संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ३|पाद २| खण्ड ३८ पाद २ खण्ड ३७ खण्ड ३८ पाद २ - खण्ड ३८ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ३८ Translation - भाषांतर १ - ६० - किम् उपेयिवान् इति निपातनम् क्रियते ।२ - ६० - उपेयुषि निपातनम् इडर्थम् ।३ - ६० - उपेयुषि निपातनम् क्रियते इडर्थम् ।४ - ६० - इट् यथा स्यात् ।५ - ६० - न एतत् अस्ति प्रयोजनम् ।६ - ६० - सिद्धः अत्र इट् वस्वेकाकाद्घसाम् इति ।७ - ६० - द्विर्वचने कृते अनेकाच्त्वात् न प्राप्नोति ।८ - ६० - इदम् इह सम्प्रधार्यम् ।९ - ६० - द्विर्वचनम् क्रियताम् इट् इति ।१० - ६० - किम् अत्र कर्तव्यम् ।११ - ६० - परत्वात् इडागमः ।१२ - ६० - नित्यम् द्विर्वचनम् ।१३ - ६० - कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति ।१४ - ६० - इट् अपि नित्यः ।१५ - ६० - कृते अपि द्विर्वचने एकादेशे च प्राप्नोति अकृते अपि प्राप्नोति ।१६ - ६० - न अत्र एकादेशः प्राप्नोति ।१७ - ६० - किम् कारणम् ।१८ - ६० - दीर्घः इणः किति इति दीर्घत्वेन बाधते ।१९ - ६० - तत् एतत् उपेयुषि निपातनम् इडर्थम् क्रियते ।२० - ६० - उपेयुषि निपातनम् इडर्थम् इति चेत् अजादौ अतिप्रसङ्गः । उपेयुषि निपातनम् इडर्थम् इति चेत् अजादौ अतिप्रसङ्गः भवति ।२१ - ६० - उपेयुषा उपेयुषे उपेयुषः उपेयुषि इति ।२२ - ६० - एकादिष्टस्य ईय्भावार्थम् तु ।२३ - ६० - एकादिष्टस्य ईय्भावार्थम् तु निपातनम् क्रियते ।२४ - ६० - एकादिष्टस्य ईय् इति एतत् रूपम् निपात्यते ।२५ - ६० - ननु च उक्तम् न अत्र एकादेशः प्राप्नोति ।२६ - ६० - किम् कारणम् ।२७ - ६० - दीर्घः इणः किति इति दीर्घत्वेन बाधते इति ।२८ - ६० - तत् हि न सुष्ठु उच्यते ।२९ - ६० - न हि दीर्घत्वम् एकादेशम् बाधते ।३० - ६० - कः तर्हि बाधते ।३१ - ६० - यणादेशः ।३२ - ६० - सः च क्व बाधते ।३३ - ६० - यत्र अस्य निमित्तम् अस्ति ।३४ - ६० - यत्र हि निमित्तम् न अस्ति निष्प्रतिद्वन्द्वः तत्र एकादेशः ।३५ - ६० - व्यञ्जने यणादेशार्थम् वा ।३६ - ६० - अथ वा व्यञ्जने एव यणादेशः निपात्यते ।३७ - ६० - यणादेशे कृते एकाचः इति इट् सिद्धः भवति ।३८ - ६० - अपरः आह न उपेयिवान् निपात्यः ।३९ - ६० - द्विर्वचनाद् इट् भविष्यति परत्वात् ।४० - ६० - द्विर्वचनम् क्रियताम् इट् इति इट् भविष्यति विप्रतिषेधेन ।४१ - ६० - इह अपि तर्हि द्विर्वचनात् इट् स्यात् बिभिद्वान् चिच्छिद्वान् ।४२ - ६० - अन्येषाम् एकाचाम् द्विर्वचनम् नित्यम् इति आहुः । अन्येषाम् एकाचाम् नित्यम् द्विर्वचनम् ।४३ - ६० - कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति ।४४ - ६० - अस्य पुनः इट् च नित्यः द्विव्रचनम् च । अस्य पुनः इट् च एव नित्यः द्विव्रचनम् च ।४५ - ६० - द्विर्वचने च कृते एकाच् भवति ।४६ - ६० - कथम् ।४७ - ६० - एकादेशे कृते ।४८ - ६० - तस्मात् इट् बाधते द्वित्वम् ।४९ - ६० - तस्मात् इट् द्विर्वचनम् बाधते ।५० - ६० - अनूचानः कर्तरि ।५१ - ६० - अनूचानः कर्तरीति वक्तव्यम् ।५२ - ६० - अनूक्तवान् अनूचानः ।५३ - ६० - अनूक्तम् इति एव अन्यत्र ।५४ - ६० - न उपेयिवान् निपात्यः ।५५ - ६० - द्विर्वचनाद् इट् भविष्यति परत्वात् ।५६ - ६० - अन्येषाम् एकाचाम् द्विर्वचनम् नित्यम् इति आहुः ।५७ - ६० - अस्य पुनः इट् च नित्यः द्विव्रचनम् च ।५८ - ६० - न विहन्यते हि अस्य ।५९ - ६० - द्विर्वचने च एकाच्त्वात् ।६० - ६० - तस्मात् इट् बाधते द्वित्वम् ।१ - ३५ - लुङ्लृटोः अपवादप्रसङ्गः भूतभविष्यतोः अविशेषवचनात् ।२ - ३५ - लुङ्लृटोः अपवादः प्राप्नोति ।३ - ३५ - अगाम घोषान् ।४ - ३५ - अपाम पयः ।५ - ३५ - अशयिष्महि पूतीकतृणेषु ।६ - ३५ - गमिष्यामः घोषान् ।७ - ३५ - पास्यामः पयः ।८ - ३५ - शयिष्यामहे पूतीकतृणेषु ।९ - ३५ - किम् कारणम् ।१० - ३५ - भूतभविष्यतोः अविशेषवचनात् ।११ - ३५ - भूतभविष्यतोः अविशेषेण विधीयेते लुङ्लृटौ ।१२ - ३५ - तयोः विशेषविहितौ लन्लुटौ अपवादौ प्राप्नुतः ।१३ - ३५ - न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् ।१४ - ३५ - न वा एषः दोषः ।१५ - ३५ - किम् कारणम् ।१६ - ३५ - अपवादस्य निमित्ताभावात् ।१७ - ३५ - न अत्र अपवादस्य निमित्तम् अस्ति ।१८ - ३५ - किम् कारणम् ।१९ - ३५ - अनद्यतने हि तयोः विधानम् ।२० - ३५ - अनद्यतने हि तौ विधीयेते लङ्लुटौ ।२१ - ३५ - न च अत्र अनद्यतनः कालः विवक्षितः ।२२ - ३५ - किम् तर्हि ।२३ - ३५ - भूतकालसामान्यम् भविष्यत्कालसामान्यम् च ।२४ - ३५ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् गमिष्यामः घोषान् पास्यामः पयः शयिष्यामहे पूतीकतृणेषु इति यत्र एतत् न ज्ञायते किम् कदा इति ।२५ - ३५ - इह तु कथम् अगाम घोषान् अपाम पयः अशयिष्महि पूतीकतृणेषु यत्र एतत् निर्ज्ञातम् भवति अमुष्मिन् अहनि गतम् इति ।२६ - ३५ - अत्र अपि न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् इति एव ।२७ - ३५ - कथम् पुनः सतः नाम अविवक्षा स्यात् ।२८ - ३५ - सतः अपि अविवक्षा भवति ।२९ - ३५ - तत् यथा ।३० - ३५ - अलोमिका एडका ।३१ - ३५ - अनुदरा कन्या ।३२ - ३५ - असतः च विवक्षा भवति ।३३ - ३५ - तत् यथा ।३४ - ३५ - समुद्रः कुण्डिका ।३५ - ३५ - विन्ध्यः वर्धितकम् इति ।१ - १० - वसेः लुङ् रात्रिशेषे ।२ - १० - वसेः लुङ् रात्रिशेषे वक्तव्यः ।३ - १० - न्याय्ये प्रत्युत्थाने प्रत्युत्थितम् कः चित् कम् चित् पृच्छति ।४ - १० - क्व भवान् उषितः इति ।५ - १० - सः आह ।६ - १० - अमुत्र अवात्सम् इति ।७ - १० - अमुत्र अवसम् इति प्राप्नोति ।८ - १० - जागरणसन्ततौ ।९ - १० - जागरणसन्ततौ इति वक्तव्यम् ।१० - १० - यः हि मुहूर्तमात्रम् अपि स्वपिति तत्र अमुत्र अवसम् इति एव भवितव्यम् ।१ - २१ - अनद्यतने इति बहुव्रीहिनिर्देशः अद्य ह्यः अभुक्ष्महि इति ।२ - २१ - अनद्यतने इति बहुव्रीहिनिर्देशः कर्तव्यः ।३ - २१ - अविद्यमानाद्यतने अनद्यतने इति ।४ - २१ - किम् प्रयोजनम् ।५ - २१ - अद्य ह्यः अभुक्ष्महि इति ।६ - २१ - अद्य च ह्यः च अभुक्ष्महि इति व्यामिश्रे लुङ् एव यथा स्यात् ।७ - २१ - यदि एवम् अद्यतने अपि लङ् प्राप्नोति ।८ - २१ - न हि अद्यतने अद्यतनः विद्यते ।९ - २१ - अद्यतने अपि अद्यतनः विद्यते ।१० - २१ - कथम् ।११ - २१ - व्यपदेशिवद्भावेन ।१२ - २१ - परोक्षे च लोकविज्ञाते प्रयोक्तुः दर्शनविषये ।१३ - २१ - परोक्षे च लोकविज्ञाते प्रयोक्तुः दर्शनविषये लङ् वक्तव्यः ।१४ - २१ - अरुणत् यवनः साकेतम् ।१५ - २१ - अरुणत् यवनः मधमिकाम् ।१६ - २१ - परोक्षे इति किमर्थम् ।१७ - २१ - उदगात् आदित्यः ।१८ - २१ - लोकविज्ञते इति किमर्थम् ।१९ - २१ - चकार कटम् देवदत्तः ।२० - २१ - प्रयोक्तुः दर्शनविषये इति किमर्थम् ।२१ - २१ - जघान कंसम् किल वासुदेवः ।१ - १४ - किम् उदाहरणम् ।२ - १४ - तत्र सक्तून् पास्यामः ।३ - १४ - अभिजानासि देवदत्त तत्र सक्तून् अपिबाम ।४ - १४ - भवेत् पूर्वम् परम् आकाङ्क्षति इति साकाङ्क्षम् स्यात् ।५ - १४ - परम् तु कथम् साकाङ्क्षम् ।६ - १४ - परम् अपि साकाङ्क्षम् ।७ - १४ - कथम् अस्ति अस्मिन् आकाङ्क्षा इति अतः साकाङ्क्षम् ।८ - १४ - विभाषा साकाङ्क्षे सर्वत्र ।९ - १४ - विभाषा साकाङ्क्षे सर्वत्र इति वक्तव्यम् ।१० - १४ - क्व सर्वत्र ।११ - १४ - यदि च अयदि च ।१२ - १४ - यदि तावत् ।१३ - १४ - अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः यत् कश्मीरान् अगच्छाम यत् तत्र ओदनम् भोक्ष्यामहे यत् तत्र ओदनम् अभुञ्ज्महि ।१४ - १४ - अभिजानासि देवदत्त कश्मीरान् गमिष्यामः कश्मीरान् अगच्छाम तत्र ओदनम् भोक्ष्यामहे तत्र ओदनम् अभुञ्ज्महि ।१ - ११ - परोक्षे इति उच्यते ।२ - ११ - किम् परोक्षम् नाम ।३ - ११ - परम् अक्ष्णः परोक्षम् ।४ - ११ - अक्षि पुनः किम् ।५ - ११ - अश्नोतेः अयम् औणादिकः करणसाधनः सि प्रत्ययः ।६ - ११ - अनुते अनेन इति अक्षि ।७ - ११ - यदि एवम् पराक्षम् इति प्राप्नोति ।८ - ११ - न एषः दोषः ।९ - ११ - परोभावः परस्य अक्षे परोक्षे लिटि दृश्यताम् । परशब्दस्य अक्षशब्दे उत्तरपदे परोभावः वक्तव्यः ।१० - ११ - उत्वम् वा आदेः परात् अक्ष्णः ।अथ वा परशब्दात् उत्तरस्य अक्षिशब्दस्य उत्वम् वक्तव्यम् ।११ - ११ - सिद्धम् वा अस्मात् निपातनात् ।१ - ४१ - कस्मिन् पुनः परोक्षे ।२ - ४१ - काले ।३ - ४१ - न वै कालाधिकारः अस्ति ।४ - ४१ - एवम् तर्हि धातोः इति वर्तते ।५ - ४१ - धातौ परोक्षे ।६ - ४१ - धातुः वै शब्दः ।७ - ४१ - न च शब्दस्य प्रत्यक्षपरोक्षतायाम् सम्भवः अस्ति ।८ - ४१ - शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।९ - ४१ - परोक्षे धातौ परोक्षे धात्वर्थे इति ।१० - ४१ - कः पुनः धात्वर्थः ।११ - ४१ - क्रिया ।१२ - ४१ - क्रियायाम् परोक्षायाम् ।१३ - ४१ - यदि एवम् ह्यः अपचत् इति अत्र अपि लिट् प्राप्नोति ।१४ - ४१ - किम् कारणम् ।१५ - ४१ - क्रिया नाम इयम् अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः ।१६ - ४१ - एवम् तर्हि साधनेषु परोक्षेषु ।१७ - ४१ - साधनेषु च भवतः कः सम्प्रत्ययः ।१८ - ४१ - यदि सावद् गुणसमुदायः साधनम् साधनम् अपि अनुमानगम्यम् ।१९ - ४१ - अथ अन्यत् गुणेभ्यः साधनम् भवति प्र्तयक्षपरोक्षतायाम् सम्भवः ।२० - ४१ - अथ यदा अनेन रथ्यायाम् तण्डुलोदकम् दृष्टम् कथम् तत्र भवितव्यम् ।२१ - ४१ - यदि तावत् साधनेषु परोक्षेषु पपाच इति भवितव्यम् ।२२ - ४१ - भवन्ति हि तस्य साधनानि परोक्षाणि ।२३ - ४१ - अथ ये एते क्रियाकृताः विशेषाः चीत्काराः फूत्काराः च तेषु परोक्षेषु एवम् अपि पपाच इति भवितव्यम् ।२४ - ४१ - कथञ्जातीयकम् पुनः परोक्षम् नाम ।२५ - ४१ - के चित् तावत् आहुः ।२६ - ४१ - वर्षशतवृत्तम् परोक्षम् इति ।२७ - ४१ - अपरे आहुः ।२८ - ४१ - कटान्तरितम् परोक्षम् इति ।२९ - ४१ - अपरे आहूः ।३० - ४१ - द्व्यहवृत्तम् त्र्यह्वृत्तम् च इति ।३१ - ४१ - सर्वथा उत्तमः न सिध्यति ।३२ - ४१ - सुप्तमत्तोयोः इति वक्तव्यम् ।३३ - ४१ - सुप्तः अहम् किल विललाप ।३४ - ४१ - मत्तः अहम् किल विललाप ।३५ - ४१ - सुप्तः नु अहम् किल विललाप ।३६ - ४१ - मत्तः नु अहम् किल विललाप ।३७ - ४१ - अथ वा भवति वै कः चित् जागरत् अपि वर्तमानकालम् न उपलभते ।३८ - ४१ - तत् यथा वैयाकरणानाम् शाकटायनः रथमार्गे आसीनः शकटसाऋथम् यान्तम् न उपलभते ।३९ - ४१ - किम् पुनः कारणम् जागरत् अपि वर्तमानकालम् न उपलभते ।४० - ४१ - मनसा संयुक्तानि इन्द्रियाणि उपलब्धौ कारणानि भवन्ति ।४१ - ४१ - मनसः असान्निध्यात् ।१ - ९ - परोक्षे लिट् अत्यन्ताअपह्नवे च ।२ - ९ - परोक्षे लिट् इति अत्र अत्यन्ताअपह्नवे च इति वक्तव्यम् ।३ - ९ - नो खण्डिकान् जगाम नो कलिङ्गान् जगाम ।४ - ९ - न कारिसोमम् प्रपौ ।५ - ९ - न दार्वजस्य प्रतिजग्राह ।६ - ९ - कः मे मनुष्यः प्रहरेत् वधाय ।७ - ९ - परोभावः परस्य अक्षे परोक्षे लिटि दृश्यताम् ।८ - ९ - उत्वम् वा आदेः परात् अक्ष्णः ।९ - ९ - सिद्धम् वा अस्मात् निपातनात् ।१ - २३ - स्म पुरा भूतमात्रे न स्म पुरा अद्यतने ।२ - २३ - स्म पुरा भूतमात्रे न स्म पुरा अद्यतने इति वक्तव्यम् ।३ - २३ - किम् अयम् स्मादिविधिः पुरान्तः अविशेषेण भूतमात्रे भवति ।४ - २३ - तत्र वक्तव्यम् स्मलक्षणः पुरालक्षणः च अद्यतने न भवतः इति ।५ - २३ - आहोस्वित् स्मलक्षणः पुरालक्षणः च अविशेषेण भूतमात्रे भवतः इति ।६ - २३ - तत्र स्माद्यर्थम् न स्म पुरा अद्यतने इति वक्तव्यम् ।७ - २३ - किम् च अतः ।८ - २३ - स्मादिविधिः पुरान्तः यदि अविशेषेण किम् कृतम् भवति न स्म पुरा अद्यतने इति ब्रुवता कात्यायनेन इह ।९ - २३ - स्मादिविधिः पुरान्तः यदि अविशेषेण भवति किम् वार्त्तिककारः प्रतिषेधेन करोति न स्म पुरा अद्यतने इति ।१० - २३ - अनुवृत्तिः अनद्यतनस्य लात् स्मे इति तत्र न अस्ति नञ्कार्यम् । लट् स्मे इति अत्र अनद्यतने इति एतत् अनुवर्तिष्यते ।११ - २३ - अपरोक्षानद्यतनः ननौ च नन्वोः च निवृत्तौ न पुरा अद्यतने इति भवेत् एतत् वाच्यम् । तत्र एतावत् वक्तव्यम् स्यात् न पुरा अद्यतने इति ।१२ - २३ - तत्र च अपि लङ्ग्रहणम् । तत्र च अपि लङ्ग्रहणम् ज्ञपकम् न पुरालक्षणः अद्यतने भवति इति ।१३ - २३ - अथ बुद्धिः अविशेषाद् स्म पुरा हेतू ।१४ - २३ - अथ बुद्धिः अविशेषेण स्म पुरा हेतू इति ।१५ - २३ - तत्र च अपि श्र्णु भूयः ।१६ - २३ - अपरोक्षे चे इति एषः प्राक् पुरिसंशब्दनात् अविनिवृत्तः सर्वत्र अनद्यतनः ।१७ - २३ - तथा सति नञा किम् इह कार्यम् ।१८ - २३ - स्मादौ अपरोक्षे च इति अकार्यम् इति शक्यम् एतत् अपि विद्धि ।१९ - २३ - शक्यम् हि निवर्तयितुम् परोक्षे इति लात् स्मे इति अत्र ।२० - २३ - स्यात् एषा तव बुद्धिः ।२१ - २३ - स्मलक्षणे अपि एवम् एव सिद्धम् इति ।२२ - २३ - लट् स्मे इति भवेत् न अर्थः ।२३ - २३ - तस्मात् कार्यम् परार्थम् तु । एवम् तर्हि ज्ञापयति आचार्यः स्मलक्षणः पुरालक्षणः च अनद्यतने भवतः इति ।१ - १० - ननौ पृष्टप्रतिवचने इति अशिष्यम् क्रियासमाप्तेः विवक्षितत्वात् ।२ - १० - ननौ पृष्टप्रतिवचने इति अशिष्यः लट् ।३ - १० - किम् कारणम् ।४ - १० - क्रियासमाप्तेः विवक्षितत्वात् ।५ - १० - क्रियायाः अत्र असमाप्तिः विवक्षिता ।६ - १० - एषः नाम न्याय्यः वर्तमानः कालः यत्र क्रियायाः असमाप्तिः भवत् ।७ - १० - तत्र वर्तमाने लट् इति एव सिद्धम् ।८ - १० - यदि वर्तमाने लट् इति एव लट् भवति शतृशानचौ अपि प्राप्नुतः ।९ - १० - इष्येते शतृशानचौ ननु माम् कुर्वन्तम् पश्य ।१० - १० - ननु माम् कुर्वाणम् पश्य इति ।१ - ३० - हशश्वद्भ्याम् पुरा ।२ - ३० - हशश्वल्लक्षणात् पुरालक्षणः भवति विप्रतिषेधेन ।३ - ३० - हशश्वल्लक्षणस्य अवकाशः ।४ - ३० - इति ह अकरोत् ।५ - ३० - इह ह चकार ।६ - ३० - शश्वत् अकरोत् ।७ - ३० - शश्वत् चकार ।८ - ३० - पुरालक्षणस्य अवकाशः ।९ - ३० - रथेन अयम् पुरा याति ।१० - ३० - रथेन अयम् पुरा अयासीत् ।११ - ३० - इह उभयम् प्राप्नोति ।१२ - ३० - रथेन ह शश्वत् पुरा याति ।१३ - ३० - रथेन ह शश्वत् पुरा अयासीत् ।१४ - ३० - पुरालक्षणः भवति विप्रतिषेधेन ।१५ - ३० - स्मः सर्वेभ्यः विप्रतिषेधेन ।१६ - ३० - स्मलक्षणः सर्वेभ्यः भवति विप्रतिषेधेन ।१७ - ३० - हशश्वल्लक्षणात् पुरालक्षणात् च ।१८ - ३० - हशश्वल्लक्षणस्य अवकाशः ।१९ - ३० - इति ह अकरोत् ।२० - ३० - इह ह चकार ।२१ - ३० - शश्वत् अकरोत् ।२२ - ३० - शश्वत् चकार ।२३ - ३० - पुरालक्षणस्य अवकाशः ।२४ - ३० - रथेन अयम् पुरा याति ।२५ - ३० - रथेन अयम् पुरा अयासीत् ।२६ - ३० - स्मलक्षणस्य अवकाशः ।२७ - ३० - धर्मेण स्म कुरवः युध्यन्ते ।२८ - ३० - इह सर्वम् प्राप्नोति ।२९ - ३० - न ह स्म वै पुरा शश्वत् अपरशुवृक्णम् दहति ।३० - ३० - स्मलक्षणः लट् भवति विप्रतिषेधेन ।१ - ६० - प्रवृत्तस्य अविरामे शिष्या भवन्ती अवर्तमानत्वात् ।२ - ६० - प्रवृत्तस्य अविरामे शिष्या भवन्ती ।३ - ६० - इह अधीमहे ।४ - ६० - इह वसामः ।५ - ६० - इह पुष्यमित्रम् याजयामः ।६ - ६० - किम् पुनः कारणम् न सिध्यति ।७ - ६० - अवर्तमानत्वात् ।८ - ६० - नित्यप्रवृत्ते च कालाविभागात् ।९ - ६० - नित्यप्रवृत्ते च शासितव्या भवन्ती ।१० - ६० - तिष्ठन्ति पर्वताः ।११ - ६० - स्रवन्ति नद्यः इति ।१२ - ६० - किम् पुनः कारणम् न सिध्यति ।१३ - ६० - कालाविभागात् ।१४ - ६० - इह भूतभविष्यत्प्रतिद्वन्द्वः वर्तमानः कालः ।१५ - ६० - न च अत्र भूतभविष्यन्तौ कालौ स्तः ।१६ - ६० - न्याय्या तु आरम्भानपवर्गात् ।१७ - ६० - न्याय्या तु एषा वर्तमानकालता ।१८ - ६० - कुतः ।१९ - ६० - आरम्भानपवर्गात् ।२० - ६० - आरम्भः अत्र अनपवृक्तः ।२१ - ६० - एषः नाम् न्याय्यः वर्तमानः कालः यत्र आरम्भः अनपवृक्तः ।२२ - ६० - अस्ति च मुक्तसंशये विरामः ।२३ - ६० - यम् खलु अपि भवान् मुक्तसंशयम् वर्तमानम् कालम् न्याय्यम् मन्यते भुङ्क्ते देवदत्तः इति तेन एतत् तुल्यम् ।२४ - ६० - सः अपि हि अवश्यम् भुञ्जानः हसति वा जल्पति वा पानीयम् वा पिबति ।२५ - ६० - यदि अत्र युक्ता वर्तमानकालता दृश्यते इह अपि युक्ता दृश्यताम् ।२६ - ६० - सन्ति च कालविभागाः ।२७ - ६० - सन्ति खलु अपि कालविभागाः ।२८ - ६० - तिष्ठन्ति पर्वताः ।२९ - ६० - स्थास्यन्ति पर्वताः ।३० - ६० - तस्थुः पर्वताः ।३१ - ६० - किम् शक्यन्ते एते शब्दाः प्रयोक्तुम् इति अतः सन्ति कालविभागाः ।३२ - ६० - न अवश्यम् प्रयोगात् एव ।३३ - ६० - इह भूतभविष्यद्वर्तमानानाम् राज्ञाम् याः क्रियाः ताः तिष्ठतेः अधिकरणम् ।३४ - ६० - इह तावत् तिष्ठन्ति पर्वताः इति ।३५ - ६० - सम्प्रति ये राजानः तेषाम् याः क्रियाः तासु वर्तमानासु ।३६ - ६० - स्थास्यन्ति पर्वताः इति ।३७ - ६० - इतः उत्तरम् ये राजानः भविष्यन्ति तेषाम् याः क्रियाः तासु भविष्यन्तीषु ।३८ - ६० - तस्थुः पर्वताः इति ।३९ - ६० - ये राजानः बभूवुः तेषाम् याः क्रियाः तासु व्भूतासु ।४० - ६० - अपरः आह न अस्ति वर्तमानः कालः इति ।४१ - ६० - अपि च अत्र श्लोकान् उदाहरन्ति न वर्तते चक्रम् ।४२ - ६० - इषुः न पात्यते ।४३ - ६० - न स्यन्दन्ते सरितः सागराय ।४४ - ६० - कूटस्थः अयम् लोकः न विचेष्टा अस्ति ।४५ - ६० - यः हि एवम् पश्यति सः अपि अनन्धः ।४६ - ६० - मीमांसकः मन्यमानः युवा मेधाविसम्मतः काकम् स्म इह अनुपृच्छति किम् ते पतितलक्षणम् ।४७ - ६० - अनागते न पतसि अतिक्रान्ते च काक न ।४८ - ६० - यदि सम्प्रति पतसि सर्वः लोकः पतति अयम् ।४९ - ६० - हिमवान् अपि गच्छति ।५० - ६० - अनागतम् अतिक्रान्तम् वर्तमानम् इति त्रयम् ।५१ - ६० - सर्वत्र गतिः न अस्ति ।५२ - ६० - गच्छति इति किम् उच्यते ।५३ - ६० - क्रियाप्रवृत्तौ यः हेतुः तदर्थम् यत् विचेष्टितम् तत् समीक्ष्य प्रयुञ्जीत गच्छति इति अविचारयन् ।५४ - ६० - अप्रः आह ।५५ - ६० - अस्ति वर्तमानः कालः इति ।५६ - ६० - आदित्यगतिवत् न उपलभ्यते ।५७ - ६० - अपि च अत्र श्लोकम् उदाहरन्ति ।५८ - ६० - बिसस्य वालाः इव दह्यमानाः न लक्ष्यते विकृतिः सन्निपाते ।५९ - ६० - अस्ति इति ताम् वेदयन्ते त्रिभभावाः ।६० - ६० - सूक्ष्मः हि भावः अनुमितेन गम्यः ।१ - २७ - लस्य अप्रथमासमानाधिकरणेन अयोगात् अदेशानुपपत्तिः यथा अन्यत्र ।२ - २७ - लस्य अप्रथमासमानाधिकरणेन अयोगात् अदेशयोः नुपपत्तिः यथा अन्यत्र ।३ - २७ - तत् यथा अन्यत्र अपि लस्य अप्रथमासमानाधिकरणेन योगः न भवति ।४ - २७ - क्व अन्यत्र ।५ - २७ - लङि ।६ - २७ - अपचत् ओदनम् देवदत्तः इति ।७ - २७ - योगः इति चेत् अन्यत्र अपि योगः स्यात् ।८ - २७ - अथ मतम् एतत् भवति योगः इति अन्यत्र अपि योगः स्यात् ।९ - २७ - क्व अन्यत्र ।१० - २७ - लङि ।११ - २७ - अपचत् ओदनम् देवदत्तः इति ।१२ - २७ - न क्व चित् योगः इति कृत्वा अतः सर्वत्र योगेन भवितव्यम् क्व चित् अयोगः इति कृत्वा सर्वत्र अयोगेन ।१३ - २७ - तत् यथा ।१४ - २७ - समानम् ईहमानानाम् च अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।१५ - २७ - न च इदानीम् कः चित् अर्थवान् इति अतः सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति सर्वैः अनर्थकैः ।१६ - २७ - तत्र किम् अस्माभिः शक्यम् कर्तुम् ।१७ - २७ - यत् लोटः अप्रथमासमानाधिकरणेन योगः भवति लङः न स्वाभाविकम् एतत् ।१८ - २७ - अथ वा आदेशे सामानाधिकरण्यम् दृष्ट्वा अनुमानात् गन्तव्यम् प्रकृतेः अपि सामानाधिकरण्यम् भवति इति ।१९ - २७ - तत् यथा धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् दृष्ट्वा परिव्राजकः इति ।२० - २७ - विषमः उपन्यासः ।२१ - २७ - प्रत्यक्षः तेन अग्निधूमयोः अभिसम्बन्धः कृतः भवति त्रिविष्टब्धकपरिव्राजकयोः च ।२२ - २७ - सः तद्विदेशस्थम् अपि दृष्ट्वा जानाति अग्निः अत्र परिव्राजकः अत्र इति ।२३ - २७ - भवति वै प्रत्यक्षात् अपि अनुमानबलीयस्त्वम् ।२४ - २७ - तत् यथा अलातचक्रम् प्रत्यक्षम् दृश्यते अनुमानात् च गम्यते न एतत् अस्ति इति ।२५ - २७ - कस्य चित् खलु अपि सकृत् कृतः अभिसम्बन्धः अत्यन्ताय कृतः भवति ।२६ - २७ - तत् यथा वृक्षपर्णयोः अयम् वृक्षः इदम् पर्णम् इति ।२७ - २७ - सः तद्विदेशस्थम् अपि दृष्ट्वा जानाति वृक्षस्य इदम् पर्णम् इति ।१ - ८० - किम् पुनः अयम् पर्युदासः यत् अन्यत् प्रथमासमानाधिकरणात् इति , आहोस्वित् प्रसज्यप्रतिषेधः प्रथमासमानाधिकरणे न इति ।२ - ८० - कः च अत्र विशेषः ।३ - ८० - लटः शतृशानचौ अप्रथमासमानाधिकरणे इति चेत् प्रत्ययोत्तरपदयोः उपसङ्ख्यानम् ।४ - ८० - लटः शतृशानचौ अप्रथमासमानाधिकरणे इति चेत् प्रत्ययोत्तरपदयोः उपसङ्ख्यानम् कर्तव्यम् ।५ - ८० - कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः कुर्वाणभक्तिः पचमानभक्तिः ।६ - ८० - अस्तु तर्हि प्रसज्यप्रतिषेधः ।प्रथमासमानाधिकरणे न इति ।७ - ८० - प्रसज्यप्रतिषेधेउत्तरपदे आदेशानुपपत्तिः ।८ - ८० - प्रसज्यप्रतिषेधेउत्तरपदे आदेशयोः अनुपपत्तिः ।९ - ८० - कुर्वती च असौ भक्तिः च कुर्वद्भक्तिः पचभक्तिः कुर्वाणभक्तिः पचमानभक्तिः इति ।१० - ८० - ये च अपि एते समानाधिकरणवृत्तयः तद्धिताः तत्र च शतृशानचौ न प्राप्नुतः ।११ - ८० - कुर्वत्तरः पचत्तरः कुर्वाणतरः पचमानतरः कुर्वद्रूपः पचद्रूपः कुर्वाणरूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः कुर्वाणकल्पः पचमानकल्पः इति ।१२ - ८० - सिद्धम् तु प्रत्ययोत्तरपदयोः च इति वचनात् ।१३ - ८० - सिद्धम् एतत् ।१४ - ८० - कथम् ।१५ - ८० - प्रत्ययोत्तरपदयोः च शतृशानचौ भवतः इति वक्तव्यम् ।१६ - ८० - तत्र प्रत्ययस्य आदेशनिमित्तत्वात् अप्रसिद्धिः ।१७ - ८० - तत्र प्रत्ययस्य आदेशनिमित्तत्वात् अप्रसिद्धिः ।१८ - ८० - आदेशनिमित्तः प्रत्ययः प्रत्ययनिमित्तः च आदेशः ।१९ - ८० - तत् एतत् इतरेतराश्रयम् भवति ।२० - ८० - इतरेतराश्रयाणि च न प्रक्ल्पन्ते ।२१ - ८० - उत्तरपदस्य च सुबन्तनिमित्तत्वात् शतृशानचोः अप्रसिद्धिः ।२२ - ८० - उत्तरपदस्य च सुबन्तनिमित्तत्वात् शतृशानचोः अप्रसिद्धिः ।२३ - ८० - उत्तरपदनिमित्तः सुप् सुबन्तनिमित्तम् च उत्तरपदम् ।२४ - ८० - तत् एतत् इतरेतराश्रयम् भवति ।२५ - ८० - इतरेतराश्रयाणि च न प्रक्ल्पन्ते ।२६ - ८० - न वा लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् ।२७ - ८० - न वा एषः दोषः ।२८ - ८० - किम् कारणम् ।२९ - ८० - लकारस्य कृत्त्वात् प्रातिपदिकत्वम् ।३० - ८० - लकारः कृत् कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा ।३१ - ८० - तदाश्रयम् प्रत्ययविधानम् ।३२ - ८० - प्रातिपदिकाश्रया स्वाद्युत्पत्तिः भविष्यति ।३३ - ८० - तिङादेशात् सुबुत्पत्तिः । तिङादेशः क्रियताम् सुबुत्पत्तिः इति परत्वात् सुबुत्पत्तिः भविष्यति ।३४ - ८० - तस्मात् उत्तरपदप्रसिद्धिः ।३५ - ८० - तस्मात् उत्तरपदम् प्रसिद्धम् ।३६ - ८० - उत्तरपदे प्रसिद्धे उत्तरपदे इति शतृशानचौ भविष्यतः ।३७ - ८० - इह अपि तर्हि तिङादेशात् सुबुत्पत्तिः स्यात् पचति पठति इति ।३८ - ८० - अस्ति अत्र विशेषः ।३९ - ८० - नित्यः अत्र तिङादेशः ।४० - ८० - उत्पन्ने अपि सुपि प्राप्नोति अनुत्पन्ने अपि प्राप्नोति ।४१ - ८० - नित्यत्वात् तिङादेशे कृते सुबुत्पत्तिः न भविष्यति ।४२ - ८० - इह अपि तर्हि नित्यत्वात् तिङादेशः स्यात् कुर्वद्भक्तिः पचद्भक्तिः पचमानभक्तिः इति ।४३ - ८० - अस्ति अत्र विशेषः ।४४ - ८० - शतृशानचौ तिङपवादौ तौ च निमित्तवन्तौ ।४५ - ८० - न च अपवादविषये उत्सर्गः अभिनिविशते ।४६ - ८० - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः ।४७ - ८० - प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।४८ - ८० - न तावत् अत्र कदा चित् तिङ् भवति ।४९ - ८० - अपवादौ शतृशानचौ प्रतीक्षते ।५० - ८० - तत् एतत् क्व सिद्धम् भवति ।५१ - ८० - यत्र सामान्यात् उत्पत्तिः ।५२ - ८० - यत्र हि विशेषात् अतः इञ् इति इतरेतराश्रयम् एव तत्र भवति ।५३ - ८० - वीक्षमाणस्य अपत्यम् वैक्षमाणिः इति ।५४ - ८० - इह च शतृशानचौ प्राप्नुतः ।५५ - ८० - पचतितराम् जल्पतितराम् पचतिरूपम् जल्पतिरूपम् पचतिकल्पम् जल्पतिकल्पम् पचति पठति इति ।५६ - ८० - तत् एतत् कथम् कृत्वा सिद्धम् भवति ।५७ - ८० - शतृशानचौ यदि लटः वा ।५८ - ८० - यदि शतृशानचौ यदि लटः वा भवतः व्यवस्थितविभाषा च ।५९ - ८० - तेन इह च भविष्यतः कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः पचमानभक्तिः कुर्वत्तरः पचत्तरः पचमानतरः कुर्वद्रूपः पचद्रूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः पचमानकल्पः पचन् पठन् इति च लटः शतृशानचौ ।६० - ८० - इह च न भविष्यतः पचतितराम् जल्पतितराम् पचतिरूपम् जल्पतिरूपम् पचतिकल्पम् जल्पतिकल्पम् पचति पठति इति च लटः शतृशानचौ ।६१ - ८० - तत् तर्हि वावचनम् कर्तव्यम् ।६२ - ८० - न कर्तव्यम् ।६३ - ८० - प्रकृतम् अनुवर्तते ।६४ - ८० - क्व प्रकृतम् ।६५ - ८० - नन्वोः विभाषा इति ।६६ - ८० - यदि तत् अनुवर्तते वर्तमाने लट इति लट् अपि विभाषा प्राप्नोति ।६७ - ८० - सम्बन्धम् अनुवर्तिष्यते ।६८ - ८० - नन्वोः विभाषा ।६९ - ८० - पुरि लुङ् च अस्मे विभाषा ।७० - ८० - वर्तमाने लट् पुरि लुङ् च अस्मे विभाषा ।७१ - ८० - लटः शतृशानचौ विभाषा ।७२ - ८० - पुरि लुङ् च अस्मे इति निवृत्तम् ।७३ - ८० - न तर्हि इदानीम् अप्रथमासमानाधिकरणे इति वक्तव्यम् ।७४ - ८० - वक्तव्यम् च ।७५ - ८० - किम् प्रयोजनम् ।७६ - ८० - नित्याऋथम् ।७७ - ८० - अप्रथमासमानाधिकरणे नित्यौ यथा स्याताम् ।७८ - ८० - क्व तर्हि इदानीम् विभाषा ।७९ - ८० - प्रथमासमानाधिकरणे ।८० - ८० - पचन् पचति पचमानः पचते इति ।१ - ४९ - लक्षणहेत्वोः क्रियायाः गुणे उपसङ्ख्यानम् ।२ - ४९ - लक्षणहेत्वोः क्रियायाः गुणे उपसङ्ख्यानम् कर्तव्यम् ।३ - ४९ - तिष्ठन् मूत्रयति ।४ - ४९ - गच्छन् भक्षयति ।५ - ४९ - कर्तुः च लक्षणयोः पर्यायेण अचयोगे ।६ - ४९ - कर्तुः च लक्षणयोः पर्यायेण अचयोगे उपसङ्ख्यानम् कर्तव्यम् ।७ - ४९ - यः अधीयानः आस्ते सः देवदत्त्तः ।८ - ४९ - यः आसीनः अधीते सः देवदत्तः ।९ - ४९ - अचयोगे इति किमर्थम् ।१० - ४९ - यः आस्ते च अधीते च सः चैत्रः ।११ - ४९ - तत्त्वान्वाख्याने च ।१२ - ४९ - तत्त्वान्वाख्याने च उपसङ्ख्यानम् कर्तव्यम् ।१३ - ४९ - शयाना वर्धते दूर्वा ।१४ - ४९ - आसीनम् वर्धते बिसम् इति ।१५ - ४९ - सदादयः च बहुलम् ।१६ - ४९ - सदादयः च बहुलम् इति वक्तव्यम् ।१७ - ४९ - सन् ब्राह्मणः अस्ति ब्राह्मणः ।१८ - ४९ - विद्यते ब्राह्मणः विद्यमानः ब्राह्मणः इति ।१९ - ४९ - इङ्जुहोत्योः वावचनम् ।२० - ४९ - इङ्जुहोत्योः वा इति वक्तव्यम् ।२१ - ४९ - अधीते अधीयानः ।२२ - ४९ - जुहोति जुह्वत् ।२३ - ४९ - माङि आक्रोशे । माङि आक्रोशे इति वक्तव्यम् ।२४ - ४९ - मा पचन् ।२५ - ४९ - मा पचमानः ।२६ - ४९ - तत् तर्हि वक्तव्यम् ।२७ - ४९ - न वक्तव्यम् ।२८ - ४९ - लक्षणहेत्वोः क्रियायाः इति एव सिद्धम् ।२९ - ४९ - इह तावत् तिष्ठन् मूत्रयति इति ।३० - ४९ - तिष्ठतिक्रिया मूत्रयतिक्रियायाः लक्षणम् ।३१ - ४९ - गच्छन् भक्षयति इति ।३२ - ४९ - गच्छतिक्रिया भक्षयतिक्रियायाः लक्षणम् ।३३ - ४९ - यः अधीयानः आस्ते सः देवदत्त्तः इति ।३४ - ४९ - अध्ययनक्रिया आसनक्रियायाः लक्षणम् ।३५ - ४९ - यः आसीनः अधीते सः देवदत्तः इति ।३६ - ४९ - आसिक्रिया अध्ययनक्रियायाः लक्षणम् ।३७ - ४९ - इदम् तर्हि प्रयोजनम् ।३८ - ४९ - अचयोगे इति वक्ष्यामि इति ।३९ - ४९ - इह मा भूत् ।४० - ४९ - यः आस्ते च अधीते च सः चैत्रः इति ।४१ - ४९ - एतत् अपि न अस्ति प्रयोजनम् ।४२ - ४९ - न एतत् क्रियायाः लक्षणम् ।४३ - ४९ - किम् तर्हि ।४४ - ४९ - कर्तृलक्षणम् एतत् ।४५ - ४९ - शयाना वर्धते दूर्वा इति ।४६ - ४९ - शेतिक्रिया वृद्धिक्रियायाः लक्षणम् ।४७ - ४९ - आसीनम् वर्धते बिसम् इति ।४८ - ४९ - आसिक्रिया वृद्धिक्रियायाः लक्षणम् ।४९ - ४९ - सदादयः च बहुलम् इङ्जुहोत्योः वा माङि आक्रोशे इति वक्तव्यम् एव.१ - ५० - तौग्रहणम् किमर्थम् ।२ - ५० - शतृशानचौ प्रतिनिर्दिश्येते ।३ - ५० - न एतत् अस्ति प्रयोजनम् ।४ - ५० - प्रकृतौ शतृशानचौ अनुवर्तिष्येते ।५ - ५० - क्व प्रकृतौ ।६ - ५० - लटः शतृसानचौ अप्रथमासमानाधिकरणे इति ।७ - ५० - अतः उत्तरम् पठति ।८ - ५० - तौ सत् इति वचनम् असंसर्गार्थम् टौ ग्रहणम् क्रियते असंसर्गार्थम् ।९ - ५० - असंसक्तयोः एतैः विशेषैः शतृशानचोः सञ्ज्ञा यथा स्यात् ।१० - ५० - ननु च एते विशेषाः निवर्तेरन् ।११ - ५० - यदि अपि एते विशेषाः निवर्तन्ते अयम् तु खलु वर्तमानः कालः अवश्यम् उत्तरार्थः अनुवर्त्यः ।१२ - ५० - तस्मिन् अनुवर्तमाने वर्तमानकालविहितयोः एव शतृशानचोः सत्स्ञ्ज्ञा स्यात् ।१३ - ५० - भूतभविष्यकालविहितयोः न स्यात् ।१४ - ५० - किम् पुनः भूतभविष्यकालविहितयोः सत्स्ञ्ज्ञावचने प्रयोजनम् ।१५ - ५० - पूरणगुणसुहितसत् इति ।१६ - ५० - ब्राह्मणस्य पक्ष्यन् ।१७ - ५० - ब्राह्मणस्य पक्ष्यमाणः ।१८ - ५० - अथ क्रियमाणे अपि तौग्रहणे कथम् एव असंसक्तयोः एतैः विशेषैः सञ्ज्ञा लभ्या ।१९ - ५० - लभ्या इति आह ।२० - ५० - कथम् ।२१ - ५० - तौ इति शब्दतः सत् इति योगे क्रियमाणे तौ ग्रहणम् योगाङ्गम् जायते ।२२ - ५० - सति च योगाङ्गे योगविभागः करिष्यते ।२३ - ५० - तौ ।२४ - ५० - तौ एतौ शतृशानचौ धातुमात्रात् परस्य प्रत्ययस्य भवतः ।२५ - ५० - ततः सत् ।२६ - ५० - सत्स्ञ्ज्ञौ भवतौ शतृशानचौ ।२७ - ५० - इह अपि तर्हि प्राप्नुतः ।२८ - ५० - कारकः हारकः इति ।२९ - ५० - अवधारणम् लृटि विधानम् ।३० - ५० - लृतः सत् वा इति एतत् नियमार्थम् भविष्यति ।३१ - ५० - लृटः एव धातुमात्रात् परस्य न अन्यस्य इति ।३२ - ५० - कैमर्थ्यक्यात् नियमः भवति ।३३ - ५० - विधेयम् न अस्ति इति कृत्वा ।३४ - ५० - इह च अस्ति विधेयम् ।३५ - ५० - किम् ।३६ - ५० - नित्यौ शतृशानचौ प्राप्तौ ।३७ - ५० - तौ विभाषा विधेयौ ।३८ - ५० - तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।३९ - ५० - योगविभागतः च विहितम् सत् ।४० - ५० - एवम् तर्हि योगविभागः करिष्यते ।४१ - ५० - लृटः सत् ।४२ - ५० - लृटः सत्सञ्ज्ञौ भवतः ।४३ - ५० - किमर्थम् इदम् ।४४ - ५० - नियमार्थम् ।४५ - ५० - लृटः एव धातुमात्रात् परस्य न अन्यस्य इति ।४६ - ५० - ततः वा ।४७ - ५० - वा च लृटः शतृशानचौ सत्सञ्ज्ञौ भवतः ।४८ - ५० - तत्र अयम् अपि अर्थः ।४९ - ५० - सद्विधिः नित्यम् अप्रथमासमानाधिकरणे इति वक्ष्यति ।५० - ५० - तत् न वक्तव्यम् भवति ।१ - ३७ - अथ यौ एतौ उत्तरौ शतानौ किम् एतौ लादेशौ आहोस्वित् अलादेशौ ।२ - ३७ - कः च अत्र विशेषः ।३ - ३७ - उत्तरयोः लादेशे वावचनम् ।४ - ३७ - उत्तरयोः लादेशे वा इति वक्तव्यम् ।५ - ३७ - पवमानः यजमानः ।६ - ३७ - पवते यजते इति अपि यथा स्यात् ।७ - ३७ - साधनाभिधानम् ।८ - ३७ - साधनाभिधानम् च प्राप्नोति ।९ - ३७ - लः कर्मणि च भावे च अकर्मकेभ्यः इति भावकर्मणोः अपि प्राप्नुतः ।१० - ३७ - स्वरः ।११ - ३७ - स्वरः च साध्यः ।१२ - ३७ - कति इह पवमानाः ।१३ - ३७ - अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः प्राप्नोति ।१४ - ३७ - उपग्रहप्रतिषेधः च ।१५ - ३७ - उपग्रहस्य च प्रतिषेधः वक्तव्यः ।१६ - ३७ - कति इह निघ्नानाः ।१७ - ३७ - तङानौ आत्मनेपदम् इति आत्मनेपदसञ्ज्ञा प्राप्नोति ।१८ - ३७ - स्ताम् तर्हि अलादेशौ ।१९ - ३७ - अलादेशे षष्ठीप्रतिषेधः ।२० - ३७ - अलादेशे षष्ठीप्रतिषेधः वक्तव्यः ।२१ - ३७ - सोमम् पवमानः ।२२ - ३७ - नडम् आघ्नानः ।२३ - ३७ - अधीयन् पारायणम् ।२४ - ३७ - लप्रयोगे न इति प्रतिषेधः न प्राप्नोति ।२५ - ३७ - मा भूत् एवम् ।२६ - ३७ - तृन् इति एव भविष्यति ।२७ - ३७ - कथम् ।२८ - ३७ - तृन् इति न इदम् प्रत्ययग्रहणम् ।२९ - ३७ - किम् तर्हि ।३० - ३७ - प्रत्याहारग्रहणम् ।३१ - ३७ - क्व सन्निविष्टाणाम् प्रत्याहारः ।३२ - ३७ - लटः शतृ इति अतः आरभ्य आ तृनः नकारात् ।३३ - ३७ - यदि प्रत्याहारग्रहणम् चौरस्य द्विषन् वृषलस्य द्विषन् अत्र अपि प्राप्नोति ।३४ - ३७ - द्विषः शतुः वावचनम् ।३५ - ३७ - द्विषः शतुः वा इति वक्तव्यम् ।३६ - ३७ - तत् च अवश्यम् वक्तव्यम् प्रत्ययग्रहणे सति प्रतिषेधार्थम् ।३७ - ३७ - तत् एव प्रत्याहारग्रहणे सति विध्यर्थम् भविष्यति.१ - ३० - तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य ।२ - ३० - तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य इति वक्तव्यम् ।३ - ३० - होता पोता ।४ - ३० - अनुपसर्गस्य इति किमर्थम् ।५ - ३० - प्रशास्ता प्रतिहर्ता ।६ - ३० - नयतेः षुक् च ।७ - ३० - नयतेः षुक् वक्तव्यः ।८ - ३० - तृन् च प्रत्ययः वक्तव्यञ्. नेष्टा ।९ - ३० - न वा धात्वन्यत्वात् । न वा वक्तव्यम् ।१० - ३० - किम् कारणम् ।११ - ३० - धात्वन्यत्वात् ।१२ - ३० - धात्वन्तरम् नेषतिः ।१३ - ३० - कथम् ज्ञायते ।१४ - ३० - नेषतु नेष्टात् इति दर्शनात् ।१५ - ३० - नेषतु नेष्टात् इति प्रयोगः दृश्यते ।१६ - ३० - इन्द्रः नः तेन नेषतु ।१७ - ३० - गाः वः नेष्टात् ।१८ - ३० - त्विषेः देवतायाम् अकारः च उपधायाः अनिट्वम् च ।१९ - ३० - त्विषेः देवतायाम् तृन् वक्तव्यः अकारः च उपधायाः अनिट्वम् च इति ।२० - ३० - त्वष्टा ।२१ - ३० - किम् पुनः इदम् त्विषेः एव अनिट्वम् ।२२ - ३० - न इति आह ।२३ - ३० - यत् च अनुक्रान्तम् यत् च अनुक्रंस्यते सर्वस्य एषः शेषः अनिट्वम् इति ।२४ - ३० - क्षदेः च युक्ते ।२५ - ३० - क्षदेः च युक्ते तृन् वक्तव्यः ।२६ - ३० - क्षत्ता ।२७ - ३० - छन्दसि तृच् च ।२८ - ३० - छन्दसि तृच् च तृन् च वक्तव्यः ।२९ - ३० - क्षत्तृभ्यः सङ्ग्रहीतृभ्यः ।३० - ३० - क्षत्तृभ्यः सङ्ग्रहीतृभ्यः ।१ - ५२ - स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः ।२ - ५२ - स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः ।३ - ५२ - स्थास्नुः इति ।४ - ५२ - घुमास्थागापाजहातिसाम् हलि इति ईत्त्वम् प्राप्नोति ।५ - ५२ - एवम् तर्हि न कित् करिष्यते ।६ - ५२ - अकिति गुणप्रतिषेधः ।७ - ५२ - यदि अकित् गुणप्रतिषेधः वक्तव्यः ।८ - ५२ - जिष्णुः इति ।९ - ५२ - भुवः इट्प्रतिषेधः च ।१० - ५२ - भुवः इट्प्रतिषेधः च वक्तव्यः ।११ - ५२ - किम् च अन्यत् ।१२ - ५२ - गुणप्रतिषेधः च ।१३ - ५२ - भूष्णुः इति ।१४ - ५२ - अस्तु तर्हि कित्. ननु च उक्तम् स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः इति ।१५ - ५२ - न एषः दोषः ।१६ - ५२ - स्थादंशिभ्याम् स्नुः छन्दसि ।१७ - ५२ - स्थादंशिभ्याम् स्नुः छन्दसि वक्तव्यः ।१८ - ५२ - स्थास्नु जङ्गमम् ।१९ - ५२ - दङ्क्ष्णवः पशवः इति ।२० - ५२ - सः इदानीम् स्थः अविशेषेण विधास्यते ।२१ - ५२ - सूत्रम् तर्हि भिद्यते ।२२ - ५२ - यथान्यासम् अस्तु. ननु च उक्तम् स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः इति ।२३ - ५२ - एवम् तर्हि गित् करिष्यते ।२४ - ५२ - स्थोः गित्त्वात् न स्थः ईकारः ।२५ - ५२ - स्थोः गित्त्वात् स्थः ईकारः न भविष्यति ।२६ - ५२ - किम् कारणम् ।२७ - ५२ - क्ङितोः ईत्त्वशासनात् ।२८ - ५२ - क्ङितोः ईत्त्वम् शिष्यते ।२९ - ५२ - इह तर्हि जिष्णुः इति गुणः प्राप्नोति ।३० - ५२ - गुणाभावः त्रिषु स्मार्यः ।३१ - ५२ - गुणाभावः त्रिषु स्मर्तव्यः ।३२ - ५२ - गिति किति ङिति इति ।३३ - ५२ - तत् गकारग्रहणम् कर्तव्यम् ।३४ - ५२ - न कर्तव्यम् ।३५ - ५२ - क्रियते न्यासे एव ।३६ - ५२ - ककारे गकारः चर्त्वभूतः निर्दिश्यते ।३७ - ५२ - क्क्ङिति च इति ।३८ - ५२ - इह तर्हि भूष्णुः इति श्र्युकः किति इति इट्प्रतिषेधः न प्राप्नोति ।३९ - ५२ - श्र्युको अनिट्त्वम् गकोः इतोः ।४० - ५२ - श्र्युकः अनिट्त्वम् गकारककारयोः इति वक्तव्यम् ।४१ - ५२ - तत् गकारग्रहणम् कर्तव्यम् ।४२ - ५२ - न कर्तव्यम् ।४३ - ५२ - क्रियते न्यासः एव ।४४ - ५२ - ककारे गकारः चर्त्वभूतः निर्दिश्यते ।४५ - ५२ - श्र्युकः क्किति इति ।४६ - ५२ - यदि एवम् चर्त्वस्य असिद्धत्वात् हशि इति उत्त्वम् प्राप्नोति ।४७ - ५२ - सौत्रः निर्देशः ।४८ - ५२ - अथ वा असंहितया निर्देशः करिष्यते ।४९ - ५२ - श्र्युकः क्किति इति ।५० - ५२ - स्थोः गित्त्वात् न स्थः ईकारः क्ङितोः ईत्त्वशासनात् ।५१ - ५२ - गुणाभावः त्रिषु स्मार्यः ।५२ - ५२ - श्र्युको अनिट्त्वम् गकोः इतोः ।१ - १३ - घिनण् अयम् वक्तव्यः ।२ - १३ - घिनुणि हि सति शमिनौ शमिनः तमिनौ तमिनः उगिदचाम् सर्वनामस्थाने अधातोः इति नुम् प्रसज्येत ।३ - १३ - न एषः दोषः ।४ - १३ - झल्ग्रहणम् तत्र चोदयिष्यति ।५ - १३ - इह तर्हि शमिनितरा शमिनीतरा तमिनितरा तमिनीतरा उगितः घादिषु नद्याः अन्यतरस्याम् ह्रस्वः भवति इति अन्यरतस्याम् ह्रस्वत्वम् प्रसज्येत ।६ - १३ - इष्यते एव ह्रस्वत्वम् ।७ - १३ - घिनुण् अकर्मकाणाम् ।८ - १३ - घिनुण् अकर्मकाणाम् इति वक्तव्यम् ।९ - १३ - इह मा भूत् ।१० - १३ - सम्पृणक्ति शाकम् इति ।११ - १३ - उक्तम् वा ।१२ - १३ - किम् उक्तम् ।१३ - १३ - अनभिधानात् इति ।१ - १९ - किमर्थम् निन्दादिभ्यः वुञ् विधीयते न ण्वुला एव सिद्धम् ।२ - १९ - न हि अस्ति विशेषः निन्दादिभ्यः ण्वुलः वा वुञः वा ।३ - १९ - तत् एव रूपम् सः एव स्वरः ।४ - १९ - वुञ्म् अनेकाचः ।५ - १९ - वुञ्म् अनेकाचः प्रयोजयन्ति ।६ - १९ - असूयकः ।७ - १९ - अथ ये अत्र एकाचः पठ्यन्ते तेषाम् ग्रहणम् किमर्थम् न तेषाम् ण्वुला एव सिद्धम् ।८ - १९ - न सिध्यति ।९ - १९ - अयम् तच्छीलादिषु तृन् विधीयते ।१० - १९ - सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत ।११ - १९ - वासरूपन्यायेन ण्वुल् अपि भविष्यति ।१२ - १९ - अतः उत्तरम् पठति ।१३ - १९ - निन्दादिभ्यः वुञ्वचनम् अन्येभ्यः ण्वुलः प्रतिषेधार्थम् ।१४ - १९ - निन्दादिभ्यः वुञ्वचनम् क्रियते ज्ञापकार्थम् ।१५ - १९ - किम् ज्ञाप्यम् ।१६ - १९ - एतत् ज्ञापयति आचार्यः तच्छीलादिषु वासरूपन्यायेन अन्येभ्यः ण्वुल् न भवति इति ।१७ - १९ - तृजादिप्रतिषेधाऋथम् वा ।१८ - १९ - अथ वा एतत् ज्ञापयति आचार्यः ।१९ - १९ - तच्छीलादिषु सर्वे एव तृजासयः वासरूपेण न भवन्ति इति ।१ - १८ - पदिग्रहणम् अनर्थकम् अनुदात्तेतः च हलादेः इति सिद्धत्वात् ।२ - १८ - पदिग्रहणम् अनर्थकम् ।३ - १८ - किम् कारणम् ।४ - १८ - अनुदात्तेतः च हलादेः इति एव अत्र युच् सिद्धः ।५ - १८ - न सिध्यति ।६ - १८ - अयम् पदेः उकञ् विधीयते लषपदपद्स्थाभूवृषहनकमगमशृ̄भ्यः उकञ् इति ।७ - १८ - सः विशेषविहितः सामान्यविहितम् युचम् बाधेत ।८ - १८ - वासरूपन्यायेन युच् अपि भविष्यति ।९ - १८ - असरूपनिवृत्त्यर्थम् तु ।१० - १८ - असरूपनिवृत्त्यर्थम् तर्हि पदिग्रहणम् क्रियते ।११ - १८ - एतत् ज्ञापयति आचार्यः ताच्छीलिकेषु ताच्छिलिकाः वासरूपेण न भवन्ति इति ।१२ - १८ - यदि एतत् ज्ञाप्यते दूददीपदीक्षः च इति दीपग्रहणम् अनर्थकम् ।१३ - १८ - अयम् दीपेः रः विधीयते ।१४ - १८ - नमिकम्पिस्म्यजसहिंसदीपः रः इति ।१५ - १८ - सः विशेषविहितः सामान्यविहितम् युचम् बाधिष्यते ।१६ - १८ - एवम् तर्हि सिद्धे सति यत् दीपग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति युचः रेण समावेशः इति ।१७ - १८ - किम् एतस्य ज्ञापने प्रयोजनम् ।१८ - १८ - कम्रा कन्या कमना कन्या इति एतत् सिद्धम् भवति ।१ - १० - किमर्थम् आलुच् उच्यते न लुश् एव उच्येत ।२ - १० - का रूपसिद्धिः स्पृहयालुः गृहयालुः ।३ - १० - शपि कृते अतः दीर्घः यञि इति दीर्घत्वम् भविष्यति ।४ - १० - एवम् तर्हि सिद्धे सति यत् आलुचम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति ।५ - १० - किम् एतस्य ज्ञापने प्रयोजनम् ।६ - १० - आलुचि शीङ्ग्रहणम् चोदयिष्यति ।७ - १० - तत् न कर्तव्यम् भवति ।८ - १० - आलुचि शीङ्ग्रहणम् ।९ - १० - आलुचि शीङ्ग्रहणम् कर्तव्यम् ।१० - १० - शयालुः ।१ - ३५ - किमर्थम् किकिनोः कित्त्वम् उच्यते न असंयोगात् लिट् कित् इति एव सिद्धम् ।२ - ३५ - किकिनोः कित्त्वम् ऋ̄कारगुणप्रतिषेधाऋथम् ।३ - ३५ - किकिनोः कित्त्वम् क्रियते ऋ̄कारगुणप्रतिषेधाऋथम् ।४ - ३५ - अयम् ऋ̄कारारान्तानाम् लिटि गुणः प्रतिषेधविषये आरभ्यते ऋच्छत्यृ̄त्राम् इति ।५ - ३५ - सः यथा इह भवति आतस्तरतुः अतस्तरुः इति एवम् इह अपि प्रसज्येत मित्रावरुणौ ततुरिः दूरे हि अध्वा जगुरिः इति ।६ - ३५ - सः पुनः कित्त्वे बाध्यते ।७ - ३५ - उत्सर्गः छन्दसि सदादिभ्यः दर्शनात् ।८ - ३५ - उत्सर्गः छन्दसि किकिनौ वक्तव्यौ ।९ - ३५ - किम् प्रयोजनम् ।१० - ३५ - सदादिभ्यः दर्शनात् ।११ - ३५ - सदादिभ्यः हि किकिनौ दृश्येते ।१२ - ३५ - सदिमनिरमिनमिविचीनाम् सेदिः मेनिः रेमिः ।१३ - ३५ - नेमिः चक्रम् इव अभवत् ।१४ - ३५ - विविचिम् रत्नधातमम् ।१५ - ३५ - भाषायाम् धाञ्कृसृजनिनिमिभ्यः । भाषायाम् धाञ्कृसृजनिनिमिभ्यः किकिनौ वक्तव्यौ ।१६ - ३५ - धाञ् ।१७ - ३५ - दधिः ।१८ - ३५ - धाञ् ।१९ - ३५ - कृ ।२० - ३५ - चक्रिः ।२१ - ३५ - कृ ।२२ - ३५ - सृ ।२३ - ३५ - सस्रिः ।२४ - ३५ - सृ ।२५ - ३५ - जनि ।२६ - ३५ - जज्ञिः ।२७ - ३५ - जनि ।२८ - ३५ - नमि ।२९ - ३५ - नेमिः ।३० - ३५ - सासहिवावहिचाचलिपापतीनाम् निपातनम् ।३१ - ३५ - सासहिवावहिचाचलिपापतीनाम् निपातनम् कर्तव्यम् ।३२ - ३५ - वृषा सहमानम् सासहिः ।३३ - ३५ - वावहिः चाचलिः पापतिः ।३४ - ३५ - अपरः आह सहिवहिचलिपतिभ्यः यङन्तेभ्यः किकिनौ वक्तव्यौ ।३५ - ३५ - एतानि एव उदाहरणानि ।१ - २ - भियः क्रुकन् अपि वक्तव्यः ।२ - २ - भीरुकः ।१ - २० - किमर्थम् इदम् उच्यते न क्विप् अन्येभ्यः अपि दृश्यते इति एव सिद्धम् ।२ - २० - क्विब्विधिः अनुपपदार्थः ।३ - २० - अनुपपदार्थः अयम् आरम्भः ।४ - २० - पचेः पक् ।५ - २० - भिदेः भित् ।६ - २० - छिदेः छित् ।७ - २० - अथ यः अत्र सोपसर्गः तस्य ग्रहणम् किमर्थम् न तेन एव सिद्धम् ।८ - २० - न सिध्यति ।९ - २० - इह के चित् आ क्वेः इति सूत्रम् पठन्ति के चित् प्राक् क्वेः इति ।१० - २० - तत्र ये आ क्वेः इति पठन्ति तैः क्विप् अपि आक्षिप्तः भवति ।११ - २० - तत्र तच्छीलादिषु अर्थेषु किव्प् यथा स्यात् ।१२ - २० - न एतत् अस्ति प्रयोजनम् ।१३ - २० - यः एव असौ अविशेषविहितः सः तच्छीलादिषु भविष्यति अन्यत्र च ।१४ - २० - न सिध्यति ।१५ - २० - अयम् तच्छीलादिषु तृन् विधीयते ।१६ - २० - सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत ।१७ - २० - वासरूपन्यायेन ण्वुल् अपि भविष्यति ।१८ - २० - न सिध्यति ।१९ - २० - इदानीम् एव हि उक्तम् तच्छीलादिषु वर्थेषु वासरूपेण तृजादयः न भवन्ति इति ।२० - २० - क्विप् च अपि तृजादिः ।१ - ४९ - वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घः च ।२ - ४९ - वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घत्वम् च वक्तव्यम् क्विप् च ।३ - ४९ - वचि ।४ - ४९ - वाक् ।५ - ४९ - वचि ।६ - ४९ - प्रच्छि ।७ - ४९ - शब्दप्राट् प्रच्छि ।८ - ४९ - आयतस्तु ।९ - ४९ - आयतस्तूः ।१० - ४९ - आयतस्तु ।११ - ४९ - कटप्रु ।१२ - ४९ - कटप्रूः ।१३ - ४९ - कटप्रु ।१४ - ४९ - जु ।१५ - ४९ - जूः ।१६ - ४९ - जु ।१७ - ४९ - श्रि ।१८ - ४९ - श्रीः ।१९ - ४९ - अपरः आह वचिप्रच्छ्योः असम्प्रसारणम् च इति वक्तव्यम् ।२० - ४९ - तत् तर्हि वक्तव्यम् ।२१ - ४९ - न वक्तव्यम् ।२२ - ४९ - दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति ।२३ - ४९ - इदम् इह सम्प्रधार्यम् ।२४ - ४९ - दीर्घत्वम् क्रियताम् सम्प्रसारणम् इति ।२५ - ४९ - किम् अत्र कर्तव्यम् ।२६ - ४९ - परत्वात् सम्प्रसारणम् ।२७ - ४९ - अन्तरङ्गम् दीर्घत्वम् ।२८ - ४९ - का अन्तरङ्गता ।२९ - ४९ - प्रत्ययोत्पत्तिसन्नियोगेन दीर्घत्वम् उच्यते उत्पन्ने प्रत्यये सम्प्रसारणम् ।३० - ४९ - तत्र अन्तरङ्गत्वात् दीर्घत्वे कृते सम्प्रसारणम् ।३१ - ४९ - प्रसारणपरपूर्वत्वे कृते कार्यकृतत्वात् पुनः दीर्घत्वम् न स्यात् ।३२ - ४९ - तस्मात् सुष्ठु उच्यते दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति इति ।३३ - ४९ - द्युतिगमिजुहोतीनाम् द्वे च ।३४ - ४९ - द्युतिगमिजुहोतीनाम् द्वे च इति वक्तव्यम् ।३५ - ४९ - दिद्युत्. द्युति ।३६ - ४९ - गमि ।३७ - ४९ - जगत् ।३८ - ४९ - गमि ।३९ - ४९ - जुहोति ।४० - ४९ - जुहोतेः दीर्घः च ।४१ - ४९ - जुहूः ।४२ - ४९ - दृणातेः ह्रस्वः च द्वे च क्विप् च इति वक्तव्यम् ।४३ - ४९ - ददृत् ।४४ - ४९ - जुहूः जुहोतेः ह्वयतेः वा ।४५ - ४९ - ददृत् दृणातेः दीर्यतेः वा ।४६ - ४९ - जूः ज्वरतेः जीर्यतेः वा ।४७ - ४९ - धायतेः सम्प्रसारणम् च ।४८ - ४९ - धायतेः सम्प्रसारणम् च क्विप् च वक्तव्यः ।४९ - ४९ - धीः ध्यायतेः वा दधातेः वा ।१ - ११ - डुप्रकरणे मितद्र्वादिभ्यः उपसङ्ख्यानम् धातुविधितुक्प्रतिषेधार्थम् ।२ - ११ - डुप्रकरणे मितद्र्वादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।३ - ११ - किम् प्रयोजनम् ।४ - ११ - धातुविधितुक्प्रतिषेधार्थम् ।५ - ११ - धातुविधेः तुकः च प्रतिषेधः यथा स्यात् ।६ - ११ - मित्रद्रुः मितद्रू मितद्रवः ।७ - ११ - अचि श्नुधातुभ्रुवाम् इति उवङादेशः मा भूत् ।८ - ११ - इह च मितद्र्वा मितद्र्वे न ऊङ्धात्वोः इति प्रतिषेधः मा भूत् ।९ - ११ - तुग्विधिः ।१० - ११ - मितद्रुः ।११ - ११ - ह्रस्वस्य पिति कृति तुक् भवति इति तुक् मा भूत् ।१ - ३ - शीलितः रक्षितः क्षान्तः आक्रुष्टः जुष्टः इति अपि रुष्टः च रुषितः च उभौ अभिव्याहृतः इति अपि हृष्टतुष्टौ तथा कान्तः तथा उभौ संयोतोद्यतौ ।२ - ३ - कष्टम् भविष्यति इति आहुः ।३ - ३ - अमृताः पूर्ववत् स्मृताः । न म्रियन्ते अमृताः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP