संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ३|पाद ३| खण्ड ३९ पाद ३ खण्ड ३९ खण्ड ४० पाद ३ - खण्ड ३९ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ३९ Translation - भाषांतर १ - ४० - भविष्यति इति अनद्यतने उपसङ्ख्यानम् ।२ - ४० - भविष्यति इति अनद्यतने उपसङ्ख्यानम् कर्तव्यम् ।३ - ४० - श्वः ग्रामम् गमी ।४ - ४० - किम् पुनः कारणम् न सिध्यति ।५ - ४० - लृटा अयम् निर्देशः कृइयते ।६ - ४० - लृट् च अनद्यतने लुटा बाध्यते ।७ - ४० - तेन लृटः एव विषये एते प्रत्ययाः स्युः ।८ - ४० - लुटः विषये न स्युः ।९ - ४० - इतरेतराश्रयम् च ।१० - ४० - इतरेतराश्रयम् च भवति ।११ - ४० - का इतरेतराश्रयता ।१२ - ४० - भविष्यत्कालेन शब्देन निर्देशः क्रियते ।१३ - ४० - निर्देशोत्तरकालम् च भ्भविष्यत्कालता ।१४ - ४० - तत् एतत् इतरेतराश्रयम् भवति ।१५ - ४० - इतरेतराश्रयाणि च न प्रकल्पन्ते ।१६ - ४० - उक्तम् वा ।१७ - ४० - किम् उक्तम् ।१८ - ४० - एकम् तावत् उक्तम् न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् इति ।१९ - ४० - अपरम् अपि उक्तम् अव्ययनिर्देशात् सिद्धम् इति. अव्ययवता शब्देन निर्देशः करिष्यते ।२० - ४० - अवर्तमाने अभूते इति ।२१ - ४० - सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः ।२२ - ४० - न कर्तव्यः ।२३ - ४० - अव्ययम् एषः भविष्यतिशब्दः न एषा भवतेः लृट् ।२४ - ४० - कथम् अव्ययत्वम् ।२५ - ४० - विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।२६ - ४० - निपातम् अव्ययम् इति अवययसञ्ज्ञा ।२७ - ४० - अथ अपि भवतेः लृट् एवम् अपि अवययम् एव ।२८ - ४० - कथम् न व्येति इति अव्ययम् ।२९ - ४० - क्व पुनः न व्येति ।३० - ४० - एतौ कालविशेषौ भूतवर्तमानौ ।३१ - ४० - स्वभावतः भविष्यति एव वर्तते ।३२ - ४० - यदि तत्रि न व्येति इति अव्ययम् ।३३ - ४० - न वा तद्विधानस्य अन्यत्र अभावात् ।३४ - ४० - न वा भविष्यदाधिकारेण अर्थः ।३५ - ४० - किम् कारणम् ।३६ - ४० - तद्विधानस्य अन्यत्र अभावात् ।३७ - ४० - ये अपि एते इतः उत्तरम् प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति भूतवर्तमानौ ।३८ - ४० - स्वभावतः एव ते भविष्यति एव वर्तन्ते ।३९ - ४० - अतः उत्तरम् पठति ।४० - ४० - भविष्यदधिकारस्य प्रयोजनम् यावत् पचति पुरा पचति इति अनपशब्दत्वाय ।१ - १४ - यावत्पुरादिषु लड्विधिः लुटः पूर्वविप्रतिषिद्धम् । यावत्पुरादिषु लड्विधिः भवति लुटः पूर्वविप्रतिषेधेन ।२ - १४ - यावत्पुरानिपातयोः लट् भवति इति अस्य अवकाशः ।३ - १४ - यावत् भुङ्क्ते ।४ - १४ - पुरा भुङ्क्ते ।५ - १४ - लुटः अवकाशः ।६ - १४ - श्वः कर्ता ।७ - १४ - श्वः अध्येता ।८ - १४ - इह उभयम् प्राप्नोति ।९ - १४ - यावत् श्वः भुङ्क्ते ।१० - १४ - पुरा श्वः भुङ्क्ते ।११ - १४ - लट् भवति विप्रतिषेधेन ।१२ - १४ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।१३ - १४ - न वक्तव्यः ।१४ - १४ - अनद्यतने लुट् इति अत्र यावत्पुरानिपातयोः लट् इति अनुवर्तिष्यते ।१ - ४ - किमर्थम् इदम् उच्यते न लिप्स्यमानसिद्धिः अपि लिप्सा एव तत्र किंवृत्ते लिप्सायाम् इति एव सिद्धम् ।२ - ४ - अकिंवृत्तार्थः अयम् आरम्भः ।३ - ४ - यः भवताम् ओदनम् ददाति सः स्वर्गम् लोकम् गच्छति ।४ - ४ - यः भवताम् ओदनम् दास्यति सः स्वर्गम् लोकम् गमिष्यति ।१ - ४५ - किमर्थम् क्रियायाम् उपपदे क्रियार्थायाम् ण्वुल् विधीयते न अविशेषेण विहितः ण्वुल् सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति ।२ - ४५ - ण्वुलि सकर्मकग्रहणम् चोदितम् ।३ - ४५ - अकरमकार्थः अयम् आरम्भः ।४ - ४५ - आसकः व्रजति ।५ - ४५ - शायकः व्रजति ।६ - ४५ - प्रत्याख्यातम् तत् न वा धातुमात्रात् दर्शनात् ण्वुलः इति ।७ - ४५ - एवम् तर्हि तृजादिषु वर्तमानकालोपादानम् चोदितम् ।८ - ४५ - अवर्तमानकालार्थः अयम् आरम्भः ।९ - ४५ - तत् अपि प्रत्याख्यातम् न वा कालमात्रे दर्शनात् अन्येषाम् इति ।१० - ४५ - इदम् तर्हि प्रयोजनम्. अकेनोः भविष्यदाधम्र्ण्ययोः इति अत्र षष्ठ्याः प्रतिषेधः उक्तः ।११ - ४५ - सः यथा स्यात् ।१२ - ४५ - एतत् अपि न अस्ति प्रयोजनम् ।१३ - ४५ - यः एव असौ अविशेषविहितः सः यदा भविष्यति भविष्यति तदा अस्य प्रतिषेधः भविष्यति ।१४ - ४५ - एवम् तर्हि भविष्यदधिकारविहितस्य प्रतिषेधः यथा स्यात् ।१५ - ४५ - इह मा भूत् अङ्ग यजताम् ।१६ - ४५ - लप्स्यन्ते अस्य याजकाः ।१७ - ४५ - ये एनम् याजययिष्यन्ति इति ।१८ - ४५ - न एषः भविष्यत्कालः ।१९ - ४५ - कः तर्हि ।२० - ४५ - भूतकालः ।२१ - ४५ - कथम् तर्हि भविष्यत्कालता गम्यते ।२२ - ४५ - धातुसम्बन्धे प्रत्ययाः इति ।२३ - ४५ - यः तर्हि न धातुसम्बन्धः ।२४ - ४५ - इमे अस्य याजकाः ।२५ - ४५ - इमे अस्य लावकाः इति ।२६ - ४५ - एषः अपि भूतकालः ।२७ - ४५ - कथम् तर्हि भविष्यत्कालता गम्यते ।२८ - ४५ - सम्बन्धात् ।२९ - ४५ - सः च तावत् तैः अयाजितः भवति ।३० - ४५ - तस्य च तावत् तैः यवाः अलूनाः भवन्ति ।३१ - ४५ - उच्यते च ।३२ - ४५ - इदम् तर्हि प्रयोजनम् ।३३ - ४५ - अयम् क्रियायाम् उपप्दे क्रियार्थायाम् तुमुन् विधीयते ।३४ - ४५ - सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत ।३५ - ४५ - एतत् अपि न अस्ति प्रयोजनम् ।३६ - ४५ - भावे तुमुन् विधीयते कर्तरि ण्वुल् ।३७ - ४५ - तत्र कः प्रसङ्गः यत् भावे विहितः तुमुन् कर्तरि विहितम् ण्वुलम् बाधेत ।३८ - ४५ - लृट् तर्हि बाधेत ।३९ - ४५ - वासरूपेण भविष्यति ।४० - ४५ - अतः उत्तरम् पठति ।४१ - ४५ - ण्वुलः क्रियार्थोपपदस्य पुनर्विधानम् तृजादिप्रतिषेधार्थम् ।४२ - ४५ - ण्वुलः क्रियार्थोपपदस्य पुनर्विधानम् क्रियते ज्ञापकार्थम् ।४३ - ४५ - किम् ज्ञाप्यम् ।४४ - ४५ - एतत् ज्ञापयति आचार्यः क्रियायाम् उपपदे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।४५ - ४५ - ण्वुल् अपि तृजादिः ।१ - १७ - किमर्थम् इदम् उच्यते न अविशेषेण भावे प्रत्ययाः ये विहिताः ते क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यन्ति ।२ - १७ - भाववचनानाम् यथाविहितानाम् प्रतिपदविध्यर्थम् ।३ - १७ - भाववचनानाम् यथाविहितानाम् प्रतिपदविध्यर्थः अयम् आरम्भः ।४ - १७ - इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।५ - १७ - भाववचनाः च अपि तृजादयः ।६ - १७ - अस्ति प्रयोजनम् एतत् ।७ - १७ - किम् तर्हि इति ।८ - १७ - यथाविहिताः इति तु वक्तव्यम् ।९ - १७ - किम् प्रयोजनम् ।१० - १७ - इह याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायाम् उपप्दे क्रियार्थायाम् यथा स्युः ।११ - १७ - व्यतिकरः मा भूत् इति ।१२ - १७ - तत् तर्हि वक्तव्यम् ।१३ - १७ - न वक्तव्यम् ।१४ - १७ - इह भावे प्रत्ययाः भवन्ति इति इयट सिद्धम् ।१५ - १७ - सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् वाचकाः यथा स्युः इति ।१६ - १७ - यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायाम् उपप्दे क्रियार्थायाम् भवन्ति ततः अमी वाचकाः कृताः स्युः ।१७ - १७ - अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमीवाचकाः कृताः स्युः ।१ - २९ - किमर्थम् इदम् उच्यते न अविशेषेण कर्मणि अण् विहितः सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति ।२ - २९ - अणः पुनर्वचनम् अपवादविषये अनिवृत्त्यर्थम् ।३ - २९ - अणः पुनर्वचनम् क्रियते अपवादविषये अनिवृत्तिः यथा स्यात् ।४ - २९ - गोदायः व्रजति ।५ - २९ - कम्बलदायः व्रजति इति ।६ - २९ - किम् उच्यते अपवादविषये अनिवृत्तिः यथा स्यात् इति न पुनः उत्सर्गविषये प्रतिपदविध्यर्थम् स्यात् ।७ - २९ - इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।८ - २९ - अण् च अपि तृजादिः ।९ - २९ - एवम् तर्हि उभयम् अनेन क्रियते ।१० - २९ - अपवादविषये चानिवृत्तिः उत्सर्गविषये प्रतिपदविधानम् ।११ - २९ - कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।१२ - २९ - लभ्यम् इति आह ।१३ - २९ - कथम् ।१४ - २९ - कर्मग्रहणसामर्थ्यात् ।१५ - २९ - कथम् पुनः अन्तरेण कर्मग्रहणम् कर्मणि अण् लभ्यः ।१६ - २९ - वचनग्रहणम् प्रकृतम् अनुवर्तते ।१७ - २९ - अस्ति प्रयोजनम् एतत् ।१८ - २९ - किम् तर्हि इति ।१९ - २९ - अपर्यायेण इति तु वक्तव्यम् ।२० - २९ - कदा चित् हि कर्मणि स्यात् कदा चित् क्रियायाम् उपपदे क्रियार्थायाम् इति ।२१ - २९ - तत् तर्हि वक्तव्यम् ।२२ - २९ - न वक्तव्यम् ।२३ - २९ - चेन सन्नियोगः करिष्यते ।२४ - २९ - अण् कर्मणि च ।२५ - २९ - किम् च अन्यत् ।२६ - २९ - क्रियायाम् उपपदे क्रियार्थायाम् इति ।२७ - २९ - एवम् अपि प्रत्येकम् उपपदसञ्ज्ञा न प्राप्नोति ।२८ - २९ - चेन एव सन्नियोगः करिष्यते ।२९ - २९ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति प्रत्येकम् उपपदसञ्ज्ञ भविष्यति ।१ - ३३ - शेषवचनम् किमर्थम् ।२ - ३३ - लृटि शेषवचनम् क्रियायाम् प्रतिपदविध्यर्थम् । लृटि शेषवचनम् क्रियते क्रियायाम् प्रतिपदविध्यर्थम् ।३ - ३३ - प्रतिपदविधिः यथा स्यात् ।४ - ३३ - अविशेषेण विधाने लृटः अभावः प्रतिषिद्धत्वात् ।५ - ३३ - अविशेषेण विधाने लृटः अभावः स्यात् ।६ - ३३ - करिष्यामि इति व्रजति ।७ - ३३ - हरिष्यामि इति व्रजति इति ।८ - ३३ - किम् कारणम् ।९ - ३३ - प्रतिषिद्धत्वात् ।१० - ३३ - इदानीम् एव हि उक्तम् क्रियायाम् उपपदे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।११ - ३३ - लृट् च अपि तृजादिः ।१२ - ३३ - अस्ति प्रयोजनम् एतत् ।१३ - ३३ - किम् तर्हि इति ।१४ - ३३ - साधीयः तु खलु शेषग्रहणेन क्रियार्थोपपदात् लृट् निर्भज्यते ।१५ - ३३ - किम् कारणम् ।१६ - ३३ - अक्रियार्थोपपदत्वात् ।१७ - ३३ - शेषे इति उच्यते ।१८ - ३३ - शेषः च कः ।१९ - ३३ - यत् अन्यत् क्रियायाः क्रियार्थायाः ।२० - ३३ - एवम् तर्हि लृटि शेषवचनम् क्रियायाम् प्रतिपदविध्यर्थम् ।२१ - ३३ - लृटि शेषवचनम् क्रियते क्रियायाम् प्रतिपदविधिः यथा स्यात् ।२२ - ३३ - लृट् शेषे च ।२३ - ३३ - करिष्यति हरिष्यति इति ।२४ - ३३ - क्व च ।२५ - ३३ - क्रियायाम् उपपदे क्रियार्थायाम् इति ।२६ - ३३ - सः तर्हि चकारः कर्तव्यः ।२७ - ३३ - न कर्तव्यः ।२८ - ३३ - इह लृट् भवति इति इयता सिद्धम् ।२९ - ३३ - सः अयम् एवम् सिद्धे सति यत् शेषग्रहणम् करोति तस्य एतत् प्रयोजनम् योगाङ्गम् यथा उपजायेत ।३० - ३३ - सति च योगाङ्गे योगविभागः करिष्यते ।३१ - ३३ - लृट् भवति क्रियायाम् उपपदे क्रियार्थायाम् इति ।३२ - ३३ - ततः शेषे ।३३ - ३३ - शेषे च लृट् भवति इति ।१ - ८ - सद्विधिः नित्यम् अप्रथमासमानाधिकरणे ।२ - ८ - सद्विधिः अप्रथमासमानाधिकरणे नित्यम् इति वक्तव्यम् ।३ - ८ - पक्ष्यन्तम् पश्य ।४ - ८ - पक्ष्यमाणम् पश्य ।५ - ८ - क्व तर्हि इदानीम् विभाषा ।६ - ८ - प्रथमासमानाधिकरणे ।७ - ८ - पाक्ष्यन् पक्ष्यति ।८ - ८ - पक्ष्यमाणः पक्ष्यते ।१ - ११ - योगविभागः कर्तव्यः ।२ - ११ - अनद्यतने लृटः सत्स्ञ्ज्ञौ भवतः ।३ - ११ - श्वः अग्नीन् आध्यास्यमानेन ।४ - ११ - श्वः सोमेन यक्ष्यमाणेन ।५ - ११ - ततः लुट् ।६ - ११ - लुट् भवति अनद्यतने ।७ - ११ - श्वः कर्ता ।८ - ११ - श्वः अध्येता ।९ - ११ - केन विहितस्य अनद्यतने लृटः सत्सञ्ज्ञौ उच्येते ।१० - ११ - एतत् एव ज्ञापयति भवति अनद्यतने लृट् इति यत् अयम् अनद्यतने लृटः सत्स्ञ्ज्ञौ शास्ति ।११ - ११ - एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् भविष्यति इति अनद्यतने उपसङ्ख्यानम् ।१ - ११ - परिदेवने श्वस्तनीभविष्यन्त्यर्थे ।२ - ११ - परिदेवने श्वस्तनीभविष्यन्त्याः अर्थे इति वक्तव्यम् ।३ - ११ - इयम् नु कदा गन्ता या एवम् पादौ निदधाति ।४ - ११ - अयम् नु कदा अध्येता यः एवम् अनभियुक्तः इति ।५ - ११ - कालप्रकर्षात् तु उपमानम् ।६ - ११ - कालप्रकर्षात् तु उपमानम् ।७ - ११ - गन्ता इव इयम् गन्ता ।८ - ११ - न इयम् गमिष्यति ।९ - ११ - अध्येता इव अयम् अध्येता ।१० - ११ - न वै तिङन्तेन उपमानम् अस्ति ।११ - ११ - एवम् तर्हि अनद्यतने इव अनद्यतने इति ।१ - ४ - स्पृशः उपतापे ।२ - ४ - स्पृशः उपतापे इति वक्तव्यम् ।३ - ४ - इह मा भूत् ।४ - ४ - कम्बलस्पर्शः इति१ - ५ - वाधिमत्स्यबलेषु इति वक्तव्यम् ।२ - ५ - अतीसारः व्याधिः ।३ - ५ - विसारः मत्स्यः ।४ - ५ - बले ।५ - ५ - शालसारः खदिरसारः ।१ - ३५ - भावे सर्वलिङ्गनिर्देशः ।२ - ३५ - भावे सर्वलिङ्गनिर्देशः कर्तव्यः ।३ - ३५ - भूतौ भवने भावे इति ।४ - ३५ - किम् प्रयोजनम् ।५ - ३५ - सर्वलिङ्गे भाङे एते प्रत्ययाः यथा स्युः इति ।६ - ३५ - किम् पुनः कारणम् न सिध्यति ।७ - ३५ - पुंलिङ्गेन अयम् निर्देशः क्रियते एकवचनेन च ।८ - ३५ - तेन् पुंलिङ्गे एव एकवचने च एते प्र्रत्ययाः स्युः ।९ - ३५ - स्त्रीनपुंसकयोः द्विवचनबहुवच्नयोः च न स्युः ।१० - ३५ - न अत्र निर्देशः तन्त्रम् ।११ - ३५ - कथम् पुनः तेन एव च नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।१२ - ३५ - तत्कारी च भवान् तद्द्वेषी च ।१३ - ३५ - नान्तरीयकत्वात् अत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनेन च ।१४ - ३५ - अवश्यम् कया चित् विभक्त्या केन चित् च लिङ्गेन निर्देशः कर्तव्यः ।१५ - ३५ - तत् यथा कः चित् अन्नार्थी शालिकलापम् सतुषम् सपलालम् आहरति नान्तरीयकत्वात् ।१६ - ३५ - सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।१७ - ३५ - तथा कः चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् ।१८ - ३५ - सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।१९ - ३५ - एवम् इह अपि नान्तरीयकत्वात् पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च ।२० - ३५ - न हि अत्र निर्देशः तन्त्रम् ।२१ - ३५ - कया चित् विभक्त्या केन चित् च लिङ्गेन निर्देशः कर्तव्यः ।२२ - ३५ - अथ वा कृभ्वस्तयः क्रियासामान्यवाचिनः क्रियाविशेषवाचिनः पचादयः ।२३ - ३५ - यत् च अत्र पचतेः भवतिः भवति न तत् भवतेः पचतिः भवति ।२४ - ३५ - यत् च भवतेः पचतिः भवति न तत् पचतेः भवतिः भवति ।२५ - ३५ - किम् च पचतेः भवतिः भवति ।२६ - ३५ - सामान्यम् ।२७ - ३५ - किम् च भवतेः पचतिः भवति ।२८ - ३५ - विशेषः ।२९ - ३५ - तत् यथा उपाध्यायस्य शिष्यः मातुलस्य भागिनेयम् गत्वा आह ।३० - ३५ - उपाध्यायम् भवान् अभिवादयताम् इति ।३१ - ३५ - सः गत्वा मातुलम् अभिवादयते ।३२ - ३५ - तथा मातुलस्य भागिनेयः उपाध्यायस्य शिष्यम् गत्वा आह ।३३ - ३५ - मातुलम् भवान् अभिवादयताम् इति ।३४ - ३५ - सः गत्वा उपाध्यायम् अभिवादयते ।३५ - ३५ - एवम् इह अपि पचतेः भवतौ यत् तत् निर्दिश्यते ।१ - ६० - कारकग्रहणम् किमर्थम् ।२ - ६० - कारकग्रहणम् अनादेशे स्वार्थविज्ञानात् ।३ - ६० - कारकग्रहणम् अनादेशे स्वार्थविज्ञानात् ।४ - ६० - अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति ।५ - ६० - तत् यथा ।६ - ६० - गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति ।७ - ६० - एवम् इमे अपि प्रत्ययाः स्वार्थे स्युः ।८ - ६० - स्वार्थे मा भूवन् कारके यथा स्युः इति एवमर्थम् इदम् उच्यते ।९ - ६० - न एतत् अस्ति प्रयोजनम् ।१० - ६० - विहितः प्रत्ययः स्वार्थे भावे घञ् इति ।११ - ६० - तेन अत्रिप्रसक्तम् इति कृत्वा नियमार्थः अयम् विज्ञायेत ।१२ - ६० - अकर्तरि सञ्ज्ञायाम् एव इति ।१३ - ६० - अस्ति च इदानीम् कः चित् सञ्ज्ञाभूतः भावः यदर्थः विधिः स्यात् ।१४ - ६० - अस्ति इति आह आवाहः , विवाहः इति ।१५ - ६० - कैमर्थक्यात् नियमः भवति ।१६ - ६० - विधेयम् न अस्ति इति कृत्वा ।१७ - ६० - इह च अस्ति विधेयम् ।१८ - ६० - अकर्तरि च कारके सञ्ज्ञायाम् घञ् विधेयः ।१९ - ६० - तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।२० - ६० - तत् एव तर्हि प्रयोजनम् स्वार्थे मा भूवन् इति ।२१ - ६० - ननु च उक्तम् विहितः प्रत्ययः स्वार्थे भावे घञ् इति इति ।२२ - ६० - अन्यः सः भावः बाह्यः प्रकृत्यर्थात् ।२३ - ६० - अनेन इदानीम् आभ्यन्तरे भावे स्यात् ।२४ - ६० - कः पुनः एतयोः भावयोः विशेषः ।२५ - ६० - उक्तः भावभेदः भाष्ये ।२६ - ६० - एतत् अपि न अस्ति प्रयोजनम् ।२७ - ६० - नञिवयुक्तम् अन्यसदृशाधिकरणे ।२८ - ६० - तथा हि अर्थगतिः ।२९ - ६० - नञ्युक्तम् इवयुक्तम् च अस्न्यस्मिन् तत्सदृशे कार्यम् विज्ञयते ।३० - ६० - तथा हि अर्थः गम्यते ।३१ - ६० - तत् यथा ।३२ - ६० - अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् पुरुषम् आनयति ।३३ - ६० - न असौ लोष्टम् आनीय कृती भवति ।३४ - ६० - एवम् इह अपि अकर्तरि इति कर्तृप्रतिषेधात् अन्यस्मिन् अकर्तरि कर्तृसदृशे कार्यम् विज्ञस्यते ।३५ - ६० - किम् च अन्यत् अकर्तृ कर्तृसदृशम् ।३६ - ६० - कारकम् ।३७ - ६० - उत्तरार्थम् तर्हि कारकग्रहणम् कर्तव्यम् ।३८ - ६० - परिमाणाख्यायाम् सर्वेभ्यः कारके यथा स्यात् ।३९ - ६० - इह मा भूत् ।४० - ६० - एका तिलोच्छ्रितिः ।४१ - ६० - देवे सृती इति ।४२ - ६० - घञनुक्रमणम् अजब्विषये अवचने हि स्त्रीप्रत्ययानाम् अपि अवादविज्ञानम् इति वक्ष्यति ।४३ - ६० - तत् न वक्तव्यम् भवति ।४४ - ६० - एतत् अपि न अस्ति प्रयोजनम् ।४५ - ६० - अत्र अपि अकर्तरि इति एव अनुवर्तिष्यते ।४६ - ६० - सञ्ज्ञाग्रहणानर्थक्यम् च सर्वत्र घञः दर्शनात् ।४७ - ६० - सञ्ज्ञाग्रहणम् च अनर्थकम् ।४८ - ६० - किम् कारणम् ।४९ - ६० - सर्वत्र घञः दर्शनात् ।५० - ६० - असञ्ज्ञायाम् अपि हि घञ् दृश्यते ।५१ - ६० - कः भवता दायः दत्तः ।५२ - ६० - कः भवता लाभः लब्धः इति ।५३ - ६० - यदि सञ्ज्ञाग्रहणम् न क्रियते अतिप्रसङ्गः भवति ।५४ - ६० - कृतः कटः इति अत्र कारः कट इति प्राप्नोति ।५५ - ६० - अतिप्रसङ्गः इति चेत् अभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम् ।५६ - ६० - अतिप्रसङ्गः इति चेत् तत् न ।५७ - ६० - किम् कारणम् ।५८ - ६० - अभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम् ।५९ - ६० - अभिधानलक्षणाः कृत्तद्धितसमादाः ।६० - ६० - अनभिधानात् न भविष्यन्ति ।१ - ५३ - सर्वग्रहणम् किमर्थम् ।२ - ५३ - सर्वेभ्यः धातुभ्यः घञ् यथा स्यात् अजपोः अपि विषये ।३ - ५३ - एकः तण्डुलनिश्चायः ।४ - ५३ - द्वौ शूर्पनिष्पावौ ।५ - ५३ - सर्वग्रहणम् अनर्थकम् परिमाणाख्यायम् इति सिद्धत्वात् ।६ - ५३ - सर्वग्रहणम् अनर्थकम् ।७ - ५३ - किम् कारणम् ।८ - ५३ - परिमाणाख्यायम् इति सिद्धत्वात् ।९ - ५३ - परिमाणाख्यायम् इति एव घञ् सिद्धः अजपोः अपि विषये ।१० - ५३ - न अर्थः सर्वग्रहणेन ।११ - ५३ - अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।१२ - ५३ - किम् ।१३ - ५३ - एकः पाकः द्वौ पाकौ त्रयः पाकाः इति ।१४ - ५३ - पूर्वेण अपि एतत् सिद्धम् ।१५ - ५३ - न सिध्यति ।१६ - ५३ - सञ्ज्ञायाम् इति पूर्वः योगः ।१७ - ५३ - न च एषा सञ्ज्ञा ।१८ - ५३ - प्रत्याख्यायते सञ्ज्ञाग्रहणम् ।१९ - ५३ - अथ अपि क्रियते एवम् अपि न दोषः ।२० - ५३ - अजौ अपि सञ्ज्ञायाम् एव ।२१ - ५३ - यथाजातीयकः उत्सर्गः तथाजातीयकेन अपवादेन भवितव्यम् ।२२ - ५३ - उत्तरार्थम् तर्हि ।२३ - ५३ - इङः च सर्वेभ्यः अपि यथा स्यात् ।२४ - ५३ - ननु च अयम् इङ् एकः एव वण्टरण्डाकल्पः ।२५ - ५३ - सर्वेषु साधनेषु यथा स्यात् ।२६ - ५३ - उपेत्य अधीयते तस्मात् अध्यायः ।२७ - ५३ - अधीयते तस्मिन् अध्यायः ।२८ - ५३ - अध्यायन्यायायोद्यावसंहारावायाः च इति एतत् निपातनम् न कर्तव्यम् भवति ।२९ - ५३ - एतत् अपि न अस्ति प्रयोजनम् ।३० - ५३ - क्रियते न्यासे एव ।३१ - ५३ - उत्तराऋथम् एव तर्हि वक्तव्यम् ।३२ - ५३ - कर्मव्यतिहारे णच् स्त्रियाम् इति सर्वेभ्यः यथा स्यात् ।३३ - ५३ - एतत् अपि न अस्ति प्रयोजनम् ।३४ - ५३ - वक्ष्यति एतत् ।३५ - ५३ - कर्मव्यतिहारे स्त्रीग्रहणम् व्यतिपाकार्थम् ।३६ - ५३ - पृथक् ग्रहणम् बाधकबाधनार्थम् ।३७ - ५३ - व्यावचोरीव्यावचर्च्यर्थम् ।३८ - ५३ - तत्र व्यतीक्षादिषु दोषः ।३९ - ५३ - सिद्धम् तु प्रकृते स्त्रीग्रहणे णज्ग्रहणम् णिज्ग्रहणम् च इति ।४० - ५३ - उत्तरार्थम् तर्हि अभिविधौ भावे इनुण् सर्वेभ्यः यथा स्यात् ।४१ - ५३ - सांराविणम् ।४२ - ५३ - एतत् अपि न अस्ति प्रयोजनम् ।४३ - ५३ - वक्ष्यति एतत् ।४४ - ५३ - अभिविधौ भावग्रहणम् नपुंसके क्तादिनिवृत्त्यर्थम् ।४५ - ५३ - पृथक् ग्रहणम् बाधकबाधार्थम् ।४६ - ५३ - न तु ल्युट् इति ।४७ - ५३ - इदम् तर्हि प्रयोजनम् ।४८ - ५३ - प्रकृत्याश्रयः यः अपवादः तस्य बाधनम् यथा स्यात् ।४९ - ५३ - अर्थाश्रयः यः अपवादः तस्य बाधनम् मा भूत् ।५० - ५३ - एका तिलोच्छ्रितिः द्वे सृती इति ।५१ - ५३ - घञनुक्रमणम् अजब्विषये ।५२ - ५३ - अवचने हि स्त्रीप्रत्ययानाम् अपि अपवादविज्ञानम् इति चोदयिष्यति ।५३ - ५३ - तत् न वक्तव्यम् भवति ।१ - १२ - घञनुक्रमणम् अजब्विषये ।२ - १२ - घञनुक्रमणम् अजब्विषये इति वक्तव्यम् ।३ - १२ - अवचने हि स्त्रीप्रत्ययानाम् अपि अपवादविज्ञानम् ।४ - १२ - अनुच्यमाने हि एतस्मिन् स्त्रीप्रत्ययानाम् अपि अपवादः अयम् विज्ञयेत ।५ - १२ - एका तिलोच्छ्रितिः द्वे सृती इति । दारजारौ कर्तरि णिलुक् च ।६ - १२ - दारजारौ कर्तरि वक्तव्यौ णिलुक् च वक्तव्यः ।७ - १२ - दारयन्ति इति दाराः ।८ - १२ - जरयन्ति इति जाराः ।९ - १२ - करणे वा ।१० - १२ - करणे वा वक्तव्यौ ।११ - १२ - दीर्यते तैः दाराः ।१२ - १२ - जीर्यन्ति तैः जाराः ।१ - ८ - इङः च इति अपादाने स्त्रियाम् उपसङ्ख्यानम् तदन्तात् च वा ङीष् ।२ - ८ - इङः च इति अत्र अपादाने स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् तदन्तात् च वा ङीष् वक्तव्यः ।३ - ८ - उपेत्य अधीयते तस्याः उअपाध्यायी उपाध्याया ।४ - ८ - शृ̄ वायुवर्णनिवृतेषु ।५ - ८ - शृ̄ इति एतस्मात् वायुवर्णनिवृतेषु घञ् वक्तव्यः ।६ - ८ - शारः वायुः ।७ - ८ - शारः वर्णः ।८ - ८ - गौः इव अकृतनीशारः प्रायेण शिशिरे कृशः ।१ - ११ - समि मुष्टौ इति अनर्थकम् वचनम् परिमाणाख्यायाम् इति सिद्धत्वात् ।२ - ११ - समि मुष्टौ इति एतत् वचनम् अनर्थकम् ।३ - ११ - किम् कारणम् ।४ - ११ - परिमाणाख्यायाम् इति सिद्धत्वात् ।५ - ११ - परिमाणाख्यायाम् इति एव सिद्धम् ।६ - ११ - अपरिमाणार्थम् तु ।७ - ११ - अपरिमाणार्थम् तु अयम् आरम्भः ।८ - ११ - मल्लस्य सङ्ग्राहः मुष्टिकस्य सङ्गाहः इति ।९ - ११ - उद्ग्राभिनिग्राभौ च छन्दसि स्रुगुद्यमननिपातनयोः ।१० - ११ - उद्ग्राभः निब्राभः इति इमौ शब्दौ छन्दसि वक्तव्यौ स्रुगुद्यमननिपातनयोः ।११ - ११ - उद्ग्राभम् च निग्राभम् च ब्रह्म देवाः अवीवृधन् ।१ - २२ - स्त्रीग्रहणम् किमर्थम् ।२ - २२ - कर्मव्यतिहारे स्त्रीग्रहणम् व्यतिपाकार्थम् । कर्मव्यतिहारे स्त्रीग्रहणम् क्रियते व्यतिपाकार्थम् ।३ - २२ - इह मा भूत् ।४ - २२ - व्यतिपाकः वर्तते इति ।५ - २२ - अथ किमर्थम् पृथक् ग्रहणम् ।६ - २२ - पृथक् ग्रहणम् बाधकबाधनार्थम् ।७ - २२ - पृथक् ग्रहणम् क्रियते बाधकबाधनार्थम् ।८ - २२ - ये तस्य बाधकाः तद्बाधनार्थम् ।९ - २२ - किम् प्रयोजनम् ।१० - २२ - व्यावचोरीव्यावचर्च्यर्थम् । व्यावचोरी वर्तते ।११ - २२ - व्यावचर्ची वर्तते ।१२ - २२ - तत्र व्यतीक्षादिषु दोषः ।१३ - २२ - तत्र व्यतीक्षादिषु दोषः भवति ।१४ - २२ - व्यतीक्षा वर्तते ।१५ - २२ - व्यतीहा वर्तते ।१६ - २२ - सिद्धम् तु प्रकृते स्त्रीग्रहणे णज्ग्रहणम् णिज्ग्रहणम् च ।१७ - २२ - सिद्धम् एतत् ।१८ - २२ - कथम् ।१९ - २२ - प्रकृते एव स्त्रीग्रहणे अयम् योगः कर्तव्यः ।२० - २२ - स्त्रियाम् क्तिन् ।२१ - २२ - ततः कर्मव्यतिहारे णच् ।२२ - २२ - ततः णिचः ।१ - ९ - भावग्रहणम् किमर्थम् ।२ - ९ - अभिविधौ भावग्रहणम् नपुंसके क्तादिनिवृत्त्यर्थम् ।३ - ९ - अभिविधौ भावग्रहणम् क्रियते नपुंसके क्तादिनिवृत्त्यर्थम् ।४ - ९ - नपुंसकलिङ्गे क्तादयः मा भूवन् इति ।५ - ९ - अथ किमर्थम् पृथक् ग्रहणम् ।६ - ९ - पृथक् ग्रहणम् बाधकबाधार्थम् ।७ - ९ - पृथक् ग्रहणम् क्रियते बाधकबाधार्थम् ये तस्य बाधकाः तद्बाधनार्थम् ।८ - ९ - न तु ल्युटः । ल्युटः तु बाधनम् न इष्यते ।९ - ९ - सङ्कूटनम् इति एव भवति ।१ - १५ - अज्विधौ भयस्य उपसङ्ख्यानम् ।२ - १५ - अज्विधौ भयस्य उपसङ्ख्यानम् कर्तव्यम् ।३ - १५ - भयम् ।४ - १५ - अत्यल्पम् इदम् उच्यते भयस्य इति ।५ - १५ - भयादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् भयम् वर्षम् ।६ - १५ - किम् प्रयोजनम् ।७ - १५ - नपुंसके क्तादिनिवृत्त्यर्थम् ।८ - १५ - नपुंसकलिङ्गे क्तादयः मा भूवन् इति ।९ - १५ - कल्पादिभ्यः च प्रतिषेधः ।१० - १५ - कल्पादिभ्यः च प्रतिषेधः वक्तव्यः ।११ - १५ - कल्पः अर्थः मन्त्रः ।१२ - १५ - जवसवौ छन्दसि ।१३ - १५ - जवसवौ छन्दसि वक्तव्यौ ।१४ - १५ - ऊर्वोः अस्तु मे जवः ।१५ - १५ - अयम् मे पञ्चौदनः सवः ।१ - २५ - किमर्थम् निष्पूर्वात् चिनोतेः अप् विधीयते न अचा एव सिद्धम् ।२ - २५ - न हि अस्ति विशेषः निष्पूर्वात् चिनोतेः अपः वा अचः वा ।३ - २५ - तत् एव रूपम् सः एव स्वरः ।४ - २५ - न सिध्यति ।५ - २५ - हस्तादाने चेः घञ् प्राप्तः ।६ - २५ - तद्बाधनार्थम् ।७ - २५ - अतः उत्तरम् पठति ।८ - २५ - अब्विधौ निश्चिग्रहणम् अनर्थकम् स्तेयस्य घञ्विधौ प्रतिषेधात् ।९ - २५ - अब्विधौ निश्चिग्रहणम् अनर्थकम् ।१० - २५ - किम् कारणम् ।११ - २५ - स्तेयस्य घञ्विधौ प्रतिषेधात् ।१२ - २५ - स्तेयस्य घञ्विधौ प्रतिषेधः उच्यते ।१३ - २५ - निष्पूर्वः चिनोतिः स्तेये वर्तते ।१४ - २५ - अस्तेयार्थम् तर्हि इदम् वक्तव्यम् ।१५ - २५ - निष्पूर्वात् चिनोतेः अस्तेये यथा स्यात् ।१६ - २५ - अस्तेयार्थम् इति चेत् न अनिष्टत्वात् ।१७ - २५ - अस्तेयार्थम् इति चेत् तत् न ।१८ - २५ - किम् कारणम् ।१९ - २५ - अनिष्टत्वात् ।२० - २५ - न निष्पूर्वात् चिनोतेः अस्तेये अप् इष्यते ।२१ - २५ - किम् तर्हि घञ् एव इष्यते ।२२ - २५ - एवम् तर्हि सिद्धे सति यत् निष्पूर्वात् चिनोतेः अपम् शास्ति तत् ज्ञापयति आचार्यः यत् तत् अन्तः थाथघञ्क्ताजबितृकाणाम् इति तत् निष्पूर्वात् चिनोतेः न भवति इति ।२३ - २५ - किम् एतस्य ज्ञापने प्रयोजनम् ।२४ - २५ - निश्चयः ।२५ - २५ - एषः स्वरः सिद्धः भवति ।१ - २६ - वशिरण्योः च उपसङ्ख्यानम् ।२ - २६ - वशिरण्योः च उपसङ्ख्यानम् ।३ - २६ - सः वशम् सैन्धवम् ।४ - २६ - धनञ्जयः रणे रणे ।५ - २६ - घञर्थे कविधानम् स्थास्नापाव्यधिहनियुध्यर्थम् ।६ - २६ - घञर्थे कः विधेयः ।७ - २६ - किम् प्रयोजनम् ।८ - २६ - स्थास्नापाव्यधिहनियुध्यर्थम् ।९ - २६ - स्था ।१० - २६ - प्रतिष्ठन्ते अस्मिन् धान्यानि इति प्रस्थः ।११ - २६ - प्रस्थे हिमवतः श्र्ङ्गे ।१२ - २६ - स्था ।१३ - २६ - स्ना ।१४ - २६ - प्रस्नान्ति तस्मिन् इति प्रस्नः ।१५ - २६ - स्ना ।१६ - २६ - पा ।१७ - २६ - प्रपिबन्ति अस्याम् इति प्रपा ।१८ - २६ - पा ।१९ - २६ - व्यधि ।२० - २६ - आविध्यन्ति तेन आविधम् ।२१ - २६ - व्यधि ।२२ - २६ - हनि ।२३ - २६ - विघ्नन्ति तस्मिन् मनांसि विघ्नः ।२४ - २६ - हनि ।२५ - २६ - युधि ।२६ - २६ - आयुध्यन्ते तेन आयुधम् ।१ - २९ - कस्मात् अयम् कः विधीयते ।२ - २९ - हन्तेः इति आह ।३ - २९ - तत् हन्तिग्रहणम् कर्तव्यम् ।४ - २९ - न कर्तव्यम् ।५ - २९ - प्रकृतम् अनुवर्तते ।६ - २९ - क्व प्रकृतम् ।७ - २९ - हनः च वधः ।८ - २९ - तत् वै अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् ।९ - २९ - न एतानि निपातनानि ।१० - २९ - हन्तेः एते आदेशाः ।११ - २९ - यदि आदेशाः घनस्वरः न सिध्यति ।१२ - २९ - घनः ।१३ - २९ - सन्तु तर्हि निपातनानि ।१४ - २९ - ननु च उक्तम् तत् वै अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् इति ।१५ - २९ - सम्बन्धम् अनुवर्तिष्यते ।१६ - २९ - अथ वा पुनः सन्तु आदेशाः ।१७ - २९ - ननु च उक्तम् स्वरः न सिध्यति इति ।१८ - २९ - न एषः दोषः ।१९ - २९ - अकारान्तः आदेशः ।२० - २९ - अथ यदा इषीकया स्तम्बः हन्यते कथम् तत्र भवितव्यम् ।२१ - २९ - के चिद् तावत् आहुः ।२२ - २९ - स्तम्बघ्ना इति भवितव्यम् ।२३ - २९ - अपरे आहुः स्तम्बहेतिः इति भवितव्यम् ।२४ - २९ - ऊतियूतिजूतिसातिहेतिकीर्तयः च इति निपातनम् इति ।२५ - २९ - अपरे आहुः ।२६ - २९ - स्तम्बहननीइति भवितव्यम् इति ।२७ - २९ - वक्ष्यति एतत् ।२८ - २९ - अजब्भ्याम् स्त्रीईखलनाः ।२९ - २९ - स्त्रियाः खलनौ विप्रतिषेधेन इति ।१ - १४ - यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः ।२ - १४ - यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः वक्तव्यः ।३ - १४ - प्रश्नः इति ।४ - १४ - एवन् तर्हि आङित् करिष्यते ।५ - १४ - अङिति गुणप्रतिषेधः ।६ - १४ - यदि अङित् गुणप्रतिषेधः वक्तव्यः ।७ - १४ - विश्नः इति ।८ - १४ - सूत्रम् च भिद्यते ।९ - १४ - यथान्यासम् एव अस्तु ।१० - १४ - ननु च उक्तम् यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः इति ।११ - १४ - न एषः दोषः ।१२ - १४ - निपातनात् एतत् सिद्धम् ।१३ - १४ - किम् निपातनम् ।१४ - १४ - प्रश्ने च आसन्नकाले इति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP