संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ३|पाद ३| खण्ड ४० पाद ३ खण्ड ३९ खण्ड ४० पाद ३ - खण्ड ४० व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ४० Translation - भाषांतर १ - १२ - स्त्रियाम् क्तिन् आबादिभ्यः च ।२ - १२ - स्त्रियाम् क्तिन् इति अत्र आबादिभ्यः च इति वक्तव्यम् ।३ - १२ - आप्तिः राद्धिः दीप्तिः ।४ - १२ - निष्ठायाम् वा सेटः अकारवचनात् सिद्धम् ।५ - १२ - अथ वा निष्ठायाम् सेटः अकारः भवति इति वक्तव्यम् ।६ - १२ - यदि निष्ठायाम् सेटः अकारः भवति इति उच्यते स्रंसा ध्वंसा इति न सिध्यति ।७ - १२ - स्रस्तिः ध्वस्तिः इति प्राप्नोति ।८ - १२ - किम् पुनः इदम् परिगणनम् त्रयः एव आबादयः आहोस्वित् उदाहरणमात्रम् ।९ - १२ - किम् च अतः ।१० - १२ - यदि परिगणनम् भेदः भवति ।११ - १२ - अथ उदाहरणमात्रम् न अस्ति भेदः ।१२ - १२ - स्रस्ति ध्वस्तिः इति एव भवितव्यम् ।१ - २६ - स्थादिभ्यः सर्वापवादप्रसङ्गः ।२ - २६ - स्थादिभ्यः सर्वापवादः क्तिन् प्राप्नोति ।३ - २६ - सः यथा एव अङम् बाधते एवम् ण्वुलिञौ अपि बाधेत ।४ - २६ - काम् त्वम् स्थायिकाम् अस्थाः ।५ - २६ - काम् स्थायिम् ।६ - २६ - सिद्धम् तु अङ्विधाने स्थादिप्रतिषेधात् ।७ - २६ - सिद्धम् एतत् ।८ - २६ - कथम् ।९ - २६ - अङ्विधाने एव स्थादिप्रतिषेधः वक्तव्यः ।१० - २६ - प्रतिषिद्धे तस्मिन् क्तिन् एव भविष्यति ।११ - २६ - सिध्यति ।१२ - २६ - सूत्रम् तर्हि भिद्यते ।१३ - २६ - यथान्यासम् एव अस्तु ।१४ - २६ - ननु च उक्तम् स्थादिभ्यः सर्वापवादप्रसङ्गः इति ।१५ - २६ - न एषः दोषः ।१६ - २६ - पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् स्त्रियाम् क्तिन् अङम् बाधिष्यते ।१७ - २६ - ण्वुलिञौ न बाधिष्यते ।१८ - २६ - श्रुतिजिषिस्तुभ्यः करणे ।१९ - २६ - श्रुतिजिषिस्तुभ्यः करणे क्तिन् वक्तव्यः ।२० - २६ - श्रूयते अनया श्रुतिः ।२१ - २६ - इज्यते अनया इष्टिः ।२२ - २६ - इष्यते अनया इष्टिः ।२३ - २६ - स्तूयते अनया स्तुतिः ।२४ - २६ - ग्लाज्याहाभ्यः निः ।२५ - २६ - ग्लाज्याहाभ्यः निः वक्तव्यः ।२६ - २६ - ग्लानिः ज्यानिः हानिः ।१ - ३ - क्यब्विधिः अधिकरणे च ।२ - ३ - क्यब्विधिः अधिकरणे च इति वक्तव्यम् ।३ - ३ - समजन्ति तस्याम् समज्या ।१ - ३ - कृञः श च इति वावचनम् क्तिनर्थम् ।२ - ३ - कृञः श च इति वावचनम् कर्तव्यम् क्तिन् अपि यथा स्यात् ।३ - ३ - कृतिः ।१ - ६ - किम् निपात्यते ।२ - ६ - इषेः शे यगभावः ।३ - ६ - अत्यल्पम् इदम् उच्यते इच्छा इति ।४ - ६ - इच्छापरिचर्यापरिसर्यामृगयाटाट्यानाम् निपातनम् कर्तव्यम् ।५ - ६ - जागर्तेः अकारः वा ।६ - ६ - जागर्य जागरा ।१ - १४ - भिदा विदारणे ।२ - १४ - भिदा विदारणे इति वक्तव्यम् ।३ - १४ - भित्तिः अन्या ।४ - १४ - छिधा द्वैधीकरणे ।५ - १४ - छिधा द्वैधीकरणे इति वक्तव्यम् ।६ - १४ - छित्तिः अन्या ।७ - १४ - आरा शस्त्र्याम् ।८ - १४ - आरा शस्त्र्याम् इति वक्तव्यम् ।९ - १४ - आर्तिः अन्या ।१० - १४ - धारा प्रपाते ।११ - १४ - धारा प्रपाते इति वक्तव्यम् ।१२ - १४ - धृतिः अन्या ।१३ - १४ - गुहा गिर्योषध्योः । गुहा गिर्योषध्योः इति वक्तव्यम् ।१४ - १४ - गूढिः अन्या१ - १९ - किमर्थः चकारः ।२ - १९ - स्वरार्थः ।३ - १९ - चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।४ - १९ - न एतत् अस्ति प्रयोजनम् ।५ - १९ - उदात्तः इति वर्तते भूवीराः उदात्तः इति ।६ - १९ - यदि उदात्तः इति वर्तते वजयजोः भावे क्यप् किमर्थः पकारः ।७ - १९ - तुगर्थः ।८ - १९ - ह्रस्वस्य पिति कृति तुक् इति ।९ - १९ - उदात्तः इति वर्तते ।१० - १९ - एवम् अपि कुतः एतत् तदन्तस्य उदात्तत्वम् भविष्यति न पुनः आदेः इति ।११ - १९ - उदात्तः इति अनुवर्तनसामर्थ्यात् यस्य अप्राप्तः स्वरः तस्य भवति ।१२ - १९ - कस्य च अप्राप्तः ।१३ - १९ - अन्त्यस्य ।१४ - १९ - सामान्यग्रहणाविघातार्थः तर्हि ।१५ - १९ - क्व सामान्यग्रहणाविघातार्थेन अर्थः ।१६ - १९ - युवोः अनाकौ इति ।१७ - १९ - एतत् अपि न अस्ति प्रयोजनम् ।१८ - १९ - वक्ष्यति एतत् ।१९ - १९ - सिद्धम् तु युवोः अनुनासिकवचनात् इति ।१ - १० - युच्प्रकरणे घट्टिवन्दिविधिभ्यः च उपसङ्ख्यानम् ।२ - १० - युच्प्रकरणे घट्टिवन्दिविधिभ्यः च उपसङ्ख्यानम् कर्तव्यम् ।३ - १० - घट्टना वन्दना वेदना ।४ - १० - इषेः अनिच्छार्थस्य ।५ - १० - इषेः अनिच्छार्थस्य इति वक्तव्यम् ।६ - १० - अन्विष्यते अन्वेषणा ।७ - १० - परेः वा ।८ - १० - परेः वा इति वक्तव्यम् ।९ - १० - अन्याम् परीष्टिम् चर ।१० - १० - अन्याम् पर्येषणाम् चर ।१ - ३० - धात्वर्तनिर्देशे ण्वुल् ।२ - ३० - धात्वर्तनिर्देशे ण्वुल् वक्तव्यः ।३ - ३० - का नाम आसिका अन्येषु ईहमानेषु ।४ - ३० - का नाम् शायिका अन्येषु अधीयानेषु ।५ - ३० - इक्श्तिपौ धातुनिर्देशे ।६ - ३० - इक्श्तिपौ इति एतौ प्रत्ययौ धातुनिर्देशे वक्तव्यौ ।७ - ३० - पचेः ब्रूहि ।८ - ३० - पचतेः ब्रूहि ।९ - ३० - वर्णात् कारः ।१० - ३० - वर्णात् कारप्रत्ययः वक्तव्यः ।११ - ३० - अकारः इकारः ।१२ - ३० - रात् इफः ।१३ - ३० - रात् इफः वक्तव्यः ।१४ - ३० - रेफः ।१५ - ३० - मत्वर्थात् छः ।१६ - ३० - मत्वर्थात् छः वक्तव्यः ।१७ - ३० - मत्वर्थीयः ।१८ - ३० - इण् अजादिभ्यः ।१९ - ३० - इण् अजादिभ्यः वक्तव्यः ।२० - ३० - आजिः आतिः आदिः ।२१ - ३० - इञ् वपादिभ्यः ।२२ - ३० - इञ् वपादिभ्यः वक्तव्यः ।२३ - ३० - वापिः वासिः वादिः ।२४ - ३० - इक् कृष्यादिभ्यः ।२५ - ३० - इक् कृष्यादिभ्यः वक्तव्यः ।२६ - ३० - कृषिः किरिः गिरिः ।२७ - ३० - सम्पदादिभ्यः क्विप् ।२८ - ३० - सम्पदादिभ्यः क्विप् वक्तव्यः ।२९ - ३० - सम्पत् विपत् प्रतिपत् आपत् परिषत् ।१ - ५ - कृतः बहुलम् इति वक्तव्यम् पादहारकाद्यर्थम् ।२ - ५ - पादाभ्याम् ह्रियते पादहारकः ।३ - ५ - गले चोप्यते गलेचोपकः ।४ - ५ - श्वः अग्नीन् आधास्यमानेन ।५ - ५ - श्वः सोमेन यक्ष्यमाणेन ।१ - ४ - गोचरादीनाम् अग्रहणम् प्रायवचनात् यथा कषः निकषः इति ।२ - ४ - गोचरादीनाम् ग्रहणम् शक्यम् अकर्तुम् ।३ - ४ - घञ् कस्मात् न भवति ।४ - ४ - प्रायवचनात् यथा कषः निकषः इति प्रायवचनात् घञ् न भवति ।१ - ५ - घञ्विधौ अवहाराधारावायानाम् उपसङ्ख्यानम् ।२ - ५ - घञ्विधौ अवहाराधारावायानाम् उपसङ्ख्यानम् कर्तव्यम् ।३ - ५ - अवह्रियन्ते अस्मिन् अवहारः ।४ - ५ - आध्रियन्ते अस्मिन् आधारः ।५ - ५ - एत्य एतस्मिन् वयन्ति आवायः ।१ - ८ - किमर्थम् इदम् उच्यते न हलः च इति एव सिद्धम् ।२ - ८ - अनुदके इत् वक्ष्यामि इति ।३ - ८ - इह मा भूत् ।४ - ८ - उदकोदञ्चनः ।५ - ८ - उदङ्कः अनुदकग्रहणानर्थक्यम् च प्रायवचनात् यथा गोदोहनः प्रसाधनः इति ।६ - ८ - उदङ्कः अनुदकग्रहणम् च अनर्थकम् ।७ - ८ - घञ् कस्मात् न भवति ।८ - ८ - प्रायवचनात् यथा गोदोहनः प्रसाधनः इति ।१ - ८ - डः वक्तव्यः ।२ - ८ - आखः ।३ - ८ - डरः वक्तव्यः ।४ - ८ - आखरः ।५ - ८ - इकः वक्तव्यः ।६ - ८ - आखनिकः ।७ - ८ - इकवकः वक्तव्यः ।८ - ८ - आखनिकवकः ।१ - २६ - अजब्भ्याम् स्त्रीखलनाः ।२ - २६ - अजब्भ्याम् स्त्रीखलनाः भवन्ति विप्रतिषेधेन ।३ - २६ - अजपोः अवकाशः चयः लवः ।४ - २६ - स्त्रीप्रत्ययानाम् अवकाशः कृतिः हृतिः ।५ - २६ - इह उभयम् प्राप्नोति ।६ - २६ - चितिः स्तुतिः ।७ - २६ - खलः अवकाशः ईषद्भेदः सुभेदः ।८ - २६ - अजपोः सः एव ।९ - २६ - इह उभयम् प्राप्नोति ।१० - २६ - ईषच्चयः सुचयः ईषल्लवः सुलवः ।११ - २६ - अनस्य अवकाशः इध्मप्रव्रश्चनः ।१२ - २६ - अजपोः सः एव ।१३ - २६ - इह उभयम् प्राप्नोति ।१४ - २६ - पलाशचयनः अविलवनः ।१५ - २६ - स्त्रीखलनाः भवन्ति विप्रतिषेधेन ।१६ - २६ - स्त्रियाः खलनौ विप्रतिषेधेन ।१७ - २६ - स्त्रियाः खलनौ भवतः विप्रतिषेधेन ।१८ - २६ - स्त्रीप्रत्ययानाम् अवकाशः कृतिः हृतिः ।१९ - २६ - खलः अवकाशः ईषद्भेदः सुभेदः ।२० - २६ - इह उभयम् प्राप्नोति ।२१ - २६ - ईषद्भेदा सुभेदा ।२२ - २६ - अनस्य अवकाशः इध्मप्रव्रश्चनः ।२३ - २६ - स्त्रीप्रत्ययानाम् सः एव ।२४ - २६ - इह उभयम् प्राप्नोति ।२५ - २६ - सक्तुधानी तिलपीडनी ।२६ - २६ - खलनौ भवतः विप्रतिषेधेन ।१ - ७ - खल् कर्तृकरणयोः च्व्यर्थयोः ।२ - ७ - खल् कर्तृकरणयोः च्व्यर्थयोः इति वक्तव्यम् ।३ - ७ - अनाढ्येन भवता ईषदाढ्येन शक्यम् भवितुम् ईषदाढ्यम्भवम् भवता ।४ - ७ - दुराढ्यम्भवम् स्वाढ्यम्भवम् ।५ - ७ - कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् । कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् द्रष्टव्यम् ।६ - ७ - द्वेष्यम् विजानीयात् अभिधेययोः इति ।७ - ७ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् इति१ - ५ - भाषायाम् शासियुधिदृशिधृषिभ्यः युच् ।२ - ५ - भाषायाम् शासियुधिदृशिधृषिभ्यः युच् वक्तव्यः ।३ - ५ - दुःशासनः दुर्योधनः दुर्दर्शनः दुर्धर्षणः ।४ - ५ - मृषेः च इति वक्तव्यम् ।५ - ५ - दुर्मर्षणः ।१ - २६ - वत्करणम् किमर्थम् ।२ - २६ - वर्तमानसामीप्ये वर्त्मानाः वा इति इयति उच्यमाने वर्तमाने ये प्रत्ययाः विहिताः वर्तमानसामीप्ये धातुमात्रात् स्युः ।३ - २६ - वत्करणे पुनः क्रियमाणे न दोषः भवति ।४ - २६ - यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण वर्तमाने प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण वर्तमानसामीप्ये भवन्ति ततः अमीवर्तमानवत् कृताः स्युः ।५ - २६ - अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमीवर्तमानवत् कृताः स्युः ।६ - २६ - इह वर्तमानसामीप्ये वर्तमानवत् वा इति उक्त्वा लोट् एव उदाह्रियते ।७ - २६ - यदि पुनः वा लट् भवति इति एव उच्येत ।८ - २६ - अतः उत्तरम् पठति ।९ - २६ - वर्तमानसामीप्ये वर्तमानवद्वचनम् शत्राद्यर्थम् ।१० - २६ - वर्तमानसामीप्ये वर्तमानवद्वचनम् क्रियते शत्राद्यर्थम् ।११ - २६ - शत्राद्यर्थः अयम् आरम्भः ।१२ - २६ - एषः अस्मि पचन् ।१३ - २६ - एषः अस्मि पचमानः इति ।१४ - २६ - न एतत् अस्ति प्रयोजनम् ।१५ - २६ - लडादेशौ शतृशानचौ ।१६ - २६ - तत्र वा लट् भवति इति एव सिद्धम् ।१७ - २६ - यौ तर्हि अलडादेशौ ।१८ - २६ - एषः अस्मि पवमानः ।१९ - २६ - एषः अस्मि यजमानः ।२० - २६ - यौ च अपि लडादेशौ तौ अपि प्रयोजयतः ।२१ - २६ - वर्तमानविहितस्य लटः शतृशानचौ उच्येते ।२२ - २६ - अविशेषेण विहितः च अयम् योगः ।२३ - २६ - शत्राद्यर्थम् इति खलु अपि उच्यते ।२४ - २६ - बहवः च शत्रादयः ।२५ - २६ - एषः अस्मि अलङ्करिष्णुः ।२६ - २६ - एषः अस्मि प्रजनिष्णुः ।१ - १४ - आशंसा नाम भविष्यत्काला ।२ - १४ - आशंसायाम् भूतवदतिदेशे लङ्लिटोः प्रतिषेधः ।३ - १४ - आशंसायाम् भूतवदतिदेशे लङ्लिटोः प्रतिषेधः वक्तव्यः ।४ - १४ - न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् ।५ - १४ - न वा वक्तव्यः ।६ - १४ - किम् कारणम् ।७ - १४ - अपवादस्य निमित्ताभावात् ।८ - १४ - न अत्र अपवादस्य निमित्तम् अस्ति ।९ - १४ - कथम् ।१० - १४ - अनद्यतने हि तयोः विधानम् ।११ - १४ - अनद्यतने हि तौ विधीयेते लङ्लिटौ ।१२ - १४ - न च अत्र अनद्यतनः कालः विवक्षितः ।१३ - १४ - कः तर्हि ।१४ - १४ - भूतकालसामान्यम्१ - २१ - आशंसासम्भावनयोः अविशेषात् तद्विधानस्य अप्राप्तिः । आशंसा सम्भावनम् इति अविशिष्टौ एतौ अर्थौ ।२ - २१ - आशंसासम्भावनयोः अविशेषात् तद्विधानस्य अप्राप्तिः ।३ - २१ - आशंसायाम् ये विधीयन्ते ते सम्भावने अपि प्राप्नुवन्ति ।४ - २१ - ये च सम्भावने विधीयन्ते ते आशंसायाम् अपि प्राप्नुवन्ति ।५ - २१ - किम् तर्हि उच्यते अप्राप्तिः इति ।६ - २१ - न साधीयः प्राप्तिः भवति ।७ - २१ - इष्टा व्यवस्था न प्रकल्पेत ।८ - २१ - न सर्वे सर्वत्र इष्यन्ते ।९ - २१ - न वा सम्भावनावयवत्वात् आशंसायाः ।१० - २१ - न वा एषः दोषः ।११ - २१ - किम् कारणम् ।१२ - २१ - सम्भावनावयवत्वात् आशंसायाः ।१३ - २१ - सम्भावनावयवात्मिका आशंसा ।१४ - २१ - आशंसा नाम प्रधारितः अर्थः अभिनीतः च अनभिनीतः च ।१५ - २१ - सम्भावनम् नाम प्रधारितः अर्थः अभिनीतः एव. अर्थासन्देहः वा अलमर्थत्वात् सम्भावनस्य ।१६ - २१ - अथ वा अर्थासन्देहः एव पुनः अस्य ।१७ - २१ - किम् कारणम् ।१८ - २१ - अलमर्थत्वात् सम्भावनस्य ।१९ - २१ - सम्भावने आलमर्थ्यम् गम्यते आसंशायाम् पुनः अनालमर्थ्यम् ।२० - २१ - आचार्यप्रवृत्तिः ज्ञापयति सम्भावने अपि अनालमर्थ्यम् गम्यते इति यत् अयम् सम्भावने अलम् इति आह ।२१ - २१ - तस्मात् सुष्ठु उच्यते न वा सम्भावनावयवत्वात् आशंसायाः इति ।१ - ९ - क्षिप्रवचने लृअः आशंसावचने लिङ् विप्रतिषेधेन ।२ - ९ - क्षिप्रवचने लृअः आशंसावचने लिङ् भवति विप्रतिषेधेन ।३ - ९ - क्षिप्रवचने लृट् भवति इति अस्य अवकाशः ।४ - ९ - उपाध्यायः चेत् आगतः क्षिप्रम् अध्येष्यामहे ।५ - ९ - आशंसावचबे लिङ् भवति इति अस्य अवकाशः ।६ - ९ - उपाध्यायः चेत् आगतः आशंसे युक्तः अधीयीय ।७ - ९ - इह उभयम् प्राप्नोति ।८ - ९ - उपाध्यायः चेत् आगतः आशंसे क्षिप्रम् अधीयीय ।९ - ९ - लिङ् भवति विप्रतिषेधेन ।१ - २८ - अनिष्पन्ने निष्पन्नशब्दः शिष्यः अनिष्पन्नत्वात् ।२ - २८ - अनिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः ।३ - २८ - किम् कारणम् ।४ - २८ - अनिष्पन्नत्वात् ।५ - २८ - देवः चेत् वृष्टः निष्पन्नाः शालयः ।६ - २८ - तत्र भवितव्यम् सम्पत्स्यन्ते शालयः इति ।७ - २८ - सिद्धम् तु भविष्यत्प्रतिषेधात् ।८ - २८ - सिद्धम् एतत् ।९ - २८ - कथम् ।१० - २८ - भविष्यत्प्रतिषेधात् ।११ - २८ - यत् लोकः भविष्यद्वाचिनः शब्दस्य प्रयोगम् न मृष्यति ।१२ - २८ - कः चित् आह ।१३ - २८ - देवः चेत् वृष्टः सम्पत्स्यन्ते शालयः इति ।१४ - २८ - सः उच्यते ।१५ - २८ - मा एवम् वोचः ।१६ - २८ - सम्पन्नाः शालयः इति एवम् ब्रूहि ।१७ - २८ - हेतुभूतकालसम्प्रेक्षितत्वात् वा ।१८ - २८ - हेतुभूतकालसम्प्रेक्षितत्वात् वा पुनः सिद्धम् एतत् ।१९ - २८ - हेतुभूतकालम् वर्षम् वर्षाकाला च क्रिया ।२० - २८ - यदि तर्हि निष्पन्नः अर्थः किम् निष्पन्नकार्याणि न क्रियन्ते ।२१ - २८ - कानि ।२२ - २८ - भोजनादीनि ।२३ - २८ - अन्यत् इदानीम् एतत् उच्यते किम् निष्पन्नकार्याणि न क्रियन्ते इति ।२४ - २८ - यत् तु तत् निष्पन्नः अर्थः न निष्पन्नः इति ।२५ - २८ - सः निष्पन्नः अर्थः ।२६ - २८ - अवश्यम् खलु अपि कोष्ठगतेषु अपि शालिषु अवहननादीनि प्रतीक्ष्याणि ।२७ - २८ - एवम् इह अपि निष्पन्नः अर्थः ।२८ - २८ - अवश्यम् तु जननादीनि प्रतीक्ष्याणि ।१ - ३४ - अस्त्यर्थानाम् भवन्त्यर्थे सर्वाः विभक्तयः । अस्त्यर्थानाम् भवन्त्यर्थे सर्वाः विभक्तयः ।२ - ३४ - कूपः अस्ति ।३ - ३४ - कूपः भविष्यति ।४ - ३४ - कूपः भविता ।५ - ३४ - कूपः अभूत् ।६ - ३४ - कूपः आसीत् ।७ - ३४ - कूपः बभूव इति ।८ - ३४ - कथम् पुनः ज्ञायते भवन्त्याः एषः अर्थः इति ।९ - ३४ - कर्तुः विद्यमानत्वात् ।१० - ३४ - कर्ता अत्र विद्यते ।११ - ३४ - कथम् पुनः ज्ञायते कर्ता अत्र विद्यते इति ।१२ - ३४ - कूपः अनेन कदा चित् दृष्टः ।१३ - ३४ - न च अस्य कम् चिद् अपि अपायम् पश्यति ।१४ - ३४ - सः तु तत्र बुद्ध्या नित्याम् सत्ताम् अध्यवस्यति ।१५ - ३४ - कूपः अस्ति इति ।१६ - ३४ - सिद्धम् तु यथास्वम् कालसमुच्चारणात् ।१७ - ३४ - सिद्धम् एतत् ।१८ - ३४ - कथम् ।१९ - ३४ - यथास्वम् एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति ।२० - ३४ - कथम् पुनः ज्ञायते यथास्वम् एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति ।२१ - ३४ - अवात्वात् ।२२ - ३४ - यत् न वा भाष्यन्ते ।२३ - ३४ - असिद्धविपर्यासः च । असिद्धः च विपर्यासः ।२४ - ३४ - न हि कः चित् कूपः अस्ति इति प्रयोक्तव्ये कूपः अभूत् इति प्रयुङ्क्ते ।२५ - ३४ - किम् पुनः कारणम् ।२६ - ३४ - न वा भाष्यन्ते असिद्धः च विपर्यासः ।२७ - ३४ - इह किम् चित् इन्द्रियकर्म किम् चित् बुद्धिकर्म ।२८ - ३४ - इन्द्रियकर्म समासादनम् बुद्धिकर्मव्यवसायः ।२९ - ३४ - एवम् हि कः चित् पाटलिपुत्रम् जिगमिषुः आह ।३० - ३४ - यः अयम् अध्वा गन्तव्यः आ पाटलिपुत्रात् एतस्मिन् कूपः भविष्यति ।३१ - ३४ - समासाद्य अतिक्रम्य उषित्वा कूपः आसीत् इति ।३२ - ३४ - समासाद्य अतिक्रम्य उषित्वा विस्मृत्य कूपः बभूव इति ।३३ - ३४ - तत् यदा इन्द्रियकर्म तदा एताः विभक्तयः ।३४ - ३४ - यदा हि बुद्धिकर्म तदा वर्तमाना भविष्यति ।१ - १२ - किमर्थम् इमौ द्वौ प्रतिषेधौ उच्येते न अद्यतनवत् इति एव उच्येत ।२ - १२ - न अनद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः ।३ - १२ - न अनद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः द्रष्टव्यः ।४ - १२ - अद्यतनवद्वचने हि विधानम् ।५ - १२ - अद्यतनवद्वचने हि सति विधिः इयम् विज्ञायेत ।६ - १२ - तत्र कः दोषः ।७ - १२ - तत्र लड्विधिप्रसङ्गः ।८ - १२ - तत्र लड्विधिः प्रसज्येत ।९ - १२ - लुङ्लृटोः च अयथाकालम् । लुङ्लृटोः च अयथाकालम् प्रयोगः प्रसज्येत ।१० - १२ - लुङः अपि विषये लृट् स्यात् लृटः च विषये लुङ् स्यात् ।११ - १२ - अद्य पुनः अयम् द्वौ प्रतिषेधौ उक्त्वा तूष्णीम् आस्ते ।१२ - १२ - यथाप्राप्तेम् एव अद्यतने भविष्यति इति ।१ - २८ - किमर्थम् इदम् उच्यते न न अनद्यतनवत् इति एव सिद्धम् ।२ - २८ - भविष्यति मर्यादावचने अवरस्मिन् इति अक्रियाप्रबन्धार्थम् ।३ - २८ - अक्रियाप्रबन्धार्थः अयम् आरम्भः ।४ - २८ - किम् उच्यते अक्रियाप्रबन्धः ।५ - २८ - न पुनः क्रियाप्रबन्धार्थः अपि स्यात् ।६ - २८ - क्रियाप्रबन्धार्थम् इति चेत् वचनानर्थक्यम् ।७ - २८ - क्रियाप्रबन्धार्थम् इति चेत् वचनम् अनर्थकम् ।८ - २८ - सिद्धम् क्रियाप्रबन्धे पूर्वेण एव ।९ - २८ - इदम् तर्हि प्रयोजनम् ।१० - २८ - अनहोरात्राणाम् इति वक्ष्यामि इति ।११ - २८ - इह मा भूत् ।१२ - २८ - यः अयम् त्रिंशद्रात्रः आगामी तस्य यः अवरः पञ्चदशरात्रः इति ।१३ - २८ - अहोरात्रप्रतिषेधार्थम् इति चेत् न अनिष्टत्वात् ।१४ - २८ - अहोरात्रप्रतिषेधार्थम् इति चेत् तत् न अनिष्टत्वात् ।१५ - २८ - किम् कारणम् ।१६ - २८ - अनिष्टत्वात् ।१७ - २८ - अत्र अपि न अनद्यतनवत् इति एव इष्यते ।१८ - २८ - इदम् तर्हि प्रयोजनम् भविष्यति इति वक्ष्यामि इति ।१९ - २८ - इह म भूत् ।२० - २८ - यः अयम् अध्वा गतः आ पाटलिपुत्रात् तस्य यत् अवरम् साकेतात् इति ।२१ - २८ - न अनिष्टत्वात् ।२२ - २८ - अत्र अपि न अनद्यतनवत् इति एव इष्यते ।२३ - २८ - इदम् तर्हि प्रयोजनम् मर्यादावचने इति वक्ष्यामि इति ।२४ - २८ - इह मा भूत् ।२५ - २८ - यः अयम् अध्वा अपरिमाणः गन्तव्यः तस्य यत् अवरम् साकेतात् इति ।२६ - २८ - अत्र अपि न अनद्यतनवत् इति एव इष्यते ।२७ - २८ - तस्मात् सुष्ठु उच्यते भविष्यति मर्यादावचने अवरस्मिन् इति अक्रियाप्रबन्धार्थम् ।२८ - २८ - क्रियाप्रबन्धार्थम् इति चेत् वचनानर्थक्यम् इति ।१ - ८ - अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः ।२ - ८ - अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः वक्तव्यः ।३ - ८ - यः अयम् त्रिंशद्रात्रः आगामीतस्य यः अवरः अर्धमासः ।४ - ८ - तैः च विभागे ।५ - ८ - तैः च विभागे इति वक्तव्यम् यः अयम् मासः आगामीतस्य यः अवरः पञ्चदशरात्रः इति ।६ - ८ - द्वेष्यम् विजानीयात् अहोरात्राणाम् एव अहोरात्रैः विभागे प्रतिषेधः इति ।७ - ८ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः ।८ - ८ - तैः च विभागे इति ।१ - ४ - कस्मिन् परस्मिन् ।२ - ४ - कालविभागे ।३ - ४ - कुतः एतत् ।४ - ४ - योगविभागकरणसामर्थ्यात् ।१ - ६ - साधनातिपत्तौ इति अपि वक्तव्यम् इह अपि यथा स्यात् ।२ - ६ - अभोक्ष्यत भवान् मांसेन यदि मत्समीपे आसिष्यत इति ।३ - ६ - तत् तर्हि वक्तव्यम् ।४ - ६ - न वक्तव्यम् ।५ - ६ - न अन्तरेण साधनम् क्रियायाः प्रवृत्तिः अस्ति इति साधनातिपत्तिः चेत् क्रियातिपत्तिः अपि भवति ।६ - ६ - तत्र क्रियातिपत्तौ इति एव सिद्धम् ।१ - ४ - भूते लृङ् उताप्यादिषु ।२ - ४ - भूते लृङ् उताप्यादिषु द्रष्टव्यः ।३ - ४ - उत अध्याइष्यत ।४ - ४ - अपि अध्यैष्यत ।१ - ४ - विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् ।२ - ४ - विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् इति वक्तव्यम् ।३ - ४ - वा आ उताप्योः इति हि उच्यमाने सन्देहः स्यात् प्राक् वा उतापिभ्याम् सह वा इति ।४ - ४ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् इति ।१ - १० - गर्हायाम् लड्विधानानर्थक्यम् क्रियासमाप्तिविवक्षितत्वात् ।२ - १० - गर्हायाम् लड्विधिः नर्थकः ।३ - १० - किम् कारणम् ।४ - १० - क्रियासमाप्तिविवक्षितत्वात् ।५ - १० - क्रियायाः अत्र असमाप्तिः गम्यते ।६ - १० - एषः च नाम न्याय्यः वर्तमानः कालः यत्र क्रिया अपरिसमाप्ता भवति ।७ - १० - तत्र वर्तमाने लट् इति एव सिद्धम् ।८ - १० - यदि वर्तमाने लट् इति एवम् अत्र लट् भवति शतृशानचौ प्राप्नुतः ।९ - १० - इष्येते च शतृशानचौ अपि माम् याजयन्तम् पश्य ।१० - १० - अपि माम् याजयमानम् पश्य ।१ - १० - किंवृत्तस्य अनधिकारात् उत्तरत्र अकिंवृत्तग्रहणानर्थक्यम् ।२ - १० - किंवृत्तस्य अनधिकारात् उत्तरत्र अकिंवृत्तग्रहणम् अनर्थकम् ।३ - १० - निवृत्तम् किंवृत्ते इति ।४ - १० - तस्मिन् निवृत्ते अविशेषेण किंवृत्ते अकिंवृत्ते च भविष्यति ।५ - १० - इदम् तर्हि प्रयोजनम् उपपदसञ्ज्ञाम् वक्ष्यामि इति ।६ - १० - उपपदसञ्ज्ञावचने किम् प्रयोजनम् ।७ - १० - उपपदम् अतिङ् इति समासः यथा स्यात् ।८ - १० - अतिङ् इति प्रतिषेधः प्राप्नोति ।९ - १० - यदा तर्हि लृटः सत्सञ्ज्ञौ तदा उपपदसञ्ज्ञा भविष्यति ।१० - १० - भविष्यदधिकारविहितस्य लृटः सत्स्ञ्ज्ञौ उच्येते अविशेषविहितः च अयम् ।१ - ४ - जातुयदोः लिङ्विधाने यदायद्योः उपसङ्ख्यानम् ।२ - ४ - जातुयदोः लिङ्विधाने यदायद्योः उपसङ्ख्यानम् कर्तव्यम् ।३ - ४ - यदा भवद्विधः क्षत्रियम् याजयेत् ।४ - ४ - यदि भवद्विधः क्षत्रियम् याजयेत् ।१ - ७ - चित्रीकरणे यदिप्रतिषेधानर्थक्यम् अर्थान्यत्वात् ।२ - ७ - चित्रीकरणे यदिप्रतिषेधः अनर्थकः ।३ - ७ - किम् कारणम् ।४ - ७ - अर्थान्यत्वात् ।५ - ७ - न हि यदौ उपपदे चित्रीकरणम् गम्यते ।६ - ७ - किम् तर्हि ।७ - ७ - सम्भावनम् ।१ - १३ - हेतुहेतुमतोः लिङ् वा ।२ - १३ - हेतुहेतुमतोः लिङ् वा इति वक्तव्यम् ।३ - १३ - अनेन चेत् यायात् न शकटम् पर्याभवेत् ।४ - १३ - अनेन चेत् यास्यति न शकटम् पर्याभविष्यति ।५ - १३ - भविष्यदधिकारे ।६ - १३ - भविष्यदधिकारे इति वक्तव्यम् ।७ - १३ - इह मा भूत् ।८ - १३ - वर्षति इति धावति ।९ - १३ - हन्ति इति पलयते ।१० - १३ - अथ इदानीम् शतृशानचौ अत्र कस्मात् न भवतः ।११ - १३ - देवत्रातः गलः ग्राहः इतियोगे च सद्विधिः ।१२ - १३ - मिथः ते न विभाष्यन्ते ।१३ - १३ - गवाक्षः संशितव्रतः ।१ - ४ - कामप्रवेदनम् चेत् ।२ - ४ - कामप्रवेदनम् चेत् गम्यते इति वक्तव्यम् ।३ - ४ - इह मा भूत् ।४ - ४ - इच्छन् कटम् करोति ।१ - १२ - विध्यधीष्टयोः कः विशेषः ।२ - १२ - विधिः नाम प्रेषणम् ।३ - १२ - अधीष्टम् नाम् सत्कार्पूर्विका व्यापारणा ।४ - १२ - अथ निमन्त्रणामन्त्रणयोः कः विशेषः ।५ - १२ - सन्निहितेन निमन्त्रणम् भवति असन्निहितेन च आमन्त्रणम् ।६ - १२ - न एषः अस्ति विशेषः ।७ - १२ - असन्निहितेन अपि निमन्त्रणम् भवति सन्निहितेन च आमन्त्रणम् ।८ - १२ - एवम् तर्हि यत् नियोगतः कर्तव्यम् तत् निमन्त्रणम् ।९ - १२ - किम् पुनः तत् ।१० - १२ - हव्यम् कव्यम् वा ।११ - १२ - ब्राह्मणेन सिद्धम् भुज्यताम् इति उक्ते अधर्मः प्रत्याख्यातुः ।१२ - १२ - आमन्त्रणे कामचारः ।१ - ५१ - कथम् पुनः इदम् विज्ञायते ।२ - ५१ - निमन्त्रणादीईनाम् अर्थे इति आहोस्वित् निमन्त्रणादिषु गम्यमानेषु इति ।३ - ५१ - कः च अत्र विशेषः ।४ - ५१ - निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वात् ।५ - ५१ - निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः ।६ - ५१ - किम् कारणम् ।७ - ५१ - प्रकृत्या अभिहितत्वात् ।८ - ५१ - प्रकृत्या अभिहितः सः अर्थः इति कृत्वा प्रत्ययः न प्राप्नोति ।९ - ५१ - द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वात् ।१० - ५१ - द्विवचनबहुवनयोः च अ प्रसिद्धिः ।११ - ५१ - किम् कारणम् ।१२ - ५१ - एकार्थत्वात् ।१३ - ५१ - एकः अयम् अर्थः निमन्त्रणम् नाम ।१४ - ५१ - तस्य एकत्वात् एकवचनम् एव प्राप्नोति ।१५ - ५१ - अस्तु तर्हि निमन्त्रणादिषु गम्यमानेषु ।१६ - ५१ - इह अपि तर्हि प्राप्नोति ।१७ - ५१ - देवदत्तः भवन्तम् आमन्त्रयते ।१८ - ५१ - देवदत्तः भवन्तम् निमन्त्रयते इति ।१९ - ५१ - सिद्धम् तु द्वितीयाकाङ्क्षस्य प्रकृते प्रत्ययार्थे प्रत्ययविधानात् ।२० - ५१ - सिद्धम् एतत् ।२१ - ५१ - कथम् ।२२ - ५१ - द्वितीयाकाङ्क्षस्य धातोः प्रकृते प्रत्ययार्थे प्रत्ययः भवति इति वक्तव्यम् ।२३ - ५१ - के च प्रकृताः अर्थाः ।२४ - ५१ - भावकर्मकर्तारः ।२५ - ५१ - भवेत् सिद्धम् प्राप्नोतु भवान् आमन्त्रणम् अनुभवतु भवान् अमन्त्रणम् इति यत्र द्वितीयः आकाङ्क्यते ।२६ - ५१ - इदम् तु न सिध्यति आमन्त्रयै निमन्त्रयै इति ।२७ - ५१ - अत्र अपि द्वितीयः आकाङ्क्यते ।२८ - ५१ - कः ।२९ - ५१ - निमन्त्रिः एव ।३० - ५१ - आमन्त्रयै आमन्त्रणम् ।३१ - ५१ - निमन्त्रयै निमन्त्रणम् ।३२ - ५१ - कथम् पुनः निम्नत्रिः निमन्त्रणम् आकाङ्क्षेत् ।३३ - ५१ - दृष्टः च भावेन भावयोगः ।३४ - ५१ - तत् यथा इषिः इषिणा युज्यते स्त्रीत्वम् च स्त्रीत्वेन ।३५ - ५१ - यावता अत्र द्वितीयः आकाङ्क्ष्यते अस्ति तर्हि निमन्त्रणादीनाम् अर्थे इति ।३६ - ५१ - ननु च उक्तम् निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वात् इति ।३७ - ५१ - न एषः दोषः ।३८ - ५१ - यः असौ द्वितीयः आकाङ्क्ष्यते सः एव मम प्रत्ययार्थः भविष्यति ।३९ - ५१ - अयम् तर्हि दोषः द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वात् इति ।४० - ५१ - न एषः दोषः ।४१ - ५१ - सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च ।४२ - ५१ - तथा तिङाम् ।४३ - ५१ - प्रसिद्धः नियमः तत्र ।४४ - ५१ - प्रसिद्धः तत्र नियमः ।४५ - ५१ - नियमः प्रकृतेषु वा ।४६ - ५१ - अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।४७ - ५१ - के च प्रकृताः ।४८ - ५१ - एकत्वादयः ।४९ - ५१ - एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु ।५० - ५१ - द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु ।५१ - ५१ - बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति ।१ - १८ - किमर्थम् प्रैषादिषु अर्थेषु कृत्याः विधीयन्ते न अविशेषेण विहिताः कृत्याः ते प्रैषादिषु भविष्यन्ति अन्यत्र च ।२ - १८ - प्रैषादिषु कृत्यानाम् विधानम् नियमार्थम् ।३ - १८ - नियमार्थः अयम् आरम्भः ।४ - १८ - प्रैषादिषु एव कृत्याः यथा स्युः इति ।५ - १८ - प्रैषादिषु कृत्यानाम् वचनम् नियमार्थम् इति चेत् तत् अनिष्टम् । प्रैषादिषु कृत्यानाम् वचनम् नियमार्थम् इति चेत् तत् अनिष्टम् प्राप्नोति ।६ - १८ - न हि प्रैषादिषु एव कृत्याः इष्यन्ते ।७ - १८ - किम् तर्हि ।८ - १८ - अविशेषेण इष्यन्ते ।९ - १८ - बुसोपेन्ध्यम् तृणोपेन्ध्यम् घन्घात्यम् ।१० - १८ - विध्यर्थम् तु स्त्रियाः प्राक् इति वचनात् ।११ - १८ - विध्यर्थम् तु प्रैषादिषु कृत्यानाम् वचनम् ।१२ - १८ - अयम् प्रैषादिषु लोट् विधीयते ।१३ - १८ - सः विशेषविहितः सामान्यविहितान् कृत्यान् बाधेत ।१४ - १८ - वासरूपेण कृत्याः अपि भविष्यन्ति ।१५ - १८ - न स्युः ।१६ - १८ - किम् कारणम् ।१७ - १८ - स्त्रियाः प्राक् इति वचनात् ।१८ - १८ - प्राक् स्त्रियाः वा असरूपः ।१ - १० - प्रथमान्तेषु इति वक्तव्यम् ।२ - १० - किम् प्रयोजनम् ।३ - १० - इह मा भूत् ।४ - १० - काले भुङ्क्ते ।५ - १० - तत् तर्हि वक्तव्यम् ।६ - १० - न वक्तव्यम् ।७ - १० - प्रैषादिषु इति वर्तते ।८ - १० - तत् च अवश्यम् प्रैषादिग्रहणम् अनुवर्त्यम् ।९ - १० - प्रथमान्तेषु इति हि उच्यमाने इह अपि प्रसज्येत ।१० - १० - कालः पचति भूतानि कालः संहरति प्रजाः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP