ५७ - तस्मात् मयड्विधाने प्राणिभ्यः प्रतिषेधः वक्तव्यः ।३९ - ५७ - सः तर्हि वक्तव्यः ।४० - ५७ - न वक्तव्यः ।४१ - ५७ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् मयट् ओः अञम् अनुदात्तादेः अञम् च बाधिष्यते ।४२ - ५७ - प्राण्यञम् न बाधिष्यते ।४३ - ५७ - यदि एतत् अस्ति मध्ये अपवादाः पुरस्तात् अपवादाः इति मा अनुवृतन् शैषिकाः ।४४ - ५७ - पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् अण् अञम् बाधिष्यते ।४५ - ५७ - मयटम् न बाधिष्यते ।४६ - ५७ - अनुदात्तादेः अञः प्राण्यञ् विप्रतिषेधेन ।४७ - ५७ - अनुदात्तादेः अञः प्राण्यञ् भवति विप्रतिषेधेन ।४८ - ५७ - अनुदात्तादेः अञ् भवति इति अस्य अवकाशः जरद्वृक्ष जारद्वृक्षम् ।४९ - ५७ - प्राण्यञः सः एव ।५० - ५७ - इह उभयम् प्राप्नोति ।५१ - ५७ - कपोत कापोतम् ।५२ - ५७ - प्राण्यञ् भवति विप्रतिषेधेन ।५३ - ५७ - कः पुनः अत्र विशेषः तेन वा सति अनेन वा ।५४ - ५७ - सापवादकः सः विधिः ।५५ - ५७ - अयम् पुनः निरपवादकः ।५६ - ५७ - यदि तेन स्यात् इह न स्यात् ।५७ - ५७ - श्वाविधः विकारः शौवाविधम् ।१ - ९ - फले लुग्वचनानर्थक्यम् प्रकृत्यन्तरत्वात् ।२ - ९ - फले लुग्वचनम् अनर्थकम् ।३ - ९ - किम् कारणम् ।४ - ९ - प्रकृत्यन्तरत्वात् ।५ - ९ - प्रकृत्यन्तरम् आमलकशब्दः फले वर्तते ।६ - ९ - एकान्तदर्शनात् प्राप्नोति ।७ - ९ - एकान्तदर्शनात् प्रसङ्गः इति चेत् वृक्षे लुग्वचनम् ।८ - ९ - एकान्तदर्शनात् प्रसङ्गः इति चेत् वृक्षे लुक् वक्तव्यः ।९ - ९ - वृक्षः अपि फलैकान्तः ।१ - ८ - लुप्प्रकरणे फलपाकशुषाम् उपसङ्ख्यानम् ।२ - ८ - लुप्प्रकरणे फलपाकशुषाम् उपसङ्ख्यानम् कर्तव्यम् ।३ - ८ - व्रीहयः यवाः माषाः मुद्गाः तिलाः ।४ - ८ - पुष्पमूलेषु च बहुलम् ।५ - ८ - पुष्पमूलेषु च बहुलम् लुप् वक्तव्यः ।६ - ८ - मल्लिका करवीरम् बिसम् मृणालम् ।७ - ८ - न च भवति ।८ - ८ - पाटलानि मूलानि । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP